Thursday 25 October 2012

जयश्री’

 तत्रगतवती। मनोहरं नारायणरूपं दृष्ट्वा लक्ष्मीः अनुरागदृष्टया तम् अपश्यत्। नारायणरूपधारिणी पार्वती अपि लक्ष्म्याः परमसुन्दरं रूपं दृष्ट्वा हृतहृदया जाता। तयोः दृष्ट्योः योगात् सरोवरे एकं स्वर्णकमलम् उत्पन्नम्। कमलनालस्य अग्रे एका कलिका अपि आसीत्। लक्ष्मीः नारायणरूपिणीं पार्वतीम् दृढम् आलिङ्गितवती। 
तदा पार्वती उच्चैः हसन्ती उक्तवती– “अहं न नारायणः , अपितु पार्वती अस्मि” इति।
एतावत् उक्त्वा निजरूपेण स्थित्वासा पुनः उक्तवती – “पूर्वं विष्णुः मोहिनीरूपं प्राप्य शिवं मायाजाले पातितवान् आसीत्। तस्य प्रतीकाररूपेण मया अद्य एवं कृतम्” इति।
सुवर्णकमलस्य  मध्ये एका सुन्दरी बालिका अपि आसीत्। तां दृष्ट्वा लक्ष्मीः पार्वती च आनन्द तुन्दिले जाते। ते तां वात्सल्येन उन्नीतवत्यौ।
तदा विघ्नेश्वरः तत्र आगत्य अवदत्– “पार्वती जयस्वरूपिणी।लक्ष्मीः च सम्पत्स्वरूपिणी।उभयोः अंशेन जाता एषा ‘जयश्री’ इति नाम प्राप्नोतु। एतस्याः भावी पतिः अपि शिवकेशवयोः अंशेन जातः अस्ति’’ इति।
एतावत् उक्त्वा सः वायुदेवम् आदिष्टवान् यत् कमलसहिताम् एतां बालिकां कावेरीनद्यां प्रवाह्य आगच्छतु इति। वायुदेवः तां बालिकां  कावेर्यां प्रवाहितवान्।
एतांबालिकां नद्यां दृष्ट्वा दक्षिणदेशस्य चक्रवर्ती महता सन्तोषेण स्वगृहं नीतवान्।
यदा तस्याः नामकरणोत्सवः करणीयम् इति निश्चितं तदा आकाशवाणी काचित् श्रुता – “एतस्याःबालिकायाः नाम जयश्रीः इति भवतु’’ इति। जयश्रीः शुक्लपक्षस्य चन्द्रः इव प्रवृद्धा। यदा सा प्राप्त वयस्का जाता तदा तस्याः असदृशं सौन्दर्यं त्रिषु अपि लोकेषु प्रसिद्धं जातम्। तस्याःसाहसम् अपि लोकविख्यातं जातम्। सा दिनस्य अधिक कालं प्राकृतिक परिसरे , तन्नाम अरण्यादिषु सञ्चरति स्म।
हरिहरयोः अंशेन जातः स्वामी कदाचित्विघ्नेश्व रकुमारस्वामिनोः मेलनार्थं कैलासम् आगतवान्।विघ्नेश्वरः कुमारस्वामी च वार्तालापसमये कदाचित् उक्तवन्तौ – “लक्ष्मीपार्वत्योः अंशात् मानसरोवरे जाता जयश्रीःएव स्वामिनः भावि पत्नी’’इति।
तस्याःविषये अधिकं विवरणं प्राप्तव्यम् इति स्वामिनः मनसि प्रबला इच्छा जाता। तथापि सः आत्मनियन्त्रणं कृत्वा मौनेन स्थितवान्।
कैलासे कानिचन दिनानि स्थित्वा यदासः प्रस्थितवान् तदा विघ्नेश्वरः तम् अवदत् – “भवान् आवयोः अपेक्षया अपि वयसा ज्येष्ठः। भवतः ब्रह्मचारित्वं न शोभते।अत शीघ्रातिशीघ्रं भवान्विवाहे मतिं करोतु’’ इति।
एतदनन्तरं कुमारस्वामी विघ्नेश्वरः च आदरपूर्वकं तं प्रेषितवन्तौ।स्वामी स्वनिवासं प्रति प्रस्थितवान्।
एकदा स्वामी अरण्ये विनोदविहारं कुर्वन् आसीत्। तदा केचन बाणाः चतसृषु दिक्षु आगत्य तम् अवरुद्धवन्तः। एतस्मात् क्रुद्धः सः तां दिशं दृष्टवान् ,
तत्र दर्शनेन तस्य कोपः क्षणाभ्यन्तरे विलयं गतः। यतः धनुर्बाणसहिता जयश्रीः तत्र मन्दहासपूर्वकं स्थिता आसीत्। तस्याः दृष्टिः स्वामिनः हृदये लग्ना। ततः स्वामी अदृश्यः जातः।
विघ्नेश्वरः जयश्रियः स्वप्ने प्रत्यक्षीभूय स्वामिनः विषयम् उक्तवान् आसीत्। तं स्वामिनम् अन्विष्यन्ती एव सा अरण्यम् आगतवती आसीत्।
एतदनन्तरं नारदमुनेः आदेशस्य अनुगुणं चक्रवर्ती जयश्रियाः स्वयंवरस्य व्यवस्थां कृतवान्। इन्द्रादयः देवाः वेषपरिवर्तनं कृत्वा राजवेषेण तत्र उपस्थिताःआसन्। किन्तु स्वामी सामान्य शबरयुवकरूपेण धनुर्बाणादीन् धृत्वा केनचिन्कृष्णवर्णीयेन शुनकेन सह तत्र गतवान्।
राजानः शबरयुवकस्य तस्य शुनकस्य च उपहासं कृतवन्तः। राज्ञां पंङ्क्तौ उपवेशनाय तस्मै अवकाशः न दत्तः। एतस्मात् क्रुद्धः स्वामी सिंहद्वार समीपं गत्वा शुनकस्य उपरि उपविश्य सकृत् वीरगर्जनं कृतवान्।तत्समनन्तरम् एव शुनकः सिंहरूपेण परिवृत्तः जातः।
तदा जयश्रीः स्वामिनम् अभिज्ञायतस्य कण्ठे मालाम् अर्पितवती।स्वामी तां सिंहस्य उपरि उपवेश्य ततः प्रस्थितः। तदा क्रुद्धाः राजानः तं ग्रहीतुम् उद्युक्ताः। स्वामी धैर्येण तान् सम्मुखीकृतवान्।
स्वामिनःबाणप्रहारान् प्राप्य देवाःअपि भीताः। ते स्वस्य वास्तविकरूपेण तत्र तिष्ठन्तः स्वस्य दिव्यास्त्राणि प्रयोक्तुम् उद्युक्ताः जाताः। इन्द्रस्य वज्रायुधम् अपि अकिञ्चित्करं जातम्। अन्ते स्वामी अपि स्वस्य नैजरूपेण तत्र स्थितवान्।तं दृष्ट्वा सर्वे देवाः करौ योजयित्वा उक्तवन्तः – “देव ! शरणं गताः स्मः वयम्’’ इति।
एतदनन्तरं स्वामि - जयश्रियोः विवाहः देवानां सम्मुखे महता वैभवेन सम्पन्नः। सर्वे वधूवरौ आशीर्वादेन अनुगृह्य स्ववसतिं प्रति गताः। त्रेतायुगे आर्यावर्ते कोसल - केकय - वसुमित्रनामकाः त्रयः राजानः महत्या मैत्र्या जीवन्त्ति स्म।
कोसलस्य कौसल्या नामिका पुत्री आसीत्।एवमेव केकयस्य कैकेयी नामिका , वसुमित्रस्य सुमित्रा नामिका च पुत्री आस्ताम्। कदाचित् त्रयाणाम् अपि राज्ञां मनसि युगपत् एव विचारः आगतः यत् अयोध्याधिपतये दशरथाय स्वपुत्री दातव्या इति।
दशरथःतेषां निर्णयं सहर्षम् अङ्गीकृतवान्। एतदनन्तरं त्रयः अपि राजानः जैमिनि मुनिद्वारा पुत्रीणां विवाहस्य मुहूर्तं निश्चितवन्तः।
जैमिनि मुनिः अवदत् – “मया तादृशः मुहूर्तः निश्चितः अस्ति यत् तस्मिन् मुहूर्ते विघ्नेश्वर साक्षितया तिसृणां कन्यकानां विवाहः दशरथेन सह भविष्यति। किन्तु विवाहात् पूर्वम् एताः तिस्रः अपि राक्षसपीडाम् अनुभवितुम् अर्हन्ति। अतः एतासां रक्षणाय विशेषावधानदानं वरम्’’ इति।
तदनन्तरं त्रयः अपि राजानः सम्भूय समालोच्य ताः कन्यकाः महत्यां पेटिकायां सुरक्षिततया स्थापितवन्तः।
नारदः रावणासुर समीपं गत्वा उक्तवान्– “हे लङ्केश्वर ! दशरथस्य विवाहः अचिरात् सम्पन्नः भविष्यति। तस्य पुत्रः एव भवतः संहारं करिष्यति इति स्मर्यते खलु भवता’’ इति।
एतत् श्रुत्वा क्रुद्धः रावणः ताः राजकुमारीः अपहर्तुं महोदर नामकं राक्षसं प्रेषितवान्। महोदर: ज्ञातवान् यत् ताः कन्यकाः महापेटिकायां स्थापिताः सन्ति इति। सः तां पेटिकाम् एव निगीर्णवान्।यदा सः आकाशमार्गेण प्रतिगच्छन् आसीत् तदा तस्य उदरे महती वेदना उत्पन्ना। तदा सः तां पेटिकाम् उद्वान्तवान्।पेटिका समुद्रे पतिता सती तरङ्गैः नीता।
तस्मिन् काले दशरथः महतीं नौकाम् आरुह्य अयोध्यां प्रत्यागच्छन् आसीत्। तस्य प्रत्यागमने कथमपि विलम्बः जातः आसीत्। निश्चित मुहूर्तात् पूर्वम् अहम् अयोध्यां प्राप्तुं शक्नुयाम् उत न इति सः नितरां चिंन्ताकुलः आसीत्।
एतदवसरे एव तरङ्गैः नीयमाना महापेटिका तेन दृष्टा। पेटिकानौकयोः घट्टनं जातम्। तस्मात् पेटिकायाःआवरणम् अपगतम्। तत्र तेन तिस्रः राजकुमार्यः दृष्टाः। दशरथः रज्जुसाहाय्येन पेटिकाम् आकृष्य ताः नौकां प्रति आनायितवान्। तासां दर्शनेनतेन ज्ञातं यत् याः परिणेतव्याःआसन् ताः एव एताः इति।
तदा एव जैमिनि मुनिना निश्चितःमुहूर्तः सम्प्राप्तः।विघ्नेश्वरः तत्र प्रत्यक्षः जातः। तस्य सन्निधौ दशरथराजकुमारीणां विवाहः सम्पन्नः। विवाहानन्तरं विघ्नेश्वरः अदृश्यतां गतः।दशरथः तिसृभिः पत्नीभिः सह अयोध्याम् आगतवान्।
मासाःगताः। दशरथस्य चत्वारः पुत्राःजाताः। ज्येष्ठः पुत्रः श्रीरामचन्द्रः कैकेयी मातुः अपेक्षायाः अनुगुणं पत्न्या सीतया , अनुजेन लक्ष्मणेन च सह वनावासार्थं गतवान्। वने वसन्तीं सीतां रावणः अपहृतवान्। रामः लङ्काम् आक्रम्य रावणं संहृतवान्।ततः सीतया सह सः पुष्पकविमानम् आरुह्य लङ्कातः प्रस्थितवान्।सः सेतुयुक्ते समुद्रतटे शिवस्य सम्पूजनं कर्तुम् इच्छति स्म। अतः सः सर्वैः सह रामेश्वरं गतवान्।
शिवलिंङ्गस्य प्रतिष्ठापनार्थं रामचन्द्रः हनूमन्तं कैलासं प्रति प्रेषितवान्। हनूमान् मनोवेगेन गच्छन् कैलासं प्राप्तवान्।तत्र स्थितेषु बृहत् लिङ्गम् उत्पाट्य नेतुं सः प्रयत्नं कृतवान्। किन्तु साफल्यं न प्राप्तम्। सः तत्रत्यं लघुतमं लिङ्गम् अपि कम्पयितुं न शक्तः।
तावता कश्चन बालकः तत्र उपस्थाय अवदत् – “कः भवान् ? दर्शनात् भासते यत् भवान् हनूमान् स्यात् इति। किन्तु भवतः सामर्थ्यस्य दर्शनात् भासते यत् भवान् हनूमान् न स्यात् इति। वस्तुतः कः भवान् ?” इति।
‘‘ अहम् एव हनूमान्। शिवलिङ्गस्य आनयनाय श्रीरामः माम् अत्र प्रेषितवान्। माम् एवं पृच्छन् भवान् कः ?” इति अपृच्छत् हनूमान्।

अत्रत्यानि शिवलिंङ्गानि कोऽपि यथा न नयेत् तथा रक्षणाय शिवेन नियुक्तः अस्मि अहम्। हनूमान् पञ्चमुखी इति मया श्रुतम्।किन्तु भवतः पञ्च मुखानि न दृष्यन्ते खलु ?’’ इति अवदत् बालकः।
तदा हनूमान् गरुड - वराह - सिंह - अश्व मुखानि अपि धरन् पञ्चमुखित्वेन आकाशम् अपि अभिव्याप्य तिष्ठन् मन्दहासपूर्वकं तं बालकं अवदत् – “विघ्नेश्वर ! विघ्नविनायक ! मया स्वस्य पञ्चमुखित्वं दर्शितम्। इदानीं भवता अपि स्वस्य पञ्चमुखित्वं दर्शनीयम् एव’’ इति।

एतत् श्रुत्वा विघ्नेश्वरः स्वस्य विश्वरूपं दर्शितवान्। हनूमान् पञ्चमुखिनं विघ्नेश्वरं प्रणम्य अवदत -“ विघ्नेश्वर ! बालकरूपेण भवान् मत्समीपं यदा आगतः तदा एव मया अवगतं यत् भवान्विघ्नेश्वरः एव इति। शिवलिङ्गस्य नयनं भवान् एव निरोद्धुम् अर्हति , न अन्यः। कृपया मह्यम् एकं शिवलिङ्गं ददातु’’ इति।

तदा विघ्नेश्वरः हसन् – “आञ्जनेय ! भवतः पञ्चमुखिरूपं द्रष्टव्यम् इति उद्देशेन मया एवं कृतम्। भवान् शिवस्य अंशेन उत्पन्नः अस्ति। एवं स्थिते शिवलिङ्गनयनेको वा भवन्तः निरोद्धुं समर्थः ? तथापि भवान् मां प्रार्थितवान् इत्यतः विशिष्टं शिवलिङ्गं भवते दास्यामि’’ इति उक्त्वा महत् ज्योतिर्लिङ्गं तस्मै दत्तवान्।

हनूमान्शिवलिङ्गं प्राप्य आनन्देन प्रतिगतवान्। किन्तु तावता रामेण सङ्कल्पितः मुहूर्तः आसन्नः आसीत्। अतः सीतादेवीवालुकाभिः शिवलिङ्गं निर्माय प्रतिष्ठापितवती आसीत्। रामचन्द्रः जलेन तत् लिङ्गम् अभिषिच्य पूजाम् आरब्धवान् आसीत्। तावता आकाशमार्गेण आगतः हनूमान् तत्र उपस्थितः जातः।

तत्र तेन रामेण क्रियमाणा सैकतलिंङ्गपूजा दृष्टा। तस्मात् नितरां क्रुद्धः सः पुच्छेन तत् सैकतलिङ्गं प्रताड्य पातयितुं प्रयत्नं कृतवान्। तथापि तत्लिङ्गं तु अक्षतम् एव आसीत्। तेन नितरां क्रुद्धः हनूमान् पुच्छेन आवरय्य बलात् लिङ्गं आकृष्टवान्। तेन पुच्छस्यै वेदना जाता। लिंङ्गं तु अकम्पितम् एव अतिष्ठत्।

तदा श्रीरामः हनूमन्तं सान्त्वयन् अवदत् – “आञ्जनेय ! भवान् सर्वज्ञः। एतत् लिङ्गं सैकतम् एव चेदपि तत्र शिवांशः तु अस्ति एव खलु ? शिवस्य सैकतत्वकल्पनं केन वा शक्यम् ? भवता आनीतं लिङ्गम् अपि अत्र स्थापयतु। तस्यापि पूजा भवतुनाम’’ इति।

एतत्श्रुत्वा शान्तभावं प्राप्तवान् आञ्जनेयः आत्मना आनीतं शिवलिङ्गं रामस्य हस्ते अर्पितवान , सैकतलिंङ्गं भक्त्या प्रणतवान् च।

श्रीरामः सीतया सह उपविश्य तत् भक्त्या पूजितवान्। पूजां समाप्य सर्वैः सह पुष्पकविमानम् आरुह्य अयोध्यां प्रति प्रस्थितवान् सः। 

Thursday 18 October 2012

महात्मा कबीर:

 स र्योदयनिमित्तम्‌   अस्ति   घण्टात्मक:   काल: । किन्तु एतावता एव प्रसिद्ध: वैष्णवगुरु: रामानन्द: वाराणस्यां प्रवहन्त्यां गङ्गायां स्नात्वा स्वस्य आश्रमं प्रतिगच्छन्‌ अस्ति । यद्यपि मार्गे सोपानानि स्पष्टतया न दृश्यन्ते, तथापि अभ्यासबलात्‌ स: विशेष-प्रयासं विना एव अग्रे गच्छन्‌ आसीत्‌ ।  ‘‘हे राम ! राम !’’ इति सकृत्‌ उच्चै: उक्तं तेन । यत: सोपाने सुप्तस्य कस्यचित्‌ उपरि स्वस्य पाद: स्थापित: आसीत्‌ तेन ।  ‘‘अनुगृहीतोऽहम्‌ । कृतदीक्षोऽहम्‌’’ आनन्दातिरेकात्‌ उद्गतं युवकस्य ध्वनिं श्रुत्वा गुरु: अविलम्बेन एव अवगतवान्‌ यत्‌ अयं क: इति । स: पूर्वम्‌ अपि रामानन्दस्य समीपम्‌ आगत्य - ‘मां कृपया शिष्यत्वेन स्वीकुर्वन्तु भवन्त:’ इति बहुधा प्रार्थितवान्‌ आसीत्‌ ।

किन्तु गुरु: शिष्यत्वेन तस्य स्वीकारं निवारितवान्‌ आसीत्‌ । यत: तस्य युवकस्य वंश: क: इति केनापि न ज्ञायते स्म । स: युवक: अपि तत्‌ न जानाति स्म ।
कौचित्‌ धीवरौ यवनदम्पती तं पालितवन्तौ आस्ताम्‌ । किन्तु स: जन्मना हिन्दु: एव इति जना: वदन्ति स्म । स: समुदायद्वये अपि उत्तमं सम्बन्धं रक्षितवान्‌ आसीत्‌ । सर्वे अपि तं प्रीत्या पश्यन्ति स्म ।

 एष: एव युवक: अग्रिमे काले ‘महात्मा कबीर:’ इति लोके प्रसिद्ध: जात: । तस्य असामान्यत्वं दृष्ट्वा गुरु: नितरां सन्तुष्ट: । सत्त्वेन अग्रे गतं तं दृष्ट्वा गुरु: महान्तम्‌ अभिमानं वहति स्म ।   कबीरस्य जनन-मरणादिविषये अधिकं विवरणं न ज्ञायते । प्राय: स: 1440 तमे वर्षे जात: । 1598 तमे वर्षे दिवङ्गत: स्यात्‌ इति श्रूयते । तथापि बहव: विश्र्वसन्ति यत्‌ स: शताधिकानि वर्षाणि जीवितवान्‌ स्यात्‌ इति ।

 स: आजीवनम्‌ अन्धविश्र्वासस्य, विविध-मतेषु अन्तर्भूतानाम्‌ अर्थहीनानाम्‌ आचारादीनां च निर्मूलनाय प्रयत्नम्‌ अकरोत्‌ । हिन्दु-यवन-समुदाययो: ऐकमत्यस्य प्रखरसमर्थक: आसीत्‌ स: । यत: स: जानाति स्म यत्‌ सर्वेषु अपि स्थित: देव: एक: एव, स: बाह्याडम्बरात्‌ न, अपि तु आन्तरिकभक्त्या पावित्र्येण च प्रसन्न: भवति इति ।
कदाचित्‌ कश्र्चन यवनपण्डित: तेन सह वादविवादार्थम्‌ आगत: ।

कबीरस्य गृहस्य स्तम्भे बद्धं सूकरं दृष्ट्वा स: कोपेन उक्तवान्‌ - ‘‘किम्‌ एतत्‌ ! एष: मलिन: जीवी गृहस्य प्रवेशद्वारे एव बद्ध: अस्ति भवता ?’’ इति ।
‘‘मित्र ! एष: मलिन: पशु: मम गृहस्य बहिर्भागे अस्ति, न तु अन्त: । भवान्‌ सकृत्‌ स्वस्य अन्तर्भागं परि-शीलयतु तावत्‌ । कतिविधा: मलिनांशा: तत्र सन्ति इति किं भवता ज्ञायते ? कोप:, द्वेष:, असूया, लोभ: इत्यादय: बहव: मलिनांशा: सन्ति भवत: हृदये मनसि च’’ इति  अवदत्‌ कबीर:।

 कदाचित्‌ कबीर: मघरनामके ग्रामे गच्छन्‌ आसीत्‌ । तत्र स: महता कष्टेन चङ्क्रमणं कुर्वन्‌ वाराणसीं गच्छन्तं कञ्चित्‌ वृद्धम्‌ अपश्यत्‌ । कबीर: करुणया तं पश्यन्‌ अपृच्छत्‌ - ‘‘एतावता कष्टेन वाराणसी किमर्थं वा  गन्तव्या भवता ?’’ इति । तत्‌ श्रुत्वा स: वृद्ध: कथञ्चित्‌ कष्टेन अवदत्‌ - ‘‘वाराणस्यां यदि मरणं भवेत्‌ तर्हि अहं साक्षात्‌ स्वर्गम्‌ एव प्राप्स्यामि । मघरग्रामे यदि मम मरणं भवेत्‌ तर्हि तु नरक: एव प्राप्येत’’ इति ।

 ‘‘किम्‌ एतत्‌ सत्यम्‌ ? तर्हि वाराणस्यां मृत: गर्दभ: अपि किं स्वर्गं प्राप्नुयात्‌ ? तथा चेत्‌ अहम्‌ अस्मिन्‌ मघरग्रामे एव मरिष्यामि’’ इति अवदत्‌ कबीर: ।
एतस्य वचनस्य अनुगुणं स: मघरग्रामे एव न्यवसत्‌ । एवं स: स्वस्य कृतिद्वारा एव जीवनस्य पाठान्‌ पाठयति स्म । स्वर्गस्य नरकस्य वा प्राप्ति: मरणस्थलं न अवलम्बते इति तस्य चिन्तनम्‌ आसीत्‌ ।

 कबीर: मघरग्रामे एव दिवङ्गत: । तस्य शिष्येषु हिन्दव: यवना: च आसन्‌ । हिन्दव: इष्टवन्त: यत्‌ शवस्य दहनं करणीयम्‌ इति । यवना: निखननम्‌ इष्टवन्त: । एतद्विषये तत्र महान्‌ विवाद: प्रवृत्त: । अन्ते यदा शववस्त्रम्‌ अपसारितं तदा तत्र पुष्पमात्राणि दृष्टानि । पुष्पाणि द्विधा विभज्य समुदायद्वयस्य जनै: स्वीकृतानि । हिन्दुभि: तेषां दहनसंस्कार: कृत: । यवनै: भूमौ निखाय तदुपरि स्मारकं निर्मितम्‌ ।

 

जगत: अतिसुन्दरी महिला

‘अत्र अस्ति लघ्वी बालकथा, याम् अहं सर्वदा बहून् बालान् वक्तुम् इच्छामि’ इति लिखितम् आसीत् डा हरीन्द्रनाथचट्टोपाध्यायवर्येण यदा स्वस्य प्रियतमां कथां प्रेषयितुं चन्दमामया स: प्रार्थित: आसीत् २० वर्षेभ्य: पूर्वम् | सोदरी सरोजिनीनायडु इव एव प्रसिद्धिं गत: हरीन्द्रनाथ: अपि रङ्गभूमिकलावित्, चित्रकार:, उत्तम: वाग्मी च आसीत् | औपचारिकशिक्षणात् वञ्चितस्य अपि एतस्य विद्यावारिधिपदव्यर्थं कार्यं कर्तुं केम्ब्रिज्‌विश्वविद्यालयेन अनुमति: दत्ता आसीत् | तेन बहूनि पुस्तकानि लिखितानि | तेषु अन्यतमम् अस्ति ‘लैफ् अण्ड् मैसेल्फ्’ | १९७३ तमे वर्षे स: पद्मभूषणप्रशस्त्या पुरस्कृत: जात: | अद्यतनीयानां वर्धमानानां बालानां पुरत: श्रेष्ठस्य तस्य लेखकस्य इमां कथां प्रस्तोतुम् इच्छाम: वयम् |

नी लाकाशस्य च्छायायां दृश्यते प्रशान्त:        कश्चन कृषकग्राम: | ग्रामं परित: प्रसृता हरिद्वर्णीया भूमि: नितराम् आह्लादकरी |  प्रकृतिरेषा सौन्दर्यखनी एव | परं क्षेत्रेषु परिश्रमसाध्यं कार्यं कुर्वतां कृषकाणां दृष्ट्या एतत् सौन्दर्यं तदा एव अर्थपूर्णं भवेत्, यदा क्षेत्राणि फलसमृद्धानि भवेयु: | प्रियबाला: ! कदापि न भाव्यतां यत् फलसमृद्धे: हेतु: वृष्टिमात्रम् इति | कृषकाणाम् अनवरत-परिश्रमद्योतका: स्वेदबिन्दव: कदापि न विस्मर्तव्या: | समृद्धस्य फलोदयस्य निमित्तं पुरस्कारार्हा: सन्ति एते कृषका: |
आस्तां तावत् एष: विषय: | अहं काञ्चित् कथां वक्तुम् उत्सुक: अस्मि | अहं विश्वसिमि यत् सर्व: अपि बाल: ताम् आनन्देन स्मरेत् सर्वदा इति | एकस्मिन् सायङ्काले कृषकाणां श्रमपूर्णं दिनम् इव स्वस्य परिश्रमपूर्णं दिनं समाप्य सूर्य: अस्तं गच्छन् आसीत् | सूर्य: अपि कृषक: इत्येव निर्देष्टुं शक्य: | यत: सुविशाले आकाशे स: विरलतरं तारारूपिणं फलोदयम् आनयति स्वस्य एकस्य एव परिश्रमेण ! आं, स: सूर्य: अस्तं गच्छन् आसीत् | सर्वेऽपि कृषकपुरुषा: महिला: च सम्भूय कृतस्य कार्यस्य फलरूपेण प्राप्तानि धान्यानि सङ्‌गृह्य गृहं प्रति गमनाय उद्युक्ता: आसन् | तै: सह  बहव: बाला: अपि आसन्, ये च मातु: हस्तं गृहीत्वा आनन्देन गायन्त: गच्छन्ति स्म|

परं तेषु कश्चन लघु: बाल: कस्यचन पतङ्गस्य ग्रहणे एव पूर्णतया निरत: आसीत् | दीर्घपक्षयुता: ते पतङ्गा: विविधवर्णोपेता: आसन् | श्वेतकृष्णवर्णयुता: केचन, श्वेतकेसर-वर्णीया: केचन, अन्ये च केचन आसन् श्वेत-रक्तवर्णयुता: | अहो, कीदृशी अप्ाूर्वा दैव-सृष्टि: एषा !! पुष्पम् अपि पतङ्ग: इव | परं न डयते तत् |
कृषका: स्वकुटीरदिशि प्रस्थितवन्त: | क्षेत्रत: पञ्चषक्रोशमिते दूरे आसन् तेषां कुटीरा: | पद्भां सुदूरगमनं कृषकाणां दिन-चर्याया: अङ्गम् एव आसीत् | तेषां पादाघातेन विना मार्गा: अपि विचलितचित्ता: भवन्ति इव | पतङ्गग्रहणे दत्तमनस्क: स: लघु: बाल: आदौ किमपि न लक्षितवान् एव | बहु-कालानन्तरं स: अवगतवान् यत् अहम् एकाकी बहु दूरम् आगत: अस्मि, मम माता अन्येन मार्गेण निर्गत्य एतावता गृहं प्राप्तवती स्यात् इति |
 सपदि एव स: आतङ्केन - ‘‘अम्ब ! अम्ब !’’ इति आक्रन्दनम् आरब्धवान् |  तावता सूर्य: पूर्णतया अस्तङ्गत: आसीत् | सर्वत्र अन्धकारप्रसार: आरब्ध: आसीत् |
‘अम्ब ! अम्ब !’ इति शब्देन मार्ग: प्रतिध्वनित: | परन्तु स: अस्ति निर्जन: नि:शब्द: च प्रदेश: | इदानीं तत्र श्रूयते स्म बालस्य रोदनस्वर: एक: एव | सौभाग्यवशात् तेन मार्गेण आगच्छन् कश्चन कृष्णवर्णीय: कृषक: बालस्य रोदनम् अशृणोत् | स: बालम् उपसर्प्य वात्सल्याति-शयेन अपृच्छत् - ‘‘वत्स ! किमर्थं रोदिति भवान् ?’’ इति | ‘‘अम्बा आवश्यकी’’ - इति रुदन् एव अवदत् बाल: | ‘‘भवत: माता कीदृशी अस्ति ?’’ - कृषक: अपृच्छत् | ‘‘सा अस्ति सुन्दरी’’ - बाल: अवदत् | ‘‘वत्स ! अलं चिन्तया| माता भवता  प्राप्स्यते एव’’ इति अवदत् स: कृष्णवर्णीय: कृषक: | तावता काचित् सुन्दरी महिला तत्र दृष्टा |
‘‘एषा किं भवत: माता ? एषा अस्ति सुन्दरी’’ इति अवदत् कृषक: | ‘‘नैव ! मम माता जगति एव अतिसुन्दरी अस्ति’’ - बाल: अवदत् | अचिरात् अन्या काचित् महिला मार्गे दृष्टा | कृषक: अपृच्छत् - ‘‘किम् एषा भवत: माता स्यात् ?’’ इति | बाल: उच्चै: अवदत् - ‘‘नैव | एषा मम माता नैव ! मम माता तु जगति एव अतिसुन्दरी अस्ति’’ इति | मार्गे बह्व्य: महिला: दृष्टा: | सर्वा: अपि अतीव सुन्दर्य: एव आसन् | परन्तु बाल: अस्वस्थचित्त: खिन्न: उद्विग्न: च जात: | पुन: मातरं द्रष्टुं शक्यते उत न इति चिन्ता आरब्धा आसीत् तस्य मनसि |
स्वसमीपम् आगच्छन्तीं काञ्चित् महिलां दृष्ट्वा बाल: आनन्देन उत्प्लुत्य अधावत् | नृत्यन् इव स: उच्चै: अवदत् - ‘‘एषा एव मम अम्बा ! मम अम्बा आगता एव | आगता एव’’ इति | स: कृष्णवर्णीय: कृषक: उच्चै: अहसत् | तत् श्रुत्वा स्वर्गीया: आश्चर्येण अपश्यन् - भूमौ किम् एतत् प्रवर्तमानम् अस्ति इति| बालस्य अम्बा सा महिला आसीत् अत्यन्तं साधारणरूपवती कृषकमहिला | तस्या: नेत्रम् एकं लुप्तम् आसीत् अपि | घनातपे कार्यकरणात् तस्या: मुखं नितरां निस्तेजस्कं कृष्णवर्णीयं च जातम् आसीत् |
‘‘भवत: माता किम् एषा एव !! हे, भगवन् ! जगत: अतिसुन्दरी महिला किम् एषा एव ?’’ इति कृषक: उच्चै: हसन् अपृच्छत् | ‘‘आम् ! सत्यम् | एषा एव अस्ति जगति अतिसुन्दरी महिला | एषा एव मम अम्बा’’ इति अत्यन्तम् आत्मविश्वास-पूर्वकम् अवदत् स: बाल: |  बाल्यस्य सन्तसहज: सुमधुर: पुष्पसुगन्ध: आसीत् तस्य वचनेषु |

Wednesday 10 October 2012

प्राचीन भारतीय वैद्यानां शारीरक अस्थिविज्ञानम्------


शरीरेषु अस्थीनि------दन्तनखैस्सह षष्ठ्युत्तर शतत्रयम्। शतत्रयमिति धन्वन्तरिः।

तत्र शाखास्थीनि-----------विंशत्युत्तरशतम्।
अन्तराद्यस्थीनि-------सप्तदशोत्तरशतम्।
ग्रीवोर्ध्वास्थीनि------ त्रिषष्ठिः।
शाखास्थीनि यथा------एकैकस्यामङ्गुळ्याम्------त्रीणि त्रीणि।
एकपादाङ्गुळीषु-------------पञ्चदश।
पादतले-------------------पञ्चास्थिशलाकाः
तदाधारभूतमेकम् अस्थि।
कूर्चे द्वे। पार्ष्णौ एकम्। जङ्घयोः द्वे।
जानुनि एकम्। ऊरौ त्रीणि।
एवमेकस्मिन् सक्थिनि त्रिंशत्। एवमितरे सक्थिनि।
बाह्वोश्च त्रिंशत्त्रिंशत्।
अन्तरादिगतानि यथा----पार्श्वे पार्श्वे षट्त्रिंशत्। शिश्ने भगे वा
एकम्। पायावेकम्।नितम्बयोरेकैकम्। त्रिके एकम्। वक्षस्यष्टौ।पृष्ठे
त्रिंशत्। उक्थकसंज्ञे द्वौ।
ग्रीवोर्ध्वगतानि यथा-----ग्रीवायां नव। कण्ठनाड्यां
चत्वारि।हन्वोरेकैकम्। दन्तेषु द्वात्रिंशत्।
नासायां त्रीणि। तालुन्येकैकम्। गण्डयोरेकैकम्। कर्णयोरेकैकम्। शिरसि षट्।
सामान्यतोऽस्थीनि पञ्चविधानि---वलयानि,कपालानि,रुचकाः,तरुणानि,नलकानि चेति।
अस्थिमर्माण्यष्टौ-------शङ्खौ,कटीकतरुणौ,नितम्बौ,अंसफलके
चेति।अविकृतमस्थि शरीरानुग्राहकम्भवति।
अस्थिसंधयस्तु मनुष्यशरीरे दशोत्तरश्तद्वयम्। अस्थिसंघाताः
चतुर्दश।अस्थिभङ्गो रोगविशेषः।
वृद्धंतु तद्द्व्यस्थ्यधिदन्तान् जनयति।क्षीणन्त्वसितोदं केशनखादिशतनं च करोति।
अस्थिक्षयजातान् रोगान् क्षीर,घृत संयुक्तैः तिक्तवस्तुभिः साधयेत्।
अस्थि शरीरधातुषु पञ्चमो
धातुः।प्रत्यङ्गविशेषात्मकः।तत्पर्यायाः---कीकस,शल्य(कुल्य),कर्कर,सार,भारद्वाज,मेदोज,मेदस्तेजस्,मज्जकृत्,मांसलिप्त,श्वदयित,देहधारकः।
अस्थिनिग्रहो भृङ्गरीटः।अस्थिभुक् शुनकः।अस्थिमाली शिवः। अस्थिस्नेहो
मज्जा।अस्थिसम्बन्धकः कङ्गुः।
वैद्यशास्त्रे तन्निरूपणं यथा----अग्निना पक्वं वायुना शोषितं मेदोऽस्थि
भवति।तच्च सारतया
शरीराधारभूतम् वृक्षस्य सार इव।
अभिवाद्य,
ऐएन्नेस्साचार्यः।

जटायुः

जटायुः वनितापुत्रस्य सूर्यसारथेः अरुणस्य पुत्रः । एषः पक्षिराजः गृध्रजातीयः । अस्य माता श्येनी| शेन्याः कनीयान् पुत्र एषः ।सम्पाती अस्य ज्येष्ठः सहोदरः । भ्रातरावेतौ अतीव बलशालिनावास्ताम् । एकदा उभावपि सॊदरौ आत्मनोः वॆगबलं परीक्षितुमिच्छन्तौ अत्युपरि गगने डयमानावास्ताम् । यदा जटायुः तीव्रॆण सूर्यातपेन सन्तप्तः अभवत्, तदा सम्पातिः तस्य उपरि स्वयं डयमानः स्वपक्षाच्छादनेन अनुजं ररक्ष । तथापि भास्करकरज्वालाभिर्दग्धगात्रः सन् निश्शक्तः जटायुः दण्डकारण्येऽपतत् । सम्पातिरपि दग्धपक्षतिः सन् द्क्षिणसमुद्रतीरे पपात । तदा तत्रैव तपश्चरन् निशाकरनामा तापसः एनमवलोक्य करुणयॊपचचार । ततः कदापि सम्पातेः जटायुषा मॆलनं नाभवत् । जटायुरपि तत्र दण्डकारण्ये कतिपयैरहॊभिः वॆदनामुक्तशरीरः सन् क्वचन पर्वतगुहायामुवास । एकदा वनवासिना श्रीरामेण सङ्गतः जटायुः, तेन पृष्टः स्ववृत्तान्तं तस्मै निवेदयन्, अहं तव पितुः दशरथस्य बाल्यमित्रम् इत्यपि प्रोवाच । तच्छुत्वा सन्तुष्टो रामः स्वस्य वनवासवार्तां श्रावयित्वा पंचवटीपरिसररक्षणार्थं तं नियॊजयामास । ततः रावणः यदा सीतापहरणं कृतवान् तदा जटायुः रावणेन सह युद्धं कृत्वा, रावणेन कृत्तपक्षतिः सन् भूमावपतत् । सीतामन्विषतो रामलक्ष्मणयोराग्मनं प्रतीक्षमाणः, रामागमनपर्यन्तमपि प्राणान् सन्धार्य ततः रामाय रावणकृतसीतापहरणॊदन्तं विनिवॆद्य मृतवान् । रामोऽपि यथाविधि तस्यान्तिमसंस्कारं विधाय कृतकृत्यॊ बभूव । जटायोः कर्णिकारः,शतगामी, सारसः,रज्जुबालः,भेरुण्डश्चेति पञ्च पुत्राः ।

कैकेयीप्रलापः दशरथस्य सान्त्वनम्

कैकेयी केकयदेशस्य अश्वपतिमहाराजस्य पुत्री। दशरथस्य प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः मंथरायाः दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।

तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव रामस्य वनाभिगमनम् भवति। केकयराजस्य पुत्री कैकेयी महाराजस्य दशरथस्य तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् । एकदा  इंद्रस्य साहायार्थं दशरथः शम्बरेन सह युद्धं करोति । तत्सन्दर्भे यदा दशरथः बहु विचलितः भवति तदा तस्य सारथिरूपेण उपस्थिता कैकेयी अधीरा न भवति। वीरनारी कैकेयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करोति । तदनन्तरं प्रतिफलरूपेण दशरथमहाराजः ’भवत्या अपेक्षितं ददामि’ इति उक्तवान् भवति । तदा कैकेयी ’सूक्तसमये वदामि’ इति उक्तवती भवति। तस्य प्रयोजनं सा रामस्य यौवराज्याभिषेकसन्दर्भे करोति । ’रामं वनं प्रेषयतु’ इति दशरथम् उक्त्वा रामस्य दण्डकाराण्यवासं कारयति। कैकेयी दुष्टा स्त्रीः न । सा अपि रामं बहु प्रीणयति स्म । परन्तु यदा रामस्य यौवराज्याभिषेकः आयोजितः भवति तदा मंथरा नामिकया सेविकया उत्तेजिता भूत्वा तथा व्यवहरति। स्वत्रस्य अधिकारः भवतु इति लोभेन तथा राजभवने कौसल्यायाः अपेक्षया ज्येष्ठस्थानं प्राप्तं भवतु इति उद्देशेन ’स्वपुत्रस्य भरतस्य यौवराज्याभिषेकं तथा रामस्य वनाभिगमनं च अपेक्षते। दशरथः वचनबद्धः सन् तस्याः अनुरोधम् अङ्गीकृत्य वनं गन्तुं रामम् आदिशति । पितृवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं कैकय्याः ज्ञानोदयः भवति । यतः भरतः तस्याः स्वार्थकार्येण क्रुद्धः दुःखितः च भवति। अनन्तरं सा स्वदोषम् अङ्गीकरोति पश्चात्तापम् अनुभवति च। किन्त् तावति काले हानिः जाता आसीत् । रामः वनं गतः आसीत् , दशरथः अपि पुत्रशोकेन मृतः आसीत्।

मंजरी देवी

राजा भानुप्रतापः आसीत् उदयगिरिनगर्याः कुशलः शासकः। भयाद् एव जना सन्मार्गे चलन्ति इति आसीत् तस्य विचारः।अतः लघ्वपराधे अपि सः गुरुदण्डं प्रददत्। मृत्युदण्डे च नासीत् तस्य आपत्तिः। सामान्यरुपेण राज्ये प्रशान्ति आसीत् परन्तु भयकारणात् एव।
मंजरी देवी आसीत् भानुप्रतापस्य पुत्री। स्त्रीत्वे अपि क्षत्रियोचितविद्यायाम् सा आसीत् पारदर्शिनी। एकदा राजा अस्वस्थः अभवत्। स मंजरीम् आहूय तस्योपरि शासनभारं अर्पितवान्। अमात्यभैरवस्य परामर्शसहायेन मंजरीदेवी सुव्यवस्थितरुपेण राज्यं परिचालितवती। स्वल्पसमयेनैव सा शासनकार्ये पारंगता अभवत् । पुत्र्याः योग्यतां अपश्यन् राजा महान्तम् आनन्दम् अनुभवति स्म। सुखेन स मृत्युं प्राप्तवान्। मंजरीदेवी अतीव दुःखिता जाता। तां सान्त्वनां प्रदाय महामन्त्री भैरवः अवदत् “अस्यां विषादपूर्णपरिस्थित्याम् एव धैर्यस्य प्रयोजनीयता विद्यते। धैर्य्यं विना किमपि प्राप्तुं न शक
्यते। तव दिवंगतः पिता अपि दुःखितः भविष्यति। “अमात्यस्य सुपरामर्शेन मंजरीदेवी शोकात् उत्थाय पुनः शासनविषये मनोनिवेशम् अकुर्वत्।
एकदा व्यापारसम्बन्धीचर्चां कर्तुम् अमात्यः भैरवः पार्श्वराज्यं गतवान्। मंजरीदेवी अपि मनोविनोदाय मृगयाम् अगच्छत्। तदा आखेटरता सा स्वजनात् दुरम् आगतवती। परिश्रान्ता सन् मंजरीदेवी सरोवरं निकषा वृक्षच्छायायाम् उपविष्टा । तस्य वृक्षस्य पृष्ठतः आसीत् एकः युवकः। स मंजरीदेवीम् दृष्ट्वा मोहितः अभवत्। बहुक्षणपश्चात् सैनिकानां पदध्वनिं श्रुत्वा प्रत्यावर्तनं कृतवान्।
आसीत् असौ युवकः एकः चित्रकारः। तस्य नामः आसीत् मुकुन्दः। चित्रणकार्य्यस्य उपादानान् संग्रहणार्थं तेन वनं गतमासीत्। तत्र एव सः मंजरीम् अपश्यत्। ग्रामे प्रत्यावर्तनस्य पश्चादपि सः मंजरीं विस्मर्तुम् असमर्थः अभवत् । स मंजर्याः चित्रणं कर्तुम् ऐच्छत् । मुकुन्दः अवगतः आसीत् यत् राज्ञ्याः दर्शनस्य अनुमतिं स कदापि प्राप्तुं न शक्यते । अतः एकदा निशायां राज्ञ्याः कक्षे प्रविश्य बहुक्षणपर्यन्तं ताम् अपश्यत् । परन्तु प्रत्यावर्तनसमये सैनिकाः तं गुप्तचरं मन्यन् धृतवान्तः। अनुमतिं विना प्रवेशस्य अपराधात् मुकुन्दः मृत्युदण्डं अलभत् । तदा मुकुन्दः मंजरीदेवीं प्रति अनुरोधं कृतवान् यत्- “अहं एकः चित्रकारः । मृगयायाम् अहम् प्रथमवारं त्वां दृष्टवान् । ततः एव मम मनसि तव प्रतिकृतिरचनायाः इच्छा अस्ति । मरणात् प्राक् एतां इच्छां पूर्णां कर्तुम् इच्छामि अहम् । “ सर्वं श्रुत्वा राज्ञी मुकुन्दम् एकसप्ताहस्य समयं प्रददत् । सा अवदत् “सप्ताहकालपश्चात् मृत्युदण्डं अवश्यं पालनीयम् । “ मुकुन्दः स्वीकृतवान्।
अन्तिमदिवसे चित्रणकार्यः समाप्तः जातः । मंजरीदेवी अतुलनीयं स्वचित्रम् अपश्यन् विमोहिता अभवत् । सा तत्क्षणात् सैनिकान् आहूय आदेशम् अददत् “मृत्युदण्डः सद्य एव निरोधव्यः । उपस्थापयथ मुकुन्दं मम सन्मुखम्।“
शूले प्रदानस्य पूर्वमुहुर्ते एव प्रहरी राज्ञ्याः आदेशं श्रावितवान्। मुकुन्दः राजसभायाम् आनीतः । अमात्यः भैरवः अपि तत्र उपस्थितः आसीत् । सर्वं ज्ञात्वा स अवदत् “मृत्युदण्डः अतीव भयंकरः । अनेन उपकारस्य अपेक्षा अपकारः अधिकः भवति। प्राणहरणस्य अधिकारः कस्यापि नास्ति,असौ सर्वथा वर्जनीयः ।
“तव वाक्यम् सार्वतोरुपेण शुद्धम् । अद्यतः उदयगिरिनगरे न कोऽपि मृत्युदण्डः दातव्यः। सर्वे जनाः सहर्षं ताम् अभिनन्दितवन्तः।

Saturday 6 October 2012

दशानन:

इक्ष्वाकुवंशे रघु: नाम राजा जात: | रघु: पराक्रमी यशस्वी च आसीत् इत्यत: तदीय: वंश: ‘रघुवंश:’ इत्येव ख्यात: जात: | एतस्मिन्नेव वंशे विष्णु: राज्ञ: दशरथस्य पुत्रत्वेन जन्म प्राप्य राम इति नाम लब्धवान् | 
हिरण्यकशिपुं हिरण्याक्षं च विष्णु: नरसिंहावतारसमये मारितवान् आसीत् | अनन्तरजन्मनि तौ रावणकुम्भकर्णत्वेन जन्म प्राप्तवन्तौ आस्ताम् | ताभ्यां पुनरपि लोकस्य पीडा आरब्धा | देवयक्षगन्धर्वादिभ्य: मरणं यथा न प्राप्येत तथा वरं प्राप्तवान् आसीत् रावण: | तस्य विश्वास: आसीत् यत् मानव: मम केशं कम्पयितुम् अपि नार्हति इति | मम मृत्युभयं नास्तीति चिन्तयन् स: अहङ्कारी भूत्वा जनान् विविधै: प्रकारै: पीडयितुम् उद्युक्त: जात: |
कुम्भकर्णस्य शरीरं सुविशालम् आसीत् | षट् मासान् यावत् निद्रां, पुन: षट् मासान् यावत् जागरणं च वरत्वेन प्राप्तवान् आसीत् स: | रावण: लङ्कात: कुबेरम् अपसार्य तदीयं पुष्पकविमानं वशीकृत्य लङ्कायाम् एव वसन् वैभवोपेतं जीवनं यापयति स्म | राक्षसान् सङ्घटय्य स: अन्यान् अपि लोकान् जितवान् आसीत् | एतस्मात् तदीय: अहङ्कार: प्रवृद्ध: | रावणस्य दश शिरांसि आसन् | अत: स: ‘दशानन:’ इत्यपि निर्दिश्यते स्म |
कदाचित् स्वस्य विंशते: भुजानां बलस्य कारणत: गर्वं प्राप्तवान् स: कैलासं वशीकर्तुं प्रयासम् अकरोत् | तदा भगवान् शिव: पादाङ्गुष्ठेन तं नोदितवान् | तदा शिलाया: अध: गत: स: उच्चै: रवं कृतवान् | तत: एव ‘रावण:’ इति नाम जातं तस्य | शिवस्य क्रोधस्य अपनयनाय रावण: घोरं तप: कृत्वा स्वस्य शिरांसि एकैकश: कर्तयित्वा अर्पितवान् | तस्मात् शिव: प्रसन्न: जात: | तत: आरभ्य रावण: महाशिवभक्त: जात: |
रावण: महावीर: पराक्रमी च यथा तथैव महादुष्ट: अपि आसीत् | परनार्यपहरणं पौरुष-द्योतकं भावयति स्म स: | परनारी: अपहृत्य कारागारे स्थापनं तस्य प्रवृत्ति: आसीत् | अत: एव तेन कश्चन शाप: प्राप्त: आसीत् यत् यदि परनारीं बलात् अनुभोक्तुं प्रयत्न: क्रियते तर्हि शिरांसि भग्नानि भविष्यन्ति इति |
मयस्य पुत्री मन्दोदरी तस्य पत्नी | सा पत्यु: हितकाम्यया पतिं रावणं सन्मार्गं स्मारयति स्म | भ्राता विभीषण: अपि रावणं पापकर्मभ्य: निवारयितुं प्रयासं करोति स्म | किन्तु रावण: तु तान् धिक्कुर्वन् दुष्टताम् आचरन् एव भवति स्म | विन्ध्याचलस्य दक्षिणभागपर्यन्तं राक्षसानां राज्यं प्रसृतम् आसीत् | आर्यावर्ते प्रचलत्सु यज्ञेषु विघ्नम् उत्पादयन्त: राक्षसा: ऋषिमुनीन् मारयन्त: आश्रमवासिनां, निर्दोषजनानां च पीडनात् महान्तम् आनन्दम् अनुभवन्ति स्म |
तेषु एव दिनेषु कुशध्वज: नाम राजर्षि: वेदपाठद्वारा काञ्चित् पुत्रीं प्राप्तवान् | तस्या: नाम वेदवती इति जातम् | सा विष्णुं पतिरूपेण प्राप्तुम् इच्छति स्म | अत: सा घोरं तप: आचरितवती | रावण: तां प्राप्तुम् इच्छति स्म | अत: सा वेदवतीम् अवदत् - ‘‘अहं विष्णो: अपि श्रेष्ठ: | अत: मम परिणयम् अङ्गीकृत्य लङ्कां प्रति आगच्छतु’’ इति |एतत् निराकुर्वती वेदवती रावणम् अप-मानकराणि वचनानि अवदत् | तदा रावण: क्रुुद्ध: सन् तां बलात्कारेण आकृष्य नेतुं प्रयासम् अकरोत् | एतस्मात् दु:खतप्ता रोषाविष्टा च वेदवती रावणं शप्तवती - ‘‘अये दुष्ट ! भवता मम शरीरस्य स्पर्शं कुर्वता अपावित्र्यं कल्पितम् | अत: अहम् एतत् शरीरं त्यजामि इदानीम् एव | किन्तु स्मरतु - अग्रिमे जन्मनि लङ्कायाम् एव जन्म प्राप्य अहं भवत: नाशस्य कारणं भविष्यामि’’ इति | एतावत् उक्त्वा सा योगबलेन अग्निं प्रज्वलय्य तेन अग्निना ज्वलिता सती भस्मीभूता जाता |
राक्षसानाम् अत्याचार: दिने दिने प्रवृद्ध: | जना: प्रतिदिनं भगवन्तं प्रार्थयन्ते स्म - ‘त्रायस्व भगवन्, त्रायस्व’ इति | जगत: कल्याणाय अवतारं प्राप्तुं सुसमय: सम्प्राप्त: अस्ति इति विष्णु: अचिन्तयत् | अत: स: मानवरूपेण जन्म प्राप्नोत् | देवाश्च वानररूपेण जन्म प्राप्तवन्त: |

परशुरामावतार:

जमदग्नि: मृत: इव भूमौ अपतत् | रेणुका-   देवी पत्यु: शरीरस्य उपरि पतित्वा रोदनम् आरब्धवती | तस्मिन् एव समये परशुराम: आश्रमात् प्रतिनिवृत्त: | प्रवृत्तं सर्वं श्रुत्वा नितरां क्रुद्ध: स: माहिष्मतीं प्रति प्रस्थित: |  अत्रान्तरे भृगुमहर्षि: जमदग्ने: आश्रमं प्रति आगतवान् | प्रवृत्तं समग्रं ज्ञा स: योग-बलात् जमदग्निम् उज्जीवितवान् | 

माहिष्मतीनगरे सैनिका: धेनुं ताडयन्त: आसन्, यत: सा तेषाम् इच्छाया: अनुगुणं वस्तूनि यच्छन्ती न आसीत् | तस्मिन् एव समये परशुराम: तत्र उपस्थित: | तस्य दर्शन-मात्रात् भीता: सैनिका: तत: पलायितवन्त: | परशुराम: प्रीत्या धेनुं स्पृशन् अवदत् यत् भवती निर्भयतया आश्रमं प्रतिगच्छतु इति | धेनु: आश्रमं प्रति अधावत् | तत: परशुराम: प्रासादस्य समीपं गत्वा उच्चस्वरेण अवदत् - ‘‘अयि ! दुष्ट ! राजा प्रजानां पालनं कुर्यात् | यदि स: कर्तव्यच्युत: भवति तर्हि तेन दण्ड: अवश्यम् अनु-भोक्तव्य: | भवान् प्रासादात् बहि: आगत्य पापस्य फलं प्राप्नोतु’’ इति |

तस्य घोरं रूपं दृष्ट्वा द्वारपालका: पलायन-सूत्रं पठितवन्त: | ये द्वित्रा: धैर्येण स्थितवन्त: ते पर शुरामस्य परशो: प्रहारं प्राप्य यमलोकं गता: | परशुराम: कालरुद्र: इव गर्जन् कार्तवीर्यार्जुनं निन्दन् अवदत् - ‘‘अये पापिन् ! क्वास्ति भवान् ? भवत: पापघट: पूर्ण: अस्ति | यस्य शासने गो-सज्जन-ऋषिमुनय: पीडिता: भवन्ति स: हन्तव्य: एव’’ इति | कार्तवीर्यार्जुन: चिन्तितवान् आसीत् यत्  परशुराम: कश्चन साधारण: मुनिकुमार: स्यात् इति |
किन्तु यदा तस्य पराक्रमादिकं ज्ञातं तदा स: सहस्रेण हस्तै: आयुधानि प्रयुक्तवान् | उभयो: अपि घोरं युद्धं प्रवृत्तम् | परशुराम: कार्तवीर्यार्जुनस्य सर्वाणि अस्त्र-शस्त्राणि खण्डितवान् | तदीयान् सहस्रं हस्तान् अपि निर्दयं छिन्नवान् | तेन कार्तवीर्यार्जुन: हतवीर्य: सन् भूमौ अपतत् | तदा तेन स्मृतं यत् अहं चक्रपुरुष: अस्मि, शापकारणत: एतत् जन्म प्राप्तम् अस्ति मया इति | तेन परशुरामस्य विष्णुस्वरूपम् अपि अवगतम् | तत: स: सुदर्शनचक्रे विलीन: जात: |
परशुराम: आश्रमं प्रत्यागत: | तत्र पिता सजीवं दृष्ट: तेन | नितरां सन्तुष्ट: स: पितरं कार्तवीर्यार्जुनस्य मरणवार्तां निवेदितवान् | एतां वार्तां श्रुत्वा जमदग्निमहर्षि: अवदत् - ‘‘भवता यत् कृतं तत् सर्वथा अनुचितम् एव | एतस्य प्रायश्चित्तरूपेण तप: आचरणीयं भवता’’ इति |  ‘‘तात ! य: स्वकर्तव्यं विस्मृत्य पापाचरणे उद्युक्त: भवति तस्य दण्डनाय सर्वोऽपि प्रवृत्त: भवितुम् अर्हति एव | अत: मया यत् कृतं तत् अनुचितं तु न | तथापि भवता आदिष्टम् इत्यत: तप: आचरिष्यामि, न तु प्रायश्चित्त-रूपेण’’ इति उक्त्वा परशुराम: तपसे अरण्यम् उद्दिश्य गतवान् |
कार्तवीर्यार्जुनस्य सहस्रं पुत्रा: हैहयवंशीयान् क्षत्रियान् मेलयित्वा जमदग्ने: आश्रमं प्रति गतवन्त: | तस्मिन् समये महर्षि: जमदग्नि: समाधिस्थ: आसीत् | सैनिका: तस्य शिर: कर्तयित्वा दूरे क्षिप्तवन्त: | रेणुकादेवी स्वस्य रक्षणाय परशुरामम् एकविंशतिवारम् आहूत-वती | पत्यु: शरीरस्य उपरि पतित्वा विलपनं कृतवती च | जमदग्ने: शिर: लुठत् गत्वा शिलयो: मध्ये अपतत् | क्षत्रिया: आश्रमं दग्धवन्त: | एतेन पत्यु: शरीरस्य उपरि पतिता रेणुकादेवी अपि दग्धा जाता | अरण्ये तपसि विलीनस्य परशुरामस्य तपस: भङ्ग: अकस्मात् जात: | तस्य कर्णे मातु: ध्वनि: एकविंशतिवारं प्रतिध्वनित: |
एष: कश्चन अशुभसङ्केत: इति चिन्तयन् परशुराम: तप: परित्यज्य आश्रमं प्रत्यागत: | तस्मिन् समये आश्रम: ज्वलति स्म | तदीयौ मातापितरौ दग्धौ जातौ आस्ताम् | हैहय-वंशीया: क्षत्रिया: सर्वान् आश्रमवासिन:, समीपस्थान् ग्रामीणान् च लुण्ठयन्त: आसन् | एतत् दृष्टवत: परशुरामस्य नेत्राभ्याम अग्निज्वाला निर्गता |
 स: शिवं ध्यायन् परशुं हस्तेन गृहीत्वा सर्वान् क्षत्रियान् कण्टकसस्यानि इव नाशितवान् | तत: स: शिलयो: मध्ये पतितं पितु: शिर: उन्नीय उरसा आलिङ्ग्य अवदत् - ‘‘मम हृदये स्थिताया: क्रोधज्वालाया: कारणत: नेत्रयो: अश्रूणि सर्वथा शुष्काणि जातानि सन्ति | अहं क्षत्रियाणां रक्तेन भवत: तर्पणं विधास्यामि, तस्यैव रक्तस्य कुण्डे भवत: शिर: मज्जयित्वा अन्त्येष्टिं करिष्यामि’’ इति |
तत: उन्नतां शिलाम् आरुह्य परशुम् उन्नीय गर्जन् स: एकविंशतिवारं प्रतिज्ञां कृतवान् - ‘‘अहम् एतेन परशुना पृथिवीस्थान् सर्वान् क्षत्रियान् नाशयिष्यामि’’ इति |
तस्य भयङ्कर: ध्वनि: दिशासु प्रतिध्वनित: जात: | तां भीषणप्रतिज्ञां श्रुत्वा ब्रह्मादिदेवा: ऋषिमहर्षयश्च तत्समीपम् आगत्य - ‘भवान् शान्तो भवतु’ इति निवेदितवन्त: |

महर्षि: भृगु: अवदत् - ‘‘भगवान् स्वयमेव दुष्टानां दण्डनं शिष्टानां रक्षणं च करिष्यति | दण्डनकार्यम् ऋषिवंशीयानां न’’ इति | तदा परशुराम: अवदत् - ‘‘भगवान् आकाशात् अवतीर्य कार्यं न करिष्यति | स: भगवान् अस्मादृशान् कार्ये प्रेरयन् कार्यं साधयिष्यति | यदा भूलोके पापकृत्यानि वर्धन्ते, तदा भगवान् मानवेषु कस्मिंश्चित् स्वशक्तिम् आवाहयति, पापिनां दण्डनं कारयिष्यति च | इदानीं भगवान् मद्द्वारा एतादृशं कार्यं कारयन् अस्ति’’ इति | तत: स: हिमालयस्य कैलासशिखरं प्रति गतवान् शिवस्य तोषणाय |
तस्य तपस्यया शिव: सन्तुष्ट: जात: | परशुराम: तम् अवदत् - ‘‘शिवस्य अनुज्ञां विना तृणम् अपि न चलति इति श्रूयते | भवान् तु लयपुरुष: | मम प्रतिज्ञा अपि ज्ञायते भवता | तां प्रतिज्ञां पूरयितुं यत् बलम् आवश्यकं तत् मह्यं ददातु कृपया’’ इति | शिव: तस्मै विविधानि अस्त्राणि शस्त्राणि च दत्त्वा एकं दिव्यास्त्रम् अपि यच्छन् अवदत् - ‘‘एतत् लोके भार्गवास्त्रनाम्ना प्रसिद्धिं गमिष्यति | भवान् विशिष्टेन केनचित् कारणेन मानवरूपेण जन्म प्राप्तवान् अवतारपुरुष: अस्ति | भवत: कार्ये कोऽपि विघ्न: न भविष्यति’’ इति | एतदनन्तरं परशुराम: गोलोके कृष्णरूपेण वसत: विष्णो: समीपं गतवान् | कृष्ण: तस्मै कवचं महाशक्तिमत् दिव्यं धनु: च दत्त्वा अवदत् यत् रामावतारसमये मया एतत् प्रति-स्वीकरिष्यते इति |
एवं देवानां द्वारा दिव्यास्त्राणि प्राप्तवान् परशुराम: क्षत्रियसंहारम् आरब्धवान् | ये राज्ञां दुष्टशासनेन प्रपीडिता: आसन् ते तस्य साहाय्यं कृतवन्त: | कार्तवीर्यार्जुनस्य पुत्रा:, सर्वे हैहयवंशीया: च नगरं परित्यज्य इतस्तत: धावितवन्त: | परशुराम: आग्नेयास्त्रेण माहिष्मतीनगरं ज्वालितवान् | एकविंशतिं दिनानि तत् नगरं ज्वलत् आसीत् | एवं हैहयराजानां राजधानी भस्मसात् जाता |
कार्तवीर्यस्य सहस्रं पुत्रा: अन्ये हैहय-वंशीया: च सम्भूय परशुरामं सम्मुखीकृत-वन्त: | किन्तु परशुराम: बलिपशून् इव सर्वान् संहृतवान् | तेषां शिरस: कर्तनात् प्राप्तेन रक्तेन पञ्च कुण्डान् निर्माय तेषु पितु: शिर: मज्जित-वान् | एवं स: पितु: तर्पणं विधाय तदीयम् अग्निसंस्कारं निर्वर्तितवान् | यत्र परशुरामेण पञ्च कुण्डानि निर्मितानि तत् स्थानं स्यमन्तपञ्चकम् इति ख्यातं जातम् | अग्रे तदेव क्षेत्रं कुरुक्षेत्रत्वेन अपि ख्यातम् अभवत् | एतस्मिन् एव स्थले महाभारत-युद्धकाले पुनरपि रक्तस्य नदी प्रावहत् |
पितु: श्राद्धं निर्वर्त्य परशुराम: पुनरपि क्षत्रियाणां संहाराय निर्गत: | प्रतिकोणम् अन्विष्य स: तान् संहृतवान् | क्षत्रियमातर: स्वशिशून् ब्राह्मणानां गृहेषु रक्षितवत्य: | स्वयं च ब्राह्मणीवेषं धृत्वा आत्मरक्षणं कृतवत्य: | ब्राह्मणकुटुम्बे प्रवृद्धा: क्षत्रियतरुणा: स्व-शक्त्या राज्यानि विस्तारितवन्त: | किन्तु परशुराम: पुनरपि सर्वत्र अटित्वा तेषां संहारं कृतवान् | एवम् एकविंशतिवारं भूभ्रमणं कृत्वा सर्वान् क्षत्रियान् संहृतवान् स: स्वस्य प्रतिज्ञाया: पूर्ते: अनन्तरं समग्रं भूमण्डलं कश्यपाय दानरूपेण दत्तवान् | तत: स: दक्षिणसमुद्रे स्थितं महेन्द्रपर्वतम् आश्रित्य तप: कर्तुम् उद्युक्त: जात: |
ये क्षत्रिया: बालका: ब्राह्मणपरिवारेषु आश्रमेषु च गोपिता: आसन् तेभ्य: कश्यप: परशुरामत: प्राप्तां भूमिम् अर्पितवान् | एतेन पुनरपि क्षत्रियाणां राज्यानि स्थापितानि जातानि | तेषां वंशाभिवृद्धि: अपि आरब्धा |

Tuesday 2 October 2012

धनुर्विद्याया: परीक्षा

दृष्टि: पुरत:..’’ ‘‘दृढं गृह्यताम्‌..’’ ‘‘आकर्णम्‌ आकृष्यताम्‌ ..’’ सुंय्‌ ....’’

‘‘मुच्यताम्‌ ...’’ ‘‘स्थग्यताम्‌ .....’’

‘‘साधु कृतम्‌ .....’’


स च प्रदेश: एतादृशै: आज्ञाशब्दै: हर्ष-सूचकै: ध्वनिभि: च पूर्ण: आसीत्‌ । सशब्दं निर्गच्छतां बाणानां स्फुरणम्‌ अपि भवति स्म तदा तदा । अरुणाचलप्रदेशे स्थिते दिवाङ्गखाते प्रति-दिनं दृश्यमानं दृश्यम्‌ आसीत्‌ एतत्‌ ।


धनुर्विद्याया: प्रशिक्षणं प्रचलति स्म तत्र । अत: पूर्वोक्ता: विशेषा: तत्र । बहव: तरुणा: धनुर्विद्याभ्यासे निरता: दृश्यन्ते स्म । अनु-भविन: वृद्धा: केचन धनुर्विद्यां तान्‌ पाठयन्ति स्म । एवम्‌ अध्येतार: बोधयितार: च न मानवा:, अपि तु वानरकुलीया: । नायम्‌ आश्र्चर्यस्य विषय: । यत: बहो: कालात्‌ पूर्वं स्थितं दृश्यम्‌ एतत्‌ ।


तेषु दिनेषु इदुमिश्मिनामकात्‌ ग्रामात्‌ अनतिदूरे स्थिते अरण्य-परिसरे वानरकुलीया: निवसन्ति स्म । तेषु बहव: धनुर्विद्यायां सुनिपुणा: । कम्पमानायां शाखायां स्थितस्यापि लक्ष्यस्य भेदने अपि ते समर्था: । अत: एव इदुमिश्मिग्रामीणा: तेषां विरोधं न कुर्वन्ति स्म केनापि कारणेन ।


वानराणां प्रमुखा: स्वकुलीयानां तरुणानां धनुर्विद्याशिक्षणे विशेषत: आदरवन्त: । ‘तरुणे वयसि बोधितं चेदेव योग्यं फलं प्राप्यते’ इति ते जानन्ति स्म । ते वृक्षात्‌ वृक्षम्‌ उत्प्लवमाना: सुदूरस्थानि पर्वतशिखराणि प्राप्नुवन्ति स्म । तेषु स्थितानाम्‌ उन्नतानां वृक्षाणाम्‌ अग्रभागे स्थित्वा परित: सर्वत्र दृष्टिं प्रसार्य धनुर्निर्माणाय बाणानां सज्जीकरणाय च उत्तम: वेणु: वेत्रं च कुत्र अस्ति इति परिशील्य तेषां सङ्ग्रहं कृत्वा तै: धनूंषि बाणान्‌ च निर्मान्ति स्म । धनुर्विद्या-प्रशिक्षणकेन्द्रे तेषाम्‌ उपयोग: भवति स्म ।
उषसि एव तरुणा: प्रशिक्षणकेन्द्रम्‌ आगत्य धनुर्विद्याया: अभ्यासस्य आरम्भं कुर्वन्ति स्म ।

ज्येष्ठा: तेषां लक्ष्यैकनिष्ठतां, धनुर्ग्रहणकौशलं, बाणप्रयोगपाटवं च सम्यक्‌ परीक्षन्ते स्म । कदाचित्‌ तरुणानां ज्येष्ठानां च अभ्यासयुद्धं प्रचलति स्म । तदा तु समग्र: खातप्रदेश: बाणै: आवृत: भवति स्म ।

तं प्रदेशं गन्तुम्‌ उद्युक्तान्‌ बालान्‌ मातर: तर्जयन्ति स्म - ‘‘अनवधानेन तत्र सञ्चार: कृत: चेत्‌ वनचिकित्सालय: प्रवेष्टव्य: भवेत्‌ इति किं भवता न ज्ञायते ? कदाचित्‌ बाणेन भवान्‌ विद्ध: भवेत्‌ अपि’’ इति ।


एवमेव मासा: गता: । वर्षाणि अपि गतानि । केवलात्‌ धनुर्विद्याभ्यासात्‌ तेषु वानरेषु नीरसता उत्पन्ना । कदाचित्‌ वानराणां प्रमुखस्य पुत्र: एव पितरम्‌  अवदत्‌ - ‘‘सर्वदा अपि किम्‌ एतत्‌ धनुर्विद्याप्रशिक्षणं नाम ! मध्ये मध्ये मनोविनोदाय अपि किमपि भवेत्‌ । अन्यच्च महत्‌ बाणप्रयोगकौशलं प्राप्य अपि तस्य उपयोग: न क्रियते चेत्‌ अधीतं सर्वम्‌ व्यर्थम्‌ एव खलु ?’’ इति ।


‘‘युक्तम्‌ उक्तं भवता । मदमत्त: गज:, दुष्ट: व्याघ्र: इत्यादय: महत्‌  दौष्ट्यम्‌ आचरन्ति, अस्मान्‌ उपेक्षया पश्यन्ति च । यदि वयं बाण-प्रयोगकौशलेन तान्‌ किञ्चित्‌ निगृह्णीयाम तर्हि सर्वेषां वनवासिनाम्‌ उपकार: एव कृत: भवेत्‌’’ इति अवदतां नील: काल: च ।  ‘‘योग्य: बाणप्रहार: तेषां निग्रहणे उपकुर्यात्‌ एव’’ इति अवदत्‌ हरिप्रिय: ।
तदा कुचेष्टापर: वनेश: अवदत्‌ - ‘‘स: दुष्ट: वृक: अपि दण्डनीय: अस्माभि: । वराकान्‌ कुक्कुटान्‌ निर्दयं पीडयति स: । यदि वयं बाणप्रयोगेण तस्य नखान्‌ उत्पाटयितुं शक्नुयाम तर्हि अहो, कियान्‌ आनन्द: प्राप्येत !’’ इति । एतत्‌ श्रुत्वा अन्ये सर्वे वानरा: हसितवन्त: । तत: एकैक: अपि एकैकम्‌ उपायम्‌ अश्रावयत्‌ । बहव: तरुणवानरा: विनोदकायेॅ प्रवर्तनाय  सज्जा: जाता: अपि ।


दिवाङ्गारण्ये तेषां विविधा: विनोदव्यवहारा: आरब्धा: । तस्मात्‌ दिनात्‌ वानराणां व्यवहार-विषये बहव: आक्षेपा: उद्गता: सर्वाभ्य: दिग्भ्य: । तेषां बाणानां प्रहारं प्राप्य बहव: चिकित्सालयं प्रविष्टवन्त: । इदुमिश्मिग्राम-वासिभि: अपि एतस्य परिणाम: सम्मुखीकृत: ।

बालानाम्‌ अङ्गानि क्षतग्रस्तानि जातानि । ज्येष्ठानां शिरोभूषणानि बाणै: नीतानि । मातृभि: शोषणाय आतपे प्रसारिता: मांसखण्डादय: भूमौ पातिता: । एवं बहव: अनर्था: सम्पन्ना: सर्वत्रापि ।

वानराणां पीडावार्ता वृद्धस्य ग्रामप्रमुखस्य अनूकस्य कर्णपथम्‌ अपि आगता । कदाचित्‌ सर्वे वनजीवन: सम्भूय अनूकस्य समीपं गता: । तान्‌ स्वागतीकृत्य अनूक: अपृच्छत्‌ - ‘‘अपि कुशलं भवतां सर्वेषाम्‌ ? किमर्थं भवतां मुखे चिन्तारेखा: दृश्यन्ते ?’’ इति ।


तदा पक्षिराज: अवदत्‌ - ‘‘महोदय ! किं वदाम अस्माकं दुर्गतिविषये ? अरण्ये शान्त्या जीवनम्‌ असम्भवं जातम्‌ अस्ति सर्वथा’’ इति । 


तत: गजराज: अवदत्‌ - ‘‘दुश्चेष्टाप्रियाणां वानराणां पीडा वर्णयितुम्‌ एव अशक्या । ह्य: मम पुत्र: कदलीफलस्य खादनाय शुण्डाम्‌ उन्नीतवान्‌ । तावता कुतश्र्चित्‌ आगत: कश्र्चन बाण: तम्‌ अविध्यत्‌ । तदा तेन यत्‌ क्रन्दनं कृतं तत्‌ इदानीम्‌ अपि गुञ्जति मम कर्णयो: । समीपे स्थितायां वृक्षशाखायाम्‌ उपविष्टौ वानरौ एतत्‌ दृष्ट्वा महान्तम्‌ आनन्दम्‌ अनुभवत: स्म’’ इति ।


‘‘आर्य ! अत्र पश्यतु तावत्‌’’ इति वदन्‌ शशकुमार: व्रणितं वस्त्रपट्टेन बद्धं स्वस्य पादं दर्शयन्‌ अवदत्‌ - ‘‘ह्य: वयम्‌ अरण्ये धावनाभ्यासं कुर्वन्त: आस्म । तदा दुष्टै: वानरै: प्रयुक्ता: बाणा: अस्मासु बहून्‌ व्रणितान्‌ अकरोत्‌’’ इति । 


‘‘भवतां दु:खम्‌ अहम्‌ अवगच्छामि । अयि बान्धवा: ! अलं चिन्तया । ते वानरा: कथं बोधनीया: इति अहं चिन्तयिष्यामि । भवन्त: निश्र्चिन्ततया अरण्यं प्रतिगच्छन्तु’’ इति । अनन्तरदिने स: वानराणां प्रमुखम्‌ आहूय अपृच्छत्‌ - ‘‘कथं प्रचलति भवत्कुलीयानां तरुणानां धनुर्विद्याभ्यास: ? अरण्ये ग्रामे च तेषां नैपुण्यं वार्ताविषय: अस्ति’’ इति । ‘‘आर्य ! ते सर्वे धनुर्विद्यायाम्‌ अद्वितीयं नैपुण्यम्‌ आसादितवन्त: सन्ति’’ इति साभि-मानम्‌ अवदत्‌ वानरप्रमुख: । 


‘‘एवं तर्हि एतस्मिन्‌ वर्षे धनुर्विद्यास्पर्धायां भवत्कुलीया: एव स्वर्णपदकं प्राप्तुम्‌ अर्हन्ति इति भाति’’ इति अवदत्‌ वृद्ध: अनूक: । ‘‘प्राय: सर्वाणि पदकानि अपि अस्मदीयै: एव प्राप्येरन्‌ । अल्पा: किशोरा: अपि डयमानं पतङ्गं चटकं चापि वेद्धुं समर्था: सन्ति’’ इति अवदत्‌ वानरप्रमुख: ।

‘‘एवम्‌ ! तर्हि भवत्कुलीयानां बाण-प्रयोगकौशलं मया द्रष्टव्यम्‌ एव । श्व: भवान्‌ स्वकुलीयं निपुणतमं धनुर्वीरं नदीतीरं प्रति प्रेषयितुं किं शक्नुयात्‌ ?’’ इति । अनन्तरदिने कश्र्चन सुन्दर: वानर: धनुर्बाण-हस्त: सन्‌ आगत्य अनूकं नमस्कृतवान्‌ । अनूकोऽपि धनुर्बाणहस्त: सन्‌ सज्ज: आसीत्‌ ।

‘‘किं भवान्‌ स्पर्धार्थं सज्ज: ?’’ इति तं तरुणं वानरम्‌ अपृच्छत्‌ अनूक: ।


‘‘सज्ज: अस्मि एव महोदय !’’ इति आत्म-विश्वासपूर्वकम्‌ अवदत्‌ वानरतरुण: ।


‘‘तत्र, नद्या: अपरतीरस्य समीपे जले काचित्‌ शिला दृश्यते खलु ? किं सा लक्षिता भवता ?’’ इति अपृच्छत्‌ अनूक: । ‘‘पश्यामि एव’’ इति अवदत्‌ वानर: । ‘‘तस्या: शिलाया: जलस्थ: भाग: बाणेन वेद्धव्य: । य: एतत्‌ कर्तुं समर्थ: भवति स: एव जयं प्राप्स्यति । अहम्‌ आदौ बाणप्रयोगं करोमि’’ इति अवदत्‌ अनूक: । ‘‘अस्तु’’ इति अवदत्‌ वानरवीर: ।


उभौ अपि क्षणकालं  तां शिलां परीक्षादृष्ट्या दृष्ट-वन्तौ । तत: अनूक: एकं बाणं प्रयुक्तवान्‌ । स: बाण: सशब्दं गत्वा जलं विभिद्य शिलायां लग्न: जात: । तेन प्रयुक्ता: अन्ये द्वित्रा: बाणा: अपि शिलायां लग्ना: ।


एतदनन्तरं वानरतरुण: बाणप्रयोगम्‌ आरब्धवान्‌ । तेन प्रयुक्त: बाण: वेगेन तु गत:, किन्तु जलं भेत्तुम्‌ असमर्थ: सन्‌ जले अप्लवत । ‘अहो, मम बाण: लक्ष्ये न लग्न: एव !’ इति विषादेन अवदत्‌ वानरतरुण: । तत:  जागरूक-तया तेन पुनरपि द्वित्रा: बाणा: प्रयुक्ता: । किन्तु ते अपि लक्ष्यभेदने असमर्था: एव ! एतस्मात्‌ वानरतरुणस्य मुखं कान्तिहीनं जातम्‌ । स: म्लानमुख: सन्‌ स्वस्य पराजयम्‌ अङ्गीकृत्य तत: निर्गतवान्‌ मन्दं पदानि स्थापयन्‌ ।


वस्तुत: अनूक: जानाति स्म एव यत्‌ जय: ममैव इति । यत: तदीया: बाणा: लोहेन निर्मिता: आसन्‌, किन्तु वानरतरुणस्य बाणा: तु निर्मिता: आसन्‌ वेत्रेण । काष्ठमय: बाण: जले प्लवते इति तु सहजम्‌ एव खलु ? तत: आरभ्य वानराणां बाणप्रयोगकौशलं क्षीणं जातम्‌ । गच्छता कालेन तत्‌ विनष्टम्‌ अपि ।