Monday 1 June 2015

प्रतिशोधः

एकस्‍य राज्ञः भोजनालये दासी च एका महानस्‍य सर्वम् कार्यजातम् सम्‍भालयति स्‍म। राजा मेषम् एकम् पालितवान्। राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म। अत एव सर्वतन्‍त्रस्वतन्‍त्रः अयम् मेषः भोजनालये हानिम् उत्‍पादयति। किम् करोतु सा दासी? कथम् राज्ञः कोपभाजनम् भवेत् सा। दासी मेषयः मध्‍ये द्वन्‍द्वम् एतत् नित्‍यम् प्रचलति स्‍म। भोजनालयस्‍य पृष्ठभागे फलवृक्षाणाम् उद्यानम् आसीत्। वानराः उद्याने अस्मिन् भ्रमन्ति स्‍म। यूथाधिपतिः वृद्धः वानरः दासीम् एषयोः मध्‍ये द्वन्‍द्वयुद्धम् एतत् नित्‍यम् पश्‍यति स्‍म।
सः स्‍वपरिवारस्‍य वानरान् एकत्रितान् कृत्‍वा अकथयत्- "मित्र तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्। अतः अस्‍माभिः अन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम्।"
वानराः प्रोचुः- "दासीमेषयोः संघर्षेण अस्‍माकम् किम् प्रयोजनम्?" यूथपतिः तस्‍मात् अन्‍यत्र गतवान् एकाकी च न्‍यवसत्।
एकदा मेषः अयम् बहुदिनानन्‍तरम् दैत्‍यः इव महानसे प्राविशत्। उत्‍पातम् कर्तुम् आरेभे। क्रोधावेशे दासी चुल्‍लीतः ज्‍वलद् उल्‍मुकम् निष्‍कास्‍य मेषस्‍य उपरि प्रचिक्षेप। ऊर्णरोमान्वितः अयम् मेष ज्‍वलितुम् लग्‍नः। दिङ्मूढः अयम् अश्‍वशालायाम् प्रविष्टः घासनिकरे। अश्‍वशालायाम् अग्निर्व्‍याप्‍तः। शतशः च अश्‍वाः मृताः च अन्‍ये दग्‍धदेहाः च इतस्ततः पलायितुम् लग्‍नाः दुष्टः मेषः च मृतः। काठिन्‍येन अग्निशमनम् कृतवन्‍तः राज्‍यकर्मचारिणः राजा अपि घटनास्‍थलम् आगतः।
अर्द्धदग्‍धानाम् अश्‍वानाम् दशाम् विलोक्‍य राजा कुशलान् अश्‍ववैद्यान् आकार्य अपृच्‍छत् मर्मज्ञा वैद्याः च अब्रुवन्। वानराणाम् वसामर्दनेन अश्‍वानाम् व्रणाः प्रपूर्यन्‍ते।
राज्ञाप्तम्- समीपस्थान् वानरान् गृहीत्‍वा नयन्‍तु तेषाम् वसाभिः अश्‍वानाम् उपचारः भविष्‍यति।
तत्रत्याः सर्वे वानराः समाप्ताः।
किञ्चित् कालानन्तरम् सः वृद्धः वानरः च इतस्ततः पर्यटन् तत्र सम्‍प्राप्तः। मनसि दुःखितः अयम् व्‍यचारयत् यत् अनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेदः कृतः। अहम् अपि अस्‍य परिजनानाम् समूलोच्छेदम् विधास्‍यामि। सः युक्तिम् एकाम् व्‍यचारयत्।
गहनाद् वनात् अपरिचितफलम् एकम् आनीय राज्ञः समक्षम् प्रास्‍तौत्। विनम्रस्‍वरेण आह- "अमरफलम् एकम् आनीतवान् अस्मि।"
राजा ब्रूते- "किम् रहस्‍यम् वर्तते च अमृतफलस्‍य।"
वृद्धवानरः प्राह- "अस्‍य भक्षणेन अमरत्‍वम् इति प्राणी। दुर्लभफलम् एतत् महता श्रमेण मया भवतः कृते समानीतम्।"
राजा प्राह- "यदि सत्‍यम् एतत् तर्हि मत्‍ समस्‍त परिवारस्‍य कृते च अमरफलानि आनयतु येन सर्वे अमराः भवेयुः।"
महतोत्‍साहेन वानरः प्रोवाच- "राजन्! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि। तानि फलानि प्राप्‍त्यर्थम् समुद्रयात्रा करणीया भवति। प्रलम्‍बा इयम् यात्रा! तस्मिन् द्वीपे वर्तते हि अमरफलानाम् वृक्षः। समस्‍ते च अन्‍तःपुरे वार्ता इयम् प्रभृता। वानरः राजानम् न्‍यवारयत् समुद्रयात्रार्थम्- "भवान् अत्र राज्‍यव्‍यवस्‍थाम् अपि सम्‍भालयिष्‍यन्ति।"
वानरस्‍य कथनम् विश्‍वस्‍तः सन् राजा एकाकी तत्रैव स्थितः। अन्‍ये परिजनाः समुद्रयात्रार्थम् निर्गताः। सहसा च एकदा तेषाम् जलयानम् झञ्झावातेन छिन्‍नभिन्‍नम् अभवत्। समस्‍तः राजपरिवारः समुद्रस्‍य अगाधे जले निमग्नः। राजा जलयानम् प्रतीक्षते परम् अनेके मासाः व्‍यतीताः।
एकदा राजा वानरम् पृष्टवान्- "वानर! जलयानम् अद्यावधिः कथम् न प्रतिनिवृत्तम्?"
वानरः झटिति प्रोवाच- "राजन्! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्यागमनस्‍य। एतत् सर्वम् तु मया प्रतिशोधार्थम् एव कृतम्। यथा अहम् एकाकी भ्रमन् अस्मि यूथेन विना तथैव भवान् अपि एकाकी भ्रमतु। ध्‍यानपूर्वकम् सर्वे अशृण्‍वन् राजा किम् कर्तव्‍यविमूढः जातः। भयंकर प्रतिशोधस्य अयम् परिणामः। मित्र! तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्।