Wednesday, 27 March 2013

अहं विघ्नविनायक: अस्मि-11


पार्वती क्षणाभ्यन्तरे स्वस्य दुखं विस्मृतवती। शिवः हस्तौ प्रसार्य शिशुम् आहूतवान्। विघ्नेश्वरः मन्दं पदानि निक्षिपन् शिवस्य समीपं गतवान्।
‘‘पुत्र, विघ्नेश्वर! भवन्तः पुत्ररूपेण प्राप्य आवां धन्यौ जातौ। चिरं जीवतु वत्स’’ इति वदन् प्रीत्या गणेशं चुम्बितवान् शिवः।
तदा विघ्नेश्वरः झटिति कूर्दनं कृत्वा “पितः, किं वदति भवान्? अहं तु भवतः पुत्रः। अतः अहम् आत्मानं धन्यं मन्ये’’ इति वदन् स्वस्य शुण्डां प्रसार्य पार्वतीपरमेश्वरयोः चरणस्पर्शं कृतवान्। तया शुण्डया स्वनेत्रे स्पृष्ट्वा प्रणामं कृतवान्। ततः परं सः विष्णुं नमस्कृतवान्।
तदा विष्णुः - “भागिनेय। आगच्छतु अत्र’’ इति उक्त्वा तं समीपे स्वीकृत्य ‘ मङ्गलम् अस्तु’ इति आशीर्वादं कृतवान्।

अनन्तरं विनायकः ब्रह्माणं नमस्कृतवान्। ब्रह्मा प्रीत्या तस्य कपोलौ स्पृशन् “हे गणपते! भवान् सर्वेभ्यः प्रथमपूजां प्राप्नोतु’’ इति आशीर्वादं कृतवान्।

पश्चात् विघ्नेश्वरः लक्ष्मीं सरस्वतीं च नमस्कृतवान्। उभे अपि विघ्नेश्वरम् अंङ्के उपवेशितवत्यौ। तदा सरस्वती पार्वतीं दृष्ट्वा “पुत्रेण गणपतिना पूर्वम् एव उक्तम् अस्ति यत् वयं तिस्रः मातरः अपि सहोदर्यः एव इति। अनन्तरं वयं पार्थक्येन अवतारं ग्रहीतवत्यः। सागरात् लक्ष्मीः, ब्रह्मंणः जिह्वातः अहम्  , प्रथमदक्षतः सतीदेवीरूपेण भवती च अवतारं प्राप्तवत्यः। विद्यावतीनामिका बुद्धिः विघ्नेश्वरस्य पत्नी भविष्यति। इतःपरं अस्माभिः विघ्नेश्वरस्य विवाहवैभवं द्रष्टव्यम् अस्ति’’ इति उक्तवती।
 सरस्वत्याः वचनं श्रुत्वा लक्ष्मीः “लक्ष्मीकरे विघ्नेश्वरे ये विश्वसन्ति तेषु अहं स्थिरतया वासं करिष्यामि। या अग्रे विघ्नेश्वरस्य पत्नी भविष्यति सा सिद्धिस्वरूपिणी जयलक्ष्मीः मम अंशात् एव उद्भूता अस्ति’’ इति उक्तवती।
तदा सरस्वती - “विघ्नेश्वरः ज्ञानप्रदाता, विज्ञानदायकः चापि। अतः वर्णमालायाः अभ्यासात् पूर्वं बालानां द्वारा हरिद्रया पिण्डनिर्माणं कारणीयम्। तत् पिण्डम् विघ्नेश्वरं मत्वा पूजां कारयित्वा ‘ॐ नमः’ इति लेखनीयम्। मम अंशात् उद्भूता विद्यावती बुद्धिरूपिणी अस्ति। सा अपि विनायकस्य पत्नी भविष्यति’’ इति उक्तवती।
एतत् श्रुत्वा विघ्नेश्वरः मुग्धतां प्रदर्शयन् सर्वान् अवलोक्य – “भवन्तः पश्यन्तः सन्ति खलु ‘ज्येष्ठानां व्यवहारः कथम् अस्ति’ इति। विवाहं कृत्वा कष्टम् अनुभवन्त्यः एताः तादृशानि कष्टानि मया अपि अनुभवितव्यानि इति उद्देशेन मम विवाहविषये त्वरन्ते। मां सुखेन स्थातुं न त्यजन्ति एताः। पुत्राणां विवाहविषये मातृणां त्वरा तु किञ्चित् अधिका एव” इति उक्त्तवान्।
विघनेश्वरस्य वचनानि श्रुत्वा विष्णुः – “भो! वत्स। विषयः तथा नास्ति। अष्टैश्चर्यकारिकाः आणिमादयः अष्टसिद्धयः सुन्दरनक्षत्राणां रूपं धृत्वा पूर्णचन्द्रस्य सेवां यथा कुर्वत्यः सन्ति तथा भवतः अपि सेवां कुर्वन्तु इति अस्माकम् इच्छा। अचिरात् एव ताभिः सेव्यमानं भवन्तं द्रष्टुम् इच्छामः वयम्” इति उक्तवान्।
तदा विघ्नेश्वरः – “एवम्? तर्हि भवान् कृष्णावतारसमये अष्टमहिषीभिः सह कष्टं सहमानः आनन्दम् अनुभवतु कामम्” इति उक्त्तवान्।
तदा विष्णुः मन्दहासपूर्वकं – “भवता उक्त्तम् अवितथम् एव भविष्यति। किन्तु भवता तु दश वध्वः परिणेतव्याः भविष्यन्ति’’ इति उक्तवान्।





अहं विघ्नविनायक: अस्मि -10

तदा विघ्नेश्वर: गम्भीरस्वरेण – ‘‘शिवभक्तानाम् एतत् सम्मेलनम् एव विश्वम्। अहं तु विश्वजननीजनकयो: पार्वतीशङ्करयो: पुत्र: अस्मि। अत: अहं करौ योजयित्वा तौ नमस्करोमि आदौ’’ इति उक्त्वा शिवं पार्वतीं च भक्त्या नमस्कृतवान्।
ब्रह्मा अग्रे आगत्य अवदत् – “मत्स्यावतारं प्राप्य विष्णु: सोमकासुरस्य संहारं कृत्वा वेदानां रक्षणं कृतवान्। तदापूर्णचन्द्रकान्तिं प्रसारयन् विघ्नेश्वरः प्रकटीभूय तान् मदधीनान्  कृतवान्। ततः मया ज्ञानं प्राप्तम्। तदा एव मया विघ्नेश्वरस्य बहवः विशेषाः अवगताः। विघ्नेश्वरः सङ्कल्पसृष्टे: मूलम्। तं ध्यात्वा एव अहं सृष्टेः आरम्भं कृतवान्।
विघ्नेश्वरस्य विराट्स्वरूपम्। सः सर्वत्र व्याप्तः अस्ति। अतः सः ‘विष्णुः’ इति उच्यते। आकाशः, वायुः, अग्निः, जलं, पृथिवी इत्येतेषां पञ्चानां भूतानाम् अधिपतिः अस्ति सः। अतः सः ‘महागणपतिः’ इति उच्यते। विश्वरूपिणः विघ्नेश्वरस्य शरीरे लक्ष्मीः सरस्वती च विराजते। एतस्य श्वेतनील–रक्त–श्यमनील–हरित–श्वेत–शिरांसि पञ्चमहाभूतानां प्रतीकभूतानि सन्ति। गजस्य शिरः बलस्य मेधाशक्तेः च प्रतीकम्। मुखं गजस्य भवति चेत् न पर्याप्तं, तेनैव सह बौद्धिकसामर्थ्यम् अपि भवेत् इति अर्थं सूचयति एतत्। अनन्ते आकाशे नक्षत्रमण्डलानि, ग्रहाः, उपग्रहाः, च सन्ति इति लम्बोदरत्वं स्मारयति। एषः लघुमूषकम् आरुह्म भ्रमति। एतस्य अर्थः अस्ति यत् सूर्यचन्द्रग्रहादयः महामण्डलानि च शून्ये आकाशे अत्यन्तं कुशलतया सञ्चरणे समर्थाः सन्ति इति। विघ्नेश्वरस्य यात्रा अपि विचित्रा, वैज्ञानिकी च। विघ्नेश्वरः विश्वज्ञानस्य सङ्केतः अस्ति। अतः तं विज्ञानेश्वररूपेणापि अभिजानन्ति जनाः।
सः विश्वस्य अधिनेता, नियन्ता, अङ्कुशधारी च। विघ्नेश्वरः बुद्धिबलयोः प्रतीकम् अस्ति। येन हस्तिपकः गजं नियन्त्रयति तम् अङ्कुशं धृत्वान् अस्ति एषः गणेशः। अङ्कुशः मनोनिग्रहसाधनस्य प्रतीकम्। विघ्नेश्वरस्य हस्ते विद्यमानः पाशः सूचयति यत् सर्वे स्वकीयेन धर्मेण बद्धाः सन्ति इति। परिपूर्णता पूर्णरूपेण पूर्णः सागरः इव। अतः सः कलशधारणं कृतवान् अस्ति। परशुः विघ्नान् छिनत्ति। अतः एव तेन  परशुधारणं कुर्वता स्वस्य विघ्ननिवारणसामर्थ्यं निरूपितम् अस्ति विश्वः नदात्मकः अस्ति। ओङ्कारस्य झङ्करणे समर्थायाः विश्ववीणायाः तन्त्रीः स्पृशन् झङ्कारं कुर्वन् अस्ति विघ्नेश्वरः। कोटिशः चराचरप्राणिनां कष्टसुखानि श्रोतुम् एव तस्य कर्णौ विशालौ स्तः। गजस्य नेत्रे लघ्वाकारे भवत:|

किन्तु सूक्ष्मदर्शिनी भवतः। सर्वं स्पष्टतया द्रष्टुं सामर्थ्यं भवति तयोः। विघ्नेश्वरः आ परमाणुतः आब्रह्माण्डं परिशीलनं करोति। वक्रा शुण्डा वक्रतां निवारयति। शुण्डा दीर्घा भूत्वा सर्वं स्प्रष्टुं, सर्वेभ्यः दातुं  च शक्नोति। समस्तायाः सम्पदः अधिपतिः अस्ति विघ्नेश्वरः। सः भोजनप्रियः। आहारेण शरीरे बलं भवति। शरीरे पुष्टता भवति चेत् एव बुद्धिबलस्य सम्भवः। अतः विघ्नेश्वरः फलानि, पक्वान्नानि, शाकाहारं च सहर्षं स्वीकरोति। भाद्रपदमासे एषः गजसदृशमेघद्वारा शुण्डासदृशीं वर्षाधारां कारयति। मेघगणस्यापि नाथः अस्ति एषः गणनाथः। विघ्नेश्वरः भाद्रपदमासे एव अवतारं गृहीतवान्। यः भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां विघ्नेश्वरस्य पूजां करोति तेन सङ्कल्पसिद्धिः प्राप्यते। विघ्नानां सम्मुखी करणार्थं शक्तिः मनोधैर्यं च तेन प्राप्यते।
पञ्चमवेदः इति प्रख्यातस्य महाभारतस्य लेखनं विघ्नेश्वरेण एव कृतम्। विघ्नेश्वरस्य महिमवर्णनं सुकरं न। यस्य कस्यापि कार्यस्य आरम्भकरणात् पूर्वं विघ्नेश्वरं ध्यात्वा पूजा क्रियते चेत् शुभं भवति इति जनानां विश्वासः। अतः एव विघ्नेश्वरस्य हस्तः सर्वदा अभयमुद्रायुक्तः दृश्यते। महागणाधिपतिः सर्वेषाम् आराध्यदैवम् अस्ति” एवम् उक्त्वा ब्रह्मा विघ्नेश्वरस्य वृत्तान्तं समापितवान्। तदा शिवः सर्वान् अवलोक्य – “ब्रह्मणः वचनं श्रुतुं किम्? प्रथमपूजार्थं योग्यः देवः विघ्नेशः एव इति अवगतं खलु?” इति उक्त्वान्।
 सर्वे अङ्गीकारपूर्वकं शिरः चालितवन्तः। नारदः स्वस्य वीणया हंसध्वनिरागं कृतवान्। सरस्वती हंसनन्दीरागस्य आलापनं कृतवती। यदा पार्वती विघ्नेश्वरं नमस्कर्तुम् उद्युक्ता तदा विश्वरूपः महागणाधिपतिः तां निवारयन् – “मातः, मास्तु मास्तु। एवं मा करोतु” इति उक्त्वा स्वस्य विश्वस्य विश्व्वरूपस्य उपसंहारं कृत्वा पूर्ववत् बालविनायकः भूत्वा मातुः चरणौ गृहीतवान्।
कैप्शन जोड़ें

अहं विघ्नविनायक: अस्मि -09

तदा क्रोधमूर्च्छितः इन्द्रः शापं दत्तवान् – “भवतः शिरः कर्तितं भवतु” इति। एतत् श्रुत्वा गजेन्द्रः हसन् उक्तवान् – “शिवस्य आज्ञां विना तृणम् अपि न चलति। यत् शिरः भवता निन्दितं तस्य पुरतः एव भवता अपि स्वशिरः अवनमनीयं स्यात् कदाचित्। स्मरतु एतत्” इति।
गजेन्द्रः महाज्ञानी इति गर्वान्धः देवेन्द्रः न जानाति स्म। सः गर्वेण – “शिवे भक्तिः खलु भवतः? सः शिवः एव भवन्तं रक्षतु। भूलोके गत्वा पततु” इति वदन् भूलोकं प्रति गजेन्द्रस्य नोदनं कृतवान्। तस्मात् गजेन्द्रः सह्यपर्वते अपतत्, शिवं निरन्तरं  स्मरन् अतिष्ठत् च। उत्तरदिशि शिवस्य निवासस्थानम् अस्तीति कारणतः तस्यां दिशि स्वशिरः कृत्वा शयनम् अकरोत् सः।

प्रमथगणीयाः गजेन्द्रस्य शिरः कर्तयित्वा नीतवन्तः। यदा ते तत् गणपतिमुण्डे योजितवन्तः तदा गजमुखः गणपतिः जीवं प्राप्य उत्थितवान्। “मम पुत्रस्य एतादृशं मुखम्! एतत् अहं द्रष्टुं न शक्नोमि” इति वदन्ती नेत्रे निमीलितवती।
तदा गजमुखः मधुरस्वरेण अवदत् – “अम्ब! किमर्थं दुःखं भवत्याः? यत् भवेत् तत् जातम् एव निर्विघ्नतया। भवती एकस्मिन् दिने भितौ गजचित्रं दृष्टवती आसीत् खलु? तत्र दृष्टः अहम् एव। विघ्नेश्वरोऽस्मि अहम्” इति।
पार्वती झटिति तां घटनां स्मृत्वती। शिवः अपि तां घटनां स्मृतवान्।
“विघ्नेश्वर! सः एव भवान् मम पुत्रत्वेन जन्म प्राप्तवान् अस्ति। किम् एतदर्थम् एव मां क्रोधितं कृतवान्? सर्वम् अवगतं मया। भवतः लीला अपूर्वा” इति अवदत् शिवः।

“यदि अहम् एवं न कुर्यां तर्हि भवान् कथं वा गजासुराय दत्तं वचनं स्मारितवान्। तत् श्रुत्वा हर्षं प्रकटयन् शिवः – “सत्यम्, दत्तं वचनं स्मारयता भवता युक्तम् एव कृतम्। दत्तस्य वचनस्य अनुगुणं मया गजचर्म धरणीयं खलु” इति वदन् गजचर्म आनाय्य धृतवान्।
ततः शिवः विघ्नेश्वरस्य पुरतः शिरः अवनमय्य – “विघ्नेश्वर! भवतः विश्वरूपं दर्शयतु कृपया” इति।
तदा विघ्नेश्वरः आकाशं यावत् पृवृद्धः सन् अतिष्ठत्। तस्य पञ्च शिरांसि आसन्। पृथिव्यप्तेजोवाय्वाकाशानां पञ्चभूतानां ये वर्णाः आसन् तैः वर्णै: तानि मुखानि शोभन्ते स्म। तेषां पञ्चभूतानां वर्णाश्च – हरित्, श्यामः, रक्तः, श्वेतः, नीलः च। तस्य शिरस्सु नक्षत्राणि पुष्पाणि इव शोभन्ते स्म। तस्य केशाः आकाशे विकीर्णाः आसन्। तस्य विविधेषु हस्तेषु अङ्कुशः, परशुः पाशः, कलशः शङ्खः, चक्रं, गदा, त्रिशूलं, वज्रायुधम् इत्यादयः आसन्। एवमेव जपमाला, कमण्डलुः, वीणा, खड्गः, शक्तिः, शूलम् इत्यादः अपि आसन्। आकाशस्थशिरकस्य तस्य तेजोमयं मुखं द्रष्टुम् अशक्नुवन्तः द्रष्टारः स्वमुख्म् अधः कृतवन्तः। सर्वे अनिर्वचनीयम् आनन्दं प्राप्तवन्तः।
सरस्वती वीणाम् उन्नीय विघ्नेस्वरस्य प्रियं रागं हंसध्वनिम् आलापितवती। नारदः मायामालवरागस्य आलापनं कृतवान्। शिवः आनन्देन ताण्डवनृत्यं कृतवान्। इन्द्रादय: त्रयस्त्रिंशत्कोटिदेवा: शिर: अवनमय्य प्रणामं कृतवन्त:। एवं प्रणामसमये – ‘यत् उपेक्षितं तस्य शिरस: पुरत: भवता अपि कदाचित् अवनमनीयं भवेत्’ इत्येतत् गजेन्द्रेण उक्तं वचनम् इन्द्रस्य मनसि आगतम्। स: जानाति स्म गणपते: मुण्डे गजेन्द्रस्य शिर: योजितम् अस्ति इति। अंत: स: स्वकर्णौ: हस्ताभ्यां गृहीत्वा त्रिवारम् उपविश्य उत्थाय साष्टाङ्ग नमस्कृत्य अवदत् – ‘‘गजेन्द्र! भवान् महाज्ञानी अस्ति। अहम् अज्ञानी अस्मि। मया गर्व: य: प्रदर्शित: तदर्थं क्षमा प्रदर्शनीया’’ इति। अन्ये देवा: अपि ज्ञानेन अज्ञानेन वा कृतस्य अपराधस्य निमित्तं क्षमां याचितवन्त:। विश्वरूपं धृतवन्तं विघ्नेश्वरम् उद्दिश्य शिव: अवदत् – ‘‘विघ्नेश्वर! भवत: रूपस्य वैशिष्ट्यानि कानि इति ज्ञातुं वयं समुत्सुका: स्म:’’ इति।


अहं विघ्नविनायक: अस्मि -08

पुत्रस्य गणपतेः आक्रन्दनं श्रुत्वा पार्वती धावन्ति आगतवती। कर्तितं शिरः दृष्ट्वा सा शिवं क्रोधेन पश्यन्ती अवदत् - “किम् एतत् कृतं भवता? पुत्रः एव निहतः खलु! पुत्रघातकः भवान्!” इति ततः सा दुःखं सोढुम् अशक्नुवती भूमौ पतित्वा उच्चस्वरेण रोदनं कृतवती।
एतां घटनाम् अत्याश्चर्येण पश्यन्तः तत्र स्थिताः सर्वे स्तब्धाः अभवन्। अपराधिनम् इव शिवं कुतूहलपूर्णदृष्ट्या दृष्टवन्तः ते। एतस्मात् शिवः स्वेदेन क्लिन्नः जातः। सः मन्दस्वरेण पार्वतीम् अपृच्छत् – “किम् एतत् वदति भवती? अवयोः कश्चन पुत्रः अस्ति इति इदानीम् एव श्रुतं मया। आवयोः पुत्रः कः? सः कथं पुत्रत्वं प्राप्तवान्? कुतः आगतः सः?” इति।
तदा पार्वती गद्गदकण्ठा सती एव गणपतिजननविचारम् उक्तवती। सर्वं श्रुत्वा शिवः असम्मतिपूर्वकम् उक्तवान् – “एतं स्वपुत्रं भावितवती स्यात् भवती। किन्तु एषः आवयोः पुत्रः कथं भवेत्? एतं पुत्रं भावयन्ती भवती मां बहुधा निन्दितवती। तदस्तु नाम, एषः मम पुत्रः कथं भवितुम् अहर्ति?” इति।
एतत् श्रुत्वा पार्वती निर्वचना जाता। तदा विष्णुः ब्रह्माणं नेत्रसङ्केतेन सूचितवान् । ब्रह्मा अग्रे आगत्य अवदत् – “यदा शिवः पार्वत्याः पाणिं गृहीतवान् तदा एव शिवस्य तेजः पार्वतीं प्र्राविशत्। तस्मात् सा पुलकिता जाता अपि। ततः आरभ्य पार्वती शिवस्य अर्धभागेन, शिवश्च पार्वत्याः अर्धभागेन च युक्त्तौ जातौ। एवं गणपतिः शिवस्यापि पुत्रः एव” इति।
पार्वती तु शिवेन सान्त्व्यमाना अपि गणपतेः शवस्य उपरि पतित्वा रोदनं कुर्वती आसीत्। तद अशरीरवाणी काचित् श्रुता – “उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः शिरः आनयन्तु, एतेन मुण्डेन योजयन्तु च। तदा अहं जीवितः भविष्यामि” इति। गणपतेः एतं ध्वनिं सर्वे आश्चर्येण श्रुतवन्तः।
 तस्मिन् एव क्षणे प्रमथगणीयाः उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः अन्वेषणार्थं गतवन्तः| बहुधा अन्वेषणेन अपि तैः तादृशः कोऽपि जनः न दृष्टः एव।
तथापि ते पराजयम् अङ्गीकर्तुं न सिद्धाः। ते अन्वेषणम् अनुवर्तितवन्तः| सह्यापर्वतस्य कस्याञ्चित् गुहायां तैः कश्चन करिकलभः दृष्टः| सः उत्तरदिशि शिरः संस्थाप्य शयनं कृतवान् आसीत्। निद्रावस्थायाम् अपि सः शिवस्य नाम्नः स्मरणं करोति स्म निरन्तरम्।
सः करिकलाभः न अन्यः, अपि तु देवगजस्य ऐरावतस्य पुत्रः गजेन्द्रः एव। ऐरावतः देवेन्द्रस्य वाहनम्। कदाचित् इन्द्रः देवलोकमार्गेण यदा गच्छन् आसीत् तदा ऐरावतपुत्रः गजेन्द्रः इन्द्रस्य दिशि अवधानम् अयच्छन् ध्यानमग्नः आसीत्। एताम् उपेक्षाम् असहमानः इन्द्रः क्रोधेन गर्जितवान्- “मम वाहनभूतस्य पुत्रस्यापि भवतः एतावान् गर्वः!” इति।
तदा गजेन्द्रः शान्तस्वरेण अवदत् – “मम पिता भवतः सेवकत्वेन कर्तव्यं निर्वहन् अस्ति, न अहम्। अतः भवत्तः मया भीतिः प्राप्तव्या नास्ति” इति।
‘‘अये! गजपुत्र! भवान् किं न जानाति यत् अहं देवानाम् इन्द्रः इति?” इति गर्वेण एव अपृच्छ्त् इन्द्रः|
 “आं, जानामि। भवान् देवेन्द्रः चेत् अहं गजेन्द्रोऽस्मि। कश्चन नागेन्द्रः भवति, अपरः खगेन्द्रः भवति। एवम् इन्द्राः बहवः भवितुम् अर्हन्ति। शतं यज्ञान् कृतवान् यः कोऽपि इन्द्रपदवीं प्राप्तुम् अर्हति। तपस्यया यत्किमपि साधयितुं शक्यते। अतः एव कस्यचित् तपः दृष्ट्वा भवान् अपि भीतिम् अनुभवति। इन्द्रत्वं तावत् श्रेष्ठं न, यावत् भवान् भावयति। अतः अलम्  अधिकगर्वेण” इति अवदत् गजेन्द्रः|

Saturday, 22 December 2012

अहं विघ्नविनायक: अस्मि -07

 शिवपार्वत्योः विवाहः महता वैभवेन सम्पन्नः | हिमालयपर्वते शिवः पार्वती च यत्र तपः कृतवन्तौ तत्र विश्वकर्मा एकं सुन्दरम् अन्तःपुरं निर्मितवान् |
शिवपार्वत्यौ येन मार्गेण अन्तःपुरं प्रति गच्छतः स्म तस्मिन् एव मार्गे कामदेवस्य भस्म आसीत् | तस्य भस्मनः पार्श्वे एव रतिदेवी विलपन्ती उपविष्टा आसीत् | तस्याः नेत्राभ्याम् अश्रुधारा प्रवहति स्म | सा पत्युः प्राणभिक्षां याचन्ती इव तत्र उपविष्टा आसीत् |
शिवः पार्वती च तस्याः समीपं गतवन्तौ | तस्याः शिरसि हस्तं स्थापयित्वा तौ आशीर्वादं कृतवन्तौ - “दीर्घसुमंङ्गली भव’’ इति | शिवः तृतीयं नेत्रम् उद्धाटितवान् | एतदवसरे तत्र अग्निः न आसीत | शीतलकिरणाः ततः निर्गताः | तेषां स्पर्शतः कामदेवः पूर्वतनं रूपं प्राप्य उत्थितवान्, ततः अदृश्यः अभवत् च |
तदा शिवः रतिदेवीम् उक्तवान - “देवि! भवत्याः पतिः पुनर्जन्म प्राप्तवान् अस्ति | सः सर्वदा दृष्टिगोचरः न भविष्यति | तं भवती एका एव द्रष्टुं शक्नोति, न अन्ये | अन्यान् सः इच्छति चेत् द्रष्टुं शक्नोति | तस्य इच्छायाः अनुगुणं भविष्यति अन्यदर्शनम् | एतादृशं वरं तस्मै सन्तुष्टः अहं यच्छन् अस्मि’’ इति |
शिवः पार्वती च गृहप्रवेशं कृतवन्तौ | अरुन्धती नीराजनेन तयोः स्वागतं कृतवती | तदा विश्वकर्मा वस्त्रावृतम् एकं फलकं शिवपार्वत्योः पुरतः संस्थाप्य – “एतत् एकम् अभूतपूर्वं चित्रम् | एतस्मिन् चित्रे भवन्तौ स्तः | एतस्य चित्रस्य दर्शनस्य अनन्तरम् अपि अस्माभिः निर्णेतुं न शक्तं यत् भवतोः कतरस्य सौन्दर्यम् अधिकम् इति | अतः भवन्तौ एव वदताम् | अतः एतत् भवतोः पुरतः उपस्थापितम् अस्ति’’ इति हसन् अवदत् |
स च कश्चन दर्पणः आसीत् | तत्र स्वप्रतिबिम्बं दृष्ट्वा उभौ अपि हसितवन्तौ | तदा नारदः अवदत् “केवलेन मन्दहास प्रकटनेन किमपि न सिद्धम् | अतः कतरः सुन्दरः इति शब्दैः वक्तव्यम एव भवद्भयाम्’’ इति |
तदा शिवः कटाक्षेण पार्वतीं पश्यन् - “नक्षत्रम् इव प्रकाशमानं नासाभरणं धृतवत्याः शशिवदनायाः सुन्दर्याः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तत् श्रुत्वा पार्वती लज्जया शिरः अवनमय्य एव उक्तवती - “सा स्त्री चिन्तयति यत् तस्याः पाणिं गृहीतवतः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तदा सर्वे हसितवन्तः | शिवपार्वत्योः उपरि पुष्पवृष्टिः जाता | अनन्तरं तौ दम्पती आन्दोलिकायाम् उपवेश्य आन्दोलितम् |
तयोः पुरतः एव भितौ एकं सुन्दरं चित्रं चित्रितम् आसीत् | चित्रे उभौ गजौ नृत्यतः स्म | तौ अग्रिमपादौ उन्नीय पृष्टभागीय पादाभ्यां तिष्ठ्न्तौ शुण्डया शुण्डां गृहीतवन्तौ आस्ताम् | तयोः पृष्ठ्भागे एकं सरोवरं द्दश्यते स्म | सरोवरे एकं महापद्मं विकसितम् आसीत् | तयोः उपरि शिवपार्वत्योः द्दष्टिः लग्ना | अत्रान्तरे पद्मस्य स्थाने रजतवत् प्रकाशनम् एकं ज्योतिः उद्गतम् | तत् ज्योतिः क्रमशः विकसित् सर्वत्र व्याप्तं जातम् | तस्मिन् प्रकाशे शशिवर्णेन शोभमानः विघ्नेश्वरः द्दष्तिगोचरः जातः | विघ्नेश्वरः दृष्टिगोचरः जातः |
विघ्नेश्वरस्य मुखं गजस्य इव आसीत् | किन्तु तत् दिव्यया प्रभया शोभते स्म, प्रसन्नतां दर्शयति स्म च | तस्य द्दष्टिः बौद्धिकसामर्थ्यं परिचाययति स्म | विशालम् उदरं कान्तिमयम् आसीत् अभयमुद्रां धृत्वा स्थितः विघ्नेश्वरः पार्वत्यौ विशेष्तः अरोचत |
विघ्नेश्वरं पश्यन्तौ पार्वतीपरमेश्वरौ अनिर्वचनीयम् आनन्दं प्राप्तवन्तौ | निर्निमेषदृष्ट्या तौ तं पश्यन्तौ स्थितवन्तौ | विघ्नेश्वरः शुण्डां वामतः कृत्वा मधुरस्वरेण अवदत् - “अहं विघ्नेश्वरः अस्मि | विघ्नानां निवारकः अस्मि | पञ्चभूतानाम् अधिपतिः गणपतिः अस्मि | चित्रविचित्ररुपधारी चित्रगणपतिः अस्मि | भवतोः प्रेम्णः फलरुपेण शिवस्य तेजस्वितां धरन् कुमारस्वामिनः जन्म भविष्यति | सः तारकासुरस्य वधं करिष्यति | तदनन्तरं भवतोः मुत्ररुपेण मम जन्म भविष्यति | पुत्रगणपतिरुपेण अहम् अवतारं प्राप्स्यामि” इति |
विघ्नेश्वरस्य मधुरध्वनिं श्रुत्वा तं ग्रहीतुं पार्वती हस्तं प्रसारितवती | किन्तु तातवा विघ्नेश्वरः अदृश्यतां गतः आसीत् |
शिवः पार्वती च आनन्दसागरे विहरन्तौ दिनानि यापितवन्तौ | तस्मिन् एव समये जगतः अहितकारकः, जगति कम्पं जनयितुं समर्थः कञ्चन विघ्नः समुत्पन्नः |

अहं विघ्नविनायक: अस्मि -06


देवेन्द्रस्य मनसि अभासत यत् शिवं तपसः विचालयितुं कामदेवः एकः एव समर्थः इति | अतः सः कामदेवं प्रार्थितवान् - “शिवः पार्वत्याम् आसक्तः यथा भवेत् तथा कमपि उपायं चिन्तयतु कृपया” इति |
कामदेवः रत्या सह रथे उपविश्य प्रस्थितवान् | रथस्य सारथिः आसीत् वसन्तः | पुष्पाणि एव तस्य बाणाः आसन् | इक्षुदण्डः तस्य धनुः आसीत् | एवं सन्नद्घः कामदेवः हिमालयस्य तं प्रदेशं प्राप्तवान्, यत्र च शिवः तपः करोति स्म |
कामदेवस्य आगमनतः तत्प्रदेशे वसंतऋतुः उत्पन्नः | निसर्गस्य रमणीयता चित्ताकर्षिका जाता | कोकिलानां कूजनं, भृङ्गानां झङ्कारः च तस्मिन् प्रदेशे सर्वत्र श्रूयते स्म |
परिसरे आकस्मिकतया जातं परिवर्तनं ज्ञात्वा आश्चर्यम् अनुभवन् शिवः नेत्रे उन्मीलितवान् | वसन्तऋतोः आगमनं दृष्ट्वा सः नितराम् आश्यर्यचकितः तपोभङगः जातः यत् ततः तस्य दुःखं जातम् | तस्य हस्ततः जपमाला पतिता | यदा पतितां जपमालां पार्वती उन्नीय शिवाय यच्छन्ती आसीत् तदा वृक्षान्तरितः कामदेवः शिवं लक्ष्यीकृत्य पुष्पबाणान् प्रयुक्तवान् |
बाणस्पर्शात् शिवस्य शरीरे नवं चैतन्यम् उत्पन्नम् इव | मुखं किञ्चिदिव अवनमय्य कटाक्षेण शिवम् एव पश्यन्ती पार्वती तेन दृष्टा | पार्वत्याः आकारः, मुखं, सौन्दर्यं च तस्य चित्तम् आकर्षत् |
क्षणाभ्यन्तरे शिवः अवधानवान् जातः | तपोभङ्गस्य कारणतः सः खिन्नः क्रुद्धः च | क्रोधेन सः तृतीयं नेत्रम् उद्घाटितवान् | तेन कामदेवः भस्मतां गतः | शिवः तु झटिति ततः उत्थाय कैलासशिखरं प्रति वेगेन निर्गतवान् |
रतिदेवी तत्समये पत्या कामदेवेन सहैव आसीत् | पत्युः भस्मीभूतत्वं दृष्ट्वा सा उच्चैः रोदनम् आरब्धवती | तदा ब्रह्मादिदेवाः तत्र प्रत्यक्षाः अभवन् | ते सहगमनाय उद्यतां रतिदेवीं सान्त्वयन्तः उक्तवन्तः यत् शिवपार्वत्योः विवाहः यदा भविष्यति तदा कामदेवः अपि उज्जीवितः भविष्यति इति | अतः रतिदेवी भस्म जागरूकतया रक्षन्ती तत्रैव वसन्ती दिनानि यापितवती |
एतस्याः घटनायाः अनन्तरं स्वसौन्दर्ये पार्वत्याः विश्वासः नष्टः | शरीरलावण्यादिषु तस्याः उत्साहः पूर्णतः विनष्टः | जीवनम् एव व्यर्थम् इति भावः तस्याः मनसि उत्पन्नः | तपः एकम् एव एतस्य परिहारः इति विचिन्त्य सा घोरं तपः आरब्धवती |
कानिचन पर्णानि खादन्ती सा तपः करोति स्म | जयाविजयानामिके उभे सख्यौ तया सह वसतः स्म | काले काले पार्वत्याः कुशलवार्तां ते हिमवन्तं मेनकां च सूचयतः स्म |
दिनेषु गतेषु पार्वत्याः तपः उग्रं जातम् | सा पर्णानाम् अपि खादनं पूर्णतः परित्यक्तवती | अतः सा ‘अपर्णा’ इति नाम प्राप्तवती |
शिवः यद्यपि कामदेवं भस्मीकृतवान्, तथापि मदनविकारतः आत्मानं रक्षितुं तु न शक्तवान् | पार्वत्यां तस्य मनः आसक्तं जातम् | तावता पार्वत्याः तपः अपि उग्रतां गतम् आसीत् |
शिवः छद्मवेषेण पार्वत्याः समीपं गत्वा तस्याः अन्तःकरणस्य परीक्षां कृतवान् | पार्वत्यां स्थितं प्रबलम् अनुरागं ज्ञात्वा सः तस्याः परिणये मतिं कृतवान् | विवाहविषयकवार्तालापार्थं हिमवतः गृहं प्रति सप्तर्षीन् प्रेषितवान् सः | विवाहवार्तालापार्थं शिवः स्वयं सप्तर्षीन् प्रेषितवान् अस्ति इति ज्ञात्वा हिमवान् नितरां सन्तुष्टः | सः विवाहं सन्तोषेण अङ्गीकृतवान् |
प्रमथगणेन अनुस्त्रियमाणः शिवः वरः सन् हिमवतः गृहं गतवान् | एतस्य विवाहस्य निमित्तं ब्रह्मा, विष्णुः; इन्द्रः, कुबेरः, नारदः, अन्ये बहवः श्रेष्ठाः महर्षयः चापि भस्म आगताः आसन् |
सुमङ्गली अरुन्धती शिवस्य ललाटस्य तृतीयनेत्रस्य स्थाने कल्याणतिलकं स्थापितवती | वररूपेण शिवः विशेषतः शोभते स्म | अतः सर्वे जनाः तं ‘सुन्दरेश्वर’ नाम्ना निर्दिष्टवन्तः |
सर्वविधाः अलङ्काराः कृताः आसन् | वधूं पार्वतीं विष्णुः शिवसमीपम् आनीय - “भवान् सुन्दरेश्वरः | मम भगिनि पार्वती मीनाक्षी” इति मन्दहासपूर्वकं वदन् शिवपार्वत्योः करौ योजयित्वा तौ विवाहमण्डपं प्रति नीतवान् |

अहं विघ्नविनायक: अस्मि -05

देवाः राक्षसाः च सम्भूय क्षीर्सागरस्य मथ कृतवंतः | ततः ते अमृतं प्राप्तवन्तः | विष्णुः जगन्मोहिन्याः अवतारं प्राप्य राक्षसान् मोहयित्वा देवेभ्यः अमृतस्य वितरणं कृतवान् | अमृतपानतः देवाः अमरत्वं प्राप्तवन्तः | एतस्मात् ते गर्वेण सर्वत्र सञ्चारम् आरब्धवन्तः |

राक्षसानां विषये जातम् अन्याय्यं तारकासुरः सोढुं सर्वथा न शक्तवान् | अतः सः ब्रह्माणम् उद्दिश्य घोरां तपस्यां कृतवान् | यदा ब्रह्मा प्रत्यक्षः जातः तदा सः अमरत्वरूपं वरं प्रार्थितवान् |

तदा ब्रह्मा अवदत्- “जातस्य मरणं ध्रुवम् | मरणात् मुक्तिः असाध्या | अतः अन्यं कमपि वरं याचतु” इति |

तारकासुरः क्षणकालं विचिन्त्य अवदत् - “शिवस्य पुत्रस्य हस्तात् मम मरणं भवतु, नान्यस्य कस्यचित् अपि हस्तात्’’ इति |

ब्रह्मा ‘तथास्तु’ इति उक्त्वा ततः अदृश्यः अभवत् |

एतावता शिवस्य पत्नी सतीदेवी दक्षयज्ञस्य योगाग्नौ आत्मसमर्पणं कृतवती आसीत् | शिवः च उन्मादं प्राप्तवान् इव व्यवहरन् हिमालयपर्वतं गत्वा घोरतपस्यायां लीनः जातः आसीत् |

तारकासुरः सर्वान् राक्षसान् मेलयित्वा त्रीन् अपि लोकान् स्वाधीनीकृतवान् | ततः सः देवानां पीडनम् आरब्धवान् | इन्द्रादयः देवाः भीतः सन्तः ब्रह्मणः समीपं गत्वा रक्षणोपायं याचितवन्तः |

तदा ब्रह्मा अवदत् – “मया तारकासुराय वरः दत्तः अस्ति यत् शिवस्य पुत्रात् एव भवतः मरणं भवितुम् अर्हति इति | अन्यः कोऽपि तं संहर्तुं न अहर्ति | यदा शिवस्य पुत्रः भविष्यति तदा एव तारकासुरस्य संहारः अपि भवितुम् अहर्ति” इति |
ततः ते सर्वे विष्णुसमीपं गतवन्तः | तेषाम् आशयः आसीत् यत् विष्णुः कमपि साहाय्यं कुर्यात् इति  |
विष्णुः तान् उक्तवान् – “सतीदेवी शिवस्य पुत्रीत्वं प्राप्य वर्धमाना अस्ति | तस्याः नाम पार्वती इति | अतः शिवपार्वत्योः विवाहः यथा सम्पद्येत तथा प्रयत्नः करणीयः अस्माभिः” इति |
देवाः नारदं हिमवतः समीपं प्रेषितवन्तः | नारदस्य आदेशस्य अनुगुणं हिमवान् तपस्यायां मग्नस्य शिवस्य समीपं गतवान् | शिवं सम्पूज्य अभ्यर्थितवान् यत् भवतः सेवां परिचर्यां च कर्तुं पार्वत्यै अनुज्ञा दातव्या क़ृपया इति |
शिवस्य मौनम् एव उत्तरम् आसीत् | मौनम् एव सम्मतिसूचकं भावयन् हिमवान् शिवस्य परिचर्यार्थं पार्वतीं नियोजितवान् तस्मिन् एव दिने |
बाल्यात् एव पार्वती शिवं विशेषतः इच्छति स्म | बाल्ये एव नारदः शिवस्य अनेकाः कथाः तां श्रावितवान् आसीत् | तासां श्रवणतः सा पुलकिता भवति स्म | एतादृशस्य शिवस्य सेवार्थं यदा अवसरः लब्धः तदा सा नितरां सन्तुष्टा अभवत् | परमसौभाग्यं भावितवती सा |
सुर्योदयात् पूर्वम् एव सा मयूरपिञ्छैः शिवस्य तपसः स्थलं स्वच्छीकरोति स्म | सुगन्धचन्दनजलेन तं प्रदेशं सिञ्चति स्म | मौक्तिकैः रङ्गवल्लीं रचयति स्म | सुवर्णलताभिः निर्मितेन रत्नखचितेन कण्डोलेन स्वादूनि फलानि नीत्वा शिवस्य पुरतः स्थापयति स्म | हिमगिरिशिखरात् स्रुतं स्फटिकस्वच्छं जलं सुवर्णकमण्डलौ पूरयित्या जपमालायाः पार्श्वे स्थापयति स्म | शिवस्य मनः आक्रष्टुं विविधैः अलङ्कारैः आत्मानं भूषयति स्म | भैरवी, केदारः, शिवरञ्जनी इत्यादिभिः रागैः मधुरतया आलापनं करोति स्म |
शिवः सकृत् नेत्रे उन्मील्य मां पश्येत् इति तस्याः इच्छा आसीत् | सा सदा शिवस्य मनोहरं मुखारविन्दम् एव पश्यन्ती भवति स्म | तथापि कदापि शिवस्य कृपाकटाक्षः तस्यां न अपतत् | ‘मम सर्वे प्रयत्नाः व्यर्थाः किम?’ इति चिन्तयन्ती सा महतीं निराशताम् अनुभवति स्म |