Tuesday, 12 May 2015

बालकः कृषकः नृपतिः च

एकस्मिन् ग्रामे बालकः च एकः न्यवसत्। तस्य पितरौ निर्धनौ वृद्धौ च आस्ताम्। दैन्येन तौ बालकम् पाठयितुम् अपि न शेकतुः। पितरौ गृहे एव कथाः श्रावयतः, येन अयम् बालकः निर्भीकः साहसिकः च सञ्जातः। एकदा बालकः प्रोवाच- "अहम् नगरम् प्रति गत्वा किमपि कार्यम् करिष्यामि, भवन्तौ वृद्धौ सञ्जातौ स्तः। मदीयम् अपि किमपि कर्तव्यम् भवति।"
पिता प्रोवाच- "नगरम्  गत्वा किम् करिष्यसि? अपठितः नगरे किम् कार्यम्+ करिष्यसि। राजप्रासादे अपि पठिता एव कार्यम् लभन्ते।"
बालकः प्रोवाच- "न अहम् शिक्षितः परम् मत्पार्श्वे वर्तन्ते गुणाः। अहम् अपि अर्जयित्वा समागमिष्यामि।" इति उक्त्वा बालकः नगरम् प्रति निर्गतः। मार्गे बालकेन दृष्टम् यत् कृषकः कोऽपि क्षेत्रे हलम् नीत्वा रोदिति। बालकः प्रोवाच- "कथम् तूष्णीम् तिष्ठसि भ्रातः!"
कृषकः प्राह- "राज्ञः सैनिकाः मद्वृषभौ आच्छिद्य नीतवन्तः।"
बालकः प्रोवाच- "किमर्थम्?"
कृषकः प्रोवाच- "दैन्येन मया राज्ञः करः न प्रदत्तः।"
बालकः प्राह- +चिन्ताम् मा कुरु, अहम् आनयामि तव वृषभौ। त्वम् सुखेन गृहम् गच्छ, अहम् आगच्छामि तव गृहम्।" इत्युक्त्वा बालकः च अग्रे प्रचलितः। मार्गे सिंहः मिलितः। निर्भयम् बालकम् विलोक्य सिंहः निजगाद- "भो भ्रातः! कुत्र गच्छसि एकाकी?" बालकः सर्वाम् कथाम् व्यथाम् कथयामास।
सिंहः प्रोवाच- "माम् अपि नय, तव  साहाय्यम् विधास्यामि।" बालकः सिंहम् स्ववामकर्णे स्थापितवान् प्रचलितः च तस्मात्। मार्गे व्याघ्रः च एकः अमिलत्।
सः अपि बालकम् अपृच्छत्- "भ्रातः !  कुत्र गच्छसि त्वम्? " बालकः सर्वाम् घटनाम् अश्रावयत्। व्याघ्रम् अपि स्वदक्षिणकर्णे स्थापयति, अग्रे च प्राचलत्। मार्गे च एकः अस्मिन् स्थाने अग्निः च अन्यस्मिन् स्थाने जलम् अमिलत्। तौ अपि बालकेन सह गन्तुम् समुत्सुकौ च आस्ताम्। बालकः च अग्निम् वामनासिकायाम् तथा जलम् दक्षिणनासिकायाम् अस्थापयेत्।
सायंकाले बालकः राजप्रासादम् प्रविवेश प्रोवाच च- "शीघ्रम् एव तस्य कृषकस्य वृषभौ प्रयच्छ।" क्रुद्धः नृपतिः बालकम् गौशालायाम् निक्षेप्तुम् आदिदेश। रक्षकाः तथैव अकुर्वन्।
किञ्चित् कालानन्तरम् गौशालायाम् स्थितिः विस्फोटका सञ्जाता। सिंहः बालकस्य वामकर्णान् निर्गत्य गौशालायाम् भ्रमितुम् लग्नः। समाचारम् श्रुत्वा नृपतिः क्रोधान्वितः सन् प्रोवाच- "बालकम् अजाशालायाम् निक्षिपन्तु।" तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः। व्याघ्रः अजा एडकान् च खादितुम् आरेभे।
राजा अपि घटनया अनया चकितः सञ्जातः, आदिदेश च यत् कारागारे क्षिपन्तु बालकम्। बालकः कारागारे प्रक्षिप्तः, किन्तु तत्र वामनासिकातः च अग्निः निसृत्य राजप्रासादे प्रसृतः। एतद् वीक्ष्य राजा बालकपार्श्वम् आगत्य क्षमायाचनम् अकरोत्। तत्क्षणम् एव बालकस्य दक्षिणनासिकातः जलम् ववर्ष, तेन राजप्रासादस्य अग्निः शान्तः अभवत्।
राजा प्रोवाच- "अद्य प्रभृति त्वम् मम प्रधानमंत्री अस्ति।"
बालकः प्राह- "प्रथमम् वृषभौ प्रयच्छ तस्य कृषकस्य।" बालकः वृषभौ नीत्वा कृषकस्य गृहम् प्राप। वृषभौ दृष्ट्वा कृषकः भृशम् प्रहर्षितः- "अहम् तव किम् प्रत्युपकारम् कर्तुम् शक्नोमि?"
बालकः प्राह- "अहम् राज्ञः सेवकः भवितुम् गृहात् निर्गतः किन्तु न अहम् तस्य अधमस्य सेवाम् कर्तुम् इच्छामि।"
कृषकः प्राह- "मया सह कृषिम् कुरु। आवाम् मिलित्वा पुष्कलम् धनम् अर्जयिष्याव। श्रमेण वसुन्धरा इयम् सर्वान् संभरति, प्रचुरम् अन्नम् च प्रयच्छति।" तौ सुखेन कृषिकार्यम् अकुरुताम् ।

न्यायस्य दुर्दशा

एकः भूस्वामी अश्वम् आरुह्य विनिर्गतः। कानने निर्गच्छन् मार्गम् विस्मृतवान् सः। इतस्ततः परिभ्रमन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "भ्रातः! मार्गम् विस्मृतम् च इतस्ततः परिभ्रमन् रात्रिम् यापयितुम् भवताम् शरणम् आगतः अस्मि।"
ग्रामाधिपः प्रोवाच- "स्वागतम् श्रीमन्! अत्र विश्रम्यताम् मम उटजे।"
भूस्वामी प्राह- "घोटकबन्धनार्थम् अपि स्थानम् निरूपयतु।"
ग्रामाधिपः प्रोवाच- "मम पशुशालायाम् बध्नातु घोटकम्।" घोटकम् बद्ध्वा भूस्वामी उटजम् आगत्य शयनम् कृतवान्। प्रभाते यदा घोटकम् पश्यति तदा पुच्छविहीनः घोटकः तेन दृष्टः। कृते अन्वेषणे घोटकस्य पुच्छम् कण्टकपुञ्जेषु विलग्नम् दृष्ट्वान्। तेन विचारितम्, कण्टकेषु विलग्नम् पुच्छम् घोटकः वेगेन आकर्षन् त्रोटितवान्। सः घोटकदशाम् विलोक्य नितराम् उद्विग्नः सञ्जातः।
भूस्वामी क्रुद्धः सन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "विश्रमितुम् स्थानम् दत्वा त्वया न सुष्ठुः कृतम्। पशुशालाम् परितः कण्टकारोपणेन मम घोटकस्य लांगूलम् छिन्नम्। अहम् काजीन्यायालये तव उपरि च अभियोगम् चालयिष्यामि।" इति उक्त्वा भूस्वामी अश्वम् आरुह्य तस्माद् विनिर्गतः।
ग्रामाधिपः व्यचारयत्- काजी महान् धूर्तः वर्तते। धनलोभात् सः न्यायम् अपि परिवर्तयति। काजी मृत्युदण्डेन माम् अवश्यम् मारयिष्यति इति विचारयन् आसीत् ग्रामाधिपः। अन्येद्युः प्रभाते न्यायालयस्य आह्वानम् समागतम्।
स वस्त्राञ्चले तीक्ष्णम् प्रस्तरखंडम् एकम् बद्ध्वा न्यायालयम् प्रति चलितः। सः निश्चयम् कृतवान्, यदि काजी उचितम् निर्णयम् न दास्यति तर्हि तीक्ष्णेन अस्य प्रस्तरखण्डेन तस्य नासिकाच्छेदम् करिष्यामि। गच्छन् मार्गे सेतुपृष्ठे समुपविश्य भयेन कम्पमानः च अधः निपतितः घोटकयानोपरि। तेन घोटकयानस्थः वृद्धः मृतः।
यम् तस्य पुत्राः चिकित्सार्थम् चिकित्सालयम् नयन्ति स्म। ते तम् ग्रामाधिपम् गालिकाप्रदानपुरस्सरम् न्यबध्नन् प्रोक्तवन्तः च वयम् त्वाम् काजीन्यायालयम् नीत्वा दण्डम् दापयिष्यामः।
ग्रामाधिपः प्रोवाच- "युष्माकम् पिता परोपकारी पुण्यशाली च आसीत्। तेन मरणम् प्राप्य आवयोः लाभ एव कृतः। भवताम् तु चिकित्सायाम् धनव्ययः न भविता, अहम् अपि च अश्वयानम् आरुह्य न्यायालयम् गच्छामि।
काजीन्यायालये तस्य पूर्वाभियोगः प्रारब्धः। द्वितीयस्य अपि अभियोगस्य सूचना प्रदत्ता तैः पुत्रैः काजी क्रोधरक्ताभ्याम् नेत्राभ्याम् ग्रामाधिपम् पश्यति। ग्रामाधिपः तु– मम मृत्युः निश्चिता, इति मत्वा तस्य नासिकाच्छेदार्थम् वस्त्राञ्चले निबद्धम् प्रस्तरखण्डम् सम्भालयति।
काजी व्यचारयत्– अभियोगी उत्कोचाय सुवर्णखण्डम् वस्त्राञ्चले बद्ध्वा च आनीतवान् अतः  न्यायः तस्य पक्षे मया करणीयः। काजी निर्णयः श्रावितवान्- "यावत् घोटकस्य नवलांगूलोत्पत्तिः न भविष्यति तावत् ग्रामाधिपः भूस्वामिनः घोटकम् पालयतु।" काजीकृतेन निर्णयेन सर्वे स्तब्धाः सञ्जाताः। काजी द्वितीयम् निर्णयम् इत्थम् श्रावयामास- "भवताम् पिता मृतः। तम् अहम् प्रत्यावर्तयितुम् न शक्नोमि। पुनरपि न्यायम् करोमि। अयम् ग्रामाधिपः घोटकयानेन तस्य सेतोः अधः निर्गच्छतु। भवन्तः चत्वारः सेतुपृष्ठस्थाः तदुपरि निपतन्तु, येन अयम् अवश्यम् मृत्युम् प्राप्स्यति।
एकस्य अस्य निपतनेन भवताम् पिता मृतः, भवताम् सहैव निपतनेन किम् न अयम् मरिष्यति।"
भूस्वामी प्राह- "यदि भवान् मम घोटकम् नेष्यति तर्हि महती हानिः मे भविता। अतः गृह्णातु भवान् द्विशतम् रुप्यकाणि। मदीयम् अश्वम् मह्यम् प्रयच्छतु" इति उक्त्वा स्वघोटकम् नीत्वा प्रचलितः भूस्वामी स्वगृहम् प्रति।
ते चत्वारः पुत्राः ग्रामाधिपसमीपम् आगत्य प्रोचुः- "ग्रामाधिप!  क्षमस्व अस्मान्। तव न्यायः तु विचित्रः। त्वम् तु मायावी लक्ष्यसे। यत् जातम् तत् जातम्।"
ग्रामाधिपः प्रोवाच- "न अस्मिन् मम अपराधः। काजी यत् निर्णयम् श्रावितवान् तस्य पालनम् एव मम धर्मः।" इत्थम् ते पुत्राः पञ्चशतम् रुप्यकाणि दत्वा तम् ग्रामाधिपम् प्रणम्य तस्मात् प्रस्थिताः। इत्थम् सप्तशतम् रुप्यकाणि प्राप्य नितराम् प्रहृष्टः आसीत् ग्रामाधिपः। स धन्यवादम् प्रदातुम् काजीपार्श्वम् आगतः, प्रोवाच च– "भवान् मत्पक्षे न्यायम् कृत्वा उपकृतवान् अस्ति। भवताम् कृतज्ञः अस्मि। भगवान् भवताम् शुभम् विदधातु।"
काजीकुटिलतया स्मयमानः प्राह- "न्यायः मया न कृतः। तव वस्त्राञ्चले निबद्धेन स्वर्णखण्डेन कृतः।"
ग्रामाधिप प्राह- "काजीमहोदय! मम वस्त्राञ्चले तु तव नासिकाच्छेदार्थम् प्रस्तरखण्डम् एकम् निबद्धम् अस्ति!" इत्युक्त्वा ग्रामाधिपः तस्य उपरि तत् प्रस्तरखण्डम् निक्षिप्य तस्मात् पलायितः।

मौनम् सर्वार्थसाधनम्

"मौनशब्‍दस्‍य अर्थः वर्तते मुनेर्भावः कर्म वा मौनम्” जीवनस्‍य लक्ष्‍यप्राप्तये मौनम् आश्रयन्‍ते जनाः। सर्वाणि शास्त्राणि मौनस्‍य वैशिष्ट्यम् निगदन्ति। एकेन मार्मिकेन निदर्शनेन अत्र मौनस्‍य महत्त्‍वम् प्रतिपाद्यते।
एकस्‍य देशस्‍य राजा सन्‍ततिरहितः आसीत्। कृते अपि उपचारे तस्‍य कामनापूर्तिः न जाता। वैद्यानाम् सिद्धयोगिनाम् शरणम् अपि अगच्‍छत्, देवस्‍तुतिम् अपि अकरोत् किन्‍तु न इच्‍छापूर्तिम् विलोक्‍य दुःखदुःखेन कालम् अयापयत्। "इयद् विशालराज्‍यस्‍य संरक्षकः कःभविता" - इति विचारयन् आसीत्+नृपतिः।
एकदा नृपदम्‍पती विचरन्‍तौ काननम् प्रति गतौ। तस्मिन् गहने वने कोऽपि तपस्विराजः द्वादशवर्षात् मौनव्रतंचरः तत्र समागच्‍छति स्‍म। एकदा च एकान्‍तम् विलोक्‍य राजा स्‍वदुःखम् न्‍यवेदयत्- "महाराज! भवान् तु साधुपुरुषः, सर्वेषाम् मनोव्‍यथाम् वेत्ति, परकार्याणि च साधयति। भवताम् वचनसिद्धिः सुदूरम् यावत् प्रथिता। भवन्‍तः मम उपरि अनुग्रहम् कुर्वन्‍तु येन मम कुलस्‍य पुत्रपौत्रप्रपौत्रपरम्‍परा वृद्धिम् यायात्। भवत्‍कृते न किमपि अशक्‍यम्।"
 द्वादशवर्षात् मौनव्रती साधुः अयम् तस्‍य निष्‍कपटप्रार्थनया द्रवितः सञ्जातः। साधुमुखात् सहसा निर्गच्‍छत् तव गृहे कुलभानुः समुत्‍पस्‍यते। जनाः व्‍यचारयन्- अकस्‍मात् मुनेः मुखाद् वाक्‍यम् एतत् निर्गतम्, न कदापि मिथ्‍या भविष्‍यति। राजा च अतीव हर्षितः सञ्जातः। प्रफुल्लितौ नृपदम्‍पती स्‍वनगरम् प्रत्यागतौ।
"इतः योगिराजः चिन्‍तातुरः सञ्जातः, अहो मया किमर्थम् मौनव्रतम् त्‍यक्‍तम्? मया महान् अनर्थः कृतः। मया स्‍ववचनानाम् पूर्तये तस्मिन् एव राजगृहे जन्‍म गृहीतव्‍यम्। नो चेत् महान् अनर्थः स्‍यात्, कः प्रत्येस्‍यति साधुवचनेषु।" अनशनव्रतम् संकल्‍प्‍य प्राणान् तत्याज महर्षिः।
इतः राजभवने पुत्राशया हर्षोल्‍लासः समजनि। सर्वत्र सिद्धयोगिप्रदत्ताशीर्वादस्‍य चर्चा प्रसृता। न महर्षिवचनानि मिथ्‍या भवितुम् अर्हन्ति। गर्भकालः सानन्‍दम् परिपूर्णः पुत्ररत्‍नस्‍य सम्‍प्राप्तिः जाता। अन्‍धकारम् अयम् वातावरणम् पुत्रभानुना प्रकाशितम् सञ्जातम्। राजभवने उत्‍सवानाम् परम्‍परा समारब्‍धा।
राजा महर्षेः कृपाम् विलोक्‍य मनसि निश्चयम् अकरोत् यत् चन्‍द्रदर्शनानन्‍तरम् सर्वप्रथमम् पुत्रम् महर्षेः आश्रमम् नेष्‍यामि। यस्‍य आशीर्वादेन पुत्रस्‍य प्राप्तिः जाता। वस्‍तुस्थित्‍या अनभिज्ञः राजा पुत्रेण सह सपरिवारः साधुदर्शनाय प्रस्थितः। शून्‍यम् कुटीरम् वीक्ष्‍य नृपः स्‍तम्भितः जातः। सिद्धपुरुषः कुत्र गतवान् इति व्‍यचिन्‍तयद् राजा।
ग्रामवासिनः प्रावोचन्- "सिद्धपुरुषः अयम् प्राणान् त्यक्‍तवान् योगिदर्शनस्‍य इच्‍छा न पूर्तिम् अगात् तस्‍य।"
वृद्धपुरुषाः प्रावोचन्- "बालकस्‍य शरीरम् भस्‍मचये निक्षिपतु येन आरोग्‍ययुक्तः भविष्‍यति बालकः। भस्‍मनि स्‍पर्शसमकालम् एव शिशुः जातिस्‍मरणज्ञानम् अवाप्तवान्। सः व्‍यचारयत् हन्‍तुम् महर्षिः आसम्, मुनिः आसम्। मौनम् परित्‍यज्‍य मया नृपतिगृहे जन्‍म अवाप्तम्। व्‍यर्थम् एव घोरसंकटे निपतितः अहम्। अस्मिन् जन्‍मनि न मौनम् विस्‍मरिष्‍यामि। इति विचार्य शिशुः जीवनपर्यन्‍तम् मौनधारणस्‍य निश्‍चयम् अकरोत्।
शनैः शनैः बालकः वृद्धिम् अवाप्तवान्। कुमारः क्रीडति, कूर्दति, खेलति परम् न किमपि वदति। नृपः वृद्धवैद्यान् अपृच्‍छत्। ते शिशोः परीक्षणम् अकुर्वन्, बालकस्‍य बुद्धौ न कोऽपि दोषः। केचन बालकाः विलम्‍बेन अपि वदन्ति। इयम् अपि धारणा वर्तते जनानाम्। बालकः सप्तवर्षवयस्‍कः समजनि, क्रीडति, सर्वम् अवगच्‍छति परम् न किमपि वदति।
एकदा बालकः राजकुमारैः सह अश्‍वम् आरुह्य भ्रमणार्थम् गच्‍छन् आसीत् तदा दक्षिणभागे तित्तिरः वदति। अपशकुनम् एतत् निभाल्‍य राजकुमारेण एकेन भुशुण्डिकया तित्तिरः अयम् मारितः। एतद् वीक्ष्‍य राजकुमारमुखात् निःसृतः “कथम् अवदत्” राजकुमारमुखात् शब्‍दम् श्रुत्‍वा सर्वे आश्‍चर्यचकिताः अभूवन्, नगरम् प्रत्यागत्‍य नृपदम्‍पतीम् सर्ववृत्तम् श्रावयामासुः। नृपतिः प्रसन्‍नः तु आसी‍त् किन्‍तु बालकः तदापि न किमपि वदति।
राज्ञा विचारितम्- इमे पुरस्‍कारलोभेन सर्वम् एतत् चक्रुः। राजाज्ञया सर्वे दण्‍डभाजः भवन्तु इति निर्देशेन सर्वेषाम् कृते सप्त-सप्तकोडादण्‍डम् दातुम् आज्ञापयत् नृपतिः।
राजकुमारस्‍य सहयोगिनः यदा कोडादण्‍डप्रहारेण भृशम् प्रपीडिताः च आसन् तदा बालकमुखात् निसृतम् तदेव वाक्‍यम् “ कथम् अवदत् ”। नृपदम्‍पती बालकमुखात् शब्‍दम् श्रुत्‍वा भृशम् प्रहर्षितौ। बालकेन विचारितम्- मया मुखम् व्‍यादायानिष्टम् एव कृतम्। मौनत्यागस्य परिणामः तु भौतव्‍यः एव। बालकः अयम् स्‍वातीतस्‍य समस्‍ताम् घटनाम् यथायथम् अश्रावयत्। मौनत्‍यागेन एव मया जन्‍म गृहीतम् अत एव मया मौनधारणस्‍य निश्चयः कृतः। साम्‍प्रतन्‍तु व्‍यवहारनिर्वाहार्थम् भवद्भिः सह मौनत्‍यागम् करोमि।

स्‍थूलेषु कः प्रत्‍ययः

एकस्‍य राज्ञः राजप्रसादस्‍य पार्श्वे एका तैलकारपत्‍नी न्‍यवसत्। राज्ञी तस्‍या‍म् अधिकम् स्निह्यति स्‍म। सा कदाचिद् अकथयत्- "भवत्‍याः महाराजः दुर्बलः-क्षीणः च वर्तते। किम् भवती  तस्‍मै भोजनम् न यच्‍छति? पश्‍यतु मम पतिः स्‍थूलः बलिष्ठः च वर्तते।"
राज्ञी प्रोवाच- "स्‍थूलेन किम् भवति? बलस्‍य आवश्यकता वर्तते।"
एकदा राज्ञी राजानम् प्राह- "समीपस्‍थ स्‍तैलकारः स्‍थूलः बलिष्ठः च वर्तते। तस्‍य पत्‍नी मुहुर्मुहुः भवन्‍तम् कृशम् दुर्बलम् च कथयति। एकदा तस्‍य बलस्‍य परीक्षा कर्त्तव्‍या।"
राजा प्राह- समये समागते तस्‍य परीक्षाम् करिष्‍यामि।"
समयः व्‍यतीतः, एकदा कापि सेना तस्मिन् ग्रामे च आक्रमणार्थम् समागता। इमम् समाचारम् श्रुत्‍वा राजा रोषान्वितः सञ्जातः। "मयि जीविते सति च आक्रमणम् कथम् भवितुम् अर्हति?" राजा स्‍वसेनाम् सज्‍जयितुम् आदिदेश। राजा स्‍वयम् अहिफेनम् नीत्‍वा च अश्वम् आरुह्य युद्धाय विनिर्गतः। स्‍थाने स्‍थाने जनाः राज्ञः साहसम्, द्रष्टुम् आतुराः च आसन्। मार्गे तस्‍य तैलकारगृहम् अपि आगतः। तैलकारः अपि अंकुशम् हस्‍तेकृत्‍य स्‍वगृहद्वारे सन्नद्धः आसीत्।
राजा तम् अंकुशम् वर्तुलीकृत्‍य तस्‍य ग्रीवायाम् एव न्‍यपातयत्। तैलकारः प्रयत्नम् अपि अकरोत् परम् लोहार्गलाम् ग्रीवातः निष्‍कासयितुम् असमर्थः सञ्जातः। एतद् वीक्ष्य तैलकारपत्नी स्‍तब्धा सञ्जाता।
सा अब्रवीत्- "इयद् बलम् वर्तते, मया तु विचारितम् आसीद् यत् राजा दुर्बलः अस्ति। परम् तस्‍य तैलकारस्‍य ग्रीवायाम् निवद्धा लौहशृंखला कथम् निष्‍कासयितुम् शक्‍यते?" उदासीना तैलकारपत्नी पुनः राजप्रासादम् आगता।
राज्ञीसमीपम् प्राप्‍य अश्रूणि न्‍यपातयत्- "मया यत् किमपि राज्ञः सम्‍बन्धे कथितम् तद् अनृतम् आसीत्। क्षम्‍यताम्- मम भर्तुः ग्रीवातः लौहशृंखलाम् निष्‍कासयतु। अन्‍यथा भारेण अयम् मरिष्‍यति।"
हसन्‍ती राज्ञी प्राह- "इयद् बलम् अपि न अस्ति।" तैलकारस्‍य पत्नी पादयोः पपात। राज्ञी सर्वम् वृत्तम् राज्ञे न्‍यवेदयत्।
राजा प्राह- तस्मिन् समये तु अहम् संग्रामभूमिम् प्रति गच्‍छन् आसम्। मम हृदि साहसेन पदम् कृतम् आसीद् अधुना तु अहम् अपि ताम् निष्‍कासयितुम् न शक्नोमि। पुनः कदाचिद् एतादृशः अवसरः च आगमिष्‍यति चेत् तदा कार्यम् एतत् करिष्‍यामि।" राज्ञी सर्वम् वृत्तम् तस्‍यै कथितवती।
सौभाग्‍येन सप्तदिनानन्‍तरम् एव स्थितिः एषा समागता। राजा पूर्ववत् साहसेन युद्धार्थम् विनिर्गतः। मार्गे सः तैलकारः स्‍वद्वारे हस्‍तौ संहतीकृत्‍य समुपस्थित आसीत्। राजा वेगेन तत्र गत्‍वा तस्‍या ग्रीवातः शृंखलाम् निष्‍कासितवान्। राजा युद्धभूमौ शत्रून् पराजितवान्। सर्वत्र जनाः प्रहर्षिताः च आसन्। तैलकारपत्नी राज्ञीपार्श्‍वम् आगत्‍य च आभारप्रदर्शनम् कृतवती।

दयाधर्मस्य उपदेशः

पुरा सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। क्रूरः अयम् जीवहत्याव्यसनी आसीत्। जीवहत्याम् कृत्वा सः प्रसन्नताम् अन्वभवत्। तस्य आतंकः प्रजासु व्याप्तः आसीत्। भगवान् अपि तस्य हिंसावृत्तिम् निभाल्य दुःखितःसन् राज्ञः हृदयपरिवर्तनाय व्यचारयत्।
एकदा नृपतिः च आखेटान् निवर्तमानः आसीत्। भगवान् गृद्धरूपम् धृत्वा तस्य सम्मुखम् आजगाम। तत्कालम् एव नृपतिः संज्ञाहीनःसञ्जातः। तदनन्तरम् भगवान् युवकरूपम् धृत्वा अश्ववल्गाम् आकृष्टवान्। राजा ससंज्ञः सञ्जातः अपृच्छत् च- "रे युवक! कः असि त्वम्?"
नृपतिः ब्रूते- "अहम् अस्मात् मार्गात् निर्गच्छन् आसम्। तदैव कोऽपि गृद्धः भवताम् सम्मुखम् आयातः येन भवान् संज्ञाहीनः सञ्जातः। तदनन्तरम् मया अश्ववल्गा ग्रहीता। सम्प्रति भवान् ससंज्ञः सञ्जातः तर्हि गृहाण वल्गाम्, चलामि अहम्।"
"नहि युवक! त्वया मम साहाय्यम् आचरितम् पुरस्कारेण उपकरोमि त्वाम्!" इति वदन् नृपतिः तम् अश्वपृष्ठे उपावेशयत् तस्य नाम च अपृच्छत्।
युवकः ब्रूते- "कारथक-उदेक नाम अहम्! राजा तेन युवकेन अतीव प्रभावितः सन् तम् युवकम् मन्त्रिपदे नियुक्तवान्। कारथकः योग्यमंत्री सञ्जातः। सः न्यायेन, करुणया राज्यम् शशास। प्रजाः मंत्रिणः बुद्धिमत्ताम् न्यायप्रियताम् च विलोक्य भृशम् प्रहर्षिताः।
एकदा नृपतिना राजप्रासादे भोजस्य आयोजनम् कृतम्। जनाः नूतनवस्त्राभूषणानि परिधाय भोजे सम्मिलिता अभवन्। नृपतेःद्वे राज्ञौ आस्ताम्। ज्य़ेष्ठराज्ञी राजानम् हीरकहारम् सम्प्रार्थयत्। राजा हारम् कनिष्ठराज्ञे प्रदत्तवान्। विमनस्का ज्येष्ठराज्ञी प्रासादात् न निश्चक्राम्। कनिष्ठराज्ञी राज्ञा सह भोजनम् करोति स्म।
सहसा ज्येष्ठराज्ञी समागत्य हीरकहारम् तथा समाकृष्टवती येन हीरकाणि इतस्ततः प्रसृतानि। एतत् विलोक्य नृपतिः मंत्रिणम् क्रोधेन आदिष्टवान्- "वधार्हा वर्तते राज्ञी।"
मन्त्री सम्प्रार्थयत्- क्रोधे भवान् निर्णीतवान् न अस्य परिणामः सुखकरः।" ज्येष्ठराज्ञी क्षमायाचनाम् कृतवती परम् नृपतिशासनस्य अवहेलनाम् कः कर्तुम् पारयति। कारथकः ज्येष्ठराज्ञीम् वधाय काननाभिमुखम् नीतवान्। एकस्याम् गुहायाम् तद्रक्षणस्य व्यवस्थाम् अकारयत्। राजप्रासादम् आगत्य संसूचितवान् राजानम् यत् भवताम् आज्ञायाः पालनम् कृतवान् अहम्।
अन्यदा कारथकः राजानम् कथयति- "महाराज!  जीवहत्या महत्पापम् वर्तते। करुणा तथा दया मानवजीवनस्य आधारः। ज्य़ेष्ठराज्ञी वर्धाहा न आसीत् परम् क्रुधा भवान् तस्यै मृत्युदण्डम् प्रदत्तवान्। भवता तस्य कुक्कुटस्य कथा न श्रुता। राज्ञ आग्रहेण कारथकः कथाम् श्रावयितुम् लग्नः।
एकस्मिन् वने कुक्कुटदम्पती निवसतः स्म। तौ शीतकालाय पूर्वत एव द्विदलकणान् एकत्रितान् कृत्वा गृहकोणे स्थापयाञ्चक्रतुः। कुक्कुटी अण्डानि रक्षितुम् गृहे तिष्ठति कुक्कुटः तु भोजनार्थम् इतस्ततः भ्रमति।
एकदा कुक्कुटेन दृष्टम् यत् द्विदलकणाः तत्र न वर्तन्ते सः कुक्कुटीम् अपृच्छत्- "क्व गताः द्विदलकणाः? निश्चितम् त्वया खादिताः स्युः।"
कुक्कुटी विनम्रेण स्वरेण बहुशः ज्ञापयाञ्चक्रे परम् कुक्कुटः तु क्रोधाविष्टः स्वचञ्च्वा ताम् हतवान्। तदनन्तरम् एकाकी कुक्कुटः अपि अन्यत्र जगाम। वस्तुतः द्विदलकणाः भूमौ निपतिताः वर्षर्तौ पुनः उद्भूताः।
एकदा कुक्कुटः स्वगृहम् द्रष्टुम् समागतः तत्र द्विदलुपे बीजान् पश्यति व्यचिन्तयत् च अयम्- "अहो! ते द्विदलकणाः एव अंकुरिताः सन्ति। क्रोधाविष्टेन मया महाननर्थः कृतः। इत्थम् सः बहुविधम् पश्चात्तापम् अकरोत् । यदि अहम् कस्मैचित् जीवनदाने असमर्थः तर्हि तस्य जीवनहरणे कथम् क्षमः। कुक्कुटः भृशम् रोदिति परम् अधुना किम् कर्तुम् शक्यते।"
कथाम् एताम् श्रुत्वा सञ्जातपुलकः राजा अपि नितराम् विव्यथे। मया अपि वृथा मृत्युदण्डम् प्रदत्तम् राज्ञे।
कारथकः प्रोवाच- "महाराज!  क्रोधम्, घृणाम्, मत्सरम् च विस्मृत्य दयाधर्मस्य पालनम् भवता कर्तव्यम्।" इत्थम् शान्तिम् अवाप्स्यति भवान् ज्येष्ठमहिषीवृत्तान्तम् स्मरन् अयम् मोहम् उपगतः।
कारथकः राज्ञे सर्वम् न्यवेदयत् ज्येष्ठराज्ञीम् च काननात् आनीतवान्। तत्कृतम् विलोक्य राजा भृशम् सन्तुष्टः सञ्जातः। कारथकम् ब्रूते- "त्वम् एव राज्यकार्यम् सम्भालय।"
कारथकः निवेदयाञ्चक्रे- "महाराज!  दयाकरुणायुक्तः भवान् सम्प्रति राज्याधिकारी संवृतः वस्तुतः। एतादृशः प्रजाहितकरः नृपतिः दुर्लभः। इति उक्त्वा कारथकः तस्माद् अकस्मात् विनिश्चक्राम।

अतिलोभः न कर्तव्यः

एकः कृषकः आसीत्। तस्य ज्येष्ठः पुत्रः प्रलम्बः धनलोलुपः तथा चतुरः आसीत्। कनिष्ठः पुत्रः ह्रस्वः प्रसन्नमुखः तथा न्यायप्रियः च आसीत्। दुर्भाग्यात् कृषकस्य मृत्युः अभवत्। ज्येष्ठः भ्राता सम्पदः च अधिकर्तुम् कनिष्ठभ्रातरम् यात्रार्थम् अप्रैषयत्।
कनिष्ठभ्राता परिश्रमी तथा न्यायप्रियः आसीत्। सः यत्र कुत्रापि अगच्छत् तत्रैव धनम् अर्जयन् आस्ते। किञ्चद् दिनानन्तरम् सः विवाहम् अकरोत्। तस्य द्वौ पुत्रौ जातौ। जन्मभूमिम् स्मरन् अयम् गृहम् प्रतिनिवृतः।
ज्येष्ठभ्राता कनिष्ठम् आलिंगन् प्रोवाच- "एतावद् दिनानि कुत्र अस्थाः, कियत् धनम् आनीतवान् असि?"
सः स्वपुत्रौ प्रति संकेतयन् प्रोवाच- "एतौ मम धनम्। किञ्चिद्दिनानन्तरम् तव कृषिकार्ये साहाय्यम् करिष्यन्ति।"
ज्येष्ठः भ्राता सहसा चकितः सन् प्रोवाच- "तूष्णीम्! अस्मात् निर्गच्छ। तव न कोऽपि अधिकारः मम सम्पदि।" कनिष्ठभ्राता स्तब्धः सञ्जातः ।
शीतकालः आसीत्। कनिष्ठभ्रातुः पत्नी रुग्णा सञ्जाता। सः  ज्येष्ठभ्रातरम् असूचयत्। सः तस्य परिवारम् गृहात् निष्कासयामास।
कनिष्ठभ्राता दुःखितः सन् आत्मघातम् कर्तुम् नदीतटम् आगतः। सः रोदनध्वनिम् अशृणोत्- "माम् अस्मात् स्वर्णघटान् निष्कासय।" सः मध्यधारायाम् प्रवहन्तम् स्वर्णघटम् अपश्यत्। सः नद्याम् अकूर्दत्। नदीतटम् आनीतवान् स घटम् तस्मिन् दैवः च एकः तम् प्रणमन् प्रोवाच- "त्वया मह्यम् जीवनम् प्रदत्तम्, वद तव किम् कार्यम् करोमि?" कनिष्ठभ्राता किमपि याचितुम् न ऐच्छत्।
देवः प्रोवाच- "गृहाण! स्वर्णघटम् एतत् यदा कस्यापि वस्तुनः आवश्यकता भवेत् तदा घटम् भूमौ स्थापयित्वा “ स्वर्णघट ! ” “ कर्मठः भव ” इति कथयतु। कार्ये सञ्जाते “स्वर्णघट! आग्रहम् त्यज” इति कथिते सति फलानि,  मिष्ठान्नानि बहिः आगतानि।
कनिष्ठभ्राता प्रोवाच- ‘आग्रहम् त्यज’ इत्युक्ते विरतः सः घटः भोजनदानात्। सः सर्वान् भोजनम् कारयामास।
किञ्चित्कालानन्तरम् घटम् प्रोवाच- "कर्मठोभव’’ इति कथिते घटः कम्पितुम् लग्नः। कनिष्ठभ्राता भवनस्य कृते धनम् याचितवान्। धनेन अनेन सः भवनम् क्रीतवान् वस्त्राणि च निर्मापितवान्। तस्य ऐश्वर्ययुक्तम् जीवनम् निभाल्य ज्येष्ठभ्राता रहस्यम् ज्ञात्वा कनिष्ठभ्रातरम् उवाच- “ एकदिनाय घटम् मह्यम् प्रदेहि” दयालुः कनिष्ठभ्राता घटम् प्रयच्छन् प्रोवाच- "यदा यत् किमपि इच्छसि तदा कथय “ स्वर्णघट! कर्मठः भव” अनेन इच्छितम् वस्तु प्राप्स्यसि। कार्ये सञ्जाते सति कथय.... ज्येष्ठभ्राता अशृण्वन् एव घटम् आनीय गृहम् प्रति प्रचलितः।
गृहम् आगत्य स घटम् अवदत्- “कर्मठः भव” प्रयच्छ मह्यम् प्रभूतम् दुग्धम् क्षीरम् मिष्ठान्नम् च।" घटः प्रयच्छन् एव आस्ते। सः घटम् विरमयितुम् चिचेष्ट किन्तु घटः न विरमति। ज्येष्ठभ्राता क्षीरे निमग्नः सन् मृतः। कनिष्ठभ्राता सुखेन स्वजीवनयात्राम् अचालयत्। किञ्चित् कालानन्तरम् इयम् घटना विश्वविश्रुता सञ्जाता। सर्वे कथयामासुः “अति लोभः न कर्तव्यः।”

देशसेवाव्रतम्

सुमनः पञ्चमकक्षायाः च अध्ययनम् परिसमाप्य ग्रीष्मावकाशे स्वपितुः पार्श्वे लखनऊनगरम् प्रतस्थे। स तत्र दर्शनीयानि स्थलानि पित्रा सह अपश्यत्। लखनऊनगरस्य सम्बन्धे तेन यत् पठितम् आसीत् तत् सर्वम् एव अयम् स्वनेत्राभ्याम् अपश्यत्।
तन्नगरम् विलोक्य सः गृहम् गन्तुम् अपि न ऐच्छत्, परम् तत्र तत्पितामहः रुग्णः आसीत्। पित्रा कथितम् आसीत् यत्र तव इच्छा वर्तते तत्र पठतु। सुमनः स्वनिर्णयम् श्रावितवान्- यावत् पितामहः मे स्वस्थः न अभविष्यत् तावत् अयम् तस्य सेवायाम् एव अस्थास्यत्, तदनन्तरम् उच्चशिक्षार्थम् अत्र आगमिष्यति।
पिता तम् ग्रामम् प्रति प्रेषितुम् रेलयानस्थासकम् प्राप, तत्र रेलयानम् प्रतीक्षते। किञ्चित् कालानन्तरम् अकस्मात् रेलगन्त्री समायातः। सुमनः प्रविवेश उपाशित् च एकस्याम् आसन्दिकायाम्। गन्त्री तीव्रगत्या प्राचलत्। उपविष्टः सन् सुमनः बालभारतीपत्रिकाम् पठन् आस्ते। पत्रिकायाम् वीरबालकानाम् कथाम् पठने दत्तचित्तः अयम् विनिद्रितः आसीत्। अन्ये कक्षस्थाः यात्रिणः सर्वे प्रसुप्ताः। सहसा तस्मिन् कक्षे विद्युद् व्यवधानेन अग्निः प्रसृतः। धूमेन आवृतः कक्षः।
मध्यरात्रिसमयः सञ्जातः। केनापि तीव्रतमेन प्रज्वलितगन्धेन विचलितः सन् सुमनः यावत् पश्यति तावत् अग्निः समस्तम् कक्षम् आवृणोत् स्वर्चिषा। झटिति सुमनः गन्त्रीनिरोधशृंखलायाम् ललम्बे। गन्त्री सहसा तीव्रध्वनिना सह स्थिरा सञ्जाता। तदा एव सुमनः चीत्कुर्वन् सर्वान् उत्थापयामास। सर्वे जनाः स्वस्ववस्तुजातम् गवाक्षाद् बहिः चक्रुः। गवाक्षेभ्यः बहिः च कूर्दन् ।
क्षणेन सर्वे बहिः आगच्छन्। कक्षः अयम् भस्मसात् जातः। सुमनस्य सावधानजागरूकतया च एका महती दुर्घटना विनष्टा। सुमनस्य साहसम् वीक्ष्य कक्षस्थिताः यात्रिणः तम् स्कन्धे समुत्थाय ननर्तुः। अन्येद्युः समाचारपत्रेषु सचित्रम् समाचाराः प्रकाशिताः। तेषु तस्य साहसस्य समुल्लेखः आसीत्।
सर्वकारेण रेलप्रशासनेन च तस्मै पुरस्कारः अपि प्रदत्तः। तस्माद् दिनात् सुमनः स्वमनसि निश्चयम् अकरोद् यत् यावत् जीवम् मानवतायाः सेवाम् करिष्यामि। देशसेवया मानवः महान् भवति।
ये बालकाः स्वदेशस्य स्वजातः च सेवाम् कुर्वन्ति तेषाम् इतिहासे सादरम् समुल्लेखः क्रियते। ते मानवाः सुजीविताः तिष्ठन्ति सर्वदा।