Wednesday 5 June 2013

अहं विघ्नविनायक: अस्मि-14


“विघ्नेश्वरः! इदानीं भवता गजासुरस्य संहारः कृतः। एतस्य स्मरणार्थं गणपतिनवरात्रोत्सवः चिरकालं यावत् सवैभवम् आचरिष्यते। इतः अग्रे जनाः किमपि कल्याणकारि कार्यं यदा करिष्यन्ति तदा भवतः उत्सवम् अपि आचरिष्यन्ति, सफलतां च प्राप्स्यन्ति’’ इति अशरीरवाणी श्रुता। एतत् श्रुत्वा विष्णुः विघ्नेश्वरम् उक्तवान् “पार्वतीनन्दन! भवान् मम भागिनेयः अस्ति । अतः मम दायित्वानि वर्धमानानि सन्ति “इति।
तदा गणपतिः उक्तवान् “आम्। भवान् अग्रे कंसस्य भागिनेयसम्बन्धं प्राप्य तं संहरिष्यति खलु? राक्षससंहारविद्या तु भवता एव बोधिता “इति।
“हे विघ्नविनाशक! स्यान्नाम तथा। किन्तु भवतः परशोः सामर्थ्यात् मम चक्रायुधं सर्वथा अवरम्। भवतः परशोः कौशलं दृष्टवतः मम महान् आनन्दः भवति” इति अवदत् विष्णुः।
एतत् श्रुत्वा विघ्नेश्वरः अवदत् “मम परशोः ग्रहणे इच्छा भवतः। अतः एव भवान् अग्रे परशुरामावतारं प्राप्य मम परशुं गृहीत्वा गर्वोद्धतान् क्षत्रियान् नाशयिष्यति” इति।
“विघ्नेश्वर! गजरूपिणः विघ्नासुरस्य उपरि स्थित्वा भवान् पादाभ्यां यदा मर्दयन् आसीत् तदा अहं भवतः वामनरूपं दृष्ट्वा आनन्दाब्धौ निमग्नः” इति अवदत् विष्णुः।
“भवान् अपि अग्रे कदाचित् वामनावतारं प्राप्य बलिचक्रवर्तिनं पादाघातैः पातालं प्रेषयिष्यति” इति अवदत् विघ्नेश्वरः।
‘‘भवतः बुद्धिः वर्णनातीता अस्ति’’ इति अवदत् विष्णुः।
“भवतः अवताराणाम् उद्देशः धर्मस्य स्थापनम्। यदा समाजे अन्धविश्वासहिंसादयः प्रवृद्धाः भविष्यन्ति तदा भवान् बुद्धः सन् योग्यस्य सामाजिकजीवनस्य निर्वाणस्य च उपदेशं करिष्यति। मायादेव्याः स्वप्ने श्वेतगजः गर्भं प्रविष्टवान् दृश्यते तदा। ततः भवान् सिद्धार्थनाम्ना जन्म प्राप्स्यति’’ इति
अवदत् गणपतिः।
एतस्य संवादस्य कारणतः विष्णुः नितरां सन्तुष्ट:। ततः परमाणुरूपेण स्थितः विघ्नः अवदत् – “हे विघ्नराज! अहं भवतः दासः अस्मि। मया इदानीं किं करणीयम् इति आदिश्यताम्। भवतः आज्ञाम् अक्षरशः पालयिष्यामि अहम्” इति। ततः स: विघ्नेश्वरस्य अनुज्ञां प्राप्य कालिन्दीतटाकं प्राप्य कालियरूपेण तत्र न्यवसत्।
विघ्नस्य निर्गमनस्य अनन्तरं मूषकासुरः मूषकरूपेण तत्र आगतवान्। कालियवेषेण अज्ञाततया वासं कुर्वतः विघ्नस्य स्थितिं दृष्ट्वा नितरां खिन्नः क्रुद्धः च सः स्वस्य नैजं रूपं धृत्वा विघ्नेश्वरस्य पुरतः तिष्ठन् सिंहनादं कृतवान्।
विघ्नेश्वरः मूषकासुरस्य बलयुतं देहं सन्तुष्टिपूर्वकं दृष्टवान्। मूषकासुरः अट्टहासं प्रकटयन् – “अये विघ्नेश्वर! विघ्नः तु भवतः दासः। अतः यथा भवतः आज्ञा तथा व्यवहारः तदीयं कर्तव्यम्। किन्तु अहं तु भवतः दासः नास्मि, प्रत्युत शत्रुः अस्मि। भवान् ‘सिंहस्वप्न’ शब्दं श्रुतवान् स्यात् खलु? अहं सिंहः भूत्वा भवतः गण्डस्थलं विदारयिष्यामि” इति उक्त्वा सिंहरूपं धृत्वा उच्चैः गर्जनं कृतवान।
एतत् श्रुत्वा विघ्नराजः अवदत – “हे सिंह! भवान् जगज्जनन्याः वाहनम्। अतः अहं भवन्तम् आदरेण एव पश्यामि” इति।
किन्तु सिंहः विघ्नेश्वरस्य आदरभावं तृणीकृत्य आक्रमणार्थम् आगतः। तदा विघ्नेश्वरः उपविश्य एव – “ हे शिव! हे शम्भो!” इति अवदत्। अनन्तरक्षणे एव शिवः शरभावतारं प्राप्य सिंहस्य पुरतः स्थित्वा अगर्जत्। शरभस्य शरीरं सिंहवत् आसीत्। तस्य कण्ठे केसराः आसन्। किन्तु मुखं गजस्य इव। दीर्घा शुण्डा आसीत् मुखे। उभौ हस्तौ अपि आस्तां तस्य। तदीयं पुच्छं सर्पाकारकम्। पुच्छस्य अन्ते अग्निम् उद्वमत् मकरमुखम् आसीत्। शरभः सकृत् गर्जनं कृत्वा स्वशुण्डया सिंहं मुखे बलात् प्राहरत्। तदा सिंहः क्रन्दन् ततः पलायनम् अकरोत्। शरभस्तु अदृश्यतां गतः।
विघ्नेश्वरः स्वस्य शुण्डां दीर्घतया प्रसार्य धावतं सिंहं झटिति गृहीतवान्। तम् उन्नीय अतिष्ठत् च। तस्मिन् समये नारदः आकाशे स्थित्वा हिन्दोलरागेण गीतवान्।


Tuesday 4 June 2013

अङ्गुळीयकदर्शनम्

लघुनाटिका

(रङ्गस्थले नगररक्षकः तस्य पश्चात् कञ्चन पुरुषं बद्ध्वा रक्षकभटौ च
प्रविशन्ति)

रक्षकभटौ------(पुरुषं ताडयित्वा) अरे चोर, कथय,कुत्र त्वया एतत् राजकीयम्
अङ्गुळीयकं सम्पादितम्?
बद्धपुरुषः------(भीतिं नाटयन्) अनुगृह्णन्तु भोः। अहं न चोरः।
प्रथमः रक्षकभटः----किं शोभनो ब्राह्मणः इति मत्त्वा राज्ञा बहुमतिं
प्राप्तोऽसि?
बद्धपुरुषः----श्रुण्वन्तु भोः। अहं शक्रतीर्थसमीपवासी मत्स्यकारः।
द्वितीयः रक्षकभटः---रे मूर्ख, किम् अस्माभिः जातिः पृष्टा?
प्र.रक्षकभटः-----कथय सर्वं। एतत् अङ्गुळीयकं कथं सम्पादितम्?
बद्धपुरुषः------अहं जालोद्गारादिभिः मत्यबन्धनोपायैः मत्स्यान् सङ्गृह्य
कुटुम्बं पोषयन् जीवामि।
द्वि.रक्षकभटः-----ततः.......
बद्धपुरुषः-------एकदा एकं रोहितमत्स्यं लब्धवान्। तं गृहं आनीय खण्डितवान्।
तदा तस्य उदरे एतत् अङ्गुळीयकं दृष्टम्।एतं विक्रयाय विपणिम्
आनीतवान्। एवं बद्धोऽस्मि। मारयन्तु वा मोचयन्तु वा।
रक्षकभटौ----- आगच्छतु। राजसन्निधिं गच्छामः। तत्र अङ्गुळीयकविषये
विमर्शयितव्याम्।
(सर्वे निष्क्रान्ताः भवन्ति------राजभवनं गच्छन्ति)
द्वितीयं दृश्यम्------
(राजपुरुषः------रक्षकभटौ--------मत्स्यकारः-------रङ्गस्थले तिष्ठन्ति)
राजपुरुषः-------(रक्षकभटौ उद्दिश्य) अङ्गुळीयकं दर्शयन्तु।
रक्षकभटः------भोः इदं तत् अङ्गुळीयकम्।( अङ्गुळीयकं राजपुरुषाय ददाति)
(राजपुरुषः------ अङ्गुळीयकं स्वीकृत्य राज्ञः समीपं गत्वा अङ्गुळीयकं कथं
लब्धमिति सर्वं कथयित्वा पुनः आगच्छति)
राजपुरुषः--------सर्वं ज्ञातम्। एतत् अङ्गुळीयकं राज्ञ्याः सम्बन्धि।
शक्रतीर्थे तस्याः हस्तात् स्रस्तम्।मत्स्येन ग्रस्तम्।मत्स्यकारेण लब्धम्।
अत्र विषये मत्स्यकारस्य दोषः नास्ति। मत्स्यकारं
मोचयन्तु।
रक्षकभटः--------(मत्स्यकारम् उद्दिश्य) यमसदनं प्रविश्य प्रतिनिवृत्तोऽसि।
(इति शृङ्खलं निवर्तयति)
मत्स्यकारः----अनुगृहीतोऽस्मि प्रभुणा।
राजपुरुषः------गृह्णातु इदं पारितोषिकम्।(सुवर्णनाणकम् एकम् मत्स्यकाराय
ददाति)
(सर्वे निष्क्रमन्ति)