Wednesday 19 September 2012

शबरी”

ऋष्यमूकपर्वतस्य मूले पम्पानाम विशालं विमलजलं च सरः अस्ति । तस्य तीरे विराजते भगवतो मतन्गमहर्षेः आश्रमपदम्‌ । महर्षेः प्रभावात्‌ तत्रत्याः लताः वृक्षाश्च सर्वे सर्वदा पुष्पैः फफ लैश्च शोभन्ते । वन्यप्राणिनः अपि परस्परं वैरं विहाय सुखं जीवन्ति । विहन्गमा अपि नानाविधानि फफ लानि खादन्तः मधुरं कू जन्तश्च कालं यापयन्ति । धर्मस्य सदने तस्मिन्नाश्रमे नास्ति अधर्मस्य लेशतोऽपि सञ्चारः । रमणीये एतस्मिन्‌ प्रदेशे महर्षेः शिष्याः सततं वेदाध्ययनं कुर्वन्ति । शास्त्राणि च विचारयन्ति । महर्षिवचनानुसारेण लोक क ल्याणाय यज्ञं कु र्वतां वेदज्ञानां मन्त्रः सर्वत्र श्रूयते । एवम्‌ अतिमनोहरे तस्मिन्‌ आश्रमपदे शबरी नाम काचित्‌ वृद्धा तापसी निवसति स्म । मातङ्ममहर्षे भक्ति मती सा प्रभाते एव उत्थाय निखिलम्‌ आश्रमपदं जलेन सिञ्चन्ती स्वच्छीक रोति । पूजार्थं पुष्पाणि फफ लानि च आनयति यज्ञोपयोगीनि समिदादीनि सन्गृह्यति । गुरुभक्तिः निश्चयेन सद्गतिं जनयतिफफइति तस्याः दृढं विश्वासः । वृद्धायाः शबर्याः दृढभक्तिं गुरुशुश्रूषां च विलोक्य सन्तुष्टः मतन्गमहर्षिः ताम एवमवोचत्‌ ।
भद्रे ! दिव्यरू पं धरत्‌ विमानेन स्वर्गं गच्छन्‌ अिस्म्‌ । दशरथस्य पुत्रौ रामल्मणौ संप्रति चित्रकूटं प्राप्तौ । सद्य एव तौ इदमाश्रमपदम्‌ आगमिष्यतः । इदमवेहि श्रीरामः न साधारण मनुष्यः, अपि तु दुष्टानां दमनाय शिष्टानां रक्षणाय च भूमिम्‌ अवतीर्णः साक्षात्‌ महाविष्णुः । लक्ष्मणोऽपि सदा भूभारधारकः महाविष्णोः शय्याभूत आदिशेषः । यदा रामलक्ष्मणौ अत्र आगमिष्यतः तौ सतकु रुष्व । तयोः सेवनात्‌ ते सद्गतिः भविष्यति इति । शबरी तदारभ्य विमुक्त सर्वव्यापारा सदा रामध्यानं कुर्वती सलक्ष्मणं तं प्रतीक्षमाणा कालमनयत्‌ । रामोऽपि भार्यावियुक्तः लक्ष्मणेन सह कबन्धवचनानुसारेण सुग्रीवं द्रष्टुमिच्छन्‌ ऋष्यमूकपर्वतं प्रस्थितः मध्येमार्गम्‌ इदम्‌ आश्रमपदम्‌ आगच्छत्‌ । शबरी रामलक्ष्मणौ अवलोक्य सानन्दं तयोः पादारविन्दयोः प्रणिपत्य पाद्यम्‌ आचमनीयं च अयच्छत्‌ । नानाविधैः फलैः सत्कारम्‌ अकरोत्‌ च । तेन सन्तुष्टः रामः ताम्‌ अपृच्छत्‌ आर्थे ! अपि कु शलं ते, किं निर्विधं तपो वर्धते कि म्‌ ? आश्रमवासिनः सर्वेऽपि कुशलिनि ? किं वन्यप्राणियः आश्रमस्य भयं वर्तते, किं तव गुरुशुश्रूषा फलिताः शबरी अपि राम ! पवित्रं ते नाम जपन्तयाः मम तपसि कथं विघ्नाः सम्भवन्ति? सर्वमस्ति कुशलम्‌ इति वदन्ती स्वगुरोः मतन्गमहर्षेः आश्रमपदम्‌ अदर्शयत्‌ । रामः इयं हि यज्ञवेदिका या स्वयं द्योतमाना सर्वा दिशाः सन्ततं द्योतयति । मम गुरवः वृद्धत्वदीषात्‌ क म्पमानक राः अत्रैव मदानीतानि पुष्पाणि स्वीकृतवन्तः । अत्रैव फफ लानि भक्षितवन्तः सञ्चरितुम्‌ अशक्नुवतां तेषां प्रभावेण इदं सरा समुत्पन्नाम्‌ यत्र तत्सन्कल्पानुसारेण सप्त अपि सागरा अंशेन सन्गता विलसन्ति । इमे च तेषां आर्द्राः वल्क लाः । ये अद्यापि न शुष्क तां उपगच्छन्ति । इमानि च देवपूजायां तैः उपयुक्त ानि पुष्पाणि, यानि अद्यापि न म्लानतां प्राप्नुवन्ति । रामलक्ष्मणौ समग्रमाश्रमपदं दृष्टवन्तौ । पुनरपि शबरी अब्रवीत्‌ राम! मया त्वदर्थं नानाविधानि फलानि आनीतानि । निर्मलं मधुरं च जलमानीतम्‌ ।

गणेशपर्वाचरणम्‌

कुमुदानन्द झा  

अस्मिन्‌ काले पर्वाणि हर्षं न जनयन्ति, किन्तु भयं जनयन्ति । पुष्पपत्रफलादीनां मूल्यं गगनचुम्बि । गणेशस्य मृन्मयी प्रतिमा क्व विसर्जनीयेति समस्या । पूजां कर्तुं मन्त्राः पठनीयाः । ये संस्कृतं न विदन्ति तैः पुरोहितोऽन्वेष्टव्यः इति बहुधा चिन्ता । तदुपरि गणेशपर्वकाले केचन ‘नायकाः समुद्‌भवन्ति । एते वीथ्यां वीथ्यां मण्टपान्‌ रचयितुं तत्र बृहतीं विनायक मूर्तिं प्रतिष्ठापयितुं समारम्भं कर्तुं च वाञ्छन्ति । गणेशप्रतिष्ठा तेषां स्वप्रतिष्ठावृद्धेः कारणम्‌ इति द्रढिष्ठो विश्वासः । एतत्‌ सर्वं कर्तुं अपेक्ष्यते धनम्‌ । प्रतिगृहं गत्वा एते किल नायका धनं प्रयाचन्ते । ये गृहस्था धनं न ददति, तान्‌ अनेकधा त्रासयन्ति । अपि च गणेशमण्डपे असभ्यानि अश्लीलानि गानानि प्रवर्तन्ते, कदाचिनर्तनं च । स्वेच्छाचारस्य स्थलमेव गणेशमण्डपः इति । पुरा लोक मान्यो बालगङ्गाधरतिलकः स्वातन्त्र्यसंग्रामाय जनान्‌ प्रेरयितुं गणेशोत्सवं मार्गीकृ तवान्‌ । सम्प्रति तादृशः कोऽपि घनोद्देशो नास्ति । जनैरहं द्रष्टव्यः, पत्रिकासु मम चित्रं प्रक टनीयम्‌, उत्तरत्र निर्वाचने विजयं लब्ध्‌ु इदं प्रथमं सोपानम्‌ इति विचिन्त्य गणेशोत्सवम्‌ आयोजयन्ति । देवो गणेशः सर्वं दृष्टा किं चिन्तयतीति इराक देशे नरमेधः न विद्मः । गणशाय नमो नमः इत्युक्त्वा विरमामः ।
“गणेशपर्वाचरणम्‌”

Monday 17 September 2012

सत्यप्रतिज्ञो राजा

उज्जयिन्यां महेन्द्रो नाम राज आसीत्‌ । स विद्वान्‌, विदुषां आश्रयदाता च आसीत्‌ । सर्वदा तस्य आस्थानं विद्वद्भिः मण्डितं अवर्तत । के चन राजानं अस्तुवन्‌, के चन स्वीयां विद्वत्प्रौढिमां प्रादर्शयन्‌, अन्ये स्वलिखितान्‌ ग्रन्थान्‌ वाचयन्ति स्म । राजा सर्वेभ्यः अतुलं धनं प्रयच्छन्‌ विद्वद्रञ्जकः अशोभत ।

एक दा तस्य मनसि काचिदालोचना संजाता । सभ्याःतस्य अविदितं किंचित्‌ ब्रूयुः । तत्‌ सत्यं अविदितं यदि तेभ्यः रूप्यसहस्रकं दद्याम्‌ इति । एवं प्रक टयामास च । बहवो विद्वांसः आगताः । शास्त्रीयेन पाण्डित्येन व्यावहारिक न्यायैः च तं बहुधा पीडयामासुः । दैवात्‌ सर्वं तस्य विदितमेवासीत्‌ । के नापि पणं न लब्धम्‌ । तदारभ्य विद्वांसश्च दूरीकृ ताः । राजा च पर्यतप्यत फफक थं प्रकटनं सत्यं भवति । स्वात्माऽपि तृप्यते । पूर्ववत्‌ विद्वांसः समीपमुपसर्पन्ति फफ इति । तस्यापि प्रतिभातीत्यर्थः । एवं नकु लानपदिश्य अरसिकान्‌ काव्यवाचकान्‌ उद्दिशति । ये पण्डिताः काव्यवाचनादना जीविकामार्जयितुमिच्छन्ति , ते काव्यं पठन्तु । ये तु क वयो मुख्यतया काव्यमेव जीविताधा
रं मन्यन्ते, तेऽपि काव्यमाश्रयन्तु नाम । ये तु अरसिकाः काव्यस्य गन्धमपि नाघ्रातुमिच्छन्ति, तैर्हठात्‌ यत्‌ काव्यं पठ्यते, यदपि अस्थाने पदविच्छेदादिना खण्ड्यत इव तत्र किं कारणम्‌ इति । उपदेशस्तु नीचाः यदा क मपि हिंसन्ति, तत्र प्रयोजनं न गवेषयन्ति । ते निरर्थक मेव परान्‌ घ्नन्ति इति । समस्यायाः उत्तरं न ज्ञातमभूत्‌ । एवं स्थिते कश्चन बुद्धिमान्‌ वृद्धः राजानं उपससर्प । सः राजानं प्रत्यवोचत्‌ भो राजन्‌, तव प्रकटनं मया श्रुतम्‌ । तव अविदितं किंचिदस्ति । दत्ते अभये विज्ञापयामी ति । सन्तुष्टो राजा तस्य अभयं उक्त्वा वद इत्यवोचत्‌ । स तु वृद्धः अतीव विनयं प्रदर्श्य फफभो राजन्‌, अहं समीपस्थे ग्रामे वसामि । एक दा तव पिता कीर्तिशेषः महाराजः मामुपसृत्य रूप्यकसहस्रं याचत । एक स्मिन्नेव मासावधौ प्रति निवर्तिष्ये इत्युक्त्वा सः मया दत्तं धनं गृहीत्वा ययौ ।

राजा दीर्घमालोचयामास । विदितो वा अविदितो वा वृद्धाय क थमपि पणं देयम्‌ । भवतु इत्युक्त्वा तं प्रशंसन्‌ अमितेन द्रव्यदानेन अतोषयत्‌ ।

वाणी सुरगिरा...

रचनाकारा _ संस्कृता मिश्रा 

विरञ्चेरुद्भूतैः प्रथमपदबन्धैः श्रुतिगतैः
ऋषीणामार्याणामनुभवमहिष्ठैः गुरुपदैः..
अनन्तायाः सृष्टेः विकसनकथारूपिमधुपैः
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
 
गिरामन्यान्यासां पृथगिति भिदायुक्तसरणौ..
प्रसूत्वादेकत्व-प्रणयिनि-महित्वं विदधती
समासस्निग्धा प्रत्ययबलमहिम्ना बलवती..
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...

||श्रीः ||  

||मीनाक्षी पञ्चरत्नम् ||

उद्यद्भानु सहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपंक्तिरुचिरां पीताम्बरालंकृताम् |
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||१||
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्र प्रभां
शिञ्जन्नूपुरकिंकिणिमणिधरां पद्मप्रभाभासुराम् |
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||२||
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम् |
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||३||
श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् |
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडाम्बिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||४||
नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् |
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||५|| 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षी पञ्चरत्नं संपूर्णम् |

Sunday 16 September 2012


पंचदेवस्तुतिः

समर्थश्री और संस्कृता  


ये मालिनी छंद की रचना है,,ये छंद नामानुरूप अत्यन्त मधुर है,,गेय है,,भावुक सहृदयों की प्रीति के लिये प्रयास करते हुए सदाशिव देवाधिदेव महादेव के पावन पादारविन्दों में कोटिशः प्रणति,,
ननमयययुतेयं मालिनीभोगिलोकैः

गणपति

गजवदनविशेषःज्ञानविज्ञानशेषः,

प्रमथगणनिधीशोदेवदेवःसुरेशः।
निरतिशयसुखाब्धौ मज्जने यो विरक्तः,
जयतिशुभदमूर्तिःविघ्नहर्ता गणेशः।।

शिव 

धवलविमलचन्द्रःशोभितो यस्यभाले,
भुजगरचितमाला कण्ठमध्ये विभाति।
पशुपतिपरमेशःसर्वमांगल्यमूर्तिः.
भुवनविभवदाता शंकरःशंकरोतु।।


सूर्य
गहनतिमिरहारी दिव्यनक्षत्रचारी,
जननमरणधारी सर्वदानंदकारी।
भवविभवविकारी भक्तदौर्भाग्यतारी,
गगनविपिनसिंहःतेजरूपोविहारी।।
विष्णु
जगदवनविधाताविश्वसौभाग्यदाता,
मदनरिपुसखायःभक्तसम्मानत्राता।
निजजनसुखरूपःभावसंदोहदीप्तः,
भवजलधिनियन्ता श्रीहरिःशंतनोतु।।
दुर्गा
सकलभुवनमध्येवंदनीयापराया,
सुरवरमुनिपूज्या कल्पवल्ली विधात्री।
सुजनसुमनशोभासर्वसौभाग्यमूला,
दनुजकुलनिहन्त्रीशाम्भवी नः पुनातु।। 

Friday 14 September 2012

हिंदी है बलवान हिंद की ...........

__कवि दीपक दीप__


ऐ हिंदी तुझे शत शत नमन,
हिंदी है बिंदी हिंद की,
हिंदी है झंकार हिंद की,
हिंदी है कलम हिंद की,
हिंदी है बलवान हिंद की,

ऐ हिंदी तुझे शत शत नमन,
तू है मेरी माता की माता,
है तू मेरी स्वर की दाता,
तू ही मेरे देश की पूंजी,
तू है सफलता की कुंजी,

ऐ हिंदी तुझे शत शत नमन,
तुझसे है मेरे हिंद की अबरू,
हिंद में है मेरे प्राण पखेरू,
विश्व में है सम्मान हिंद का,
विश्व करता आभार हिंद का,
जय जय जय हो ...........
जय हो हिंद की !!

हरितकनकम्

तस्मात् सुबहवो वृक्षा रोप्याः श्रेयोभिवाम्च्छता l

पुत्रवत् परिपाल्याश्च ते पुत्राः धर्मतः स्मृताः ll

THERFORE THOSE WHO ASPIRE FOR THE HIGHEST GOOD OUGHT TO GROW PLENTY OF TRESS AND BRING THEM UP LIKE SONS, FOR TREES ARE CONSIDERED TO BE SONS, ACCORDING RELIGIOUS PRECEPTS.

पुष्पैः सुरगणाः सर्वे फलैश्च पितरः सदा l

छायया ये मनुष्यास्तु पशुपक्षिमृगास्तथा ll

ALL THE DIVINE BEINGS ARE PROPITIATED WITH FLOWERS, ALL THE FOREFATHERS ARE PROPITIATED WITH FRUITS, ALL MEN, ANIMALS AND BIRDS ARE SATISFIED BY THE SHADE OF TREES,

देवदानवगन्धर्वाः किन्नरनागुह्यकाः l

पशुपक्षिमनुषश्याश्च संश्रयन्ति सदा द्रुमान् l l

GOD, DEMONS, GANDHARVAS, KINNARAS, NAGAS, YAKSHAS BEING ALWAYS TAKE SHELTER UNDER TREES

छाया पुष्पोपगांत्रिशत् फल पुष्प द्रुमांस्तथा l
रोपयित्वा सशाखांस्तु नरो न नरकं व्रजेत् ll
(CHAYAAPUSHPOPAGAAMTRISHAT, PHALPUSHPADRUMAMSTATHA,
ROPAYITVA SASHAKHAMSTATHA, NARO NA NARAKAM VRAJET)
THE MAN, WHO PLANTS THIRTY TREES WITH SHADE, FLOWERS AND BRANCHES YEILDING FRUITS, NEVER GOES TO HELL.

Thursday 13 September 2012

सुखार्थी त्यजते विद्यां विद्यार्थी त्यजते सुखम् !

सुखार्थिन: कुतो विद्या कुतो विद्यार्थिन: सुखम् !!

The one who runs after the luxuries will not get knowledge. And the one who wants to gain knowledge leaves the luxuries. How will any one get knowledge if he/she wants to lead a easy life? And how will one get to live a easy life who is looking for knowledge? agreeable speech makes us "understand" that knowledge cannot be gained leading a lavish life-style. Therefore may be in ancient Bharat the 'Gurukula' system was designed in such a way that students in their student life should gain maximum knowledge by staying away from all the pleasures of the materialistic world.