Tuesday, 12 May 2015

पण्डितः अपि वरम् शत्रुः

पुरा एकस्मिन् वने एकः सरोवरः च आसीत्। अनेके पशुपक्षिणः तत्र आगत्य जलम् अपिबन् जलविहारम् च अकुर्वन्। तेषु पक्षिषु वर्तकः च एक आस्ते। स पक्षिषु वृद्धतमः। बुद्धिमान् अयम्+ सर्वेषाम् रक्षणे तत्परः तिष्ठति। सर्वे पक्षिणः च अस्य समादरम् च अकुर्वन् बुद्धिमतः। सरोवरस्य पक्षिषु तथा मत्स्येषु विरोधः स़ञ्जातः।
मत्स्याः न ऐच्छन् यत् पक्षिणः यावद् दिनम् सरोवरे तिष्ठेयुः तेन सरोवरस्य जलम् मलिनम् सञ्जायते। किन्तु वर्तककारणात् पक्षिणः निर्भयम् विचरन्ति जलाशये। यदा कोऽपि मृगयुः समागच्छति तदा वर्तकः सर्वान् 'कोम्-कोम्' शब्दम् कृत्वा सावधानान् करोति। पक्षिणः समुड्डीय पर्वतोपत्यकायाम् पलायाञ्चक्रुः। मृगयुः नीराशः भूत्वा प्रतिनिवर्तते।
मत्स्याः वाञ्छन्ति स्म यत् पक्षिणः मृगयुजाले निबद्धाः स्युः येन जलाशये तेषाम् एव साम्राज्यम् भवेत्। वर्तकः यदा जले अवतरति तदा मत्स्याः तम् अदशन्। भयद्रुतः वर्तकः तीरम् आगत्य विषण्णः तिष्ठति स्म। प्राज्यम् भोजनम् अपि न लभते। बुद्धिमान् वर्तकः कस्मैचित् अपि वृत्तान्तम् इमम् न अकथयत् यतो हि तेन तयोः परस्परम् विरोधस्य आशंका सम्भाव्यते।
एकदा प्रत्यूषे कोऽपि व्याधः सरोवरम् आजगाम। सर्वे पक्षिणः निर्भयाः सन्तः क्रीडाकरणे लग्नाः च आसन्। मत्स्याः प्रसन्नाः च आसन् अद्य। वर्तकः 'कोम्-कोम्' शब्दम् कृतवान् झटिति सर्वे पक्षिणः समुड्डीय पर्वतोपत्यकायाम् प्राविशन्। वस्तुतः व्याधः पक्षिणाम् आखेटाय समागतः अभूत्। व्याधः शीघ्रम् एव स्वजालम् जले प्राक्षिपत्। शीघ्रम् एव जालस्य रज्जुम् समाचकर्ष।
सहस्त्रशः मत्स्याः तस्मिन् जाले निबद्धाः। वर्तकः तेषाम् दशाः विलोक्य चिन्तितः सञ्जातः वर्तकः मनसि व्यचारयत् स्वकर्मणः फलम् प्राप्तम् मत्स्यैः। किन्तु द्वितीये क्षणे व्यचारत् अयम्- वयम् अस्मिन् सरोवरे सह एव निवासम् कृतवन्तः। अहम् यत् एतेषाम् साहाय्यम् न अकरिष्यम् तर्हि मम जीवनम् व्यर्थम् भवेत्। अनेन मम कुटुम्बस्य एव विनाशः भविष्यति। वर्तकः शीघ्रम् एव व्याधसमीपम् आगत्य मत्स्यानाम् कृते विलपन् आस्ते।
व्याधेन विचारितम् कथम् न वर्तकम् एव हस्ताभ्याम् गृह्णामि समीपम् आगतम्। सहसा सः वर्तकम् ग्रहीतुम् हस्तौ प्रासारयत्। तेन तस्य हस्तात् जालरज्जुः निपतिता। तत्क्षणम् एव मत्स्याः जालात् निर्गत्य गभीरे जले प्रविष्टाः। वर्तकः तु उड्डीय पक्षिभिः सह मिलितः। व्याघ्रः प्ररुदन् स्वगृहम् प्रतिनिवृत्तः। एतद् वीक्ष्य वर्तकः जलाशयतटम् आससाद। सर्वे मत्स्याः वर्तकस्य कृते भोजनम् आनयन् क्षमायाचनम् च अकुर्वन्।
पक्षिणः अपि समुड्डीय तत्र आगताः सर्वे मत्स्याः प्रतिज्ञावन्तः यत् ते भविष्ये वर्तकपितामहस्य कृते भोजनस्य व्यवस्थाम् अपि करिष्यन्ति। तद्दिनात् पक्षिणः मत्स्याः च तस्मिन् सरोवरे प्रेम्णा न्यवसन् अन्योन्ययोः प्राणसंरक्षणार्थम् समुद्यताः च अतिष्ठन्। वर्तकस्य आदेशम् पालयन्तः स्वजीवनम् सुखेन अयापयन्। अत एव केनापि कथितम्- “ पण्डितः अपि वरम् शत्रुः”।

अद्भुतम् वस्तु

पुरा तिब्लिसीप्रदेशे एकः व्यवसायी न्यवसत् । सः महामूल्यानि वस्तूनि विक्रीय धनम् अर्जयामास। एकदा वस्तूनि विक्रेतुकामः च अयम् विदेशम् गन्तुमनाः जलयानम् आरुह्य यात्रार्थम्  सज्जितः। गमनकाले सः पत्नीम् अपृच्छत्- "विदेशात् तव कृते किम् वस्तु आनयानि?"
पत्नी प्रोवाच- "मत्पार्श्वे सर्वाणि वस्तूनि वर्तन्ते यदि आनेतुम् इच्छति चेत् किमपि अद्भुतम् वस्तु आनय।"
"आम्! अवश्यम् आनेष्यामि।" व्यवसायी सप्तसमुद्रपारम् गत्वा स्ववस्तूनि विक्रीय नववस्तूनि क्रीत्वा स्वदेशम् आगन्तुम् इच्छति। सः भार्यायै अद्भुतम् वस्तु अन्वेष्टुम् निर्जगाम। मार्गे वृद्धः च एकः अमिलत् अपृच्छत् च- "कथम् चिन्तितः भवान्?"
व्यवसायी ब्रूते- "किमपि अद्भुतम् वस्तु क्रेतुम् इच्छामि।"
वृद्धः प्राह- "मत्पार्श्वे वर्तते अद्भुतम् वस्तु, चलतु।" वृद्ध व्यवसायिनम् स्वगृहम् आनीय ब्रूते- "पश्य तद् अद्भुतम् वस्तु उद्याने भ्रमति।" स उच्चैः अवदत्- "रे हंसः, इतः आगच्छ।" हंसः तत्क्षणम् एव तत्र समागतः।
वृद्धः प्राह- "अरे हंस! कटाहे शयनम् कुरु।" हंसः कटाहे निपतति। वृद्धः हंसम् कटाहे भर्जयित्वा उत्तारयामास। तौ हंसस्य मांसम् खादितुम् लग्नौः। वृद्धः हंसस्य अस्थीनि एकत्रितानि अकरोत्। वृद्धः तानि अस्थीनि भूमौ निक्षिप्य प्राह- "अरे हंसः! उतिष्ठ।" हंसः तत्क्षणम् एव उत्तिष्ठति।
व्यवसायी अवदद्- "वस्तुतः तव पार्श्वे अद्भुतम् वस्तु वर्तते।" व्यवसायी वृद्धात् तम् हंसम् क्रीत्वा स्वदेशम् प्रति प्रस्थितः।
गृहम् आगत्य पत्नी कथयति- "हंसम् एनम् प्रतिदिनम् भर्जयित्वा, खादित्वा अपि पुनः जीवति। इदम् अद्भुतम् वस्तु त्वत्कृते विदेशात् आनीतवान् अस्मि।" व्यवसायिनः पत्नी नितराम् प्रसन्ना सञ्जाता।
एकदा व्यवसायी स्वविपणिम् आगतः। इतः तद्गृहे तस्य भार्यायाः प्रेमी समागतः। सा व्यचारयत् अद्य प्रेमिणम् हंसस्य मांसम् खादितुम् कथयामि।" सा गवाक्षात्  चीत्कूर्वन्ती ब्रूते- अरे हंस! इत आगच्छ, कटाहे शयनम् कुरु।" हंसः तु समागतः किन्तु कटाहसमीपम् अपि न गच्छति। तद् वीक्ष्य भार्य़ा नितराम् क्रुद्धा सञ्जाता। सा हंसस्य उपरि कटाहम् एव प्राक्षिपत्। कटाहः हंसेन संलग्नः सञ्जातः। सा अपि कटाहेन संलग्ना।
"अरे! अरे!! माम् रक्षतु" –इत्थम् चीत्कुर्वन्ती सा व्यलपत्। भार्यायाः प्रेमी बाहुभ्याम् ताम् आकर्षयितुम् इच्छति परम् सः अपि कटाहेन संलग्नः सञ्जातः। यः कोऽपि नागरिकः तान् पृथक् कर्तुम् चेष्टते सः कटाहे संलग्नः दृश्यते। दृश्यम् इदम् द्रष्टुम् नगरे जनसम्मर्दः सञ्जातः। विपणिस्थः व्यवसायी विचारयति, मम भार्यायाः इयन्त प्रेमिणः कुतः समायाताः।
व्यवसायी ब्रूते- "सर्वम् सत्यम् सत्यम् कथय, नो चेत् जीवनपर्यन्तम् कटाहे संलग्ना भविष्यसि।" सा सर्वम् रहस्यम् कथयामास। तदा व्यवसायी सर्वान् पृथक् अकरोत्। गृहम् आगत्य तस्याः प्रेमिणम् अताडयत् स्वभार्याम् च ब्रूते– "दृष्टम् त्वया कियद् अद्भुतम् वस्तु त्वदर्थे समानीतवान् अस्मि।"

अतिमानवः

पुरा अफ्रीकादेशे एकः बलवान्  मानवः न्यवसत् तस्य विचार आसीत् मत्समः न अस्ति संसारे कोऽपि बलवान्। तेन आनीतम् काष्ठभारम् न कोऽपि उत्थापयितुम् क्षमः।
एकदा काष्ठभारम् द्वारदेशे निक्षिप्य पत्नीम् प्रोवाच- "न अहम् मानवः प्रत्युत च अतिमानवः।" प्रहसन्ती पत्नी प्रोवाच- "त्वत्तः अपि  बलवन्तः संसारे विद्यन्ते।
बहूनि दिनानि व्यतीतानि। एकदा तस्य पत्नी जलम् आनेतुम् कूपसमीपम् अगच्छत्। सा कूपे पात्रम् प्रक्षिपति परम् जलम् उद्धर्तुम् च अक्षमा। सा रिक्तहस्ता गृहम् प्रति निवर्तमाना आसीत्, मार्गे च अमिलत् च एकाः स्त्री सपुत्रा।
सा प्रोवाच- "कथम् रिक्तहस्ता प्रतिनिवर्तते?" सा सर्वम् आख्यातवती। स्त्री स्वपुत्रम् आदिदेश जलम् उद्धर्तुम्। पुत्रः क्षणेन एव  जलपात्रम् उद्धृतवान्। सा प्राह– "कथम् अनेन जलम् उद्धृतुम् ?"
सा प्रोवाच- "वर्तते च अस्य पिता तस्य अयम् पुत्रः।" सा स्वगृहम् आगत्य सर्वाम् घटनाम् कथयति। अतिमानवः शेटू पत्नीम् प्राह- "अहम् तज्जलम् उद्धर्तुम् क्षमः।"
तत्र गत्वा कृते अपि प्रयत्ने शेटू जलम् उद्धर्तुम् न शशाक। शेटू अतिमानवम् अन्वेष्टुम् तत् प्रति चलितः। न अयम् अतिमानवः गृहे तस्मिन् समये आसीत्।
तम् च प्रोवाच- "किम् करिष्यसि तम् दृष्ट्वा?  दृष्टमात्रम् एव चर्वयिष्यति तम्, गच्छ शीघ्रम् तत्क्षणम् एव झंझावातः प्रसृतः। प्रचण्डेन वातेन वृक्षाः निपतिताः गृहम् प्रविश्य अयम् प्राह- मानवस्य गन्धः समायाति, बुभुक्षितः अहम्, प्रयच्छ मह्यम् भोजनम्।
भयभीतम् समागतम् अतिमानवम् सा प्राह- "अत्रैव कोणे निलीनः तिष्ठ।"
अतिमानवः च अयम् तस्य कर्कशध्वनिम् एव श्रुत्वा प्रकम्पितः सन् स्वगृहम् प्रति प्रचलितः। अतिमानवः मनुष्यगन्धम् ध्रात्वा तमनु प्रधावितः। तत्क्षणम् एव आकाशवाणी सञ्जाता, कथम् पलायसे?  क्षणम् तिष्ठत।"
अतिमानवः प्राह- "एकः च अतिमानवः माम् अनुधावति, किम् भवान् माम् रक्षितुम् क्षमः?"
आकाशवाणी सञ्जाता, अत्र अनेके अतिमानवाः सन्ति, कः त्वाम् अनुगच्छति? त्वम् पलायनम् कुरु।"
पुनः झंझावातः प्रसृतः, ध्वनिः अभवत्- "कः त्वम्, कथम् पलायसे? " अतिमानवः सर्वम् कथयामास। तत्क्षणम् एव आकाशवाणी स़ञ्जाता- "न अहम् अतिमानवः, अहम् तु अतिदानवः। तत्क्षणम् एव अतिमानवातिदानवौ परस्परम् क्रोधान्वितौ द्वन्द्वयुद्धम् अकुरुताम्। आत्मानम् अतिमानवम् मन्यमानः जनः तौ कलहायमानौ विलोक्य द्रुतम् स्वगृहम् प्रति पलायितः।
काननमार्गेण शीघ्रम् स्वगृहम् प्राप। तम् आगतम् विलोक्य तस्य स्त्री प्राह- "मिथ्यात्मप्रशंसया न कोऽपि महान् भवितुम् अर्हति। मानवः एव श्रेष्ठः न च अतिमानवः।"
तद्वचनम् श्रुत्वा मानववद् व्यवहारम् कुर्वाणः आसीद् अयम् सम्प्रति अपि तौ अतिमानवातिदानवौ गगने कलहायमानौ वर्तेते। तयोः गर्जनध्वनिः सम्प्रति अपि मेघगर्जने श्रूयते, इति जनानाम् विश्वासः।

दुःखानाम् मञ्जूषा

ग्रीकदेशस्य देवानाम् राजा जिउसः सर्वप्रथमम् एकाम् स्त्रियम् प्रैषयत् पृथिव्याम्। स्त्रियः नाम आसीत्- पानडोरा। पानडोरा प्रथमा स्त्री आसीत् प्रथिव्याम्। जिउसः यदा ताम् अप्रैषयत् पृथिव्याम् तदा मञ्जूषाम् एकाम् अपि प्रायच्छत् तस्यै। तालकयुक्ता मंजूषा आसीत् इयम्, जिउसः कुञ्जिकाम् अपि पानडोरायै प्रायच्छत्। मंजूषाम् आदाय पानडोरा पृथिव्याम् प्राप। सा पृथिव्याम् आगत्य युवकेन एकेन सह विवाहम् कृत्वा सानन्दम्न्यवसत्। सा मञ्जूषाम् कुञ्चिकाम् च स्वामिनम् समर्पितवती। स्वामी ताम् मञ्जूषाम् गृहस्य एकस्मिन् कोणे च अस्थापयत्।
बहूनि दिनानि व्यतीतानि। तौ सुखेन स्वकालम् यापयामासतुः। गृहस्वामी सोल्लासम् सर्वाणि कार्याणि संपाद्य सायम् गृहम् आगच्छति। पानडोरा सस्मिता प्रत्यहम् तस्य स्वागतम् व्याजहार। सा भोजनानन्तरम् स्वस्वामिनम् विविधा देवकथाः श्रावयामास।
द्वित्रिवर्षाणि व्यतीतानि। पानडोरा च अन्वभवत् यत् तस्या शरीरम् प्रत्यहम् शिथिलम् जायते, मनसि च विरक्तिः उत्पद्यते सा स्वामिनः पृथक् भूत्वा सुखम् अनुभवति।
एकदा पानडोरा व्यचारयत्, यदा सा स्वर्गात् प्रचलिता तदा जिउसः तस्यै मञ्जूषाम् एकाम् कुञ्जिकाम् च प्रायच्छत्। सा उत्कण्ठिता आसीत् यत् किम् अस्ति मञ्जूषाभ्यन्तरे? सा मञ्जूषाम् उद्धाटयितुम् इच्छति। सा मञ्जूषापार्श्वम् आगता, ध्यानपूर्वकम् मञ्जूषाम् च अपश्यत्। अन्वभवत् सा यत् मञ्जूषाभ्यन्तरे कोऽपि मन्दम्-मन्दम् व्याहरति, कातरस्वरेण प्रार्थयति च, माम् बहिः आनयतु। दयार्द्रा पानडोरा कुञ्जिकया मञ्जूषाम् उद्घाट्य पश्यति।
आश्चर्यम् आसीत् मञ्जूषातः विविधाः कीटाः निःसृता, ते पानडोराम् अदशन्। पानडोरा व्याकुला सती पुनः मञ्जूषाम् निबद्धाम् कृतवती। कीटाः समुड्डीय इतस्ततः प्रासर्पन्। भयद्रुताः पानडोरा रहस्यम् एतत् न ज्ञातवती।
किञ्चित् कालानन्तरम् पुनः मञ्जूषातः मन्द्रः स्वरः समुद्भूतः, माम् बहिः निःसारयतु। इत्थम् प्रतीयते यत् कापि बालिका वदति। पानडोरा पूर्वम् एव मञ्जूषोद्घाटनफलम् भुक्तवती न अहम् पुनः त्रुटिम् करिष्ये, इति मनसि व्यचारयत्। परन्तु विनीतस्वरेण दयार्द्रा सञ्जाता पानडोरा। पुनः मञ्जूषाम् अपावृताम् अकरोत्।
सम्प्रति मञ्जूषातः एका सुरूपा बालिका निर्गता। पानडोरा ताम् विलोक्य आश्चर्यचकिताः सञ्जाता। प्रसन्ना सती सा नर्तितुम् आरेभे। पानडोराम् विलोक्य देवबाला प्रोवाच- "पानडोरे!  त्वम् एकाम् त्रुटिम् कृतवती।"
विस्मयान्विता पानडोरा प्रोवाच- "पुत्रि कथय, का त्रुटिः सञ्जाता?"
देवबाला प्राह- "पूर्वम् मञ्जूषातः ये कीटाः निर्गताः ते वस्तुतः कीटाः  न आसन्।" पानडोरा रहस्यम् एतत् न जानन्ती च आश्चर्यचकिता सञ्जाता। पुनः पुनः पप्रच्छ- "यदि ते कीटाः न सन्ति तर्हि के ते? "
प्रहसन्ती देवकन्या न्यबोधयत्- "पानडोरे! न ते कीटाः, ते तु रोगशोकदुःखादयः च आसन्। ते समस्त संसारे प्रासर्पन्। संसारस्य प्राणिनः दुःखम् अनुभविष्यन्ति।"
तत् श्रुत्वा पानडोरा- मनसि विषादः परिव्याप्तः। साश्रुनेत्रा सा विललाप। मत्कारणेन संसारे दुःखम् व्याप्तम्। पानडोरा प्रार्थयाञ्चक्रे- "कोऽपि उपायः कथ्यताम् दुःखनिवृत्तये।"
देवकन्या प्रोवाच- "जिउसेन अहम् पृथिव्याम् प्रेषिता तेषाम् दुःखितानाम् दुःखनिवारणाय। अहम् उत्साहेन प्रेरणया च मानवेषु प्रविश्य दुःखानाम् विनाशाय सर्वदा प्रेरणाम् दास्यामि, येन ते जीवनस्य आशाम् न परित्यक्षन्ति।

वाचाला तत्याना

एकस्मिन् उपनगरे कृषकदम्पती निवसतः स्म। कृषकः परिश्रमशीलः च आस्ते। तस्य पत्नी नितराम् वाचाला वर्तते। अत्र घटिताम् वार्ताम् ता सर्वत्र प्रसारयति स्म।
एकदा कृषकः आखेटाय वनम् गतः। तत्र व्याघ्रम् ग्रहीतुम् यावत् गर्तम् खनति तावत् गर्ते स्वर्णघटः निर्गतः। कृषकः व्यचारयत् यदि स्वर्णघटम् गृहम् नेष्यामि तर्हि सा इमाम् वार्ताम् सर्वत्र प्रसारयिष्यति तेन भूस्वामी माम् प्राणदण्डेन दण्डयिष्यति।
इति विचार्य कृषकः स्वर्णघटम् तत्रैव भूमौ निखातवान्। स्वगृहम् च प्रत्यागतः। मार्गे नद्याम् पाशम् एकम् व्यलोकयत् यस्मिन् पाशे श्चूका- मत्स्यः निबद्ध आसीत्। कृषकः मत्स्यम् निष्कास्य स्वहस्ते निधाय अग्रे प्रचलितः। तत्रापि मार्गे एकस्मिन् पाशे शशकः निबद्धः आसीत्। सः पाशात् शशकम् उन्मोच्य तस्मिन् मत्स्यम्, मत्स्यपाशे च शशकम् न्यपातयत्। पुनः अग्रे प्राचलत्।
सायम् स्वगृहम् प्राप्य स्वपत्नीम् प्रोवाच- तत्याने!  सम्प्रति अपूपान् पाचय।
तत्याना प्राह– अपूपाः तु केवलम् हर्षावसरे पाच्यन्ते, किम् कोऽपि हर्षस्य समाचारः वर्तते?
कृषकः ब्रूते, आम् , अद्य मया भूमौ स्वर्णघटः सम्प्राप्तः। प्रहर्षिता सा बहून् अपूपान् पाचितवती। कृषकः च अपूपान् भक्षयितुम् आरब्धः। सः बहून् अपूपान् वस्त्रे निबध्नाति।
तत्याना प्रोवाच, भवता प्रभूताः अपूपाः भक्षिताः किम् उदरम् न भरितम्?
कृषकः प्रोवाच- "मदीयम् उदरम् न भरितम्?  त्वम् अपि शीघ्रम् खादय, आवाम् स्वर्णघटम् नेतुम् यास्यावः।"
तत्याना शीघ्रम् भुक्त्वा तेन सार्धम् काननम् प्रति प्रचलिता। अन्धकारावृते मार्गे कृषकः अग्रे गत्वा वृक्षेषु अपूपान् अवलम्बयामास। एतत् अवलोक्य तत्याना प्रोवाच, पश्यतु , पश्यतु , वृक्षेषु अपूपाः अवलम्बन्ते।
कृषकः कथयति- "त्वया न विलोकितम्, सम्प्रति एव अपूपानाम् मेघाः समुड्डीय निर्गताः च आसन्।
कृषकः प्रोवाच- इतः तावद् विलोकय शशकपाशम्। तत्याना यावत् शशकपाशपार्श्वम् आगच्छति तदा पश्यति यत् तस्मात् पाशात् श्चूकाः निर्गताः।
सा प्रोच्चैः वदति, कथम् श्चूकामत्स्यः शशकपाशात् निर्गता।
कृषकः प्रोवाच- "त्वम् न जानासि, केचन ईदृशाः श्चूकाः अपि सन्ति ये भूमौ निवसन्ति।'' यदा कृषकः नदीतटम् आगतः तदा तत्यानाम् ब्रूते- स्वकीयम् पाशम् अपि पश्य। तत्याना यावत् स्वकीयपाशे पश्यति तावत् तस्मिन् शशकः निबद्धः आसीत्।
आश्चर्यचकिता तत्याना कथयति- मत्स्यपाशे शशकः कथम् निबद्धः?
कृषकः प्रोवाच, किम् त्वया समुद्रस्थः शशकः न दृष्टः  कदापि। तदनन्तरम् तौ तत्र समायातौ यत्र स्वर्णघटः आसीत्। तौ स्वर्णघटम् नीत्वा स्वगृहम् प्रति प्रचलितौ। मार्गे भूस्वामिनः गृहम् समागतम्। तत्र एडकाः “ मेम् - मेम् ” शब्दम् कुर्वन्तः आसन्।
शब्दम् श्रुत्वा तत्याना प्रोवाच, शीघ्रम् गृहम् चल, ईदृशः शब्दः कस्मात् निर्गच्छति।
कृषकः ब्रूते- पिशाचाः भूस्वामिनम् ताडयन्ति।
इत्थम् व्यतीता रजनी। तौ प्रत्यूषे स्वगृहम् आगतौ। स्वर्णघटम् भूमौ मृत्तिकया प्रच्छाद्य कृषकः तत्यानाम् ब्रूते- स्वर्णघटस्य वृत्तान्तः नआख्येयः कस्यापि।
प्रभाते सञ्जाते तत्याना जलम् आनेतुम् अद्य विलम्बेन गता। स्त्रियः प्रोचुः- अद्य विलम्बेन कथम् आगता?
वाचाला तत्याना स्वमनोभावान् अवरोद्धुम् न शक्ता। सा स्वर्णघटप्राप्तेः वृत्तान्तम् श्रावयामास। क्षणेन इयम् वार्ता भूस्वामिनः पार्श्वम् आगता। भूस्वामी कृषकम् आकार्य वाचा प्राताडयत् कथम् न त्वया स्वर्णघटस्य सूचना प्रदत्ता।
कृषकः प्रोवाच- न अहम् स्वर्णघटम् अवाप्तवान् भूस्वामी तत्यानाम् अकारयामास।
कृषकः ब्रूते- तत्याना तु प्रमत्तम् एव यत् किमपि कथयति, न अहम् तस्याम् वचसि विश्वसिमि। भूस्वामी तत्यानाम् पृच्छति किम् तव पतिः स्वर्णघटम् प्राप्तवान्?
सा ब्रूते- "आम्।"
"युवाम् स्वर्णघटम् नेतुम् रात्रौ गतौ, सर्वम् विस्तरेण वद।"
तत्याना कथयति- "पूर्वम् आवाम् काननम् प्रति निर्गतौ। तत्र वृक्षेषु अपूपाः अवलम्बन्ते स्म।"
भूस्वामी ब्रूते- "कानने अपूपाः कस्माद् आगताः?"
सा कथयति- "आकाशात्।"
तदनन्तरम् शशकपाशात् श्चूकामत्स्यः निर्गतः, मत्स्यपाशे च शशकः। पुनः आवाम् स्वर्णघटम् नीत्वा गृहम् प्रति समागतौ। मार्गे भवताम् गृहपार्श्वे पिशाचाः भवन्तम् ताडयन्ति स्म। तत्यानावचनम् श्रुत्वा भूस्वामी भृशम् प्रकुपितः सन् ताम् प्रमत्ताम् मन्यमानः स्वप्रासादात् निष्कासयामास। तदनन्तरम् तौ दम्पती सुखेन स्वकालम् यापयामासतुः।

इवानस्य भाग्योदयः

एकस्मिन् ग्रामे इवाननामकः सरलः च एकः जनः न्यवसत्। स आखेटम् कृत्वा उदरम् विभर्ति स्म। एकदा जम्बुकः तस्य पाशे न्यपतत्। हर्षितः इवानः व्यचारयत् एवम् विक्रीय आनन्देन समयम् अतिवाहयामि। यदि इत्थम् एव प्रत्यहम् जम्बुका मिलिष्यन्ति चेत् तर्हि विक्रीय एतान् विवाहार्थम् धनम् उपार्जयिष्यामि।
चतुरः जम्बुकः प्राह- भ्रातः इवान! माम् त्यज, त्वाम् धनिनम् विधास्यामि। इवानः तम् पर्यत्यजत्। जम्बुकः निर्गत्य जारोद्यानम् गत्वा क्रीडितुम् आरेभे। तदैव व्याघ्रः च एकः उपागत्य प्रोवाच मातृस्वसः!  कथम् अद्य प्रसन्ना दृश्यते, कथम् न प्रसन्ना स्याम, अद्य जारप्रासादे आकण्ठम् भुक्त्वा समागतवती। पुनः भोजनाय गमिष्यामि।
व्याघ्रः उवाच, एकदा माम् अपि तत्र नय भोजनाय।
जम्बुकः प्रोवाच- यदि त्वम् जाराय उपायने चत्वारिंशत् व्याघ्रान् समर्पयिष्यसि तर्हि भोजनाय चलितुम् शक्ष्यषि। व्याघ्रः कानने भ्रान्त्वा भ्रान्त्वा चत्वारिंशत् व्याघ्रान् एकत्रितान् अकरोत्  जारप्रासादम् आगत्य प्रोवाच- महाराज!  इवानः भवते चत्वारिंशत् व्याघ्रान् प्रैषयत् भवताम् कुशलम् च कामयते।
जारः प्रसन्नः सञ्जातः व्यचारयत् च, इवानः काननस्य राजा स्यात्। जम्बुकम् धन्यवादम् समर्पयन् जारः व्याघ्रान् ररक्ष। जम्बुकः इवानपार्श्वम् आगत्य प्रोवाच पश्यतु, किम् किम् करवाणि? इति उक्त्वा जारोद्यानम् आगत्य कूर्दितुम् आरेभे। तदैव तत्र भल्लूकः च एकः समागतः। जम्बुकः भोजनस्य वार्ताम् भल्लूककम् अश्रावयत् भल्लूकस्य मुखे लाला समुत्पन्ना।
भल्लूकः प्राह, माम् अपि तत्र भोजनाय नय।
जम्बुकः प्राह- त्वम् जाराय उपायने समर्पयितुम् पञ्चाशत् भल्लूकान् आनय तदा त्वाम् भोजनाय तत्र नेष्यामि। लोभाविष्टः भल्लूकः पञ्चाशत् भल्लूकान्, एकत्रितान् अकरोत्। जारप्रासादम् आगत्य प्रोवाच, इवानेन उपायेन प्रेषिताः इमे भल्लूकाः। जारः व्यचारयत् इवानः तु मत्तः अपि बलवत्तरः दृश्यते।
स जम्बुकम् प्राह, एकदा इवानम् राजप्रासादम् आनय।
जम्बुकः प्रोवाच, अस्माकम् इवानः तु कानने वसति, सिंहचर्मनिर्मितानि वस्त्राणि धारयति। सिंहारूढः यद् अत्र आगमिष्यति तदा तव प्रजाः भयविह्वला भविष्यति। अतः तम् आनयनाय नूतनानि वस्त्राणि वाहनम् च प्रेषयतु भवान्।
जम्बुकः इवानम् नूतनवस्त्राणि परिधाप्य वाहने समारोप्य तेन सह स्वयम् अपि राजप्रासादे सुखपूर्वकम् न्यवसत्। जारः तु इवानस्य स्वागतम् अकरोत्। इवानेन सह स्वकन्यायाः विवाहम् कृतवान्।
एकदा जारः जम्बुकम् प्रोवाच, स्वजामातृराज्यम् द्रष्टुम् इच्छामि। कतिचिद्दिनानि यावत् तत्रैव निवासम् करिष्यामि।
जम्बुकः विचारयति अधुना किम् भविष्यति? इति विचारयन् जम्बुकः प्रधावन् अग्रे निर्गतः। मार्गे अजापालकः च अमिलन्। जम्बुकः प्राह- कस्य अजाः चारयथ?
ते प्रोचुः इमे पशवः नागराजस्य सन्ति।
जम्बुकः प्राह किञ्चित्कालानन्तरम् अस्मात् अग्निदेवः निर्गमिष्यति यदि स पृक्ष्यति चेत् तर्हि कथय भवन्तः यत् इमे पशवः इवानस्य वर्तन्ते, अग्निदेव भस्मसात् करिष्यति। इति उक्त्वा जम्बुकः अग्रे प्रचलितः।
अग्रे गोपालाः गावः चारयन्ति स्म। जम्बुकः गोपालान् अपि तथैव अकथयत्। तदनन्तरम् जम्बुकः नागराजस्य प्रासादम् प्राप, अवदत् च शीघ्रम् गच्छ अस्मात् नो चेद् अग्निः प्रज्वालयिष्यति।
नागदेवः प्रोवाच, जम्बुकः प्राह- उद्याने वर्तते जीर्णवृक्षः, तस्य कोटरम् प्रविश। भयद्रुतः नागराजः तथैव अकरोत्।
पृष्ठतः जारः समागच्छन् प्रोवाच, कस्य इमे पशवः?  ते इवानस्य इति अवदन्। प्रचलन् जारः नागराजप्रसादपार्श्वम् आजगाम। जम्बुकः तत्र पूर्वत एव हस्तौ संहतौ कृत्वा जारस्य स्वागतम् व्याजहार। राजप्रासादे सर्वे भोजनम् कृत्वा विश्रामम् अकुर्वन्।
किञ्चिद्दिनानन्तरम् जम्बुकः इवानम् प्राह- येन केनापि उपायेन वृक्षकोटरस्थम् तम् नागराजम् व्यापादाय नो चेत् अस्माकम् रहस्यम् ज्ञास्यति अहम् जारः।
एकदा जारेण सह इवानः अपि भ्रमणाय उद्यानम् प्रति विनिर्गतः। इवानः जारम् प्राह- बहूनि दिनानि व्यतीतानि, शरसन्धानस्य अभ्यासः न्यूनीभूतः। सम्प्रति शरसन्धानम् करोमि इति कथयित्वा इवानः जीर्णतरुकोटरे बाणान् चिक्षेप, तेन नागराजः मृतः। तद्दिनात् इवानः तस्मिन् प्रासादे ससुखम् न्यवसत्।

जम्बोलायाः राजकुमारः

पुरा सिक्किमप्रान्ते रयोथुबसंगनामक बालकः न्यवसत्। तस्य पितरौ पूर्वम् एव मृतौ। सः स्वज्येष्ठभ्रात्रा सह निवसति। भ्रातृजाया सुष्ठुः न व्यवहरति। इत्थम् बालकः दुःखेन जीवनम् यापयति।
एकदा भ्रातृजाया बालकम् अताडयत्। बालकः गृहकोणे समुपविष्टः रोदिति स्वपितरौ च स्मरति। प्ररुदन् बालकः तत्रैव प्रसुप्तः। सायम् तत्र सिंहः समागतः तम् बालकम् काननम् प्रति अनयत्। कानने कियत्दूरे विनिर्गते सति सिंहः व्यचारयत्, कथम् खादामि बालकम् एनम्? सः बालकम् उत्तारयति किन्तु पश्यति यत् केवलम् बालकस्य वस्त्राणि एव तत्र विद्यन्ते, बालकः तु क्वचित् मार्गे एव निःसृतः।
सिंहः तम् अन्वेष्टुम् प्रतिनिवृतः। वस्तुतः रयोथुवसंगः मार्गे एव अपतत् सिंहः पूर्वस्याम् प्राचलत्। कियत् दूरे गते सति गौशालाम् एकाम् अपश्यत्। तत्र कतिचन गावः तथा तर्णकाः च आसन्। प्रभूतमात्रायाम् तत्र नवनीतम्, दुग्धम्, दधि च संस्थापितम् आसीत्। बुभुक्षितः अयम् बालकः प्रभूतमात्रायाम् नवनीतम् भक्षितवान्। पुनः अयम् गौशालायाः बहिः वृक्षे समारुढः।
किञ्चित् कालानन्तरम् तत्रैव  निद्रावशंगतः बालकः। सायंकाले शृंगवन्तः वृषभाः स्वस्थानम् आगताः। गौशालायाः स्वच्छताम् नवनीतम् च भक्षितम् विलोक्य ते व्यचारयन्- अवश्यम् अद्य अत्र कोऽपि समागतः। वृषभाध्यक्षः बालकस्य चरणचिह्नानि अनुसरन् तस्य वृक्षस्य अधः समागतः यस्मिन् बालकः समुपविष्टः आसीत्। इतः सिंहः अपि तम् अन्वेष्टुम् तत्रैव समागतः।
यदा सिंहः बालके आक्रमणम् कर्तुम् इच्छति तदा वृषभः शृंगाभ्याम् सिंहम् हतवान्। एतत् वीक्ष्य बालकः भयेन कम्पते। वृषभाध्यक्षः प्रोवाच- "न अद्यावधि केनापि गौशालायाः स्वच्छता कृता।
त्वम् अस्माकम् हितकारी अतएव अस्माकम् राजा त्वम् एव असि, इति उदीर्य बालकम् शृंगयोः आरोप्य गौशालायाम् आनयत्। बालकाः सिंहासनम् निर्माप्य बालकम् तत्र अस्थापयन्। बालकाः रात्रौ उत्सवम् चक्रिरे।
वृषभाध्यक्षः बालकाय स्वर्णवेणुम् प्रायच्छत् अकथयत् च- "समागतायाम् विपदौ वादयतु एनम्।"
एकदा शर्बूनामकः व्याधः गौशालाम् प्रत्यागतः। बालकस्य हस्तयोः स्वर्णवेणुम् विलोक्य व्यचारयत् निश्चितम् अयम् राजकुमारः भविष्यति। मम प्रान्तस्य राजकुमार्याः कृते श्रेष्ठः अयम् वरः प्रतीयते। व्याधः तम् स्वप्रान्तम् नेतुम् इच्छति बलात्। बालकः वेणुवादनम् अकरोत्।
सर्वे वृषभाः गौशालाम् समागताः। शृंगाभ्याम् व्याधम् बहिः निरसारयन्। व्याघ्रः स्वप्रान्तम् आगत्य राज्ञे सर्वम् वृत्तम् न्यवेदयत्। राजा स्वकन्यार्थम् बालकम् आनेतुम् मायाविनीम् एकाम् प्रैषयत्। बालकः तदा वेणुवादनम् अकरोत्।
मायाविनी वृषभम् आरुह्य काकरूपम् धृत्वा काम्-काम् अकरोत्। कर्णकटुशब्दम् श्रुत्वा बालकः काकोपरि ज्वलत् उल्मकम् चिक्षेप। प्रस्तरखण्डानि च न्यपातयत् परन्तु विचित्रः अयम् काकः। तम् काकम् अपाकर्तुम् अक्षमः बालकः स्ववेणुम् एव तस्य उपरि चिक्षेप।
चतुरः काकः स्वर्णवेणुम् नीत्वा स्वराजप्रासादम् प्रति विनिर्गतः। मायाविनी राजानम् अकथयत् न अधुना वेणुना विना बालकः किमपि कर्त्तुम् न शक्नोति। बालकम् गृहीत्वा अत्र समानयतु भवान्। राजा बालकम् तत्रैव अक्षिपत् यत्र राजकुमारी निबन्धिता आसीत् । बालकः तत्र निक्षिप्तम् स्वर्णवेणुम् नीत्वा वादयितुम् लग्नः। वेणुवादनप्रभावेण तत्र शतशः वृषभाः समुपस्थिताः । ते प्रोचुः बालकम् प्रत्यर्पयतु, अन्यथा वयम् शृंगाभ्याम् तव प्रासादम् विनंक्ष्यामः। राजकुमार्याः विवाहम् अपि बालकेन सह कुरुत। तस्य प्रान्तस्य राजा बालकेन सह राजकुमार्याः विवाहम् कृत्वा स्वार्द्धराज्यम् अपि तस्मै प्रायच्छत्। तौ सुखेन गौशालाम् आगत्य राज्यम् बुभुजे।