Thursday, 26 March 2015

ग्रामस्य पुरस्कारः

प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटम् कुर्वन् सुदूरम् विनिर्गतः। तस्य सहयोगिनः पृष्ठतः आसन्। ग्रीष्मकालः आसीत् , पिपासया व्याकुलाः च अभवत् राजा। न कुत्रापि कूपः सरोवरः वा दृश्यते। नृपतेः अश्वः अपि अग्रे चलितुम् न अशक्नोत्। समीप एव नृपतिः ग्रामम् एकम्+अपश्यत् नृपतिः कुटीरम् एकम् ददर्श। समीपस्थम् जनम् एकम् अकथयत् जलपानार्थम्।
    सः प्रोवाच- जलम् तु न विद्यते, परम् भवान् पिपासितः न स्थास्यति, अत्र खट्वायाम् उपविशतु, विश्रम्यताम् अश्वम् वृक्षे बद्ध्वा। तदनन्तरम् स अजादोहनम् अकरोत्। नृपतिः दुग्धम् पीत्वा नितराम् तुष्टः सञ्जातः। तस्य पिपासा अपि शान्ता सञ्जाता। नृपतिः तम् एकम् कर्गजम् आनेतुम् आदिशत्। परम् कृते अपि अन्वेषणे न अमिलत् कर्गजखण्डम् अपि।
    नृपतिः पिप्पलपत्रम् एकम् आनेतुम् आदिशत्। राजा पिप्पलपत्रे च अलिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते। नृपे निर्गते सति पिप्पलपत्रम् एकस्मिन् सुरक्षिते स्थाने अरक्षत्।
    एकदा अजा तत्पत्रम् अखादयत्। इति श्रुत्वा जनः अयम् प्रमत्त इव अभवत् प्रोच्चैः स्वरेण च अवदत्- “अजा द्वौ ग्रामौ च अखादयत्”।
    अस्य वाक्यस्य अर्थः तु न कोऽपि वेत्ति। समीपस्थेन एकेन बुद्धिमता जनेन कथितम्- यदा राजा नमाजपठितुम् आगच्छति। तदा त्वम्- “अजा द्वौ ग्रामौ च अभक्षयत्” कथय।
    शुक्रवासरे नृपतिः नमाजपठनाय च अगच्छत् तदा अजापालकः “अजा द्वौ ग्रामौ च अभक्षयत्!” इति प्रोच्चैः स्वरेण वदति।
    यदा नृपतिः नमाजम् पठति तदा अजापालकः पृच्छति अयम् नृपतिः हस्तौ संहतौ कृत्वा किम् याचते ? जनः कथयति ईश्वरम् किमपि याचते।
    अजापालकः व्यवारयत् यः स्वयम् याचते सः कस्मैचित् किम् दातुम् प्रभवति?  इति विचार्य “ दाता दास्यति तदा ग्रहीष्यामि” इति उक्त्वा काननम् प्रति विनिर्गतः। जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः।
    एकदा अजापालकः स्वप्ने च अपश्य़त् यत्र सः उपविष्टः तत्र अतुलाधनराशिः वर्तते। सः रटन् आसीत् दाता यदा स्वयम् दास्यति तदैव ग्रहीष्यामि।
    एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म। ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः। सः चौरान् आह्वयत् अपृच्छत् च- किमर्थम् चौर्यम् कुरुथ? ते प्रोचुः, धनार्थम्।
    स कथयति, अत्र अतुला धनराशिः वर्तते, एनाम् नयतु , पुनः चौर्यम् मा कुरुत।
    चौराः भूमिम् अखनन्। भूमौ स्वर्णमये द्वे विशाले पात्रे च अमिलिते। परम् तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयः च आसन्। चौराः क्रुद्धाः सन्तः व्यचारयन् रजकेन अस्मान् मारयितुम् कृता इयम् व्यवस्था। अस्य गृहम् गत्वा एनम् पाठम् पाठयिष्यामि। इति विचार्य ते तस्य गृहम् प्रति प्रचलिताः।
    खट्वायाम् निषण्णः सः कथयति स्म- यदा दाता हर्म्यपृष्ठम् विदार्य दास्यति तदा ग्रहीष्यामि। सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणाम् वृष्टिः भवति। अजापालकः महाधनी सञ्जातः।
    नृपतिः तम् अजापालकम् न व्यस्मरत्। तम् अन्वेष्टुम् तत्र समागतः नृपतिः। नृपतिः तद्वैभवम् विलोक्य चकितः सञ्जातः। नृपः पृच्छति - तस्मिन् शुक्रवासरे त्वम् तस्मात् कथम् पलायितः?  अजापालकः ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयम् भगवन्तम् अयाचत्। इति विचार्य मया अपि भगवतः प्रार्थना कृता। तेनैव प्रभावेण अहम् धनवान् संवृतः।
    नृपः तस्य स्पष्टवादिताम् विलोक्य भृशम् प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान्।

कलहप्रिया भार्या

    एकस्मिन् नगरे कस्यापि नागरिकस्य क्रुद्धा भार्या आसीत्। सा अतीव चञ्चला , असमीक्ष्यकारिणी वर्तते सर्वदा कलहप्रिया सा वैपरीत्येन पथा प्रचलति।
एकदा गृहकलहेन विषण्णः पतिः काननम् प्रति प्रचलति । तत्र बदरीफलानि एकत्रितानि अकरोत्।
बदरीवृक्षस्य अधः गर्तम् विलोक्य व्यचारयत् अयम् यत् अस्मिन् गर्ते विनिपातयिष्यामि कलहप्रियाम् एनाम्।
    वनात् निवृत्य स कलहप्रियाम् प्रोवाच- कानने बदरीफलानि आनेतुम् मा गच्छ। सा प्रोवाच - अवश्यम् एव गमिष्यामि।
    पतिः प्रत्युवाच - परम् मदीयबदरीवृक्षे मा गच्छ।
    सा तु तत्रैव गन्तुम् प्रतिजज्ञे। पतिः काननम् प्रति प्रचलितः कलहप्रिय अपि तदनु प्राचलत्। प्रधावन्ती सा तस्मिन् गर्ते निपतिता। पतिः स्वगृहम् आगतः । त्रीणि दिनानि यावत् सुखेन न्यवसत् स्वगृहे। चतुर्थे दिने पार्श्वम् आगत्य ताम् निष्कासयितुम् प्रलंबाम् एकाम् रज्जुम् पातयामास। परम् तस्मात् च एकः पिशाचः निर्गतः।
    भयभीतः अयम् पिशाचम् पुनः गर्ते निपातयितुम् ऐच्छत् किन्तु पिशाचः प्रोवाच, माम् तस्मिन् गर्ते न निपातय यतो हि तत्र वर्तते च एका कलहप्रिया स्त्री। सा सर्वान् तुदति। अहम् तव अभिलाषम् पूरयिष्यामि।
    पिशाचः प्रोवाच - माम् नगरम् प्रति नय।
    अहम् जनेषु भयम् उत्पादयिष्यामि त्वम् तान् मत्तः प्रतिपालय। इत्थम् पिशाचः धनिकानाम् गृहेषु गत्वा तान् तुदति।
    सः तेषाम् पीडितानाम् भूतम् उत्तारयति। इत्थम् तयोः ख्यातिः तेषु प्रदेशेषु परिव्याप्ता।
यः कोऽपि रुग्णः भवति स अभिचारक्रिययाम् तम् परिचरति। जनाः तस्मै प्रभूतम् धनम् प्रायच्छन्। तेन अयम् धनिकः सञ्जातः।
    किञ्चित्कालानन्तरम् पिशाचः प्रोवाच - सम्प्रति त्वम् धनी सञ्जातः । अधुना अहम् भूस्वामिनः पुत्रम् अभिचरिष्यामि।
यदि त्वम् तत्र आगमिष्यसि चेत् त्वाम् खादिष्यामि, इति उक्त्वा पिशाचः तस्मात् निर्गतः ।
    भूताभिचरिताम् ताम् विलोक्य जना तम् भूतवैद्यम् अन्वेष्टुम् निर्गताः भूतवैद्यः प्रोवाच , यदि सर्वे नागरिकाः चत्वरे गत्वा - कलहप्रिया समागता, कलहप्रिया समागता - इति कथयिष्यन्ति तदा एव अहम् भूस्वामिनः पुत्र्याः चिकित्साम् करिष्यामि। इति उक्त्वा सः तत्र प्राप। तम् आगतम् विलोक्य कोपाविष्टः पिशाचः प्रोवाच - त्वम् अत्र कथम् आगतः निवारितः अपि।
    भूतवैद्यः प्रोवाच - न अहम्  ताम् चिकित्सितुम् समागतः अपि तु सा कलप्रिया अत्रापि समागता। इति श्रुत्वा पिशाचः चीत्कुर्वन् हा ! क्व गमिष्यामि? किम् करिष्यामि? भूतवैद्यः प्रोवाच - भो पिशाच , त्वम् तस्मिन् एव गर्ते गच्छ। न इयम्  कलहप्रिया तत्र आगमिष्यति। इति श्रुत्वा कलहप्रिया पुनः तदनु तस्मिन् एव गर्ते समागता ।
    इतः भूस्वामिनः पुत्र्या विवाहः भूतवैद्येन सह सञ्जातः। भूस्वामी स्वराज्यम् अपि तस्मै प्रदत्तवान्। वराकी कलहप्रिया सम्प्रति अपि तस्मिन् एव गर्ते स्वदिनानि यापयति इति बल्गेरियावासिनाम् विश्वासः।

मायाविनी

पुरा स्वर्गे द्वे भगिन्यौ न्यवसताम् । ज्येष्ठा भगिनी कोमतरहप्नामिका तथा कनिष्ठा च जरथरहप्नामिका। एते द्वे एव रामदेवस्य उद्यानपालिके।
    एकदा ते रात्रौ प्रगाढनिद्रायाम् शयनम् अकुरुताम्। कनिष्ठा भगिनी स्वप्नम् एकम् अपश्यत्। स्वप्ने लयांगवारस्य मायाविनी तैंगप आगता सा तस्याः स्वर्णरजतमयम् उपधानम् निःसार्य नीतवती भयविह्वला समुत्थिता, स्वप्नस्य घटनाम् ज्येष्ठभगिनीम् अश्रावयत्। प्रतीयते यत् अस्माकम् सुखस्य दिनानि निर्गतानि।
    सूर्योदयः सञ्जातः। तैंगपनाम्नी मायाविनी तस्य द्वारम् समागता ब्रूते च- लयांगवारनगरम् गन्तुम् समुद्यते भवतम्। तत्रत्यः नृपतिः युवाम् राज्ञोपदे नियोक्ष्यति। कोमतरहप् प्रत्यवदत्– न आवाम्  राज्ञोभवितुम् योग्ये।
    मायाविनी प्राह- यदि युवाम् मया सह न चलिष्यथः तर्हि अहम् बलात्+नेष्यामि। भगिन्यौ भयेन अकम्पताम् ।
    मायाविना तोषयितुम् स्वादिष्टम् भोजनम् निर्मित्वत्यौ। भोजनम् कृत्वा सा पुनः ते चलितुम् अकथयत्। मायाविनी तयोः अवशिष्टम् कार्यम् अपूरयत्।
    अन्ततः ते मायाविन्याः सह अचलताम्। प्रचलन्त्यः ता दूरतः एव लयांगवारस्य राजप्रासादम् अपश्यन्। राजप्रासादगमनात् पूर्वम्  मायाविनी भगिन्यौ स्नानम् अकारयत्।
    सा स्नानार्थम् ते ग्यामचोम् चीम्नोंनद्याम् अनयत्। तत्र मायाविनी प्रथमम् कोमतरहप्भगिन्याः शिरच्छेदम् अकरोत्। मृतशरीरस्य़ खण्डानि कृत्वा नद्याम् अक्षिपत्।
    तदनन्तरम् सा जरघरहप्भगिन्याः समीपम् आगता। सा भयेन कम्पितुम् लग्नाः सा स्वजीवनस्य भिक्षाम् अयाचत।
    मायाविनी प्राह - न त्वया स्वभगिन्या हत्यायाः समाचारः कस्यापि आख्येयः। भगिनी सर्वम् स्वीकृतवती ।
    मायाविनी कोमतरहप्भगिन्याः वस्त्राणि परिधाय तया सह राजप्रासादम् आससाद। राजा द्वयोः एव स्वागतम् अकरोत् ते राज्ञीपदे च अभिषिक्तवान्। मायाविनी प्रत्यहम् गृह एव अतिष्ठत्। जरथरहप्भगिनी गृहकार्यम् अकरोत् अजाः च आचारयत्। मायाविनी अजानाम् गणनाम् कर्तुम् आगच्छति प्रत्यहम् एकाम् अजाम् अखादयत्।
    जरथरहप्भगिन्यै खादितुम् शुष्काः रोटिकाः प्रायच्छत् सा प्रत्यहम् अजाः चारयितुम् तम् एव नदीतटम् आगच्छति यत्र भगिनीम् मारितवती मायाविनी।
    एकदा सा भगिनी दुःखेन भृशम् विषण्णा रोदिति। प्ररुदन्ती सा नद्याम् अपश्यत् तत्र तस्या ज्य़ेष्ठभगिनी वस्त्राणि वयति। तस्याः अश्रूणि वस्त्रवयनयन्त्रे न्यपतन्। ज्येष्ठभगिनी एतत् निभाल्य भगिन्याः कृते स्वादिष्टम् भोजनम् आनयति।
    सायम् ज्येष्टभगिनी नद्याम् अगच्छत् कनिष्ठभगिनी च राजप्रासादम्। सा एकम् मांसखण्डम् अपि कनिष्ठभगिन्यै प्रायच्छत्। यदा मायाविनी अजाः गणयति तदा तत् मांसखण्डम् प्रथिव्याम् अपतत्।
    अन्यदा मायाविनी जरथरहप्भगिनीम् प्रासादे स्थापयित्वा स्वयम् अजाः चारयितुम् निर्गताः ज्येष्भगिनी व्यचारयत् आगता अस्ति मे कनिष्ठभगिनी अजाः चारयितुम्। सा जलात् उपरि समागता ।
    आगमनसमकालम् एव मायाविनी तस्याः शिरच्छेदम् अकरोत् शरीरस्य च खण्डानि कृत्वा नद्याम् अपातयत्। अन्यदा मायाविनी जरथरहप्भगिनीम् अजाः चारयितुम् प्रैषयत्। सा ज्येष्ठभगिनीकृते भृशम् रुरोद। सा नद्याम् व्यलोकयत् तस्या भगिनी स्थूलतमा सञ्जाता अस्ति। सा जलाद् बहिः आगता।
    सायम् ते स्वस्थजीवनम् विनिर्गते। राजा लयांगवारः व्यचारयत् यत् जरथरहप्भगिनी प्रत्यहम् विषण्णचेता तिष्ठति। किम् कारणम् अस्य वर्तते।
    एकदा मायाविनी राजप्रासादात् अन्यत्र गता आसीत्। राजा ब्रूते , कथम् त्वम् विमनस्का सर्वदा एव तिष्ठसि? सा स्वभगिन्याः वृत्तान्तम् राज्ञे निवेदयति। राजा शीघ्रम् एव भृत्यान् आकार्य गर्तम् एकम् निर्मापितवान्। गर्तम् आस्तरणेन आच्छादितवान्। मायाविनी प्रतिनिवृत्ता।
    राजा ताम् तत्र उपविष्टुम् आदिशत्। प्रहर्षिता सा तत्र उपविशति गर्ते च निपतति। राजा कृपाणेन तस्याः शिरः चिच्छेद। तस्या शरीरस्य खण्डानि कृत्वा तस्याम् एव नद्याम् न्यपातयत्। कोमतरहप्भगिनी नदीतः बहिः आगता। एतद् वीक्ष्य कनिष्ठभगिनी भृशम् प्रहर्षिता। स्वज्येष्ठभगिनीम् आनीय राजप्रासादम् आगता। तदनन्तरम् राजा ते भगिन्यौ च राजप्रासादे सुखेन न्यवसन्।

शिक्षया किम् न साध्यते

निर्धने ब्राह्मणकुले जन्म अभवत् नरेन्द्रस्य । बुभुक्षितः सन् अपि विद्याम् प्राप्तवान् श्रमेण । मनसि व्यचारयत् अयम् य़ुवकः पठनेन वृत्तिः प्राप्स्य़ामि । सुखेन जीवनम् यापयिष्यामि । बहूनि दिनानि व्यतीतानि सः न कुत्रापि वृत्तिम् अलभत । गृहे पितरौ , स्त्री च न्यवसन् । स्त्री तु पितृगृहे वसति स्म । यतो हि श्वसुरगृहे दीनतायाः साम्राज्यम् आसीत् ।
    सन्ध्यासमयः आसीत् । नरेन्द्रः पूर्णम् दिनम् अभ्रमद् भृत्यर्थम् । बुभुक्षितः सन् स्वगृहम् प्रविष्टः । तेन श्रुतम् – माता पितरम् कथयति स्म - शृणोतु - वधूः स्वपितृगृहे वर्तते , बहूनि दिनानि व्यतीतानि । ताम्+अत्रैव आनयतु भवान् । यथा कथञ्चित् अत्रैव स्वोदरम् पूरयिष्यति ।
    पिता प्रोवाच - तव कथनम् युक्तियुक्तम् अस्ति परम् वयम् यथा कथञ्चित् स्वजीवनम् यापयाम ।
    वधूः कथम् अत्र निवसिष्यति बुभिक्षिता ? व्यर्थम् एव मया स्वसुतः पाठितः।
    यदि सुतः मूर्खः अभविष्यत् तर्हि श्रमम् कृत्वा अपि स्वोदरम् अपूरयिष्यत् ।
गृहे वयम् बुभुक्षिताः , सुतः भृत्यर्थम् अटति प्रत्यहम्। उपजिलाधीशः  भवितुम् कल्पते।
    युवकः स्वपितृवचनम् अशृणोत् द्वारस्थः । मनसि व्यचारयत् - घिङ् माम् । स्वपरिवारस्य पोषणार्थम् अपि न अहम् किमपि उपार्जयितुम् क्षमः । मम अनेन कुत्सितेन जीवनेन कः लाभः? सः गृहाभ्यन्तरम् अपि न गतः । प्रतिनिवृत्तः सन् शनैः शनैः चलितुम् आरभत ।
    सः कुत्र गच्छति , कथम् गच्छति , स्वयम् अपि न जानाति स मनसि व्यचारयत् - अनेन रेलयानेन सुदूरम् गच्छानि किन्तु चिटिकार्थम् रूप्यकाणि न वर्तन्ते ।
प्रचलन् सः विरराम ।
    कलकलध्वनिना प्रवहन्ती च आसीद् गंगा । तेन विचारितम् – गंगातरंगेषु जीवनम् समापयिष्यामि। कः लाभः च अनेन भारभूतेन जीवनेन। सः शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्य अज्ञानम् विनष्टम् ।
    सः व्यचारयत् , न अहम् गंगायाम् देहत्यागम् करिष्यामि। एतत् पापकर्म न करिष्यामि।
    युवकः बहिः आगतः जलात्। रात्रौ तत्रैव गंगातटे एकस्मिन् उटजे न्यवसत्। प्रभाते सञ्जाते निरुद्देश्यम् एव प्राचलत्। पूर्णम् दिनम् निरन्तरम् प्रचलन् आस्ते।
क्षुधया क्लान्तम् आसीत् शरीरम्।
    अक्ष्णोः अग्रतः च अन्धकारः प्रसर्पति। इत्थम् प्रदोषकाले कस्यचित् प्रासादस्य द्वारदेशम् आससाद। सहसा प्रासादात् कोऽपि वृद्धः बहिः निर्गतः।
    कमपि अपरिचितम् युवकम् वीक्ष्य तत् पार्श्वम् आगत्य औत्सुक्येन प्रोवाच , कः असि भ्रातः ! किमर्थम् अत्र समागतः असि ? तत् श्रुत्वा युवकस्य नेत्रे सजले सञ्जाते ।
    सः उद्विग्नम् युवकम् पुनः पप्रच्छ वृद्धः कथय किम् ते कष्टम्? षड्त्रिंशद् होरात्मकः समयः व्यतीतः, न  मया अन्नकणम् अपि सम्प्राप्तम् ।
    वृद्धः दयार्द्रः सम्प्रोवाच , उतिष्ठ , गृहम् चल। स्नेहात् अयम् तम् प्रासादाभ्यन्तरम् आनयत्।
    भोक्तुम् च निवेदयाञ्चक्रे। बुभुक्षितः अपि अयम् भोक्तुम् न चेष्टते, यतो हि गृहे तस्य पितरौ बुभुक्षितौ। निरन्तरम् नेत्रयोः अश्रुबिन्दवः निपतन्तः च आसन्।
    युवकः पुनः स्नेहात् अपृच्छत्- सत्यम् वद पुत्र ! किम् ते कष्टम्। भोज्यानि प्राप्य अपि किमर्थम् व्यर्थम् एव रोदिषि?
    युवकः वृद्धस्य स्नेहपरिपूर्णानि वचनानि श्रुत्वा सर्वाम् कथाम् अश्रावयत् स्वकुटुम्बस्य।
    वृद्धः यु‍वकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे, सर्वम् सम्पादयिष्यति भगवान् भूतभावनः। युवकः सन्तुष्टः सन् भोजनम् चकार। वृद्धः युवकम् तद्दिनात् एव स्वगृहे एव शिक्षकपदे नियुक्तवान्। किञ्चित्कालानन्तरम् सः सर्वकारीयाम् भृतिम् अलभत।
    स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः। आसीत् असौ युवकः भूदेवमुखोपाध्यायः। बंगप्रान्तस्य प्रतिष्ठितः सामाजिकः अयम् विभिन्नशिक्षणसंस्थानाम् सञ्चालकः सञ्जातः।