Saturday, 22 December 2012

अहं विघ्नविनायक: अस्मि -07

 शिवपार्वत्योः विवाहः महता वैभवेन सम्पन्नः | हिमालयपर्वते शिवः पार्वती च यत्र तपः कृतवन्तौ तत्र विश्वकर्मा एकं सुन्दरम् अन्तःपुरं निर्मितवान् |
शिवपार्वत्यौ येन मार्गेण अन्तःपुरं प्रति गच्छतः स्म तस्मिन् एव मार्गे कामदेवस्य भस्म आसीत् | तस्य भस्मनः पार्श्वे एव रतिदेवी विलपन्ती उपविष्टा आसीत् | तस्याः नेत्राभ्याम् अश्रुधारा प्रवहति स्म | सा पत्युः प्राणभिक्षां याचन्ती इव तत्र उपविष्टा आसीत् |
शिवः पार्वती च तस्याः समीपं गतवन्तौ | तस्याः शिरसि हस्तं स्थापयित्वा तौ आशीर्वादं कृतवन्तौ - “दीर्घसुमंङ्गली भव’’ इति | शिवः तृतीयं नेत्रम् उद्धाटितवान् | एतदवसरे तत्र अग्निः न आसीत | शीतलकिरणाः ततः निर्गताः | तेषां स्पर्शतः कामदेवः पूर्वतनं रूपं प्राप्य उत्थितवान्, ततः अदृश्यः अभवत् च |
तदा शिवः रतिदेवीम् उक्तवान - “देवि! भवत्याः पतिः पुनर्जन्म प्राप्तवान् अस्ति | सः सर्वदा दृष्टिगोचरः न भविष्यति | तं भवती एका एव द्रष्टुं शक्नोति, न अन्ये | अन्यान् सः इच्छति चेत् द्रष्टुं शक्नोति | तस्य इच्छायाः अनुगुणं भविष्यति अन्यदर्शनम् | एतादृशं वरं तस्मै सन्तुष्टः अहं यच्छन् अस्मि’’ इति |
शिवः पार्वती च गृहप्रवेशं कृतवन्तौ | अरुन्धती नीराजनेन तयोः स्वागतं कृतवती | तदा विश्वकर्मा वस्त्रावृतम् एकं फलकं शिवपार्वत्योः पुरतः संस्थाप्य – “एतत् एकम् अभूतपूर्वं चित्रम् | एतस्मिन् चित्रे भवन्तौ स्तः | एतस्य चित्रस्य दर्शनस्य अनन्तरम् अपि अस्माभिः निर्णेतुं न शक्तं यत् भवतोः कतरस्य सौन्दर्यम् अधिकम् इति | अतः भवन्तौ एव वदताम् | अतः एतत् भवतोः पुरतः उपस्थापितम् अस्ति’’ इति हसन् अवदत् |
स च कश्चन दर्पणः आसीत् | तत्र स्वप्रतिबिम्बं दृष्ट्वा उभौ अपि हसितवन्तौ | तदा नारदः अवदत् “केवलेन मन्दहास प्रकटनेन किमपि न सिद्धम् | अतः कतरः सुन्दरः इति शब्दैः वक्तव्यम एव भवद्भयाम्’’ इति |
तदा शिवः कटाक्षेण पार्वतीं पश्यन् - “नक्षत्रम् इव प्रकाशमानं नासाभरणं धृतवत्याः शशिवदनायाः सुन्दर्याः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तत् श्रुत्वा पार्वती लज्जया शिरः अवनमय्य एव उक्तवती - “सा स्त्री चिन्तयति यत् तस्याः पाणिं गृहीतवतः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तदा सर्वे हसितवन्तः | शिवपार्वत्योः उपरि पुष्पवृष्टिः जाता | अनन्तरं तौ दम्पती आन्दोलिकायाम् उपवेश्य आन्दोलितम् |
तयोः पुरतः एव भितौ एकं सुन्दरं चित्रं चित्रितम् आसीत् | चित्रे उभौ गजौ नृत्यतः स्म | तौ अग्रिमपादौ उन्नीय पृष्टभागीय पादाभ्यां तिष्ठ्न्तौ शुण्डया शुण्डां गृहीतवन्तौ आस्ताम् | तयोः पृष्ठ्भागे एकं सरोवरं द्दश्यते स्म | सरोवरे एकं महापद्मं विकसितम् आसीत् | तयोः उपरि शिवपार्वत्योः द्दष्टिः लग्ना | अत्रान्तरे पद्मस्य स्थाने रजतवत् प्रकाशनम् एकं ज्योतिः उद्गतम् | तत् ज्योतिः क्रमशः विकसित् सर्वत्र व्याप्तं जातम् | तस्मिन् प्रकाशे शशिवर्णेन शोभमानः विघ्नेश्वरः द्दष्तिगोचरः जातः | विघ्नेश्वरः दृष्टिगोचरः जातः |
विघ्नेश्वरस्य मुखं गजस्य इव आसीत् | किन्तु तत् दिव्यया प्रभया शोभते स्म, प्रसन्नतां दर्शयति स्म च | तस्य द्दष्टिः बौद्धिकसामर्थ्यं परिचाययति स्म | विशालम् उदरं कान्तिमयम् आसीत् अभयमुद्रां धृत्वा स्थितः विघ्नेश्वरः पार्वत्यौ विशेष्तः अरोचत |
विघ्नेश्वरं पश्यन्तौ पार्वतीपरमेश्वरौ अनिर्वचनीयम् आनन्दं प्राप्तवन्तौ | निर्निमेषदृष्ट्या तौ तं पश्यन्तौ स्थितवन्तौ | विघ्नेश्वरः शुण्डां वामतः कृत्वा मधुरस्वरेण अवदत् - “अहं विघ्नेश्वरः अस्मि | विघ्नानां निवारकः अस्मि | पञ्चभूतानाम् अधिपतिः गणपतिः अस्मि | चित्रविचित्ररुपधारी चित्रगणपतिः अस्मि | भवतोः प्रेम्णः फलरुपेण शिवस्य तेजस्वितां धरन् कुमारस्वामिनः जन्म भविष्यति | सः तारकासुरस्य वधं करिष्यति | तदनन्तरं भवतोः मुत्ररुपेण मम जन्म भविष्यति | पुत्रगणपतिरुपेण अहम् अवतारं प्राप्स्यामि” इति |
विघ्नेश्वरस्य मधुरध्वनिं श्रुत्वा तं ग्रहीतुं पार्वती हस्तं प्रसारितवती | किन्तु तातवा विघ्नेश्वरः अदृश्यतां गतः आसीत् |
शिवः पार्वती च आनन्दसागरे विहरन्तौ दिनानि यापितवन्तौ | तस्मिन् एव समये जगतः अहितकारकः, जगति कम्पं जनयितुं समर्थः कञ्चन विघ्नः समुत्पन्नः |

अहं विघ्नविनायक: अस्मि -06


देवेन्द्रस्य मनसि अभासत यत् शिवं तपसः विचालयितुं कामदेवः एकः एव समर्थः इति | अतः सः कामदेवं प्रार्थितवान् - “शिवः पार्वत्याम् आसक्तः यथा भवेत् तथा कमपि उपायं चिन्तयतु कृपया” इति |
कामदेवः रत्या सह रथे उपविश्य प्रस्थितवान् | रथस्य सारथिः आसीत् वसन्तः | पुष्पाणि एव तस्य बाणाः आसन् | इक्षुदण्डः तस्य धनुः आसीत् | एवं सन्नद्घः कामदेवः हिमालयस्य तं प्रदेशं प्राप्तवान्, यत्र च शिवः तपः करोति स्म |
कामदेवस्य आगमनतः तत्प्रदेशे वसंतऋतुः उत्पन्नः | निसर्गस्य रमणीयता चित्ताकर्षिका जाता | कोकिलानां कूजनं, भृङ्गानां झङ्कारः च तस्मिन् प्रदेशे सर्वत्र श्रूयते स्म |
परिसरे आकस्मिकतया जातं परिवर्तनं ज्ञात्वा आश्चर्यम् अनुभवन् शिवः नेत्रे उन्मीलितवान् | वसन्तऋतोः आगमनं दृष्ट्वा सः नितराम् आश्यर्यचकितः तपोभङगः जातः यत् ततः तस्य दुःखं जातम् | तस्य हस्ततः जपमाला पतिता | यदा पतितां जपमालां पार्वती उन्नीय शिवाय यच्छन्ती आसीत् तदा वृक्षान्तरितः कामदेवः शिवं लक्ष्यीकृत्य पुष्पबाणान् प्रयुक्तवान् |
बाणस्पर्शात् शिवस्य शरीरे नवं चैतन्यम् उत्पन्नम् इव | मुखं किञ्चिदिव अवनमय्य कटाक्षेण शिवम् एव पश्यन्ती पार्वती तेन दृष्टा | पार्वत्याः आकारः, मुखं, सौन्दर्यं च तस्य चित्तम् आकर्षत् |
क्षणाभ्यन्तरे शिवः अवधानवान् जातः | तपोभङ्गस्य कारणतः सः खिन्नः क्रुद्धः च | क्रोधेन सः तृतीयं नेत्रम् उद्घाटितवान् | तेन कामदेवः भस्मतां गतः | शिवः तु झटिति ततः उत्थाय कैलासशिखरं प्रति वेगेन निर्गतवान् |
रतिदेवी तत्समये पत्या कामदेवेन सहैव आसीत् | पत्युः भस्मीभूतत्वं दृष्ट्वा सा उच्चैः रोदनम् आरब्धवती | तदा ब्रह्मादिदेवाः तत्र प्रत्यक्षाः अभवन् | ते सहगमनाय उद्यतां रतिदेवीं सान्त्वयन्तः उक्तवन्तः यत् शिवपार्वत्योः विवाहः यदा भविष्यति तदा कामदेवः अपि उज्जीवितः भविष्यति इति | अतः रतिदेवी भस्म जागरूकतया रक्षन्ती तत्रैव वसन्ती दिनानि यापितवती |
एतस्याः घटनायाः अनन्तरं स्वसौन्दर्ये पार्वत्याः विश्वासः नष्टः | शरीरलावण्यादिषु तस्याः उत्साहः पूर्णतः विनष्टः | जीवनम् एव व्यर्थम् इति भावः तस्याः मनसि उत्पन्नः | तपः एकम् एव एतस्य परिहारः इति विचिन्त्य सा घोरं तपः आरब्धवती |
कानिचन पर्णानि खादन्ती सा तपः करोति स्म | जयाविजयानामिके उभे सख्यौ तया सह वसतः स्म | काले काले पार्वत्याः कुशलवार्तां ते हिमवन्तं मेनकां च सूचयतः स्म |
दिनेषु गतेषु पार्वत्याः तपः उग्रं जातम् | सा पर्णानाम् अपि खादनं पूर्णतः परित्यक्तवती | अतः सा ‘अपर्णा’ इति नाम प्राप्तवती |
शिवः यद्यपि कामदेवं भस्मीकृतवान्, तथापि मदनविकारतः आत्मानं रक्षितुं तु न शक्तवान् | पार्वत्यां तस्य मनः आसक्तं जातम् | तावता पार्वत्याः तपः अपि उग्रतां गतम् आसीत् |
शिवः छद्मवेषेण पार्वत्याः समीपं गत्वा तस्याः अन्तःकरणस्य परीक्षां कृतवान् | पार्वत्यां स्थितं प्रबलम् अनुरागं ज्ञात्वा सः तस्याः परिणये मतिं कृतवान् | विवाहविषयकवार्तालापार्थं हिमवतः गृहं प्रति सप्तर्षीन् प्रेषितवान् सः | विवाहवार्तालापार्थं शिवः स्वयं सप्तर्षीन् प्रेषितवान् अस्ति इति ज्ञात्वा हिमवान् नितरां सन्तुष्टः | सः विवाहं सन्तोषेण अङ्गीकृतवान् |
प्रमथगणेन अनुस्त्रियमाणः शिवः वरः सन् हिमवतः गृहं गतवान् | एतस्य विवाहस्य निमित्तं ब्रह्मा, विष्णुः; इन्द्रः, कुबेरः, नारदः, अन्ये बहवः श्रेष्ठाः महर्षयः चापि भस्म आगताः आसन् |
सुमङ्गली अरुन्धती शिवस्य ललाटस्य तृतीयनेत्रस्य स्थाने कल्याणतिलकं स्थापितवती | वररूपेण शिवः विशेषतः शोभते स्म | अतः सर्वे जनाः तं ‘सुन्दरेश्वर’ नाम्ना निर्दिष्टवन्तः |
सर्वविधाः अलङ्काराः कृताः आसन् | वधूं पार्वतीं विष्णुः शिवसमीपम् आनीय - “भवान् सुन्दरेश्वरः | मम भगिनि पार्वती मीनाक्षी” इति मन्दहासपूर्वकं वदन् शिवपार्वत्योः करौ योजयित्वा तौ विवाहमण्डपं प्रति नीतवान् |

अहं विघ्नविनायक: अस्मि -05

देवाः राक्षसाः च सम्भूय क्षीर्सागरस्य मथ कृतवंतः | ततः ते अमृतं प्राप्तवन्तः | विष्णुः जगन्मोहिन्याः अवतारं प्राप्य राक्षसान् मोहयित्वा देवेभ्यः अमृतस्य वितरणं कृतवान् | अमृतपानतः देवाः अमरत्वं प्राप्तवन्तः | एतस्मात् ते गर्वेण सर्वत्र सञ्चारम् आरब्धवन्तः |

राक्षसानां विषये जातम् अन्याय्यं तारकासुरः सोढुं सर्वथा न शक्तवान् | अतः सः ब्रह्माणम् उद्दिश्य घोरां तपस्यां कृतवान् | यदा ब्रह्मा प्रत्यक्षः जातः तदा सः अमरत्वरूपं वरं प्रार्थितवान् |

तदा ब्रह्मा अवदत्- “जातस्य मरणं ध्रुवम् | मरणात् मुक्तिः असाध्या | अतः अन्यं कमपि वरं याचतु” इति |

तारकासुरः क्षणकालं विचिन्त्य अवदत् - “शिवस्य पुत्रस्य हस्तात् मम मरणं भवतु, नान्यस्य कस्यचित् अपि हस्तात्’’ इति |

ब्रह्मा ‘तथास्तु’ इति उक्त्वा ततः अदृश्यः अभवत् |

एतावता शिवस्य पत्नी सतीदेवी दक्षयज्ञस्य योगाग्नौ आत्मसमर्पणं कृतवती आसीत् | शिवः च उन्मादं प्राप्तवान् इव व्यवहरन् हिमालयपर्वतं गत्वा घोरतपस्यायां लीनः जातः आसीत् |

तारकासुरः सर्वान् राक्षसान् मेलयित्वा त्रीन् अपि लोकान् स्वाधीनीकृतवान् | ततः सः देवानां पीडनम् आरब्धवान् | इन्द्रादयः देवाः भीतः सन्तः ब्रह्मणः समीपं गत्वा रक्षणोपायं याचितवन्तः |

तदा ब्रह्मा अवदत् – “मया तारकासुराय वरः दत्तः अस्ति यत् शिवस्य पुत्रात् एव भवतः मरणं भवितुम् अर्हति इति | अन्यः कोऽपि तं संहर्तुं न अहर्ति | यदा शिवस्य पुत्रः भविष्यति तदा एव तारकासुरस्य संहारः अपि भवितुम् अहर्ति” इति |
ततः ते सर्वे विष्णुसमीपं गतवन्तः | तेषाम् आशयः आसीत् यत् विष्णुः कमपि साहाय्यं कुर्यात् इति  |
विष्णुः तान् उक्तवान् – “सतीदेवी शिवस्य पुत्रीत्वं प्राप्य वर्धमाना अस्ति | तस्याः नाम पार्वती इति | अतः शिवपार्वत्योः विवाहः यथा सम्पद्येत तथा प्रयत्नः करणीयः अस्माभिः” इति |
देवाः नारदं हिमवतः समीपं प्रेषितवन्तः | नारदस्य आदेशस्य अनुगुणं हिमवान् तपस्यायां मग्नस्य शिवस्य समीपं गतवान् | शिवं सम्पूज्य अभ्यर्थितवान् यत् भवतः सेवां परिचर्यां च कर्तुं पार्वत्यै अनुज्ञा दातव्या क़ृपया इति |
शिवस्य मौनम् एव उत्तरम् आसीत् | मौनम् एव सम्मतिसूचकं भावयन् हिमवान् शिवस्य परिचर्यार्थं पार्वतीं नियोजितवान् तस्मिन् एव दिने |
बाल्यात् एव पार्वती शिवं विशेषतः इच्छति स्म | बाल्ये एव नारदः शिवस्य अनेकाः कथाः तां श्रावितवान् आसीत् | तासां श्रवणतः सा पुलकिता भवति स्म | एतादृशस्य शिवस्य सेवार्थं यदा अवसरः लब्धः तदा सा नितरां सन्तुष्टा अभवत् | परमसौभाग्यं भावितवती सा |
सुर्योदयात् पूर्वम् एव सा मयूरपिञ्छैः शिवस्य तपसः स्थलं स्वच्छीकरोति स्म | सुगन्धचन्दनजलेन तं प्रदेशं सिञ्चति स्म | मौक्तिकैः रङ्गवल्लीं रचयति स्म | सुवर्णलताभिः निर्मितेन रत्नखचितेन कण्डोलेन स्वादूनि फलानि नीत्वा शिवस्य पुरतः स्थापयति स्म | हिमगिरिशिखरात् स्रुतं स्फटिकस्वच्छं जलं सुवर्णकमण्डलौ पूरयित्या जपमालायाः पार्श्वे स्थापयति स्म | शिवस्य मनः आक्रष्टुं विविधैः अलङ्कारैः आत्मानं भूषयति स्म | भैरवी, केदारः, शिवरञ्जनी इत्यादिभिः रागैः मधुरतया आलापनं करोति स्म |
शिवः सकृत् नेत्रे उन्मील्य मां पश्येत् इति तस्याः इच्छा आसीत् | सा सदा शिवस्य मनोहरं मुखारविन्दम् एव पश्यन्ती भवति स्म | तथापि कदापि शिवस्य कृपाकटाक्षः तस्यां न अपतत् | ‘मम सर्वे प्रयत्नाः व्यर्थाः किम?’ इति चिन्तयन्ती सा महतीं निराशताम् अनुभवति स्म |

अहं विघ्नविनायक: अस्मि -04

वेदानां प्राप्त्या ब्रह्मा नितरां संतुष्टः। विघ्नेश्वरं प्रशंसन् सः उक्तवान् – “हे विघ्नेश्वर! इतः परं भवन्तं ध्यात्वा हृत्पूर्वकं सम्पूज्य च एव अहं सृष्टिकार्ये प्रवृत्तः भविष्यामि। मम सृष्टिकार्यं निर्विघ्नतया यथा प्रचलेत् तथा कृपां करोतु कृपया। एतावता मया या सृष्टिः कृता सा विकृता जाता अस्ति। तस्याः प्रतिस्वीकरणमार्गम् अपि उपदिशतु” इति।
ततः विघ्नेश्वरस्य प्रसादेन विकृतसृष्टिः अदृश्या जाता। तदा विघ्नेश्वरः ब्रह्माणम् उक्तवान् - “हे ब्रह्मदेव! अहं वक्रतां खण्डशः कृत्वा नाशयामि। मम शुण्डां वक्राकारेण धरन् अहं मम एतत् सामर्थ्यं सङ्केतयामि। वक्रस्य तुण्डस्य (मुखस्य) धारणात् अहं वक्रतुण्डः अस्मि। वक्रतुण्डरूपिणं मां ध्यात्वा यः कार्यारम्भं करोति तस्य कार्ये वक्रता कदापि न भवति। भवान् अपि स्व-इच्छानुरूपं मम रूपं ध्यात्वा सृष्टिकार्यस्य आरम्भं करोतु। सृष्टिः काचित् कला। तस्यां कलायां कापि वक्रता न भवेत्। मां ध्यात्वा सृष्टिकार्यस्य आरम्भं कुर्वतः भवतः कृते एतत् जगत् एव कलानिलयः। इतः परं सर्वे जीविनः मां पूजयितुं यथा शक्नुयुः तथा आदिपूज्यविघ्नेश्वररूपेण, समस्तजगतः रक्षणं कुर्वन् सङ्कल्पसिद्धिकारकस्य सिद्धिविनायकस्य रूपेण, समस्तगणानाम् अधिपतिः सन् गणपतिरूपेण, शिवपार्वत्योः पुत्ररूपेण, च अहम् अवतारं करिष्यामि’’ इति। एतावत् उक्त्वा विघ्नेश्वरमूर्तिः अदृश्यतां गता।
एतदवसरे सरस्वती हिन्दोलरागं श्रीरागं च आश्रित्य स्ववीणया मङ्गलध्वनिम् उत्पादयन्ती आकाशं पुलकितं कृतवती।
ब्रह्मदेवः ‘विघ्नेश्वराय नमः’ इति उक्त्वा सृष्टिकार्यस्य आरम्भं कृतवान्। एतदवसरे सृष्टिकार्यं सुन्दरं निर्विघ्नं च आसीत्। गम्भीर-विशाल-पर्वत-पङ्क्तयः अमृततुल्यजलयुक्ताः नद्यः, सुन्दराणि वनानि; वर्णमयपाञ्चालिकाः इव स्थिताः जीविनः, शारीरकतया मानसिकतया च शक्तिशालिनः मानवाः इत्यादयः ब्रह्मणा सृष्टाः| एतत् जगत् कलानिलयः एव आसीत् तस्य। वाग्देवी सरस्वती स्ववीणातः स्वरान् उत्पादयन्ती जगते सङ्गीतशास्त्रं दत्तवती। जीविसमुदायः समस्तशुभलक्षणैः विकासं प्राप्नोत्। जटाभिः उपेतः सन् विकासं प्राप्नुवन् वटवृक्षः इव जगत् विकासं प्राप्नुवत् आसीत्।

अहं विघ्नविनायक: अस्मि -02

केषाञ्चित् शिर: उदरभागे आसीत्। कबन्धा: इव दृश्यन्ते स्म ते। आक्रन्दनं श्रूयते स्म तेषाम्। केचन उन्मादेन नृत्यन्ति स्म। पुन: केचन विलक्षणव्यवहारं कुर्वन्ति स्म।
कश्चन दृढकाय: पुरुष: ताडवृक्षसदृशीं विकृताकारां महिलां प्रदर्शयन् आकाशस्य दिशि मुखं कृत्वा उच्चस्वरेण – ‘‘हे ब्रह्मदेव। एतादृश्‍या सह अहं कथं वा मम गृहस्थजीवनं यापयितुं शक्नुयाम्?’’ इति अपृच्छत्।
केचन विकृताकारा: मानवा: रुदन्त: ब्रह्माणं निन्दन्ति स्म - ‘‘हे ब्रह्मदेव। भवान् तु चतुर्मुख: इति निर्दिश्यते। चत्वारि मुखानि धरन् अपि भवान् सामान्यबुद्धिमान् अपि न इति भाति। किमर्थं भवता वयम् एतादृशरूपयुक्ता: सृष्टा:?’’ इति।
तेषां निन्दनकोलाहलाक्रन्दनादिकं श्रुत्वा वस्तुत: अपि ब्रह्मण: चतुर्षु अपि शिरस्सु भ्रमणम् उत्पन्नम् इव। तस्य अष्टानाम् अपि नेत्राणां पुरत: अन्धकार: प्रसृत:| आश्चर्यचकित: स: आर्तदृष्‍ट्या सरस्वतीं दृष्टवान्। सरस्वती अपि असहायकतां दर्शयन्ती मन्दहासं प्रकटय्य मौनम् आश्रितवती।
ब्रह्मा किञ्चित विचिन्त्य उच्चस्वरेण अवदत् – ‘‘मम सृष्टे: एषा दुस्थिति: किमर्थं अभवत्? मया तु योग्येन क्रमेण सङ्कल्प्य जगत: निर्माणम् आरब्धम् आसीत्। तथापि एवं किमर्थं जातम्?’’ इति।
ब्रह्मण: वचनं दशसु अपि दिक्षु प्रतिध्वनितं जातम्। किङ्कर्तव्यतामूढतया सर्वत्र पश्यता ब्रह्मणा एक: प्रकाश: दृष्ट:। तत्र तेन काऽपि अपूर्वा मूर्ति: दृष्‍टा। सा मूर्ति: गजशिरोयुक्ता आसीत्। तस्या चत्वार: हस्ता: आसन्। तेषु चतुर्षु हस्तेषु क्रमेण पाश:, अङ्कुश:, कलश:, परशु: च आसन्। सा मूर्ति: पूर्णचन्द्र: इव प्रकाशते स्म। तस्या: मुखकान्ति: सर्वत्र प्रसृता आसीत्।
तस्मिन् समये सरस्वती स्ववीणया ओङ्कारनादम् उत्पादितवती। तस्या: अङ्गुलय: वीणातन्त्रीषु स्वयं चलन्ति स्म। आदौ वीणात: मालवगौलरागस्य उत्पत्ति: जाता। तत: स: एव राग: हंसध्वनिरूपेण परिवृत्त:|

अहं विघ्नविनायक: अस्मि -01


सत्यलोके कमलासने उपविश्य आदिनं सृष्टिकरणात् ब्रह्मा श्रान्त: आसीत्। कल्पान्तकाल: यदा आसन्न: तदा निद्रासूचिका तन्द्रा तम् आवृणोत्। यदा यदा स: ज़ृम्भणम् अकरोत् तदा पर्वतेषु अग्नि: समुत्पन्न:| निद्राकारणत: यदा तस्य नेत्रे निमीलिते जाते तदा आकाशस्थै: प्रलयकालीनमेघै: मुलसधारया वर्षद्भि: जगत् जलेन आप्लावितम्। अत: सर्व जले निलीनं जातम्। सर्वासु दिक्षु अन्धकार: प्रसृत:|
एतस्मिन् प्रलयकाले ब्रह्मा निद्रां कृतवान्। प्रलयकाल: तस्य रात्रिसमय:। नूतनकल्पस्य आरम्भकाल: आसन्न:। यदा जगति प्रकाशस्य प्रसार: आरब्ध: तदा सरस्वतीदेवी वीणां गृहीत्वा भूपालरागस्य आलापनं कृतवती। एतेन ब्रह्मण: निद्रा अपगता जाता। ब्रह्मा पद्मासने उपविश्य  चतसृषु दिक्षु दृष्‍टिं प्रसारितवान्। अध: समग्रं जगत् जलमयं सत् कल्लोलितं दृष्टं तेन। तेषां तरङ्गांणां मध्ये एक: श्वेताकिरणपुञ्‍ज: तेन दृष्‍ट:| तरङ्गांणां मध्ये तरत् किञ्चन वटपत्रं, वटपत्रस्य उपरि शयान: कश्चन शिशु:, तेन शिशुना क्रियमाण: वामपादाङ्गुष्ठस्य लेहनं च तेन दृष्टम्।
ब्रह्मा नेत्रे निमील्य ध्यानं कृतवान्। यदा स: नेत्रे उन्मीलितवान् तदा एकं विचित्रं दृश्यं तेन दृष्टम्।
ब्रह्मा अवगतवान् यत् स: शिशु: न  अन्य:, अपि तु विराटस्वरूपि परब्रह्म एव इति। इदानीं तस्य शिशो: शिर: गरशिरसा समानं दृश्यते स्म। स: शिशु: लघ्व्या शुण्डया दक्षिणपादं गृहीत्वा मुखे स्थापयन् आसीत्।
शिशो: मुखं प्रसन्नम् आसीत्। चन्द्र: इव कान्त्या प्रकाशते स्म तत्। तस्य चत्वार: हस्ता आसन्। ब्रह्मा आश्चर्येण तम् एव शिशुं पश्यन् आसीत्। अकस्मात् स: शिशु: अदृश्यतां गत:| तस्मिन् प्रदेशे कश्चन मृद्राशि: दृष्टिगोचर: जात:|
गच्छता कालेन जलत: विशाल: भूभाग: उत्पन्न:| समुद्र: अपि निर्मित: अभवत्।
ब्रह्मा सृष्टे: आरम्भं कृत्वान्। आदौ नदीपर्वतादय: उत्पादनीया: इति सङ्कल्प्य ब्रह्मा कमण्डलुत: जलं स्वीकृत्य भूमौ पातितवान्। तत: वृक्ष-सस्य-खनिजादीनाम् उत्पत्तिं सङ्कल्प्य जलम् अभिमन्त्र्य भूमिं सिक्तवान्। तत: स: समुद्रे मत्स्यान्, भूमौ पशुपक्षिकृमि-कीटादीन् च सृष्टवान्। एतदनन्तरं मनुष्याणां सृष्‍टिं कर्तुम् इच्छन् स: कमण्डलुजलं हस्तेन स्वीकृत्य भूमौ पातितवान्।

यदा ब्रह्मा सष्‍टिक्रियायां मग्न: आसीत् तदा सरस्वती वीणावादननिरता आसीत्। तदवसरे अप्रयत्नेन अपस्वर: उत्पन्न:। एतत् श्रुत्वा आश्चर्यचकिता सरस्वती अध: दृष्‍टवती। पत्न्या: आश्चर्यस्य कारणं किम् इति न ज्ञातं ब्रह्मणा। सोऽपि कमलासनस्थ: एव अवनम्य अध: दृष्टवान्।

तत्र पर्वता: अधोमुखा: आसन्। तेषां शिखराणि भूमौ लग्नानि आसन्। मूलभागा: सूर्यकिरणप्रसारे अवरोधं जनयन्त: वर्धमाना: दृश्यन्ते स्म। नद्य: समुद्रात् निर्गत ऊर्ध्वमुखं वहनत्य: आसन्। वृक्षा: अपि अधोमुखा: आसन्। तेषां मूलानि आकाशं स्पृशन्ति स्म।

समुद्रस्य तरङ्गाणाम् उपरि मत्स्यादि जलचरा: दृश्यन्ते स्म। केचन क्षणे क्षणे वर्धमाना: आसन्। पुन: केचन पक्षिण: इव डयन्ते स्म। पशव: विकृताकारा दृश्यन्ते स्म। तेषु केषाञ्चित् शिर: न आसीत्। पुन: केषाञ्चित् पुच्छं। केचन पशव: एकपादवन्त: आसन्, पुन: केचन त्रिपादवन्त:| केषाञ्चित् नेत्रकर्णादय: न आसन्, पुन: केषाञ्चित् मुखम् एव न आसीत्। केषाञ्चित् मुखम् पृष्‍ठभागे आसीत्, पुन: केषाञ्चित् शिरसि पुच्छम् आसीत्। केषाञ्चित् ‍पक्षिणां पक्षौ न आस्तां, पुन: केषाञ्चित् पादौ। अत: ते पक्षिण: उड्डयने असमर्था: आसन्।

एतत् सर्वं दृष्ट्वा भीतिं प्राप्य ब्रह्मा मानवानां दिशि दृष्टिं प्रसारितवान्।

तत्रापि एषा एव कथा। केषाञ्चित् शिरोद्वयम् आसीत्। एकं शिर: पुरुषीयं चेत् अपरं महिलीयम्। काश्‍चित् ‍महिला: गजकारिका: ताडवृक्षाकारिका: च आसन्। केषाञ्चित् एक: पाद: त्रय: पादा: वा आसन्।

Friday, 7 December 2012

अहं विघ्नविनायक: अस्मि -03




गजाननाकारं प्राप्तवती सा मूर्ति: वटपत्रे स्थिता सती ब्रह्माणम् अभयमुद्रया आशिषा अनुगृहीतवती। तां परित: शरत्कालीनचन्द्रकिरणा: इव काचित् अपूर्वा कान्ति: प्रसृता आसीत्।  ब्रह्मा अप्रयत्नेन करौ योजयित्वा अवदत् - ‘’हे महानुभाव! अपूर्वाकार: क: भवान्? भवान् क: इति बहुधा चिन्तनेन अपि मया न ज्ञातम्। कृपया स्वस्य रूपस्य परिचयकथनेन माम् अनुगृह्णातु” इति।
‘’वत्स! ब्रह्मदेव! सङ्कल्पेन सह विकल्प: अपि अनुविद्ध: भवति सदापि। स: एव उच्यते ‘विघ्न:’ इति। विघ्नान् निवार्य सङ्कल्पपूर्तिं कुर्वन अहं विघ्नेश्वर: अस्मि। विघ्नानां नेतृत्वं वहन्तं विकल्पम् अहं स्वस्य परशुना छिनद्मि। कलशेन सङ्केत्यमानं साफल्यं गमयामि सर्वाणि कार्याणि इत्यत: अहं विघ्नविनायक: अस्मि। पृथिव्यप्तेजोवाय्वाकाशरूपाणां पङ्चभूतानां गणस्य अधिपति: अस्मि इत्यत: अहं गणपति: अपि अस्मि। खाद्यपदार्थान् क्षेत्रादींन् च नाशयत: विघ्नकारकान् गजान् तीक्ष्णेन अङ्कुशेन निगृह्य पाशेन बध्नामि। अत: भवान् मां विघ्नेश्वरनाम्ना निर्देष्टुम् अर्हति’’ इति गम्भीरवाण्या अवदत् विघ्नेश्वर:|
तदा ब्रह्मा अवदत् - “हे विघ्नेश्वर! हे देव! मम सृष्‍टिकार्ये एतादृश: विघ्न: किमर्थम् उत्पन्न:? उत्तमसृष्‍टिं कर्तुं मया क: मार्ग: आश्रयणीय:? अहं किङ्कर्तव्यतामूढ: अस्मि। कृपया इतिकर्तव्यतां बोधयतु” इति।

‘’विघ्नस्य परिचय: भवत: भवतु इति उद्देशेन एव एतत् सर्वं प्रवृत्तम्। वटपत्रशायिबालगणपतिरूपेण अहं भवते दर्शनं दत्तवान् आसम्। तस्मिन् समये भवता मद्विषये न चिन्तितम् एव। मम विषये चिन्तनं नाम सम्भाव्यविघ्नस्य विषये अवधानदानरूपस्य ज्ञानस्य प्राप्ति:। अहं तस्यैव ज्ञानस्य रूपम्। आ ब्रह्मण: आसामान्यजन्तु कार्यारम्भत: पूर्वं कार्यसफलतायै अपेक्षितं ज्ञानं प्राप्नुयात् एव। गज: अग्निमपदस्थापनात् पूर्वं भूमिं परीक्षते। प्राणिषु हस्ती महाबलवान्। एवमेव ज्ञानक्षेत्रे बुद्धिबलं श्रेष्ठम्। हस्तिन: यादृशी मेधाशक्ति: तादृशी मेधाशक्ति: प्राप्तव्या इत्येतत् सङ्क़ेतयितुम् अहं गजानन: जातः अस्मि। यदा भवान् निद्रायां मग्नः आसीत् तदा सोमकासुरः नाम राक्षसः चतुरः अपि वेदान् अपहृत्य समुद्रतले गोपितवान् आसीत्। महाविष्णुः मत्स्यावतारं धृत्वा तं राक्षसं संहृतवान्, चतुरः वेदान् वटपत्रशायिने मह्यं दत्तवान् च। एतानि स्वीकरोतु भवान्। इतः परं निर्विघ्नतया सृष्टिकार्यं करोतु” इति उक्त्वा विघ्नेश्वरः ब्रह्मणे वेदान् समर्पितवान्।