Monday, 20 April 2015

वनदैत्यः

एकस्मिन् ग्रामे द्वौ भ्रातरौ न्यवसताम्। तयोः एकः धनी अपरः च निर्धनः। धनी भ्राता तु अन्यैः सह सुष्ठुः व्यवहरति किन्तु स्वभ्रात्रा सह अपरिचितः इव ध्यानम् न ददाति। निर्धनः भ्राता आपत्काले अपि किमपि किमपि याचितुम् न अगच्छत्।
    एकदा निर्धनस्य पत्नी स्वपतिम् उवाच, न अद्य गृहे किमपि वस्तु विद्यते। श्वः उत्सवदिवसः वर्तते। श्रुतम् मया यत् तव भ्राता श्व उत्सवार्थम् महिषम् एकम् कर्तितवान् याचित्वा किमपि मांसम् आनीयताम् ।
    अयम् अनिच्छन् अपि भ्रातृगृहम् आगत्य प्रोवाच भ्रातः। उत्सवार्थम् किमपि मांसम् प्रदेयम् मह्यम्। तस्य मूल्यम् प्रयच्छामि किञ्चित् दिनानन्तरम् ।
    विकृताननः भ्राता मृतपशोः क्षुरम् प्रक्षिपन् प्रोवाच, वनदैत्यसकासम् गच्छ ।
    निर्धनः भ्राता व्यचारयत् मदीयः भ्राता दैत्याय क्षुरम् दातुम् अकथयत् इति विचार्य सः काननम् प्रति प्रचलितः।
    मार्गे काष्ठभारम् आनीय आयान्तम् भिल्लम् अपृच्छत् कुत्र निवसति अयम् वनदैत्यः? भिल्लः प्रत्यवदत् अतः कियत् दूरे पूर्वस्याम् दिशि एकस्मिन् उटजे निवसति अयम् ।
    किन्तु भवता ध्येयम् स गोक्षुरम् गृहीत्वा रजतमुद्राम् प्रतियच्छति, स्वर्णमुद्राम् अपि प्रयच्छति।
    भवान् कथयतु मह्यम् तु भवान् तत् प्रस्तरपट्टम् प्रयच्छ यत् तव पार्श्वे वर्तते।
    भिल्लवचनम् निशम्य निर्धनः प्रचलन् तदुटजम् प्राप , सहसा तदुटजम् प्रविवेश ।
अकस्मात् आगतम् तम् वीक्ष्य वनदैत्यः स्तब्धः सन् प्रोवाच, वद शीघ्रम् किम् आनीतवान् असि।
    निर्धनःप्रत्यवदत् गोक्षुरम् आनीतवान् अस्मि। प्रसन्नः सन् वनदैत्य़ः गोक्षुरम् अभक्षयत् अवदत् च- अहम् तुभ्यम् अस्य मूल्यम् ददामि इति उक्त्वा, मुष्टिपरिमिताम् रजतमुद्राम् दातुम् इच्छति।
    निर्धनः प्रत्यवदत् न अहम् रजतमुद्राम् गृहीतुम् इच्छामि मह्यम् प्रस्तरपट्टम् प्रयच्छ।
वनदैत्यः अवदत् किमपि अन्यत् याचस्व।
    निर्धनः न अन्यत् किमपि गृहीतुम् इच्छति। अन्ते वनदैत्यः प्रस्तरपट्टम् प्रयच्छन् कथयति, पट्टम् एतत् चमत्कारयुक्तम् अस्ति। भवान् यत् किमपि याचिष्यति तदेव प्रयच्छति किन्तु याचनात् पूर्वम् “ चल मम प्रस्तरपट्टम्” इति कथनीयम्। कार्ये सञ्जाते सति  “ क्षणम् तिष्ठ” इति कथनीयम् तत् विरमिष्यति।
    प्रस्तरपट्टसम्बन्धिनम् सर्वम् रहस्यम् ज्ञात्वा निर्धनपुरुषः च अयम् गृहम् प्रति प्रचलितः।
    जलसन्निपातेन रात्रिम् यावत् इतस्ततः भ्रमन् मार्गम् अपि न प्राप्तवान्?  प्रभाते सञ्जाते स गृहम् प्राप ।
    गृहिणी प्रोवाच, कुत्र गतः भवान्? पतिः प्रोवाच- किमपि वस्तु च आनीतवान् अस्मि, पश्य , तस्य चमत्कारम् दर्शयामि ।
    इति उक्त्वा प्रस्तरपट्टम् भ्रामयितुम् लग्नः तस्मात् भोजनसामग्र्यः निःसरन्ति। पर्याप्ते भोजने सञ्जाते तत् पट्टम् विरतम् निर्धनः अयम् आनन्देन उत्सवम् कृतवान्। सम्प्रति स निर्धनः धनवान् च सञ्जातः। तस्य गृहम् धनधान्येन पूर्णम् जातम् ।
    यदा तस्य ज्येष्ठः भ्राता स्वनिर्धनभ्रातुः ऐश्वर्यस्य वृत्तान्तम् अशृणोत् तदा तस्य गृहम् प्रति प्रचलितः।
    तत्र गत्वा स सहसा प्रश्नम् अकरोत् - अकस्मात् त्वम् कथम् धनवान् सञ्जातः? निर्धनः सर्वम् रहस्यम् स्पष्टम् आख्यातवान्। सः प्रस्तरपट्टम् अपि प्रदर्शितवान्।
    तस्मात् निर्गतानि पक्वान्नानि स दृष्टवान् ज्येष्ठः भ्राता कनिष्ठम् प्रस्तरपट्टम् विक्रेतुम् अकथयत् परम् स न प्रतिजज्ञे निर्धनः भ्राता किञ्चित्कालाय प्रस्तरपट्टम् प्रदत्तवान्।
    सः प्रस्तरपट्टम् स्वगृहम् आनीतवान्। ज्येष्ठः भ्राता स्वगृहे सर्वाणि वस्तूनि एकत्रितानि अकरोत्। सः मनसि व्यचारयत् समुद्रात् लवणम् निष्कासयिष्यामि– इति कृत्वा प्रस्तरपट्टम् समुद्रे प्रचिक्षेप।
    समुद्रात् लवणम् बहिः निर्गच्छति। सः लवणम् नौकायाम् भरति। लोभाविष्टेन तेन नौः भरिता। अधिकभारेन नौ जले निमग्ना। समस्तम् लवणम् समुद्रे निमग्नम्। प्रस्तरपट्टम् तदापि प्रचलन् आस्ते।
    केषाञ्चित् जनानाम् तु अयम् विश्वासः यत् अद्यापि तत् प्रस्तरपट्टम् समुद्रे निरन्तरम् प्रचलति येन समुद्रस्य जलम् लवणयुक्तम् भवति।

मातुंगा

एकः कृषकः धनवान् आसीत्। सः भृतेभ्यः पारिश्रमिकम् न प्रायच्छत्। एकदा स अजापालकाय भृत्याय वत्सम् दातुम् प्रतिजज्ञे किन्तु न प्रायच्छत्। स न्यायर्थम् पञ्चायतनम् जगाम।
    पञ्चः प्रावोचत् मम त्रयः प्रश्नाः सन्ति। यः त्रयाणाम् प्रश्नानाम् उत्तरम् दास्यति तस्मै वत्सम् प्रयच्छामि। प्रश्नाः च आसन्-
    १.     सर्वाधिका तीव्रा गतिः कस्य वर्तते?
    २.     सर्वाधिकम् मधुरम् वस्तु किम्?
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु किम्?
    कृषकः वेत्ति स्म, न अहम् प्रश्नानाम् उत्तराणि दातुम् क्षमः गृहे उदासीनम् कृषकम् पत्नी प्रोवाच, किम् अद्य चिन्तितः भवान्?  भवताम् प्रश्नानाम् उत्तराणि अहम् प्रयच्छामि।
    १.     सर्वाधिका तीव्रा गतिः अस्माकम् अश्वस्य वर्तते।
    2.    द्वितीयस्य प्रश्नस्य उत्तरम् वर्तते , मक्षिकाणाम् मधु मधुरम् वर्तते।
    3.    तृतीयस्य उत्तरम् तु स्वर्णदीनारैः प्रपूरिता अस्माकम् काष्ठमञ्जूषा बहुमूल्या  वर्तते।
    अजापालकः अपि चिन्तितः आसीत्। तस्य पुत्री मातुंगा बुद्धिमती अवर्तत। सा पितरम् प्रश्नानानाम् उत्तराणि कथयामास। द्वितीये दिने कृषकः स्वकीयानि त्रीणि उत्तराणि कथयामास। पञ्चः अजापालकम् पप्रच्छ।
    अजापालकः प्रोवाच-
    १.     संसारे सर्वाधिकम् शीघ्रगामिवस्तु विचारः वर्तते!
    २.     सर्वाधिकम् मधुरम् वस्तु निद्रा वर्तते।
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु भूमिः वर्तते।
    प्रश्नानाम् उत्तराणि श्रुत्वा पञ्चः प्रोवाच- एतानि उत्तराणि तव न वर्तन्ते।
    सत्यम् वद, केन कथितानि उत्तराणि? अजापालकः सर्वम् रहस्यम् कथितवान्। पञ्चः अजापालकाय दशकुक्कुटाण्डानि दत्वा प्रोवाच- तव पुत्री अण्डानि एतानि रक्षतु, यदा एतेषाम् शिशवः समुत्पत्स्यन्ते तदा शिशवः आनेतव्याः।
    मातुंगा उच्चैः हसित्वा मुष्टिपरिमितम् धान्यम् पित्रे दत्वा कथितवती- पञ्चम् धान्यम् दत्वा कथय- एतत् धान्यम् वप, श्व एव धान्यम् कर्तय तदा अहम् अपि कुक्कुटाण्डानि प्रस्तोष्यामि।
    पञ्चः एतत् श्रुत्वा जहास प्रोवाच च-  तव पुत्री बुद्धिमती वर्तते सुन्दरी च अपि। अहम् तया सह विवाहम् करिष्यामि परम् सा मत्पार्श्वे न रात्रौ समागच्छेत् न दिने, न वस्त्राणि धारयित्वा न नग्ना, न वाहने च आरूह्य न पदातिः।
    मातुंगा निर्वस्त्रा सती प्रत्यूषे मत्स्यबन्धनजाले स्वशरीरम् आवेष्ट्य, एकम् पादम् अजायाम् धृत्वा एकम् च भूमौ निक्षिपन्ती पञ्चगृहम् प्राप प्रोवाच च श्रीमन्! इयम् अहम् आगता न दिने न रात्रौ, न वस्त्राणि धारयित्वा न निर्वस्त्रा।
    पञ्च मातुंगाम् प्रोवाच- त्वम् मत्कार्ये हस्तक्षेपम् न करिष्यसि। ओम् इति कृत्वा सा गृहकार्ये संलग्ना।
    बहूनि दिनानि व्यतीतानि एकदा कृषकः निर्णयम् कारयितुम् पञ्चसमीपम् आगतः। कृषकस्य एका घोटका आसीत् सा शिशुम् असूत। अश्वसुतः कृषकवाहनस्य अधः प्रविष्टः। कृषकस्य कथनम् आसीत् यत् अयम् अश्वशावकः मदीयः भवति।
    तौ विवदन्तौ पञ्चसमीपम् गतौ। पञ्चः अविचारयन् एव निर्णयम् कृतवान् यत् अश्वशावकः कृषकस्य अस्ति। अश्वरक्षकः मातुंगपार्श्वम् आगत्य निर्णयम् अश्रावयत्।
    मातुंगा प्रोवाच- त्वम् सिकतामय्याम् भूमौ मत्स्यजालम् विस्तारय।
    पञ्चः पृक्ष्यति- सिकतायाम् किम् मत्स्यान् प्राप्यसि?  त्वम् कथय यदि वाहनस्य अधः अश्वशावकः प्राप्यते तर्हि सिकतायाम् मत्स्याः अपि प्राप्यन्ते।
    पञ्चः प्रोवाच- मातुंगा एव एतत् सर्वम् कर्तुम् शक्नोति। गृहम् आगत्य सा मातुंगाम् प्राह- त्वम् पितुः गृहम् गच्छ, त्वम् अस्मात् गृहात् एकम् प्रियम् वस्तु नेतुम् शक्नोषि।
    मातुंगा प्राह- अहम् इच्छामि यत् अद्य रात्रौ त्वया सह भुक्त्वा पितुः गृहम् गन्तासि। इति उक्त्वा सा स्वादिष्टम् भोजनम् पाचितवती। पतिः स्वादिष्टम् भोजनम् अधिकम् भुक्त्वान्। भोजनाधिक्येन आसिन्दकायाम् एव प्रसुप्तः।
    मातुंगा स्वपतिम् यानम् आरोप्य पितुः गृहम् आनयत्। द्वितीय दिने यदा पञ्चः जागृतः तदा स चकितः अभवत्। मातुंगा पतिम् प्रोवाच- भवता एव कथितम् आसीत् यत् एकम् प्रियम् वस्तु त्वया नेयम्।
    पञ्चः तस्याः प्रतिभया पुनः वञ्चितः ताम् वाहनम् आरोप्य स्वगृहम् आनयत्। तदनन्तरम् सः मातुंगाकथनानुसारम् निर्णयम् कृतवान्।

गुमचेनः चटकाः च

पुरा गुमचेनतेजजिंगटाबुकनामकः च एकः बौद्धभिक्षुः न्यवसत्। सः तोरमुदेवस्य भक्तः आसीत्। सः पक्वतण्डुलकणैः तोरमुदेवम् निर्माप्य प्रत्यहम् तस्य पूजनम् अकरोत्। तोरमुदेवस्य पूजनेन स प्रतिष्ठितः सिद्धपुरुषः च सञ्जातः। तत्रत्याः जनाः तस्य भक्तिभावेन नितराम् प्रभाविताः च आसन् ।
    एकदा गुमचेनः गुम्फापार्श्वतः निर्गच्छति तदा तोरमुदेवे कृष्णचिह्नम् अपश्यत्। समीपे गत्वा तेन दृष्टम् यत् तोरमुदेवे चटकाः नवनीतम् खादन्ति। क्रोधाविष्टः अयम् भिक्षुः सहसा तान् हन्तुम् ऐच्छत् परम् द्वितीय एव क्षणे व्यचारयत् अयम् यत् अहम् बुद्धस्य अनुयायी भूत्वा अपि जीवहत्याम् कर्तुम् इच्छामि।
    सः मनसि प्रादुर्भूतान् विकारान् दूरीकर्तुम् अक्षिणी निमील्य बुद्धस्य ध्यानम् अकरोत्। सः व्यचारयत्- अहम् एनाम् चटकाम् हन्तुम् न शक्नोमि परम् तोरमुरक्षणाय कोऽपि उपायः करणीयः। इति विचार्य स चटकाम् गृहीत्वा कानने क्षिप्तवान्।
    चटका गुमचेनम् मनसि गालिकाप्रदानपुरस्सरम् कानने विलीना, परन्तु किञ्चित् कालानन्तरम् सा चटका त्रिभिः चटकाभिः सार्धम् पुनः आगत्य नवनीतम् खादितुम् लग्नाः। पुनः गुमचेन चटकाः कानने विसर्जयामास।
    किञ्चित् क्षणानन्तरम् अगणिताः चटकाः तत्र समागताः। ताः गुमचेनम् निर्भत्सयन्तः प्रोचुः- दयाधर्मस्य समुपदेष्टा भूत्वा अपि निर्दोषान् जीवान् तुदसि! भिक्षुकवस्त्राणि परिधायम् अपि अधर्मम् चरसि।
    उत्तारय एतानि वस्त्राणि। इत्थम् तम् भिक्षुकम् निर्भर्त्सयन्तम् चटकाः तोरमुपार्श्वम् आगच्छन्। गुमचेनः चटकाध्य़क्षम् विनम्रतया ब्रूते- चटकाभिः नवनीतम् न भक्षितम्। ताः तु सम्मानेन तोरमुम् अपश्यन्।
    त्वम् स्वयम् अपराधी भूत्वा दुःसाहसम् करोषि। चटकाः तम् गालिकाम् वदन्ति परम् गुमचेनः तूष्णीम् एव भूत्वा शान्तभावेन सर्वम् असहत।
    गुमचेनः प्राह- मया चटकाः न मारिताः न अपमानिताः केवलम् ताः अहम् कानने व्यसर्जयम्। चटकाः तु तस्य भिक्षुकस्य अनादरम् कर्तुम् इच्छन्ति, अतः एव ताः गुमचेनशरीरे आक्रमणम् कृतवत्यः।
    चटकाभिः भृशम् पीडितः च अयम्। गुमचेनः भगवतः प्रार्थनाम् प्रारेभे। हे भगवन्! चटकाभिः माम् रक्ष। गुमचेनः निरपराधः आसीत् अतः तस्य शरीरात् अग्निः निर्गच्छति। तत्क्षणम् एव चटकाः पलायितुम् आरेभिरे।
    चीटिकाध्यक्षः स्वजीवनम् सम्प्रार्थयन् पलायितः। तस्मात् दिनात् चटकाः तोरमुपार्श्वम् न अजग्मुः।

Thursday, 26 March 2015

ग्रामस्य पुरस्कारः

प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटम् कुर्वन् सुदूरम् विनिर्गतः। तस्य सहयोगिनः पृष्ठतः आसन्। ग्रीष्मकालः आसीत् , पिपासया व्याकुलाः च अभवत् राजा। न कुत्रापि कूपः सरोवरः वा दृश्यते। नृपतेः अश्वः अपि अग्रे चलितुम् न अशक्नोत्। समीप एव नृपतिः ग्रामम् एकम्+अपश्यत् नृपतिः कुटीरम् एकम् ददर्श। समीपस्थम् जनम् एकम् अकथयत् जलपानार्थम्।
    सः प्रोवाच- जलम् तु न विद्यते, परम् भवान् पिपासितः न स्थास्यति, अत्र खट्वायाम् उपविशतु, विश्रम्यताम् अश्वम् वृक्षे बद्ध्वा। तदनन्तरम् स अजादोहनम् अकरोत्। नृपतिः दुग्धम् पीत्वा नितराम् तुष्टः सञ्जातः। तस्य पिपासा अपि शान्ता सञ्जाता। नृपतिः तम् एकम् कर्गजम् आनेतुम् आदिशत्। परम् कृते अपि अन्वेषणे न अमिलत् कर्गजखण्डम् अपि।
    नृपतिः पिप्पलपत्रम् एकम् आनेतुम् आदिशत्। राजा पिप्पलपत्रे च अलिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते। नृपे निर्गते सति पिप्पलपत्रम् एकस्मिन् सुरक्षिते स्थाने अरक्षत्।
    एकदा अजा तत्पत्रम् अखादयत्। इति श्रुत्वा जनः अयम् प्रमत्त इव अभवत् प्रोच्चैः स्वरेण च अवदत्- “अजा द्वौ ग्रामौ च अखादयत्”।
    अस्य वाक्यस्य अर्थः तु न कोऽपि वेत्ति। समीपस्थेन एकेन बुद्धिमता जनेन कथितम्- यदा राजा नमाजपठितुम् आगच्छति। तदा त्वम्- “अजा द्वौ ग्रामौ च अभक्षयत्” कथय।
    शुक्रवासरे नृपतिः नमाजपठनाय च अगच्छत् तदा अजापालकः “अजा द्वौ ग्रामौ च अभक्षयत्!” इति प्रोच्चैः स्वरेण वदति।
    यदा नृपतिः नमाजम् पठति तदा अजापालकः पृच्छति अयम् नृपतिः हस्तौ संहतौ कृत्वा किम् याचते ? जनः कथयति ईश्वरम् किमपि याचते।
    अजापालकः व्यवारयत् यः स्वयम् याचते सः कस्मैचित् किम् दातुम् प्रभवति?  इति विचार्य “ दाता दास्यति तदा ग्रहीष्यामि” इति उक्त्वा काननम् प्रति विनिर्गतः। जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः।
    एकदा अजापालकः स्वप्ने च अपश्य़त् यत्र सः उपविष्टः तत्र अतुलाधनराशिः वर्तते। सः रटन् आसीत् दाता यदा स्वयम् दास्यति तदैव ग्रहीष्यामि।
    एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म। ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः। सः चौरान् आह्वयत् अपृच्छत् च- किमर्थम् चौर्यम् कुरुथ? ते प्रोचुः, धनार्थम्।
    स कथयति, अत्र अतुला धनराशिः वर्तते, एनाम् नयतु , पुनः चौर्यम् मा कुरुत।
    चौराः भूमिम् अखनन्। भूमौ स्वर्णमये द्वे विशाले पात्रे च अमिलिते। परम् तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयः च आसन्। चौराः क्रुद्धाः सन्तः व्यचारयन् रजकेन अस्मान् मारयितुम् कृता इयम् व्यवस्था। अस्य गृहम् गत्वा एनम् पाठम् पाठयिष्यामि। इति विचार्य ते तस्य गृहम् प्रति प्रचलिताः।
    खट्वायाम् निषण्णः सः कथयति स्म- यदा दाता हर्म्यपृष्ठम् विदार्य दास्यति तदा ग्रहीष्यामि। सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणाम् वृष्टिः भवति। अजापालकः महाधनी सञ्जातः।
    नृपतिः तम् अजापालकम् न व्यस्मरत्। तम् अन्वेष्टुम् तत्र समागतः नृपतिः। नृपतिः तद्वैभवम् विलोक्य चकितः सञ्जातः। नृपः पृच्छति - तस्मिन् शुक्रवासरे त्वम् तस्मात् कथम् पलायितः?  अजापालकः ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयम् भगवन्तम् अयाचत्। इति विचार्य मया अपि भगवतः प्रार्थना कृता। तेनैव प्रभावेण अहम् धनवान् संवृतः।
    नृपः तस्य स्पष्टवादिताम् विलोक्य भृशम् प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान्।

कलहप्रिया भार्या

    एकस्मिन् नगरे कस्यापि नागरिकस्य क्रुद्धा भार्या आसीत्। सा अतीव चञ्चला , असमीक्ष्यकारिणी वर्तते सर्वदा कलहप्रिया सा वैपरीत्येन पथा प्रचलति।
एकदा गृहकलहेन विषण्णः पतिः काननम् प्रति प्रचलति । तत्र बदरीफलानि एकत्रितानि अकरोत्।
बदरीवृक्षस्य अधः गर्तम् विलोक्य व्यचारयत् अयम् यत् अस्मिन् गर्ते विनिपातयिष्यामि कलहप्रियाम् एनाम्।
    वनात् निवृत्य स कलहप्रियाम् प्रोवाच- कानने बदरीफलानि आनेतुम् मा गच्छ। सा प्रोवाच - अवश्यम् एव गमिष्यामि।
    पतिः प्रत्युवाच - परम् मदीयबदरीवृक्षे मा गच्छ।
    सा तु तत्रैव गन्तुम् प्रतिजज्ञे। पतिः काननम् प्रति प्रचलितः कलहप्रिय अपि तदनु प्राचलत्। प्रधावन्ती सा तस्मिन् गर्ते निपतिता। पतिः स्वगृहम् आगतः । त्रीणि दिनानि यावत् सुखेन न्यवसत् स्वगृहे। चतुर्थे दिने पार्श्वम् आगत्य ताम् निष्कासयितुम् प्रलंबाम् एकाम् रज्जुम् पातयामास। परम् तस्मात् च एकः पिशाचः निर्गतः।
    भयभीतः अयम् पिशाचम् पुनः गर्ते निपातयितुम् ऐच्छत् किन्तु पिशाचः प्रोवाच, माम् तस्मिन् गर्ते न निपातय यतो हि तत्र वर्तते च एका कलहप्रिया स्त्री। सा सर्वान् तुदति। अहम् तव अभिलाषम् पूरयिष्यामि।
    पिशाचः प्रोवाच - माम् नगरम् प्रति नय।
    अहम् जनेषु भयम् उत्पादयिष्यामि त्वम् तान् मत्तः प्रतिपालय। इत्थम् पिशाचः धनिकानाम् गृहेषु गत्वा तान् तुदति।
    सः तेषाम् पीडितानाम् भूतम् उत्तारयति। इत्थम् तयोः ख्यातिः तेषु प्रदेशेषु परिव्याप्ता।
यः कोऽपि रुग्णः भवति स अभिचारक्रिययाम् तम् परिचरति। जनाः तस्मै प्रभूतम् धनम् प्रायच्छन्। तेन अयम् धनिकः सञ्जातः।
    किञ्चित्कालानन्तरम् पिशाचः प्रोवाच - सम्प्रति त्वम् धनी सञ्जातः । अधुना अहम् भूस्वामिनः पुत्रम् अभिचरिष्यामि।
यदि त्वम् तत्र आगमिष्यसि चेत् त्वाम् खादिष्यामि, इति उक्त्वा पिशाचः तस्मात् निर्गतः ।
    भूताभिचरिताम् ताम् विलोक्य जना तम् भूतवैद्यम् अन्वेष्टुम् निर्गताः भूतवैद्यः प्रोवाच , यदि सर्वे नागरिकाः चत्वरे गत्वा - कलहप्रिया समागता, कलहप्रिया समागता - इति कथयिष्यन्ति तदा एव अहम् भूस्वामिनः पुत्र्याः चिकित्साम् करिष्यामि। इति उक्त्वा सः तत्र प्राप। तम् आगतम् विलोक्य कोपाविष्टः पिशाचः प्रोवाच - त्वम् अत्र कथम् आगतः निवारितः अपि।
    भूतवैद्यः प्रोवाच - न अहम्  ताम् चिकित्सितुम् समागतः अपि तु सा कलप्रिया अत्रापि समागता। इति श्रुत्वा पिशाचः चीत्कुर्वन् हा ! क्व गमिष्यामि? किम् करिष्यामि? भूतवैद्यः प्रोवाच - भो पिशाच , त्वम् तस्मिन् एव गर्ते गच्छ। न इयम्  कलहप्रिया तत्र आगमिष्यति। इति श्रुत्वा कलहप्रिया पुनः तदनु तस्मिन् एव गर्ते समागता ।
    इतः भूस्वामिनः पुत्र्या विवाहः भूतवैद्येन सह सञ्जातः। भूस्वामी स्वराज्यम् अपि तस्मै प्रदत्तवान्। वराकी कलहप्रिया सम्प्रति अपि तस्मिन् एव गर्ते स्वदिनानि यापयति इति बल्गेरियावासिनाम् विश्वासः।

मायाविनी

पुरा स्वर्गे द्वे भगिन्यौ न्यवसताम् । ज्येष्ठा भगिनी कोमतरहप्नामिका तथा कनिष्ठा च जरथरहप्नामिका। एते द्वे एव रामदेवस्य उद्यानपालिके।
    एकदा ते रात्रौ प्रगाढनिद्रायाम् शयनम् अकुरुताम्। कनिष्ठा भगिनी स्वप्नम् एकम् अपश्यत्। स्वप्ने लयांगवारस्य मायाविनी तैंगप आगता सा तस्याः स्वर्णरजतमयम् उपधानम् निःसार्य नीतवती भयविह्वला समुत्थिता, स्वप्नस्य घटनाम् ज्येष्ठभगिनीम् अश्रावयत्। प्रतीयते यत् अस्माकम् सुखस्य दिनानि निर्गतानि।
    सूर्योदयः सञ्जातः। तैंगपनाम्नी मायाविनी तस्य द्वारम् समागता ब्रूते च- लयांगवारनगरम् गन्तुम् समुद्यते भवतम्। तत्रत्यः नृपतिः युवाम् राज्ञोपदे नियोक्ष्यति। कोमतरहप् प्रत्यवदत्– न आवाम्  राज्ञोभवितुम् योग्ये।
    मायाविनी प्राह- यदि युवाम् मया सह न चलिष्यथः तर्हि अहम् बलात्+नेष्यामि। भगिन्यौ भयेन अकम्पताम् ।
    मायाविना तोषयितुम् स्वादिष्टम् भोजनम् निर्मित्वत्यौ। भोजनम् कृत्वा सा पुनः ते चलितुम् अकथयत्। मायाविनी तयोः अवशिष्टम् कार्यम् अपूरयत्।
    अन्ततः ते मायाविन्याः सह अचलताम्। प्रचलन्त्यः ता दूरतः एव लयांगवारस्य राजप्रासादम् अपश्यन्। राजप्रासादगमनात् पूर्वम्  मायाविनी भगिन्यौ स्नानम् अकारयत्।
    सा स्नानार्थम् ते ग्यामचोम् चीम्नोंनद्याम् अनयत्। तत्र मायाविनी प्रथमम् कोमतरहप्भगिन्याः शिरच्छेदम् अकरोत्। मृतशरीरस्य़ खण्डानि कृत्वा नद्याम् अक्षिपत्।
    तदनन्तरम् सा जरघरहप्भगिन्याः समीपम् आगता। सा भयेन कम्पितुम् लग्नाः सा स्वजीवनस्य भिक्षाम् अयाचत।
    मायाविनी प्राह - न त्वया स्वभगिन्या हत्यायाः समाचारः कस्यापि आख्येयः। भगिनी सर्वम् स्वीकृतवती ।
    मायाविनी कोमतरहप्भगिन्याः वस्त्राणि परिधाय तया सह राजप्रासादम् आससाद। राजा द्वयोः एव स्वागतम् अकरोत् ते राज्ञीपदे च अभिषिक्तवान्। मायाविनी प्रत्यहम् गृह एव अतिष्ठत्। जरथरहप्भगिनी गृहकार्यम् अकरोत् अजाः च आचारयत्। मायाविनी अजानाम् गणनाम् कर्तुम् आगच्छति प्रत्यहम् एकाम् अजाम् अखादयत्।
    जरथरहप्भगिन्यै खादितुम् शुष्काः रोटिकाः प्रायच्छत् सा प्रत्यहम् अजाः चारयितुम् तम् एव नदीतटम् आगच्छति यत्र भगिनीम् मारितवती मायाविनी।
    एकदा सा भगिनी दुःखेन भृशम् विषण्णा रोदिति। प्ररुदन्ती सा नद्याम् अपश्यत् तत्र तस्या ज्य़ेष्ठभगिनी वस्त्राणि वयति। तस्याः अश्रूणि वस्त्रवयनयन्त्रे न्यपतन्। ज्येष्ठभगिनी एतत् निभाल्य भगिन्याः कृते स्वादिष्टम् भोजनम् आनयति।
    सायम् ज्येष्टभगिनी नद्याम् अगच्छत् कनिष्ठभगिनी च राजप्रासादम्। सा एकम् मांसखण्डम् अपि कनिष्ठभगिन्यै प्रायच्छत्। यदा मायाविनी अजाः गणयति तदा तत् मांसखण्डम् प्रथिव्याम् अपतत्।
    अन्यदा मायाविनी जरथरहप्भगिनीम् प्रासादे स्थापयित्वा स्वयम् अजाः चारयितुम् निर्गताः ज्येष्भगिनी व्यचारयत् आगता अस्ति मे कनिष्ठभगिनी अजाः चारयितुम्। सा जलात् उपरि समागता ।
    आगमनसमकालम् एव मायाविनी तस्याः शिरच्छेदम् अकरोत् शरीरस्य च खण्डानि कृत्वा नद्याम् अपातयत्। अन्यदा मायाविनी जरथरहप्भगिनीम् अजाः चारयितुम् प्रैषयत्। सा ज्येष्ठभगिनीकृते भृशम् रुरोद। सा नद्याम् व्यलोकयत् तस्या भगिनी स्थूलतमा सञ्जाता अस्ति। सा जलाद् बहिः आगता।
    सायम् ते स्वस्थजीवनम् विनिर्गते। राजा लयांगवारः व्यचारयत् यत् जरथरहप्भगिनी प्रत्यहम् विषण्णचेता तिष्ठति। किम् कारणम् अस्य वर्तते।
    एकदा मायाविनी राजप्रासादात् अन्यत्र गता आसीत्। राजा ब्रूते , कथम् त्वम् विमनस्का सर्वदा एव तिष्ठसि? सा स्वभगिन्याः वृत्तान्तम् राज्ञे निवेदयति। राजा शीघ्रम् एव भृत्यान् आकार्य गर्तम् एकम् निर्मापितवान्। गर्तम् आस्तरणेन आच्छादितवान्। मायाविनी प्रतिनिवृत्ता।
    राजा ताम् तत्र उपविष्टुम् आदिशत्। प्रहर्षिता सा तत्र उपविशति गर्ते च निपतति। राजा कृपाणेन तस्याः शिरः चिच्छेद। तस्या शरीरस्य खण्डानि कृत्वा तस्याम् एव नद्याम् न्यपातयत्। कोमतरहप्भगिनी नदीतः बहिः आगता। एतद् वीक्ष्य कनिष्ठभगिनी भृशम् प्रहर्षिता। स्वज्येष्ठभगिनीम् आनीय राजप्रासादम् आगता। तदनन्तरम् राजा ते भगिन्यौ च राजप्रासादे सुखेन न्यवसन्।

शिक्षया किम् न साध्यते

निर्धने ब्राह्मणकुले जन्म अभवत् नरेन्द्रस्य । बुभुक्षितः सन् अपि विद्याम् प्राप्तवान् श्रमेण । मनसि व्यचारयत् अयम् य़ुवकः पठनेन वृत्तिः प्राप्स्य़ामि । सुखेन जीवनम् यापयिष्यामि । बहूनि दिनानि व्यतीतानि सः न कुत्रापि वृत्तिम् अलभत । गृहे पितरौ , स्त्री च न्यवसन् । स्त्री तु पितृगृहे वसति स्म । यतो हि श्वसुरगृहे दीनतायाः साम्राज्यम् आसीत् ।
    सन्ध्यासमयः आसीत् । नरेन्द्रः पूर्णम् दिनम् अभ्रमद् भृत्यर्थम् । बुभुक्षितः सन् स्वगृहम् प्रविष्टः । तेन श्रुतम् – माता पितरम् कथयति स्म - शृणोतु - वधूः स्वपितृगृहे वर्तते , बहूनि दिनानि व्यतीतानि । ताम्+अत्रैव आनयतु भवान् । यथा कथञ्चित् अत्रैव स्वोदरम् पूरयिष्यति ।
    पिता प्रोवाच - तव कथनम् युक्तियुक्तम् अस्ति परम् वयम् यथा कथञ्चित् स्वजीवनम् यापयाम ।
    वधूः कथम् अत्र निवसिष्यति बुभिक्षिता ? व्यर्थम् एव मया स्वसुतः पाठितः।
    यदि सुतः मूर्खः अभविष्यत् तर्हि श्रमम् कृत्वा अपि स्वोदरम् अपूरयिष्यत् ।
गृहे वयम् बुभुक्षिताः , सुतः भृत्यर्थम् अटति प्रत्यहम्। उपजिलाधीशः  भवितुम् कल्पते।
    युवकः स्वपितृवचनम् अशृणोत् द्वारस्थः । मनसि व्यचारयत् - घिङ् माम् । स्वपरिवारस्य पोषणार्थम् अपि न अहम् किमपि उपार्जयितुम् क्षमः । मम अनेन कुत्सितेन जीवनेन कः लाभः? सः गृहाभ्यन्तरम् अपि न गतः । प्रतिनिवृत्तः सन् शनैः शनैः चलितुम् आरभत ।
    सः कुत्र गच्छति , कथम् गच्छति , स्वयम् अपि न जानाति स मनसि व्यचारयत् - अनेन रेलयानेन सुदूरम् गच्छानि किन्तु चिटिकार्थम् रूप्यकाणि न वर्तन्ते ।
प्रचलन् सः विरराम ।
    कलकलध्वनिना प्रवहन्ती च आसीद् गंगा । तेन विचारितम् – गंगातरंगेषु जीवनम् समापयिष्यामि। कः लाभः च अनेन भारभूतेन जीवनेन। सः शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्य अज्ञानम् विनष्टम् ।
    सः व्यचारयत् , न अहम् गंगायाम् देहत्यागम् करिष्यामि। एतत् पापकर्म न करिष्यामि।
    युवकः बहिः आगतः जलात्। रात्रौ तत्रैव गंगातटे एकस्मिन् उटजे न्यवसत्। प्रभाते सञ्जाते निरुद्देश्यम् एव प्राचलत्। पूर्णम् दिनम् निरन्तरम् प्रचलन् आस्ते।
क्षुधया क्लान्तम् आसीत् शरीरम्।
    अक्ष्णोः अग्रतः च अन्धकारः प्रसर्पति। इत्थम् प्रदोषकाले कस्यचित् प्रासादस्य द्वारदेशम् आससाद। सहसा प्रासादात् कोऽपि वृद्धः बहिः निर्गतः।
    कमपि अपरिचितम् युवकम् वीक्ष्य तत् पार्श्वम् आगत्य औत्सुक्येन प्रोवाच , कः असि भ्रातः ! किमर्थम् अत्र समागतः असि ? तत् श्रुत्वा युवकस्य नेत्रे सजले सञ्जाते ।
    सः उद्विग्नम् युवकम् पुनः पप्रच्छ वृद्धः कथय किम् ते कष्टम्? षड्त्रिंशद् होरात्मकः समयः व्यतीतः, न  मया अन्नकणम् अपि सम्प्राप्तम् ।
    वृद्धः दयार्द्रः सम्प्रोवाच , उतिष्ठ , गृहम् चल। स्नेहात् अयम् तम् प्रासादाभ्यन्तरम् आनयत्।
    भोक्तुम् च निवेदयाञ्चक्रे। बुभुक्षितः अपि अयम् भोक्तुम् न चेष्टते, यतो हि गृहे तस्य पितरौ बुभुक्षितौ। निरन्तरम् नेत्रयोः अश्रुबिन्दवः निपतन्तः च आसन्।
    युवकः पुनः स्नेहात् अपृच्छत्- सत्यम् वद पुत्र ! किम् ते कष्टम्। भोज्यानि प्राप्य अपि किमर्थम् व्यर्थम् एव रोदिषि?
    युवकः वृद्धस्य स्नेहपरिपूर्णानि वचनानि श्रुत्वा सर्वाम् कथाम् अश्रावयत् स्वकुटुम्बस्य।
    वृद्धः यु‍वकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे, सर्वम् सम्पादयिष्यति भगवान् भूतभावनः। युवकः सन्तुष्टः सन् भोजनम् चकार। वृद्धः युवकम् तद्दिनात् एव स्वगृहे एव शिक्षकपदे नियुक्तवान्। किञ्चित्कालानन्तरम् सः सर्वकारीयाम् भृतिम् अलभत।
    स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः। आसीत् असौ युवकः भूदेवमुखोपाध्यायः। बंगप्रान्तस्य प्रतिष्ठितः सामाजिकः अयम् विभिन्नशिक्षणसंस्थानाम् सञ्चालकः सञ्जातः।