Wednesday, 10 October 2012

कैकेयीप्रलापः दशरथस्य सान्त्वनम्

कैकेयी केकयदेशस्य अश्वपतिमहाराजस्य पुत्री। दशरथस्य प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः मंथरायाः दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।

तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव रामस्य वनाभिगमनम् भवति। केकयराजस्य पुत्री कैकेयी महाराजस्य दशरथस्य तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् । एकदा  इंद्रस्य साहायार्थं दशरथः शम्बरेन सह युद्धं करोति । तत्सन्दर्भे यदा दशरथः बहु विचलितः भवति तदा तस्य सारथिरूपेण उपस्थिता कैकेयी अधीरा न भवति। वीरनारी कैकेयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करोति । तदनन्तरं प्रतिफलरूपेण दशरथमहाराजः ’भवत्या अपेक्षितं ददामि’ इति उक्तवान् भवति । तदा कैकेयी ’सूक्तसमये वदामि’ इति उक्तवती भवति। तस्य प्रयोजनं सा रामस्य यौवराज्याभिषेकसन्दर्भे करोति । ’रामं वनं प्रेषयतु’ इति दशरथम् उक्त्वा रामस्य दण्डकाराण्यवासं कारयति। कैकेयी दुष्टा स्त्रीः न । सा अपि रामं बहु प्रीणयति स्म । परन्तु यदा रामस्य यौवराज्याभिषेकः आयोजितः भवति तदा मंथरा नामिकया सेविकया उत्तेजिता भूत्वा तथा व्यवहरति। स्वत्रस्य अधिकारः भवतु इति लोभेन तथा राजभवने कौसल्यायाः अपेक्षया ज्येष्ठस्थानं प्राप्तं भवतु इति उद्देशेन ’स्वपुत्रस्य भरतस्य यौवराज्याभिषेकं तथा रामस्य वनाभिगमनं च अपेक्षते। दशरथः वचनबद्धः सन् तस्याः अनुरोधम् अङ्गीकृत्य वनं गन्तुं रामम् आदिशति । पितृवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं कैकय्याः ज्ञानोदयः भवति । यतः भरतः तस्याः स्वार्थकार्येण क्रुद्धः दुःखितः च भवति। अनन्तरं सा स्वदोषम् अङ्गीकरोति पश्चात्तापम् अनुभवति च। किन्त् तावति काले हानिः जाता आसीत् । रामः वनं गतः आसीत् , दशरथः अपि पुत्रशोकेन मृतः आसीत्।

मंजरी देवी

राजा भानुप्रतापः आसीत् उदयगिरिनगर्याः कुशलः शासकः। भयाद् एव जना सन्मार्गे चलन्ति इति आसीत् तस्य विचारः।अतः लघ्वपराधे अपि सः गुरुदण्डं प्रददत्। मृत्युदण्डे च नासीत् तस्य आपत्तिः। सामान्यरुपेण राज्ये प्रशान्ति आसीत् परन्तु भयकारणात् एव।
मंजरी देवी आसीत् भानुप्रतापस्य पुत्री। स्त्रीत्वे अपि क्षत्रियोचितविद्यायाम् सा आसीत् पारदर्शिनी। एकदा राजा अस्वस्थः अभवत्। स मंजरीम् आहूय तस्योपरि शासनभारं अर्पितवान्। अमात्यभैरवस्य परामर्शसहायेन मंजरीदेवी सुव्यवस्थितरुपेण राज्यं परिचालितवती। स्वल्पसमयेनैव सा शासनकार्ये पारंगता अभवत् । पुत्र्याः योग्यतां अपश्यन् राजा महान्तम् आनन्दम् अनुभवति स्म। सुखेन स मृत्युं प्राप्तवान्। मंजरीदेवी अतीव दुःखिता जाता। तां सान्त्वनां प्रदाय महामन्त्री भैरवः अवदत् “अस्यां विषादपूर्णपरिस्थित्याम् एव धैर्यस्य प्रयोजनीयता विद्यते। धैर्य्यं विना किमपि प्राप्तुं न शक
्यते। तव दिवंगतः पिता अपि दुःखितः भविष्यति। “अमात्यस्य सुपरामर्शेन मंजरीदेवी शोकात् उत्थाय पुनः शासनविषये मनोनिवेशम् अकुर्वत्।
एकदा व्यापारसम्बन्धीचर्चां कर्तुम् अमात्यः भैरवः पार्श्वराज्यं गतवान्। मंजरीदेवी अपि मनोविनोदाय मृगयाम् अगच्छत्। तदा आखेटरता सा स्वजनात् दुरम् आगतवती। परिश्रान्ता सन् मंजरीदेवी सरोवरं निकषा वृक्षच्छायायाम् उपविष्टा । तस्य वृक्षस्य पृष्ठतः आसीत् एकः युवकः। स मंजरीदेवीम् दृष्ट्वा मोहितः अभवत्। बहुक्षणपश्चात् सैनिकानां पदध्वनिं श्रुत्वा प्रत्यावर्तनं कृतवान्।
आसीत् असौ युवकः एकः चित्रकारः। तस्य नामः आसीत् मुकुन्दः। चित्रणकार्य्यस्य उपादानान् संग्रहणार्थं तेन वनं गतमासीत्। तत्र एव सः मंजरीम् अपश्यत्। ग्रामे प्रत्यावर्तनस्य पश्चादपि सः मंजरीं विस्मर्तुम् असमर्थः अभवत् । स मंजर्याः चित्रणं कर्तुम् ऐच्छत् । मुकुन्दः अवगतः आसीत् यत् राज्ञ्याः दर्शनस्य अनुमतिं स कदापि प्राप्तुं न शक्यते । अतः एकदा निशायां राज्ञ्याः कक्षे प्रविश्य बहुक्षणपर्यन्तं ताम् अपश्यत् । परन्तु प्रत्यावर्तनसमये सैनिकाः तं गुप्तचरं मन्यन् धृतवान्तः। अनुमतिं विना प्रवेशस्य अपराधात् मुकुन्दः मृत्युदण्डं अलभत् । तदा मुकुन्दः मंजरीदेवीं प्रति अनुरोधं कृतवान् यत्- “अहं एकः चित्रकारः । मृगयायाम् अहम् प्रथमवारं त्वां दृष्टवान् । ततः एव मम मनसि तव प्रतिकृतिरचनायाः इच्छा अस्ति । मरणात् प्राक् एतां इच्छां पूर्णां कर्तुम् इच्छामि अहम् । “ सर्वं श्रुत्वा राज्ञी मुकुन्दम् एकसप्ताहस्य समयं प्रददत् । सा अवदत् “सप्ताहकालपश्चात् मृत्युदण्डं अवश्यं पालनीयम् । “ मुकुन्दः स्वीकृतवान्।
अन्तिमदिवसे चित्रणकार्यः समाप्तः जातः । मंजरीदेवी अतुलनीयं स्वचित्रम् अपश्यन् विमोहिता अभवत् । सा तत्क्षणात् सैनिकान् आहूय आदेशम् अददत् “मृत्युदण्डः सद्य एव निरोधव्यः । उपस्थापयथ मुकुन्दं मम सन्मुखम्।“
शूले प्रदानस्य पूर्वमुहुर्ते एव प्रहरी राज्ञ्याः आदेशं श्रावितवान्। मुकुन्दः राजसभायाम् आनीतः । अमात्यः भैरवः अपि तत्र उपस्थितः आसीत् । सर्वं ज्ञात्वा स अवदत् “मृत्युदण्डः अतीव भयंकरः । अनेन उपकारस्य अपेक्षा अपकारः अधिकः भवति। प्राणहरणस्य अधिकारः कस्यापि नास्ति,असौ सर्वथा वर्जनीयः ।
“तव वाक्यम् सार्वतोरुपेण शुद्धम् । अद्यतः उदयगिरिनगरे न कोऽपि मृत्युदण्डः दातव्यः। सर्वे जनाः सहर्षं ताम् अभिनन्दितवन्तः।

Saturday, 6 October 2012

दशानन:

इक्ष्वाकुवंशे रघु: नाम राजा जात: | रघु: पराक्रमी यशस्वी च आसीत् इत्यत: तदीय: वंश: ‘रघुवंश:’ इत्येव ख्यात: जात: | एतस्मिन्नेव वंशे विष्णु: राज्ञ: दशरथस्य पुत्रत्वेन जन्म प्राप्य राम इति नाम लब्धवान् | 
हिरण्यकशिपुं हिरण्याक्षं च विष्णु: नरसिंहावतारसमये मारितवान् आसीत् | अनन्तरजन्मनि तौ रावणकुम्भकर्णत्वेन जन्म प्राप्तवन्तौ आस्ताम् | ताभ्यां पुनरपि लोकस्य पीडा आरब्धा | देवयक्षगन्धर्वादिभ्य: मरणं यथा न प्राप्येत तथा वरं प्राप्तवान् आसीत् रावण: | तस्य विश्वास: आसीत् यत् मानव: मम केशं कम्पयितुम् अपि नार्हति इति | मम मृत्युभयं नास्तीति चिन्तयन् स: अहङ्कारी भूत्वा जनान् विविधै: प्रकारै: पीडयितुम् उद्युक्त: जात: |
कुम्भकर्णस्य शरीरं सुविशालम् आसीत् | षट् मासान् यावत् निद्रां, पुन: षट् मासान् यावत् जागरणं च वरत्वेन प्राप्तवान् आसीत् स: | रावण: लङ्कात: कुबेरम् अपसार्य तदीयं पुष्पकविमानं वशीकृत्य लङ्कायाम् एव वसन् वैभवोपेतं जीवनं यापयति स्म | राक्षसान् सङ्घटय्य स: अन्यान् अपि लोकान् जितवान् आसीत् | एतस्मात् तदीय: अहङ्कार: प्रवृद्ध: | रावणस्य दश शिरांसि आसन् | अत: स: ‘दशानन:’ इत्यपि निर्दिश्यते स्म |
कदाचित् स्वस्य विंशते: भुजानां बलस्य कारणत: गर्वं प्राप्तवान् स: कैलासं वशीकर्तुं प्रयासम् अकरोत् | तदा भगवान् शिव: पादाङ्गुष्ठेन तं नोदितवान् | तदा शिलाया: अध: गत: स: उच्चै: रवं कृतवान् | तत: एव ‘रावण:’ इति नाम जातं तस्य | शिवस्य क्रोधस्य अपनयनाय रावण: घोरं तप: कृत्वा स्वस्य शिरांसि एकैकश: कर्तयित्वा अर्पितवान् | तस्मात् शिव: प्रसन्न: जात: | तत: आरभ्य रावण: महाशिवभक्त: जात: |
रावण: महावीर: पराक्रमी च यथा तथैव महादुष्ट: अपि आसीत् | परनार्यपहरणं पौरुष-द्योतकं भावयति स्म स: | परनारी: अपहृत्य कारागारे स्थापनं तस्य प्रवृत्ति: आसीत् | अत: एव तेन कश्चन शाप: प्राप्त: आसीत् यत् यदि परनारीं बलात् अनुभोक्तुं प्रयत्न: क्रियते तर्हि शिरांसि भग्नानि भविष्यन्ति इति |
मयस्य पुत्री मन्दोदरी तस्य पत्नी | सा पत्यु: हितकाम्यया पतिं रावणं सन्मार्गं स्मारयति स्म | भ्राता विभीषण: अपि रावणं पापकर्मभ्य: निवारयितुं प्रयासं करोति स्म | किन्तु रावण: तु तान् धिक्कुर्वन् दुष्टताम् आचरन् एव भवति स्म | विन्ध्याचलस्य दक्षिणभागपर्यन्तं राक्षसानां राज्यं प्रसृतम् आसीत् | आर्यावर्ते प्रचलत्सु यज्ञेषु विघ्नम् उत्पादयन्त: राक्षसा: ऋषिमुनीन् मारयन्त: आश्रमवासिनां, निर्दोषजनानां च पीडनात् महान्तम् आनन्दम् अनुभवन्ति स्म |
तेषु एव दिनेषु कुशध्वज: नाम राजर्षि: वेदपाठद्वारा काञ्चित् पुत्रीं प्राप्तवान् | तस्या: नाम वेदवती इति जातम् | सा विष्णुं पतिरूपेण प्राप्तुम् इच्छति स्म | अत: सा घोरं तप: आचरितवती | रावण: तां प्राप्तुम् इच्छति स्म | अत: सा वेदवतीम् अवदत् - ‘‘अहं विष्णो: अपि श्रेष्ठ: | अत: मम परिणयम् अङ्गीकृत्य लङ्कां प्रति आगच्छतु’’ इति |एतत् निराकुर्वती वेदवती रावणम् अप-मानकराणि वचनानि अवदत् | तदा रावण: क्रुुद्ध: सन् तां बलात्कारेण आकृष्य नेतुं प्रयासम् अकरोत् | एतस्मात् दु:खतप्ता रोषाविष्टा च वेदवती रावणं शप्तवती - ‘‘अये दुष्ट ! भवता मम शरीरस्य स्पर्शं कुर्वता अपावित्र्यं कल्पितम् | अत: अहम् एतत् शरीरं त्यजामि इदानीम् एव | किन्तु स्मरतु - अग्रिमे जन्मनि लङ्कायाम् एव जन्म प्राप्य अहं भवत: नाशस्य कारणं भविष्यामि’’ इति | एतावत् उक्त्वा सा योगबलेन अग्निं प्रज्वलय्य तेन अग्निना ज्वलिता सती भस्मीभूता जाता |
राक्षसानाम् अत्याचार: दिने दिने प्रवृद्ध: | जना: प्रतिदिनं भगवन्तं प्रार्थयन्ते स्म - ‘त्रायस्व भगवन्, त्रायस्व’ इति | जगत: कल्याणाय अवतारं प्राप्तुं सुसमय: सम्प्राप्त: अस्ति इति विष्णु: अचिन्तयत् | अत: स: मानवरूपेण जन्म प्राप्नोत् | देवाश्च वानररूपेण जन्म प्राप्तवन्त: |

परशुरामावतार:

जमदग्नि: मृत: इव भूमौ अपतत् | रेणुका-   देवी पत्यु: शरीरस्य उपरि पतित्वा रोदनम् आरब्धवती | तस्मिन् एव समये परशुराम: आश्रमात् प्रतिनिवृत्त: | प्रवृत्तं सर्वं श्रुत्वा नितरां क्रुद्ध: स: माहिष्मतीं प्रति प्रस्थित: |  अत्रान्तरे भृगुमहर्षि: जमदग्ने: आश्रमं प्रति आगतवान् | प्रवृत्तं समग्रं ज्ञा स: योग-बलात् जमदग्निम् उज्जीवितवान् | 

माहिष्मतीनगरे सैनिका: धेनुं ताडयन्त: आसन्, यत: सा तेषाम् इच्छाया: अनुगुणं वस्तूनि यच्छन्ती न आसीत् | तस्मिन् एव समये परशुराम: तत्र उपस्थित: | तस्य दर्शन-मात्रात् भीता: सैनिका: तत: पलायितवन्त: | परशुराम: प्रीत्या धेनुं स्पृशन् अवदत् यत् भवती निर्भयतया आश्रमं प्रतिगच्छतु इति | धेनु: आश्रमं प्रति अधावत् | तत: परशुराम: प्रासादस्य समीपं गत्वा उच्चस्वरेण अवदत् - ‘‘अयि ! दुष्ट ! राजा प्रजानां पालनं कुर्यात् | यदि स: कर्तव्यच्युत: भवति तर्हि तेन दण्ड: अवश्यम् अनु-भोक्तव्य: | भवान् प्रासादात् बहि: आगत्य पापस्य फलं प्राप्नोतु’’ इति |

तस्य घोरं रूपं दृष्ट्वा द्वारपालका: पलायन-सूत्रं पठितवन्त: | ये द्वित्रा: धैर्येण स्थितवन्त: ते पर शुरामस्य परशो: प्रहारं प्राप्य यमलोकं गता: | परशुराम: कालरुद्र: इव गर्जन् कार्तवीर्यार्जुनं निन्दन् अवदत् - ‘‘अये पापिन् ! क्वास्ति भवान् ? भवत: पापघट: पूर्ण: अस्ति | यस्य शासने गो-सज्जन-ऋषिमुनय: पीडिता: भवन्ति स: हन्तव्य: एव’’ इति | कार्तवीर्यार्जुन: चिन्तितवान् आसीत् यत्  परशुराम: कश्चन साधारण: मुनिकुमार: स्यात् इति |
किन्तु यदा तस्य पराक्रमादिकं ज्ञातं तदा स: सहस्रेण हस्तै: आयुधानि प्रयुक्तवान् | उभयो: अपि घोरं युद्धं प्रवृत्तम् | परशुराम: कार्तवीर्यार्जुनस्य सर्वाणि अस्त्र-शस्त्राणि खण्डितवान् | तदीयान् सहस्रं हस्तान् अपि निर्दयं छिन्नवान् | तेन कार्तवीर्यार्जुन: हतवीर्य: सन् भूमौ अपतत् | तदा तेन स्मृतं यत् अहं चक्रपुरुष: अस्मि, शापकारणत: एतत् जन्म प्राप्तम् अस्ति मया इति | तेन परशुरामस्य विष्णुस्वरूपम् अपि अवगतम् | तत: स: सुदर्शनचक्रे विलीन: जात: |
परशुराम: आश्रमं प्रत्यागत: | तत्र पिता सजीवं दृष्ट: तेन | नितरां सन्तुष्ट: स: पितरं कार्तवीर्यार्जुनस्य मरणवार्तां निवेदितवान् | एतां वार्तां श्रुत्वा जमदग्निमहर्षि: अवदत् - ‘‘भवता यत् कृतं तत् सर्वथा अनुचितम् एव | एतस्य प्रायश्चित्तरूपेण तप: आचरणीयं भवता’’ इति |  ‘‘तात ! य: स्वकर्तव्यं विस्मृत्य पापाचरणे उद्युक्त: भवति तस्य दण्डनाय सर्वोऽपि प्रवृत्त: भवितुम् अर्हति एव | अत: मया यत् कृतं तत् अनुचितं तु न | तथापि भवता आदिष्टम् इत्यत: तप: आचरिष्यामि, न तु प्रायश्चित्त-रूपेण’’ इति उक्त्वा परशुराम: तपसे अरण्यम् उद्दिश्य गतवान् |
कार्तवीर्यार्जुनस्य सहस्रं पुत्रा: हैहयवंशीयान् क्षत्रियान् मेलयित्वा जमदग्ने: आश्रमं प्रति गतवन्त: | तस्मिन् समये महर्षि: जमदग्नि: समाधिस्थ: आसीत् | सैनिका: तस्य शिर: कर्तयित्वा दूरे क्षिप्तवन्त: | रेणुकादेवी स्वस्य रक्षणाय परशुरामम् एकविंशतिवारम् आहूत-वती | पत्यु: शरीरस्य उपरि पतित्वा विलपनं कृतवती च | जमदग्ने: शिर: लुठत् गत्वा शिलयो: मध्ये अपतत् | क्षत्रिया: आश्रमं दग्धवन्त: | एतेन पत्यु: शरीरस्य उपरि पतिता रेणुकादेवी अपि दग्धा जाता | अरण्ये तपसि विलीनस्य परशुरामस्य तपस: भङ्ग: अकस्मात् जात: | तस्य कर्णे मातु: ध्वनि: एकविंशतिवारं प्रतिध्वनित: |
एष: कश्चन अशुभसङ्केत: इति चिन्तयन् परशुराम: तप: परित्यज्य आश्रमं प्रत्यागत: | तस्मिन् समये आश्रम: ज्वलति स्म | तदीयौ मातापितरौ दग्धौ जातौ आस्ताम् | हैहय-वंशीया: क्षत्रिया: सर्वान् आश्रमवासिन:, समीपस्थान् ग्रामीणान् च लुण्ठयन्त: आसन् | एतत् दृष्टवत: परशुरामस्य नेत्राभ्याम अग्निज्वाला निर्गता |
 स: शिवं ध्यायन् परशुं हस्तेन गृहीत्वा सर्वान् क्षत्रियान् कण्टकसस्यानि इव नाशितवान् | तत: स: शिलयो: मध्ये पतितं पितु: शिर: उन्नीय उरसा आलिङ्ग्य अवदत् - ‘‘मम हृदये स्थिताया: क्रोधज्वालाया: कारणत: नेत्रयो: अश्रूणि सर्वथा शुष्काणि जातानि सन्ति | अहं क्षत्रियाणां रक्तेन भवत: तर्पणं विधास्यामि, तस्यैव रक्तस्य कुण्डे भवत: शिर: मज्जयित्वा अन्त्येष्टिं करिष्यामि’’ इति |
तत: उन्नतां शिलाम् आरुह्य परशुम् उन्नीय गर्जन् स: एकविंशतिवारं प्रतिज्ञां कृतवान् - ‘‘अहम् एतेन परशुना पृथिवीस्थान् सर्वान् क्षत्रियान् नाशयिष्यामि’’ इति |
तस्य भयङ्कर: ध्वनि: दिशासु प्रतिध्वनित: जात: | तां भीषणप्रतिज्ञां श्रुत्वा ब्रह्मादिदेवा: ऋषिमहर्षयश्च तत्समीपम् आगत्य - ‘भवान् शान्तो भवतु’ इति निवेदितवन्त: |

महर्षि: भृगु: अवदत् - ‘‘भगवान् स्वयमेव दुष्टानां दण्डनं शिष्टानां रक्षणं च करिष्यति | दण्डनकार्यम् ऋषिवंशीयानां न’’ इति | तदा परशुराम: अवदत् - ‘‘भगवान् आकाशात् अवतीर्य कार्यं न करिष्यति | स: भगवान् अस्मादृशान् कार्ये प्रेरयन् कार्यं साधयिष्यति | यदा भूलोके पापकृत्यानि वर्धन्ते, तदा भगवान् मानवेषु कस्मिंश्चित् स्वशक्तिम् आवाहयति, पापिनां दण्डनं कारयिष्यति च | इदानीं भगवान् मद्द्वारा एतादृशं कार्यं कारयन् अस्ति’’ इति | तत: स: हिमालयस्य कैलासशिखरं प्रति गतवान् शिवस्य तोषणाय |
तस्य तपस्यया शिव: सन्तुष्ट: जात: | परशुराम: तम् अवदत् - ‘‘शिवस्य अनुज्ञां विना तृणम् अपि न चलति इति श्रूयते | भवान् तु लयपुरुष: | मम प्रतिज्ञा अपि ज्ञायते भवता | तां प्रतिज्ञां पूरयितुं यत् बलम् आवश्यकं तत् मह्यं ददातु कृपया’’ इति | शिव: तस्मै विविधानि अस्त्राणि शस्त्राणि च दत्त्वा एकं दिव्यास्त्रम् अपि यच्छन् अवदत् - ‘‘एतत् लोके भार्गवास्त्रनाम्ना प्रसिद्धिं गमिष्यति | भवान् विशिष्टेन केनचित् कारणेन मानवरूपेण जन्म प्राप्तवान् अवतारपुरुष: अस्ति | भवत: कार्ये कोऽपि विघ्न: न भविष्यति’’ इति | एतदनन्तरं परशुराम: गोलोके कृष्णरूपेण वसत: विष्णो: समीपं गतवान् | कृष्ण: तस्मै कवचं महाशक्तिमत् दिव्यं धनु: च दत्त्वा अवदत् यत् रामावतारसमये मया एतत् प्रति-स्वीकरिष्यते इति |
एवं देवानां द्वारा दिव्यास्त्राणि प्राप्तवान् परशुराम: क्षत्रियसंहारम् आरब्धवान् | ये राज्ञां दुष्टशासनेन प्रपीडिता: आसन् ते तस्य साहाय्यं कृतवन्त: | कार्तवीर्यार्जुनस्य पुत्रा:, सर्वे हैहयवंशीया: च नगरं परित्यज्य इतस्तत: धावितवन्त: | परशुराम: आग्नेयास्त्रेण माहिष्मतीनगरं ज्वालितवान् | एकविंशतिं दिनानि तत् नगरं ज्वलत् आसीत् | एवं हैहयराजानां राजधानी भस्मसात् जाता |
कार्तवीर्यस्य सहस्रं पुत्रा: अन्ये हैहय-वंशीया: च सम्भूय परशुरामं सम्मुखीकृत-वन्त: | किन्तु परशुराम: बलिपशून् इव सर्वान् संहृतवान् | तेषां शिरस: कर्तनात् प्राप्तेन रक्तेन पञ्च कुण्डान् निर्माय तेषु पितु: शिर: मज्जित-वान् | एवं स: पितु: तर्पणं विधाय तदीयम् अग्निसंस्कारं निर्वर्तितवान् | यत्र परशुरामेण पञ्च कुण्डानि निर्मितानि तत् स्थानं स्यमन्तपञ्चकम् इति ख्यातं जातम् | अग्रे तदेव क्षेत्रं कुरुक्षेत्रत्वेन अपि ख्यातम् अभवत् | एतस्मिन् एव स्थले महाभारत-युद्धकाले पुनरपि रक्तस्य नदी प्रावहत् |
पितु: श्राद्धं निर्वर्त्य परशुराम: पुनरपि क्षत्रियाणां संहाराय निर्गत: | प्रतिकोणम् अन्विष्य स: तान् संहृतवान् | क्षत्रियमातर: स्वशिशून् ब्राह्मणानां गृहेषु रक्षितवत्य: | स्वयं च ब्राह्मणीवेषं धृत्वा आत्मरक्षणं कृतवत्य: | ब्राह्मणकुटुम्बे प्रवृद्धा: क्षत्रियतरुणा: स्व-शक्त्या राज्यानि विस्तारितवन्त: | किन्तु परशुराम: पुनरपि सर्वत्र अटित्वा तेषां संहारं कृतवान् | एवम् एकविंशतिवारं भूभ्रमणं कृत्वा सर्वान् क्षत्रियान् संहृतवान् स: स्वस्य प्रतिज्ञाया: पूर्ते: अनन्तरं समग्रं भूमण्डलं कश्यपाय दानरूपेण दत्तवान् | तत: स: दक्षिणसमुद्रे स्थितं महेन्द्रपर्वतम् आश्रित्य तप: कर्तुम् उद्युक्त: जात: |
ये क्षत्रिया: बालका: ब्राह्मणपरिवारेषु आश्रमेषु च गोपिता: आसन् तेभ्य: कश्यप: परशुरामत: प्राप्तां भूमिम् अर्पितवान् | एतेन पुनरपि क्षत्रियाणां राज्यानि स्थापितानि जातानि | तेषां वंशाभिवृद्धि: अपि आरब्धा |

Tuesday, 2 October 2012

धनुर्विद्याया: परीक्षा

दृष्टि: पुरत:..’’ ‘‘दृढं गृह्यताम्‌..’’ ‘‘आकर्णम्‌ आकृष्यताम्‌ ..’’ सुंय्‌ ....’’

‘‘मुच्यताम्‌ ...’’ ‘‘स्थग्यताम्‌ .....’’

‘‘साधु कृतम्‌ .....’’


स च प्रदेश: एतादृशै: आज्ञाशब्दै: हर्ष-सूचकै: ध्वनिभि: च पूर्ण: आसीत्‌ । सशब्दं निर्गच्छतां बाणानां स्फुरणम्‌ अपि भवति स्म तदा तदा । अरुणाचलप्रदेशे स्थिते दिवाङ्गखाते प्रति-दिनं दृश्यमानं दृश्यम्‌ आसीत्‌ एतत्‌ ।


धनुर्विद्याया: प्रशिक्षणं प्रचलति स्म तत्र । अत: पूर्वोक्ता: विशेषा: तत्र । बहव: तरुणा: धनुर्विद्याभ्यासे निरता: दृश्यन्ते स्म । अनु-भविन: वृद्धा: केचन धनुर्विद्यां तान्‌ पाठयन्ति स्म । एवम्‌ अध्येतार: बोधयितार: च न मानवा:, अपि तु वानरकुलीया: । नायम्‌ आश्र्चर्यस्य विषय: । यत: बहो: कालात्‌ पूर्वं स्थितं दृश्यम्‌ एतत्‌ ।


तेषु दिनेषु इदुमिश्मिनामकात्‌ ग्रामात्‌ अनतिदूरे स्थिते अरण्य-परिसरे वानरकुलीया: निवसन्ति स्म । तेषु बहव: धनुर्विद्यायां सुनिपुणा: । कम्पमानायां शाखायां स्थितस्यापि लक्ष्यस्य भेदने अपि ते समर्था: । अत: एव इदुमिश्मिग्रामीणा: तेषां विरोधं न कुर्वन्ति स्म केनापि कारणेन ।


वानराणां प्रमुखा: स्वकुलीयानां तरुणानां धनुर्विद्याशिक्षणे विशेषत: आदरवन्त: । ‘तरुणे वयसि बोधितं चेदेव योग्यं फलं प्राप्यते’ इति ते जानन्ति स्म । ते वृक्षात्‌ वृक्षम्‌ उत्प्लवमाना: सुदूरस्थानि पर्वतशिखराणि प्राप्नुवन्ति स्म । तेषु स्थितानाम्‌ उन्नतानां वृक्षाणाम्‌ अग्रभागे स्थित्वा परित: सर्वत्र दृष्टिं प्रसार्य धनुर्निर्माणाय बाणानां सज्जीकरणाय च उत्तम: वेणु: वेत्रं च कुत्र अस्ति इति परिशील्य तेषां सङ्ग्रहं कृत्वा तै: धनूंषि बाणान्‌ च निर्मान्ति स्म । धनुर्विद्या-प्रशिक्षणकेन्द्रे तेषाम्‌ उपयोग: भवति स्म ।
उषसि एव तरुणा: प्रशिक्षणकेन्द्रम्‌ आगत्य धनुर्विद्याया: अभ्यासस्य आरम्भं कुर्वन्ति स्म ।

ज्येष्ठा: तेषां लक्ष्यैकनिष्ठतां, धनुर्ग्रहणकौशलं, बाणप्रयोगपाटवं च सम्यक्‌ परीक्षन्ते स्म । कदाचित्‌ तरुणानां ज्येष्ठानां च अभ्यासयुद्धं प्रचलति स्म । तदा तु समग्र: खातप्रदेश: बाणै: आवृत: भवति स्म ।

तं प्रदेशं गन्तुम्‌ उद्युक्तान्‌ बालान्‌ मातर: तर्जयन्ति स्म - ‘‘अनवधानेन तत्र सञ्चार: कृत: चेत्‌ वनचिकित्सालय: प्रवेष्टव्य: भवेत्‌ इति किं भवता न ज्ञायते ? कदाचित्‌ बाणेन भवान्‌ विद्ध: भवेत्‌ अपि’’ इति ।


एवमेव मासा: गता: । वर्षाणि अपि गतानि । केवलात्‌ धनुर्विद्याभ्यासात्‌ तेषु वानरेषु नीरसता उत्पन्ना । कदाचित्‌ वानराणां प्रमुखस्य पुत्र: एव पितरम्‌  अवदत्‌ - ‘‘सर्वदा अपि किम्‌ एतत्‌ धनुर्विद्याप्रशिक्षणं नाम ! मध्ये मध्ये मनोविनोदाय अपि किमपि भवेत्‌ । अन्यच्च महत्‌ बाणप्रयोगकौशलं प्राप्य अपि तस्य उपयोग: न क्रियते चेत्‌ अधीतं सर्वम्‌ व्यर्थम्‌ एव खलु ?’’ इति ।


‘‘युक्तम्‌ उक्तं भवता । मदमत्त: गज:, दुष्ट: व्याघ्र: इत्यादय: महत्‌  दौष्ट्यम्‌ आचरन्ति, अस्मान्‌ उपेक्षया पश्यन्ति च । यदि वयं बाण-प्रयोगकौशलेन तान्‌ किञ्चित्‌ निगृह्णीयाम तर्हि सर्वेषां वनवासिनाम्‌ उपकार: एव कृत: भवेत्‌’’ इति अवदतां नील: काल: च ।  ‘‘योग्य: बाणप्रहार: तेषां निग्रहणे उपकुर्यात्‌ एव’’ इति अवदत्‌ हरिप्रिय: ।
तदा कुचेष्टापर: वनेश: अवदत्‌ - ‘‘स: दुष्ट: वृक: अपि दण्डनीय: अस्माभि: । वराकान्‌ कुक्कुटान्‌ निर्दयं पीडयति स: । यदि वयं बाणप्रयोगेण तस्य नखान्‌ उत्पाटयितुं शक्नुयाम तर्हि अहो, कियान्‌ आनन्द: प्राप्येत !’’ इति । एतत्‌ श्रुत्वा अन्ये सर्वे वानरा: हसितवन्त: । तत: एकैक: अपि एकैकम्‌ उपायम्‌ अश्रावयत्‌ । बहव: तरुणवानरा: विनोदकायेॅ प्रवर्तनाय  सज्जा: जाता: अपि ।


दिवाङ्गारण्ये तेषां विविधा: विनोदव्यवहारा: आरब्धा: । तस्मात्‌ दिनात्‌ वानराणां व्यवहार-विषये बहव: आक्षेपा: उद्गता: सर्वाभ्य: दिग्भ्य: । तेषां बाणानां प्रहारं प्राप्य बहव: चिकित्सालयं प्रविष्टवन्त: । इदुमिश्मिग्राम-वासिभि: अपि एतस्य परिणाम: सम्मुखीकृत: ।

बालानाम्‌ अङ्गानि क्षतग्रस्तानि जातानि । ज्येष्ठानां शिरोभूषणानि बाणै: नीतानि । मातृभि: शोषणाय आतपे प्रसारिता: मांसखण्डादय: भूमौ पातिता: । एवं बहव: अनर्था: सम्पन्ना: सर्वत्रापि ।

वानराणां पीडावार्ता वृद्धस्य ग्रामप्रमुखस्य अनूकस्य कर्णपथम्‌ अपि आगता । कदाचित्‌ सर्वे वनजीवन: सम्भूय अनूकस्य समीपं गता: । तान्‌ स्वागतीकृत्य अनूक: अपृच्छत्‌ - ‘‘अपि कुशलं भवतां सर्वेषाम्‌ ? किमर्थं भवतां मुखे चिन्तारेखा: दृश्यन्ते ?’’ इति ।


तदा पक्षिराज: अवदत्‌ - ‘‘महोदय ! किं वदाम अस्माकं दुर्गतिविषये ? अरण्ये शान्त्या जीवनम्‌ असम्भवं जातम्‌ अस्ति सर्वथा’’ इति । 


तत: गजराज: अवदत्‌ - ‘‘दुश्चेष्टाप्रियाणां वानराणां पीडा वर्णयितुम्‌ एव अशक्या । ह्य: मम पुत्र: कदलीफलस्य खादनाय शुण्डाम्‌ उन्नीतवान्‌ । तावता कुतश्र्चित्‌ आगत: कश्र्चन बाण: तम्‌ अविध्यत्‌ । तदा तेन यत्‌ क्रन्दनं कृतं तत्‌ इदानीम्‌ अपि गुञ्जति मम कर्णयो: । समीपे स्थितायां वृक्षशाखायाम्‌ उपविष्टौ वानरौ एतत्‌ दृष्ट्वा महान्तम्‌ आनन्दम्‌ अनुभवत: स्म’’ इति ।


‘‘आर्य ! अत्र पश्यतु तावत्‌’’ इति वदन्‌ शशकुमार: व्रणितं वस्त्रपट्टेन बद्धं स्वस्य पादं दर्शयन्‌ अवदत्‌ - ‘‘ह्य: वयम्‌ अरण्ये धावनाभ्यासं कुर्वन्त: आस्म । तदा दुष्टै: वानरै: प्रयुक्ता: बाणा: अस्मासु बहून्‌ व्रणितान्‌ अकरोत्‌’’ इति । 


‘‘भवतां दु:खम्‌ अहम्‌ अवगच्छामि । अयि बान्धवा: ! अलं चिन्तया । ते वानरा: कथं बोधनीया: इति अहं चिन्तयिष्यामि । भवन्त: निश्र्चिन्ततया अरण्यं प्रतिगच्छन्तु’’ इति । अनन्तरदिने स: वानराणां प्रमुखम्‌ आहूय अपृच्छत्‌ - ‘‘कथं प्रचलति भवत्कुलीयानां तरुणानां धनुर्विद्याभ्यास: ? अरण्ये ग्रामे च तेषां नैपुण्यं वार्ताविषय: अस्ति’’ इति । ‘‘आर्य ! ते सर्वे धनुर्विद्यायाम्‌ अद्वितीयं नैपुण्यम्‌ आसादितवन्त: सन्ति’’ इति साभि-मानम्‌ अवदत्‌ वानरप्रमुख: । 


‘‘एवं तर्हि एतस्मिन्‌ वर्षे धनुर्विद्यास्पर्धायां भवत्कुलीया: एव स्वर्णपदकं प्राप्तुम्‌ अर्हन्ति इति भाति’’ इति अवदत्‌ वृद्ध: अनूक: । ‘‘प्राय: सर्वाणि पदकानि अपि अस्मदीयै: एव प्राप्येरन्‌ । अल्पा: किशोरा: अपि डयमानं पतङ्गं चटकं चापि वेद्धुं समर्था: सन्ति’’ इति अवदत्‌ वानरप्रमुख: ।

‘‘एवम्‌ ! तर्हि भवत्कुलीयानां बाण-प्रयोगकौशलं मया द्रष्टव्यम्‌ एव । श्व: भवान्‌ स्वकुलीयं निपुणतमं धनुर्वीरं नदीतीरं प्रति प्रेषयितुं किं शक्नुयात्‌ ?’’ इति । अनन्तरदिने कश्र्चन सुन्दर: वानर: धनुर्बाण-हस्त: सन्‌ आगत्य अनूकं नमस्कृतवान्‌ । अनूकोऽपि धनुर्बाणहस्त: सन्‌ सज्ज: आसीत्‌ ।

‘‘किं भवान्‌ स्पर्धार्थं सज्ज: ?’’ इति तं तरुणं वानरम्‌ अपृच्छत्‌ अनूक: ।


‘‘सज्ज: अस्मि एव महोदय !’’ इति आत्म-विश्वासपूर्वकम्‌ अवदत्‌ वानरतरुण: ।


‘‘तत्र, नद्या: अपरतीरस्य समीपे जले काचित्‌ शिला दृश्यते खलु ? किं सा लक्षिता भवता ?’’ इति अपृच्छत्‌ अनूक: । ‘‘पश्यामि एव’’ इति अवदत्‌ वानर: । ‘‘तस्या: शिलाया: जलस्थ: भाग: बाणेन वेद्धव्य: । य: एतत्‌ कर्तुं समर्थ: भवति स: एव जयं प्राप्स्यति । अहम्‌ आदौ बाणप्रयोगं करोमि’’ इति अवदत्‌ अनूक: । ‘‘अस्तु’’ इति अवदत्‌ वानरवीर: ।


उभौ अपि क्षणकालं  तां शिलां परीक्षादृष्ट्या दृष्ट-वन्तौ । तत: अनूक: एकं बाणं प्रयुक्तवान्‌ । स: बाण: सशब्दं गत्वा जलं विभिद्य शिलायां लग्न: जात: । तेन प्रयुक्ता: अन्ये द्वित्रा: बाणा: अपि शिलायां लग्ना: ।


एतदनन्तरं वानरतरुण: बाणप्रयोगम्‌ आरब्धवान्‌ । तेन प्रयुक्त: बाण: वेगेन तु गत:, किन्तु जलं भेत्तुम्‌ असमर्थ: सन्‌ जले अप्लवत । ‘अहो, मम बाण: लक्ष्ये न लग्न: एव !’ इति विषादेन अवदत्‌ वानरतरुण: । तत:  जागरूक-तया तेन पुनरपि द्वित्रा: बाणा: प्रयुक्ता: । किन्तु ते अपि लक्ष्यभेदने असमर्था: एव ! एतस्मात्‌ वानरतरुणस्य मुखं कान्तिहीनं जातम्‌ । स: म्लानमुख: सन्‌ स्वस्य पराजयम्‌ अङ्गीकृत्य तत: निर्गतवान्‌ मन्दं पदानि स्थापयन्‌ ।


वस्तुत: अनूक: जानाति स्म एव यत्‌ जय: ममैव इति । यत: तदीया: बाणा: लोहेन निर्मिता: आसन्‌, किन्तु वानरतरुणस्य बाणा: तु निर्मिता: आसन्‌ वेत्रेण । काष्ठमय: बाण: जले प्लवते इति तु सहजम्‌ एव खलु ? तत: आरभ्य वानराणां बाणप्रयोगकौशलं क्षीणं जातम्‌ । गच्छता कालेन तत्‌ विनष्टम्‌ अपि ।


 

Wednesday, 19 September 2012

शबरी”

ऋष्यमूकपर्वतस्य मूले पम्पानाम विशालं विमलजलं च सरः अस्ति । तस्य तीरे विराजते भगवतो मतन्गमहर्षेः आश्रमपदम्‌ । महर्षेः प्रभावात्‌ तत्रत्याः लताः वृक्षाश्च सर्वे सर्वदा पुष्पैः फफ लैश्च शोभन्ते । वन्यप्राणिनः अपि परस्परं वैरं विहाय सुखं जीवन्ति । विहन्गमा अपि नानाविधानि फफ लानि खादन्तः मधुरं कू जन्तश्च कालं यापयन्ति । धर्मस्य सदने तस्मिन्नाश्रमे नास्ति अधर्मस्य लेशतोऽपि सञ्चारः । रमणीये एतस्मिन्‌ प्रदेशे महर्षेः शिष्याः सततं वेदाध्ययनं कुर्वन्ति । शास्त्राणि च विचारयन्ति । महर्षिवचनानुसारेण लोक क ल्याणाय यज्ञं कु र्वतां वेदज्ञानां मन्त्रः सर्वत्र श्रूयते । एवम्‌ अतिमनोहरे तस्मिन्‌ आश्रमपदे शबरी नाम काचित्‌ वृद्धा तापसी निवसति स्म । मातङ्ममहर्षे भक्ति मती सा प्रभाते एव उत्थाय निखिलम्‌ आश्रमपदं जलेन सिञ्चन्ती स्वच्छीक रोति । पूजार्थं पुष्पाणि फफ लानि च आनयति यज्ञोपयोगीनि समिदादीनि सन्गृह्यति । गुरुभक्तिः निश्चयेन सद्गतिं जनयतिफफइति तस्याः दृढं विश्वासः । वृद्धायाः शबर्याः दृढभक्तिं गुरुशुश्रूषां च विलोक्य सन्तुष्टः मतन्गमहर्षिः ताम एवमवोचत्‌ ।
भद्रे ! दिव्यरू पं धरत्‌ विमानेन स्वर्गं गच्छन्‌ अिस्म्‌ । दशरथस्य पुत्रौ रामल्मणौ संप्रति चित्रकूटं प्राप्तौ । सद्य एव तौ इदमाश्रमपदम्‌ आगमिष्यतः । इदमवेहि श्रीरामः न साधारण मनुष्यः, अपि तु दुष्टानां दमनाय शिष्टानां रक्षणाय च भूमिम्‌ अवतीर्णः साक्षात्‌ महाविष्णुः । लक्ष्मणोऽपि सदा भूभारधारकः महाविष्णोः शय्याभूत आदिशेषः । यदा रामलक्ष्मणौ अत्र आगमिष्यतः तौ सतकु रुष्व । तयोः सेवनात्‌ ते सद्गतिः भविष्यति इति । शबरी तदारभ्य विमुक्त सर्वव्यापारा सदा रामध्यानं कुर्वती सलक्ष्मणं तं प्रतीक्षमाणा कालमनयत्‌ । रामोऽपि भार्यावियुक्तः लक्ष्मणेन सह कबन्धवचनानुसारेण सुग्रीवं द्रष्टुमिच्छन्‌ ऋष्यमूकपर्वतं प्रस्थितः मध्येमार्गम्‌ इदम्‌ आश्रमपदम्‌ आगच्छत्‌ । शबरी रामलक्ष्मणौ अवलोक्य सानन्दं तयोः पादारविन्दयोः प्रणिपत्य पाद्यम्‌ आचमनीयं च अयच्छत्‌ । नानाविधैः फलैः सत्कारम्‌ अकरोत्‌ च । तेन सन्तुष्टः रामः ताम्‌ अपृच्छत्‌ आर्थे ! अपि कु शलं ते, किं निर्विधं तपो वर्धते कि म्‌ ? आश्रमवासिनः सर्वेऽपि कुशलिनि ? किं वन्यप्राणियः आश्रमस्य भयं वर्तते, किं तव गुरुशुश्रूषा फलिताः शबरी अपि राम ! पवित्रं ते नाम जपन्तयाः मम तपसि कथं विघ्नाः सम्भवन्ति? सर्वमस्ति कुशलम्‌ इति वदन्ती स्वगुरोः मतन्गमहर्षेः आश्रमपदम्‌ अदर्शयत्‌ । रामः इयं हि यज्ञवेदिका या स्वयं द्योतमाना सर्वा दिशाः सन्ततं द्योतयति । मम गुरवः वृद्धत्वदीषात्‌ क म्पमानक राः अत्रैव मदानीतानि पुष्पाणि स्वीकृतवन्तः । अत्रैव फफ लानि भक्षितवन्तः सञ्चरितुम्‌ अशक्नुवतां तेषां प्रभावेण इदं सरा समुत्पन्नाम्‌ यत्र तत्सन्कल्पानुसारेण सप्त अपि सागरा अंशेन सन्गता विलसन्ति । इमे च तेषां आर्द्राः वल्क लाः । ये अद्यापि न शुष्क तां उपगच्छन्ति । इमानि च देवपूजायां तैः उपयुक्त ानि पुष्पाणि, यानि अद्यापि न म्लानतां प्राप्नुवन्ति । रामलक्ष्मणौ समग्रमाश्रमपदं दृष्टवन्तौ । पुनरपि शबरी अब्रवीत्‌ राम! मया त्वदर्थं नानाविधानि फलानि आनीतानि । निर्मलं मधुरं च जलमानीतम्‌ ।

गणेशपर्वाचरणम्‌

कुमुदानन्द झा  

अस्मिन्‌ काले पर्वाणि हर्षं न जनयन्ति, किन्तु भयं जनयन्ति । पुष्पपत्रफलादीनां मूल्यं गगनचुम्बि । गणेशस्य मृन्मयी प्रतिमा क्व विसर्जनीयेति समस्या । पूजां कर्तुं मन्त्राः पठनीयाः । ये संस्कृतं न विदन्ति तैः पुरोहितोऽन्वेष्टव्यः इति बहुधा चिन्ता । तदुपरि गणेशपर्वकाले केचन ‘नायकाः समुद्‌भवन्ति । एते वीथ्यां वीथ्यां मण्टपान्‌ रचयितुं तत्र बृहतीं विनायक मूर्तिं प्रतिष्ठापयितुं समारम्भं कर्तुं च वाञ्छन्ति । गणेशप्रतिष्ठा तेषां स्वप्रतिष्ठावृद्धेः कारणम्‌ इति द्रढिष्ठो विश्वासः । एतत्‌ सर्वं कर्तुं अपेक्ष्यते धनम्‌ । प्रतिगृहं गत्वा एते किल नायका धनं प्रयाचन्ते । ये गृहस्था धनं न ददति, तान्‌ अनेकधा त्रासयन्ति । अपि च गणेशमण्डपे असभ्यानि अश्लीलानि गानानि प्रवर्तन्ते, कदाचिनर्तनं च । स्वेच्छाचारस्य स्थलमेव गणेशमण्डपः इति । पुरा लोक मान्यो बालगङ्गाधरतिलकः स्वातन्त्र्यसंग्रामाय जनान्‌ प्रेरयितुं गणेशोत्सवं मार्गीकृ तवान्‌ । सम्प्रति तादृशः कोऽपि घनोद्देशो नास्ति । जनैरहं द्रष्टव्यः, पत्रिकासु मम चित्रं प्रक टनीयम्‌, उत्तरत्र निर्वाचने विजयं लब्ध्‌ु इदं प्रथमं सोपानम्‌ इति विचिन्त्य गणेशोत्सवम्‌ आयोजयन्ति । देवो गणेशः सर्वं दृष्टा किं चिन्तयतीति इराक देशे नरमेधः न विद्मः । गणशाय नमो नमः इत्युक्त्वा विरमामः ।
“गणेशपर्वाचरणम्‌”