Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि-13

मूषकासुरः विघ्नम् आदिष्टवान् - “भवान् गजासुरस्य रूपं धृत्वा विघ्नेश्वरस्य नाशं करोतु’’ इति।
तदा विघ्नः भयङ्करस्य गजासुरस्य रूपं धृत्वा हस्तेन खङ्गं चालयन् आकाशं प्रति उड्डयनं कृतवान्।
अपरत्र कैलासे विघ्नेश्वरः मातापित्रोः प्रीत्या वर्धमानः आसीत्। मातापित्रोः अनुमतिं स्वीकृत्य विश्वकर्मद्वारा निर्मिते भवने वासम् आरब्धवान् सः। कदाचित् पुरतः आगतः कामदेवः शरीरं धृत्वा गणपतेः पुरतः स्थितवान्। 

विघ्नेश्वरः आश्चर्येण - “भवान् तु निराकारः। कथं भवान् शरीरं धृत्वा मम पुरतः उपस्थितः अस्ति? कः विशेषः? अहं मुग्धः। भवतः धनुर्विद्यायाः प्रयोगं मम उपरि न करोतु’’ इति उक्तवान्।
कामदेवः विनयपूर्वकं शिरः अवनमय्य - “गजानन! भवान् तु मम बाणातीतः। यदि कस्यचित् पुरतः अहम् उपस्थातुम इच्छामि तर्हि मया शरीरधारणं कर्तुं सामर्थ्यं प्राप्यते। परशिवेन एव तादृशः वरः मह्यं प्रदत्तः अस्ति। आवयोः शरीरस्य आकृत्यां काचित् समानता वर्तते। आवां निकटवर्तिनौ अपि। अतः भवान् मां द्रष्टुं शक्तवान्। एषः एव विशेषः। भवान् वृषभवाहनस्य शिवस्य पुत्रः चेत् अहं गरुडवाहनस्य विष्णोः पुत्रः। मां शिवः भस्मीकृतवान्। सः एव भवतः शिरः अपि कर्तयित्वा भवन्तम् उज्जीवितवान्। मम वाहनं शुकः। भवतः वाहनं मूषिकः। मनसः विचलने समर्थाः पुष्पबाणाः मम आयुधानि। मनसः नियन्त्रणे समर्थौ पाशाङ्कुशौ भवतः आयुधे। भवतः अनुजस्य कुमारस्वामिनः अवतारः अग्रे भवेत् खलु। पार्वतीपरमेश्वरयोः अनुरागस्य तेजः एव कुमारस्वामिरूपेण अवतारं ग्रहीष्यति। तारकासुरस्य संहारः अग्रे भवेत्। अतः एव देवाः मां भस्मीकारितवन्तः। अहं कैलासं गच्छ्न् अस्मि। अनुज्ञा दीयताम्” इति उक्तवान्।

विघ्नेश्वरः उत्तररूपेण – “कामदेव, अहं तदर्थमेव कैलासतः दूरं गच्छन् अस्मि। भवान् स्वकीयं कार्यं सफलं भविष्यति” इति उक्त्वान्।
अनन्तरं कामदेवः अदृश्यः भूत्वा पार्वतिपरमेश्वरयोः निवासस्थानं कैलासमण्डपं प्राप्तवान्।
विघ्नेश्वरः स्वस्य भवनस्य सिंहद्वारस्य समीपे स्थितायाम् अमृतशिलायाम् उपविश्य प्रकृत्याः अवलोकनं कुर्वन् आनन्दम् अनुभवन् आसीत्। हिमालयस्य जलप्रपाताः मन्दगभीरस्वरेण सरिगमनादं कुर्वन्तः आसन्। तादृशे प्रशान्ते समये कश्च्न भयङ्करः स्वरः श्रुतः – “विघ्नेश्वरनामकः कुत्र अस्ति?” इति।
अल्पे एव काले गजासुररूपधारी विघ्नः विघ्नेश्वरस्य पुरतः उपस्थितः जातः। तदा भूकम्पनम् अभवत्। गजासुरः गर्जनस्वरेण – “अहं महागजासुरः अस्मि।  भवान् गजमुखधारी चेत् अहं गजकायः अस्मि। अहं भवतः संहरणार्थम् अत्र आगत्वान् अस्मि” इति उक्तवान्।
विघ्नेश्वरः बधिरः इव मुग्धस्वरेण – “रे, इक्षुदण्डान् खण्डयित्वा खादितुम् इच्छामि। भवान् मम परशुं तीक्ष्णं कृत्वा यदि ददाति तर्हि भवते अहं मोदकानि दास्यामि” इति उक्तवा परशुं गजासुरस्य दिशि क्षिप्तवान्। एतेन गजासुरस्य पादौ कर्तितौ जातौ। पर्वतः इव अधः पतितवान् गजासुरः। तदन्तः स्थितः विघ्नः चीत्कारं कुर्वन् – “महानुभाव! अहं विघ्नः अस्मि। ब्रह्मणः वरस्य कारणतः एवं गजासुरस्य रूपं धृतवान् अस्मि। मया योग्यं दण्डनं प्राप्तम्” इति उक्तवान्।

 तदा विघ्नेश्वरः शान्तस्वरेण – “अहं विघ्नानां विनाशकः विनायकः अस्मि। भवान् गजासुररूपेण स्थितः विघ्नः अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। यः मां भवन्तं च विस्मरति तं पीडयन्ति एते खण्डा। भवान् कालियनामकः सर्पः भूत्वा कालिन्दिसरोवरे तिष्ठतु। बालकृष्णः भवतः मर्दनं करिष्यति। तस्य चरणस्पर्शेन भवतः पापपरिहारः भविष्यति। उत्तमजातीयसर्पाणां फणायाः उपरि विष्णोः चरणचिह्नानि अङ्कितानि भूत्वा शोभां वर्धयिष्यन्ति” इति उक्त्वा परशुना विघ्नं खण्डशः कर्तितवान्। ते खण्डाः सर्वत्र पतिताः सन्तः अदृश्याः अभवन्। तदा विघ्नः अणुरूपेण अतिष्ठत्। देवाः प्रसन्नाः भूत्वा पुष्पवर्षणं कृतवन्तः।

अहं विघ्नविनायक: अस्मि-12

उत्तररूपेण विघ्नेश्वरः - “विघ्नेश्वरस्य विवाहे सहस्त्रं विघ्नाः इति उक्तिः एव अस्ति। एवं स्थिते मम विवाहः कथं सम्पद्येत’’ इति उक्तवान्।
तदा ब्रह्मा - “सहस्त्रशः न, कोटिशः विघ्नाः उत्पन्नाः चेदपि भवतः विवाहः भविष्यत्येव’’ इति उक्तवान्। तत्र विद्यमानाः सर्वेऽपि ब्रह्मणः वचनम् अनुमोदितवन्तः।
तदा नारदः अग्रे आगत्य - “हे विघ्नेश्वर! विवाहात् आत्मनः रक्षणम् असाध्यम्। ज्येष्ठाः वदन्ति यत् विवाहः कर्तव्यनिर्वहणं च पुरुषाणां लक्षणम् इति। एतत् सत्यं पुरस्कृत्य एव पुरुषोत्तमः आदिदेवताः च विवाहं कृत्वा सृष्टि-स्थिति-लयादिकर्तव्यं निर्वहन्तः सन्त। एवं स्थिते का स्थितिः आवयो?” इति उक्तवान्।  उत्तररूपेण विघ्नेश्वरः हसन् - “एवम्? विवाहविषये भवान् अपि आसक्तः जातः अस्ति इति भाति। स्वयंवरेषु अपि किं भागं वहन् अस्ति भवान्? “इति पृष्टवान्।
तदा नारदः - “अहम् आत्मानं त्रिकालवेदिनं भावयामि स्म। किन्तु भवान् तु अनन्तकालवेदी अस्ति। आवाम् उभौ अपि सम्भाषणचतुरौ। तर्कं कुर्वन्तौ भवावः चेत् एषः अनन्तः कालः अपि अपर्याप्तः स्यात्। भवान् तु पूर्णज्ञानी अस्ति। मादृशः अर्धज्ञानी कदाचित् मूर्खतां प्रदर्शयेत्। तदस्तु, सिद्धिः, बुद्धिः, अष्टसिद्धयः च भवन्तं वरिष्यन्ति। अतः मम मुखतः अपि श्रीरस्तु, शुभमस्तु इत्यातः एव शब्दाः निस्सरन्तु तावत्’’ इति वदन् नारदः स्वस्य ‘महति’ नामिकां’ वीणां वादयन् कल्याणीरागस्य आलापनं कृत्वा अन्ते मङ्गलगीतम् उक्तवान्। अनन्तरं सर्वेऽपि देवाः स्वनिवासं प्रति गतवन्तः। ततः शिवः पार्वत्या, गणेशेन च सह कैलासं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। केभ्यश्चित् दिनेभ्यः पूर्वं गणपतिः वज्रदन्तस्य पुच्छं गृहीत्वा क्षिप्तवान् आसीत्।
अधःपतनकारणतः वज्रदन्तस्य शरीरं क्षतग्रस्तम् आसीत्। सः अनन्तरकालेऽपि वेदनां सहमानः आसीत्। वज्रदन्तस्य पत्नी धवला पत्युः सेवायां निरता आसीत्। सा नारदं दृष्ट्वा - “एषः महाशयः पुनः कीदृशे कष्टे अस्मान् पातयिष्यति इति न ज्ञायते’’ इति चिन्तयन्ती अन्तः गतवती। 

नारदः मूषकासुरं वज्रदन्तम् उद्दिश्य - “यः भवतः अवमाननं कृतवान् सः गणपतिः इदानीं विघ्नेश्वररूपेण शोभमानः अस्ति’’ इति उक्तवान्।

अवमानकारणतः क्रोधाग्निना तप्तः वज्रदन्तः आश्चर्यचकितः सन - “आर्य! मया इदानीं किं करणीयम् इति भवान् एव उपदिशतु’’ इति प्रार्थितवान्।
तदा नारदः - “वज्रं वज्रेणैव छेत्तव्यम्। अतः प्रतीकारं साधयतु। गणपतिः इदानीं ‘विघ्नेश्वरः’ इति नाम धृतवान् अस्ति’’ इति उक्त्वा ततः निर्गतवान्।
ततः श्रुत्वा महश्वेताख्या धवला ‘विघ्नेश्वरस्य सहवासः मास्तु’ इति वज्रदन्त: बहुधा निवेदितवती। तथापि वज्रदन्तः पत्न्याः वचनं न लक्षितवान् एव। “महाश्वेते, भवत्याः सौभाग्यस्य कारणतः मम मरणभयं तु नास्ति। जातस्य अवमाननस्य प्रतीकारः कृतः चेदेव मम तृप्तिः’’ इति उक्त्वा ततः निर्गतः वज्रदन्तः उग्रं तपः आचर्य ब्रह्माणं प्रसन्नं कृतवान्। ब्रह्मा पृष्टवान् - “भवान् अन्यत् किम् इच्छति?’’ इति।

तदा मूषकासुरः - “विघ्नाय किमपि रूपं दत्त्वा तं मम आज्ञानुवर्तिनं करोतु’’ इति उक्तवान्।
ब्रह्मा विघ्नस्य आवाहनं कृत्वा वज्रदन्तस्य पुरतः उपस्थापितवान्। किन्तु वज्रदन्तेन किमपि न अदृश्यत। तदा ब्रह्मा तस्मै सूक्ष्मदर्शनार्थं दृष्टिं दत्तवान्। सामान्यनेत्राभ्यां यत् द्रष्टुं न शक्यं तादृशं विघनस्य रूपं वज्रदन्तः द्रष्टुं शक्तवान्। मूषकासुरः आश्चर्येण अपृच्छत् - “भगवन। किं एतत्? एतं स्वीकृत्य अहं किं करवाणि?’’ इति।
तदा ब्रह्मा मन्दहासपूर्वकं - “विघ्नबीजं सामान्यनेत्राभ्यां दृष्टुम् अशक्यम्। सूक्ष्मः अणुः इव अस्ति तत्। यथा सूक्ष्मजन्तुः भयङ्करं रोगं प्रसारयितुं शक्नोति तथा अनर्थदायकः विघ्नः लघुः चेत् अपि भीषणाकारं धृत्वा सर्वनाशं कर्तुं शक्नोति। कामरूपी सः। इष्टं रूपं धृत्वा अनर्थस्य उत्पादनम् एव तस्य कार्यम्। भवान् इतःपरं यत् इच्छति तत् कर्तुं शक्नोति’’ इति उक्तवान्।



अहं विघ्नविनायक: अस्मि-11


पार्वती क्षणाभ्यन्तरे स्वस्य दुखं विस्मृतवती। शिवः हस्तौ प्रसार्य शिशुम् आहूतवान्। विघ्नेश्वरः मन्दं पदानि निक्षिपन् शिवस्य समीपं गतवान्।
‘‘पुत्र, विघ्नेश्वर! भवन्तः पुत्ररूपेण प्राप्य आवां धन्यौ जातौ। चिरं जीवतु वत्स’’ इति वदन् प्रीत्या गणेशं चुम्बितवान् शिवः।
तदा विघ्नेश्वरः झटिति कूर्दनं कृत्वा “पितः, किं वदति भवान्? अहं तु भवतः पुत्रः। अतः अहम् आत्मानं धन्यं मन्ये’’ इति वदन् स्वस्य शुण्डां प्रसार्य पार्वतीपरमेश्वरयोः चरणस्पर्शं कृतवान्। तया शुण्डया स्वनेत्रे स्पृष्ट्वा प्रणामं कृतवान्। ततः परं सः विष्णुं नमस्कृतवान्।
तदा विष्णुः - “भागिनेय। आगच्छतु अत्र’’ इति उक्त्वा तं समीपे स्वीकृत्य ‘ मङ्गलम् अस्तु’ इति आशीर्वादं कृतवान्।

अनन्तरं विनायकः ब्रह्माणं नमस्कृतवान्। ब्रह्मा प्रीत्या तस्य कपोलौ स्पृशन् “हे गणपते! भवान् सर्वेभ्यः प्रथमपूजां प्राप्नोतु’’ इति आशीर्वादं कृतवान्।

पश्चात् विघ्नेश्वरः लक्ष्मीं सरस्वतीं च नमस्कृतवान्। उभे अपि विघ्नेश्वरम् अंङ्के उपवेशितवत्यौ। तदा सरस्वती पार्वतीं दृष्ट्वा “पुत्रेण गणपतिना पूर्वम् एव उक्तम् अस्ति यत् वयं तिस्रः मातरः अपि सहोदर्यः एव इति। अनन्तरं वयं पार्थक्येन अवतारं ग्रहीतवत्यः। सागरात् लक्ष्मीः, ब्रह्मंणः जिह्वातः अहम्  , प्रथमदक्षतः सतीदेवीरूपेण भवती च अवतारं प्राप्तवत्यः। विद्यावतीनामिका बुद्धिः विघ्नेश्वरस्य पत्नी भविष्यति। इतःपरं अस्माभिः विघ्नेश्वरस्य विवाहवैभवं द्रष्टव्यम् अस्ति’’ इति उक्तवती।
 सरस्वत्याः वचनं श्रुत्वा लक्ष्मीः “लक्ष्मीकरे विघ्नेश्वरे ये विश्वसन्ति तेषु अहं स्थिरतया वासं करिष्यामि। या अग्रे विघ्नेश्वरस्य पत्नी भविष्यति सा सिद्धिस्वरूपिणी जयलक्ष्मीः मम अंशात् एव उद्भूता अस्ति’’ इति उक्तवती।
तदा सरस्वती - “विघ्नेश्वरः ज्ञानप्रदाता, विज्ञानदायकः चापि। अतः वर्णमालायाः अभ्यासात् पूर्वं बालानां द्वारा हरिद्रया पिण्डनिर्माणं कारणीयम्। तत् पिण्डम् विघ्नेश्वरं मत्वा पूजां कारयित्वा ‘ॐ नमः’ इति लेखनीयम्। मम अंशात् उद्भूता विद्यावती बुद्धिरूपिणी अस्ति। सा अपि विनायकस्य पत्नी भविष्यति’’ इति उक्तवती।
एतत् श्रुत्वा विघ्नेश्वरः मुग्धतां प्रदर्शयन् सर्वान् अवलोक्य – “भवन्तः पश्यन्तः सन्ति खलु ‘ज्येष्ठानां व्यवहारः कथम् अस्ति’ इति। विवाहं कृत्वा कष्टम् अनुभवन्त्यः एताः तादृशानि कष्टानि मया अपि अनुभवितव्यानि इति उद्देशेन मम विवाहविषये त्वरन्ते। मां सुखेन स्थातुं न त्यजन्ति एताः। पुत्राणां विवाहविषये मातृणां त्वरा तु किञ्चित् अधिका एव” इति उक्त्तवान्।
विघनेश्वरस्य वचनानि श्रुत्वा विष्णुः – “भो! वत्स। विषयः तथा नास्ति। अष्टैश्चर्यकारिकाः आणिमादयः अष्टसिद्धयः सुन्दरनक्षत्राणां रूपं धृत्वा पूर्णचन्द्रस्य सेवां यथा कुर्वत्यः सन्ति तथा भवतः अपि सेवां कुर्वन्तु इति अस्माकम् इच्छा। अचिरात् एव ताभिः सेव्यमानं भवन्तं द्रष्टुम् इच्छामः वयम्” इति उक्तवान्।
तदा विघ्नेश्वरः – “एवम्? तर्हि भवान् कृष्णावतारसमये अष्टमहिषीभिः सह कष्टं सहमानः आनन्दम् अनुभवतु कामम्” इति उक्त्तवान्।
तदा विष्णुः मन्दहासपूर्वकं – “भवता उक्त्तम् अवितथम् एव भविष्यति। किन्तु भवता तु दश वध्वः परिणेतव्याः भविष्यन्ति’’ इति उक्तवान्।





अहं विघ्नविनायक: अस्मि -10

तदा विघ्नेश्वर: गम्भीरस्वरेण – ‘‘शिवभक्तानाम् एतत् सम्मेलनम् एव विश्वम्। अहं तु विश्वजननीजनकयो: पार्वतीशङ्करयो: पुत्र: अस्मि। अत: अहं करौ योजयित्वा तौ नमस्करोमि आदौ’’ इति उक्त्वा शिवं पार्वतीं च भक्त्या नमस्कृतवान्।
ब्रह्मा अग्रे आगत्य अवदत् – “मत्स्यावतारं प्राप्य विष्णु: सोमकासुरस्य संहारं कृत्वा वेदानां रक्षणं कृतवान्। तदापूर्णचन्द्रकान्तिं प्रसारयन् विघ्नेश्वरः प्रकटीभूय तान् मदधीनान्  कृतवान्। ततः मया ज्ञानं प्राप्तम्। तदा एव मया विघ्नेश्वरस्य बहवः विशेषाः अवगताः। विघ्नेश्वरः सङ्कल्पसृष्टे: मूलम्। तं ध्यात्वा एव अहं सृष्टेः आरम्भं कृतवान्।
विघ्नेश्वरस्य विराट्स्वरूपम्। सः सर्वत्र व्याप्तः अस्ति। अतः सः ‘विष्णुः’ इति उच्यते। आकाशः, वायुः, अग्निः, जलं, पृथिवी इत्येतेषां पञ्चानां भूतानाम् अधिपतिः अस्ति सः। अतः सः ‘महागणपतिः’ इति उच्यते। विश्वरूपिणः विघ्नेश्वरस्य शरीरे लक्ष्मीः सरस्वती च विराजते। एतस्य श्वेतनील–रक्त–श्यमनील–हरित–श्वेत–शिरांसि पञ्चमहाभूतानां प्रतीकभूतानि सन्ति। गजस्य शिरः बलस्य मेधाशक्तेः च प्रतीकम्। मुखं गजस्य भवति चेत् न पर्याप्तं, तेनैव सह बौद्धिकसामर्थ्यम् अपि भवेत् इति अर्थं सूचयति एतत्। अनन्ते आकाशे नक्षत्रमण्डलानि, ग्रहाः, उपग्रहाः, च सन्ति इति लम्बोदरत्वं स्मारयति। एषः लघुमूषकम् आरुह्म भ्रमति। एतस्य अर्थः अस्ति यत् सूर्यचन्द्रग्रहादयः महामण्डलानि च शून्ये आकाशे अत्यन्तं कुशलतया सञ्चरणे समर्थाः सन्ति इति। विघ्नेश्वरस्य यात्रा अपि विचित्रा, वैज्ञानिकी च। विघ्नेश्वरः विश्वज्ञानस्य सङ्केतः अस्ति। अतः तं विज्ञानेश्वररूपेणापि अभिजानन्ति जनाः।
सः विश्वस्य अधिनेता, नियन्ता, अङ्कुशधारी च। विघ्नेश्वरः बुद्धिबलयोः प्रतीकम् अस्ति। येन हस्तिपकः गजं नियन्त्रयति तम् अङ्कुशं धृत्वान् अस्ति एषः गणेशः। अङ्कुशः मनोनिग्रहसाधनस्य प्रतीकम्। विघ्नेश्वरस्य हस्ते विद्यमानः पाशः सूचयति यत् सर्वे स्वकीयेन धर्मेण बद्धाः सन्ति इति। परिपूर्णता पूर्णरूपेण पूर्णः सागरः इव। अतः सः कलशधारणं कृतवान् अस्ति। परशुः विघ्नान् छिनत्ति। अतः एव तेन  परशुधारणं कुर्वता स्वस्य विघ्ननिवारणसामर्थ्यं निरूपितम् अस्ति विश्वः नदात्मकः अस्ति। ओङ्कारस्य झङ्करणे समर्थायाः विश्ववीणायाः तन्त्रीः स्पृशन् झङ्कारं कुर्वन् अस्ति विघ्नेश्वरः। कोटिशः चराचरप्राणिनां कष्टसुखानि श्रोतुम् एव तस्य कर्णौ विशालौ स्तः। गजस्य नेत्रे लघ्वाकारे भवत:|

किन्तु सूक्ष्मदर्शिनी भवतः। सर्वं स्पष्टतया द्रष्टुं सामर्थ्यं भवति तयोः। विघ्नेश्वरः आ परमाणुतः आब्रह्माण्डं परिशीलनं करोति। वक्रा शुण्डा वक्रतां निवारयति। शुण्डा दीर्घा भूत्वा सर्वं स्प्रष्टुं, सर्वेभ्यः दातुं  च शक्नोति। समस्तायाः सम्पदः अधिपतिः अस्ति विघ्नेश्वरः। सः भोजनप्रियः। आहारेण शरीरे बलं भवति। शरीरे पुष्टता भवति चेत् एव बुद्धिबलस्य सम्भवः। अतः विघ्नेश्वरः फलानि, पक्वान्नानि, शाकाहारं च सहर्षं स्वीकरोति। भाद्रपदमासे एषः गजसदृशमेघद्वारा शुण्डासदृशीं वर्षाधारां कारयति। मेघगणस्यापि नाथः अस्ति एषः गणनाथः। विघ्नेश्वरः भाद्रपदमासे एव अवतारं गृहीतवान्। यः भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां विघ्नेश्वरस्य पूजां करोति तेन सङ्कल्पसिद्धिः प्राप्यते। विघ्नानां सम्मुखी करणार्थं शक्तिः मनोधैर्यं च तेन प्राप्यते।
पञ्चमवेदः इति प्रख्यातस्य महाभारतस्य लेखनं विघ्नेश्वरेण एव कृतम्। विघ्नेश्वरस्य महिमवर्णनं सुकरं न। यस्य कस्यापि कार्यस्य आरम्भकरणात् पूर्वं विघ्नेश्वरं ध्यात्वा पूजा क्रियते चेत् शुभं भवति इति जनानां विश्वासः। अतः एव विघ्नेश्वरस्य हस्तः सर्वदा अभयमुद्रायुक्तः दृश्यते। महागणाधिपतिः सर्वेषाम् आराध्यदैवम् अस्ति” एवम् उक्त्वा ब्रह्मा विघ्नेश्वरस्य वृत्तान्तं समापितवान्। तदा शिवः सर्वान् अवलोक्य – “ब्रह्मणः वचनं श्रुतुं किम्? प्रथमपूजार्थं योग्यः देवः विघ्नेशः एव इति अवगतं खलु?” इति उक्त्वान्।
 सर्वे अङ्गीकारपूर्वकं शिरः चालितवन्तः। नारदः स्वस्य वीणया हंसध्वनिरागं कृतवान्। सरस्वती हंसनन्दीरागस्य आलापनं कृतवती। यदा पार्वती विघ्नेश्वरं नमस्कर्तुम् उद्युक्ता तदा विश्वरूपः महागणाधिपतिः तां निवारयन् – “मातः, मास्तु मास्तु। एवं मा करोतु” इति उक्त्वा स्वस्य विश्वस्य विश्व्वरूपस्य उपसंहारं कृत्वा पूर्ववत् बालविनायकः भूत्वा मातुः चरणौ गृहीतवान्।
कैप्शन जोड़ें

अहं विघ्नविनायक: अस्मि -09

तदा क्रोधमूर्च्छितः इन्द्रः शापं दत्तवान् – “भवतः शिरः कर्तितं भवतु” इति। एतत् श्रुत्वा गजेन्द्रः हसन् उक्तवान् – “शिवस्य आज्ञां विना तृणम् अपि न चलति। यत् शिरः भवता निन्दितं तस्य पुरतः एव भवता अपि स्वशिरः अवनमनीयं स्यात् कदाचित्। स्मरतु एतत्” इति।
गजेन्द्रः महाज्ञानी इति गर्वान्धः देवेन्द्रः न जानाति स्म। सः गर्वेण – “शिवे भक्तिः खलु भवतः? सः शिवः एव भवन्तं रक्षतु। भूलोके गत्वा पततु” इति वदन् भूलोकं प्रति गजेन्द्रस्य नोदनं कृतवान्। तस्मात् गजेन्द्रः सह्यपर्वते अपतत्, शिवं निरन्तरं  स्मरन् अतिष्ठत् च। उत्तरदिशि शिवस्य निवासस्थानम् अस्तीति कारणतः तस्यां दिशि स्वशिरः कृत्वा शयनम् अकरोत् सः।

प्रमथगणीयाः गजेन्द्रस्य शिरः कर्तयित्वा नीतवन्तः। यदा ते तत् गणपतिमुण्डे योजितवन्तः तदा गजमुखः गणपतिः जीवं प्राप्य उत्थितवान्। “मम पुत्रस्य एतादृशं मुखम्! एतत् अहं द्रष्टुं न शक्नोमि” इति वदन्ती नेत्रे निमीलितवती।
तदा गजमुखः मधुरस्वरेण अवदत् – “अम्ब! किमर्थं दुःखं भवत्याः? यत् भवेत् तत् जातम् एव निर्विघ्नतया। भवती एकस्मिन् दिने भितौ गजचित्रं दृष्टवती आसीत् खलु? तत्र दृष्टः अहम् एव। विघ्नेश्वरोऽस्मि अहम्” इति।
पार्वती झटिति तां घटनां स्मृत्वती। शिवः अपि तां घटनां स्मृतवान्।
“विघ्नेश्वर! सः एव भवान् मम पुत्रत्वेन जन्म प्राप्तवान् अस्ति। किम् एतदर्थम् एव मां क्रोधितं कृतवान्? सर्वम् अवगतं मया। भवतः लीला अपूर्वा” इति अवदत् शिवः।

“यदि अहम् एवं न कुर्यां तर्हि भवान् कथं वा गजासुराय दत्तं वचनं स्मारितवान्। तत् श्रुत्वा हर्षं प्रकटयन् शिवः – “सत्यम्, दत्तं वचनं स्मारयता भवता युक्तम् एव कृतम्। दत्तस्य वचनस्य अनुगुणं मया गजचर्म धरणीयं खलु” इति वदन् गजचर्म आनाय्य धृतवान्।
ततः शिवः विघ्नेश्वरस्य पुरतः शिरः अवनमय्य – “विघ्नेश्वर! भवतः विश्वरूपं दर्शयतु कृपया” इति।
तदा विघ्नेश्वरः आकाशं यावत् पृवृद्धः सन् अतिष्ठत्। तस्य पञ्च शिरांसि आसन्। पृथिव्यप्तेजोवाय्वाकाशानां पञ्चभूतानां ये वर्णाः आसन् तैः वर्णै: तानि मुखानि शोभन्ते स्म। तेषां पञ्चभूतानां वर्णाश्च – हरित्, श्यामः, रक्तः, श्वेतः, नीलः च। तस्य शिरस्सु नक्षत्राणि पुष्पाणि इव शोभन्ते स्म। तस्य केशाः आकाशे विकीर्णाः आसन्। तस्य विविधेषु हस्तेषु अङ्कुशः, परशुः पाशः, कलशः शङ्खः, चक्रं, गदा, त्रिशूलं, वज्रायुधम् इत्यादयः आसन्। एवमेव जपमाला, कमण्डलुः, वीणा, खड्गः, शक्तिः, शूलम् इत्यादः अपि आसन्। आकाशस्थशिरकस्य तस्य तेजोमयं मुखं द्रष्टुम् अशक्नुवन्तः द्रष्टारः स्वमुख्म् अधः कृतवन्तः। सर्वे अनिर्वचनीयम् आनन्दं प्राप्तवन्तः।
सरस्वती वीणाम् उन्नीय विघ्नेस्वरस्य प्रियं रागं हंसध्वनिम् आलापितवती। नारदः मायामालवरागस्य आलापनं कृतवान्। शिवः आनन्देन ताण्डवनृत्यं कृतवान्। इन्द्रादय: त्रयस्त्रिंशत्कोटिदेवा: शिर: अवनमय्य प्रणामं कृतवन्त:। एवं प्रणामसमये – ‘यत् उपेक्षितं तस्य शिरस: पुरत: भवता अपि कदाचित् अवनमनीयं भवेत्’ इत्येतत् गजेन्द्रेण उक्तं वचनम् इन्द्रस्य मनसि आगतम्। स: जानाति स्म गणपते: मुण्डे गजेन्द्रस्य शिर: योजितम् अस्ति इति। अंत: स: स्वकर्णौ: हस्ताभ्यां गृहीत्वा त्रिवारम् उपविश्य उत्थाय साष्टाङ्ग नमस्कृत्य अवदत् – ‘‘गजेन्द्र! भवान् महाज्ञानी अस्ति। अहम् अज्ञानी अस्मि। मया गर्व: य: प्रदर्शित: तदर्थं क्षमा प्रदर्शनीया’’ इति। अन्ये देवा: अपि ज्ञानेन अज्ञानेन वा कृतस्य अपराधस्य निमित्तं क्षमां याचितवन्त:। विश्वरूपं धृतवन्तं विघ्नेश्वरम् उद्दिश्य शिव: अवदत् – ‘‘विघ्नेश्वर! भवत: रूपस्य वैशिष्ट्यानि कानि इति ज्ञातुं वयं समुत्सुका: स्म:’’ इति।


अहं विघ्नविनायक: अस्मि -08

पुत्रस्य गणपतेः आक्रन्दनं श्रुत्वा पार्वती धावन्ति आगतवती। कर्तितं शिरः दृष्ट्वा सा शिवं क्रोधेन पश्यन्ती अवदत् - “किम् एतत् कृतं भवता? पुत्रः एव निहतः खलु! पुत्रघातकः भवान्!” इति ततः सा दुःखं सोढुम् अशक्नुवती भूमौ पतित्वा उच्चस्वरेण रोदनं कृतवती।
एतां घटनाम् अत्याश्चर्येण पश्यन्तः तत्र स्थिताः सर्वे स्तब्धाः अभवन्। अपराधिनम् इव शिवं कुतूहलपूर्णदृष्ट्या दृष्टवन्तः ते। एतस्मात् शिवः स्वेदेन क्लिन्नः जातः। सः मन्दस्वरेण पार्वतीम् अपृच्छत् – “किम् एतत् वदति भवती? अवयोः कश्चन पुत्रः अस्ति इति इदानीम् एव श्रुतं मया। आवयोः पुत्रः कः? सः कथं पुत्रत्वं प्राप्तवान्? कुतः आगतः सः?” इति।
तदा पार्वती गद्गदकण्ठा सती एव गणपतिजननविचारम् उक्तवती। सर्वं श्रुत्वा शिवः असम्मतिपूर्वकम् उक्तवान् – “एतं स्वपुत्रं भावितवती स्यात् भवती। किन्तु एषः आवयोः पुत्रः कथं भवेत्? एतं पुत्रं भावयन्ती भवती मां बहुधा निन्दितवती। तदस्तु नाम, एषः मम पुत्रः कथं भवितुम् अहर्ति?” इति।
एतत् श्रुत्वा पार्वती निर्वचना जाता। तदा विष्णुः ब्रह्माणं नेत्रसङ्केतेन सूचितवान् । ब्रह्मा अग्रे आगत्य अवदत् – “यदा शिवः पार्वत्याः पाणिं गृहीतवान् तदा एव शिवस्य तेजः पार्वतीं प्र्राविशत्। तस्मात् सा पुलकिता जाता अपि। ततः आरभ्य पार्वती शिवस्य अर्धभागेन, शिवश्च पार्वत्याः अर्धभागेन च युक्त्तौ जातौ। एवं गणपतिः शिवस्यापि पुत्रः एव” इति।
पार्वती तु शिवेन सान्त्व्यमाना अपि गणपतेः शवस्य उपरि पतित्वा रोदनं कुर्वती आसीत्। तद अशरीरवाणी काचित् श्रुता – “उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः शिरः आनयन्तु, एतेन मुण्डेन योजयन्तु च। तदा अहं जीवितः भविष्यामि” इति। गणपतेः एतं ध्वनिं सर्वे आश्चर्येण श्रुतवन्तः।
 तस्मिन् एव क्षणे प्रमथगणीयाः उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः अन्वेषणार्थं गतवन्तः| बहुधा अन्वेषणेन अपि तैः तादृशः कोऽपि जनः न दृष्टः एव।
तथापि ते पराजयम् अङ्गीकर्तुं न सिद्धाः। ते अन्वेषणम् अनुवर्तितवन्तः| सह्यापर्वतस्य कस्याञ्चित् गुहायां तैः कश्चन करिकलभः दृष्टः| सः उत्तरदिशि शिरः संस्थाप्य शयनं कृतवान् आसीत्। निद्रावस्थायाम् अपि सः शिवस्य नाम्नः स्मरणं करोति स्म निरन्तरम्।
सः करिकलाभः न अन्यः, अपि तु देवगजस्य ऐरावतस्य पुत्रः गजेन्द्रः एव। ऐरावतः देवेन्द्रस्य वाहनम्। कदाचित् इन्द्रः देवलोकमार्गेण यदा गच्छन् आसीत् तदा ऐरावतपुत्रः गजेन्द्रः इन्द्रस्य दिशि अवधानम् अयच्छन् ध्यानमग्नः आसीत्। एताम् उपेक्षाम् असहमानः इन्द्रः क्रोधेन गर्जितवान्- “मम वाहनभूतस्य पुत्रस्यापि भवतः एतावान् गर्वः!” इति।
तदा गजेन्द्रः शान्तस्वरेण अवदत् – “मम पिता भवतः सेवकत्वेन कर्तव्यं निर्वहन् अस्ति, न अहम्। अतः भवत्तः मया भीतिः प्राप्तव्या नास्ति” इति।
‘‘अये! गजपुत्र! भवान् किं न जानाति यत् अहं देवानाम् इन्द्रः इति?” इति गर्वेण एव अपृच्छ्त् इन्द्रः|
 “आं, जानामि। भवान् देवेन्द्रः चेत् अहं गजेन्द्रोऽस्मि। कश्चन नागेन्द्रः भवति, अपरः खगेन्द्रः भवति। एवम् इन्द्राः बहवः भवितुम् अर्हन्ति। शतं यज्ञान् कृतवान् यः कोऽपि इन्द्रपदवीं प्राप्तुम् अर्हति। तपस्यया यत्किमपि साधयितुं शक्यते। अतः एव कस्यचित् तपः दृष्ट्वा भवान् अपि भीतिम् अनुभवति। इन्द्रत्वं तावत् श्रेष्ठं न, यावत् भवान् भावयति। अतः अलम्  अधिकगर्वेण” इति अवदत् गजेन्द्रः|