Tuesday, 2 October 2012

धनुर्विद्याया: परीक्षा

दृष्टि: पुरत:..’’ ‘‘दृढं गृह्यताम्‌..’’ ‘‘आकर्णम्‌ आकृष्यताम्‌ ..’’ सुंय्‌ ....’’

‘‘मुच्यताम्‌ ...’’ ‘‘स्थग्यताम्‌ .....’’

‘‘साधु कृतम्‌ .....’’


स च प्रदेश: एतादृशै: आज्ञाशब्दै: हर्ष-सूचकै: ध्वनिभि: च पूर्ण: आसीत्‌ । सशब्दं निर्गच्छतां बाणानां स्फुरणम्‌ अपि भवति स्म तदा तदा । अरुणाचलप्रदेशे स्थिते दिवाङ्गखाते प्रति-दिनं दृश्यमानं दृश्यम्‌ आसीत्‌ एतत्‌ ।


धनुर्विद्याया: प्रशिक्षणं प्रचलति स्म तत्र । अत: पूर्वोक्ता: विशेषा: तत्र । बहव: तरुणा: धनुर्विद्याभ्यासे निरता: दृश्यन्ते स्म । अनु-भविन: वृद्धा: केचन धनुर्विद्यां तान्‌ पाठयन्ति स्म । एवम्‌ अध्येतार: बोधयितार: च न मानवा:, अपि तु वानरकुलीया: । नायम्‌ आश्र्चर्यस्य विषय: । यत: बहो: कालात्‌ पूर्वं स्थितं दृश्यम्‌ एतत्‌ ।


तेषु दिनेषु इदुमिश्मिनामकात्‌ ग्रामात्‌ अनतिदूरे स्थिते अरण्य-परिसरे वानरकुलीया: निवसन्ति स्म । तेषु बहव: धनुर्विद्यायां सुनिपुणा: । कम्पमानायां शाखायां स्थितस्यापि लक्ष्यस्य भेदने अपि ते समर्था: । अत: एव इदुमिश्मिग्रामीणा: तेषां विरोधं न कुर्वन्ति स्म केनापि कारणेन ।


वानराणां प्रमुखा: स्वकुलीयानां तरुणानां धनुर्विद्याशिक्षणे विशेषत: आदरवन्त: । ‘तरुणे वयसि बोधितं चेदेव योग्यं फलं प्राप्यते’ इति ते जानन्ति स्म । ते वृक्षात्‌ वृक्षम्‌ उत्प्लवमाना: सुदूरस्थानि पर्वतशिखराणि प्राप्नुवन्ति स्म । तेषु स्थितानाम्‌ उन्नतानां वृक्षाणाम्‌ अग्रभागे स्थित्वा परित: सर्वत्र दृष्टिं प्रसार्य धनुर्निर्माणाय बाणानां सज्जीकरणाय च उत्तम: वेणु: वेत्रं च कुत्र अस्ति इति परिशील्य तेषां सङ्ग्रहं कृत्वा तै: धनूंषि बाणान्‌ च निर्मान्ति स्म । धनुर्विद्या-प्रशिक्षणकेन्द्रे तेषाम्‌ उपयोग: भवति स्म ।
उषसि एव तरुणा: प्रशिक्षणकेन्द्रम्‌ आगत्य धनुर्विद्याया: अभ्यासस्य आरम्भं कुर्वन्ति स्म ।

ज्येष्ठा: तेषां लक्ष्यैकनिष्ठतां, धनुर्ग्रहणकौशलं, बाणप्रयोगपाटवं च सम्यक्‌ परीक्षन्ते स्म । कदाचित्‌ तरुणानां ज्येष्ठानां च अभ्यासयुद्धं प्रचलति स्म । तदा तु समग्र: खातप्रदेश: बाणै: आवृत: भवति स्म ।

तं प्रदेशं गन्तुम्‌ उद्युक्तान्‌ बालान्‌ मातर: तर्जयन्ति स्म - ‘‘अनवधानेन तत्र सञ्चार: कृत: चेत्‌ वनचिकित्सालय: प्रवेष्टव्य: भवेत्‌ इति किं भवता न ज्ञायते ? कदाचित्‌ बाणेन भवान्‌ विद्ध: भवेत्‌ अपि’’ इति ।


एवमेव मासा: गता: । वर्षाणि अपि गतानि । केवलात्‌ धनुर्विद्याभ्यासात्‌ तेषु वानरेषु नीरसता उत्पन्ना । कदाचित्‌ वानराणां प्रमुखस्य पुत्र: एव पितरम्‌  अवदत्‌ - ‘‘सर्वदा अपि किम्‌ एतत्‌ धनुर्विद्याप्रशिक्षणं नाम ! मध्ये मध्ये मनोविनोदाय अपि किमपि भवेत्‌ । अन्यच्च महत्‌ बाणप्रयोगकौशलं प्राप्य अपि तस्य उपयोग: न क्रियते चेत्‌ अधीतं सर्वम्‌ व्यर्थम्‌ एव खलु ?’’ इति ।


‘‘युक्तम्‌ उक्तं भवता । मदमत्त: गज:, दुष्ट: व्याघ्र: इत्यादय: महत्‌  दौष्ट्यम्‌ आचरन्ति, अस्मान्‌ उपेक्षया पश्यन्ति च । यदि वयं बाण-प्रयोगकौशलेन तान्‌ किञ्चित्‌ निगृह्णीयाम तर्हि सर्वेषां वनवासिनाम्‌ उपकार: एव कृत: भवेत्‌’’ इति अवदतां नील: काल: च ।  ‘‘योग्य: बाणप्रहार: तेषां निग्रहणे उपकुर्यात्‌ एव’’ इति अवदत्‌ हरिप्रिय: ।
तदा कुचेष्टापर: वनेश: अवदत्‌ - ‘‘स: दुष्ट: वृक: अपि दण्डनीय: अस्माभि: । वराकान्‌ कुक्कुटान्‌ निर्दयं पीडयति स: । यदि वयं बाणप्रयोगेण तस्य नखान्‌ उत्पाटयितुं शक्नुयाम तर्हि अहो, कियान्‌ आनन्द: प्राप्येत !’’ इति । एतत्‌ श्रुत्वा अन्ये सर्वे वानरा: हसितवन्त: । तत: एकैक: अपि एकैकम्‌ उपायम्‌ अश्रावयत्‌ । बहव: तरुणवानरा: विनोदकायेॅ प्रवर्तनाय  सज्जा: जाता: अपि ।


दिवाङ्गारण्ये तेषां विविधा: विनोदव्यवहारा: आरब्धा: । तस्मात्‌ दिनात्‌ वानराणां व्यवहार-विषये बहव: आक्षेपा: उद्गता: सर्वाभ्य: दिग्भ्य: । तेषां बाणानां प्रहारं प्राप्य बहव: चिकित्सालयं प्रविष्टवन्त: । इदुमिश्मिग्राम-वासिभि: अपि एतस्य परिणाम: सम्मुखीकृत: ।

बालानाम्‌ अङ्गानि क्षतग्रस्तानि जातानि । ज्येष्ठानां शिरोभूषणानि बाणै: नीतानि । मातृभि: शोषणाय आतपे प्रसारिता: मांसखण्डादय: भूमौ पातिता: । एवं बहव: अनर्था: सम्पन्ना: सर्वत्रापि ।

वानराणां पीडावार्ता वृद्धस्य ग्रामप्रमुखस्य अनूकस्य कर्णपथम्‌ अपि आगता । कदाचित्‌ सर्वे वनजीवन: सम्भूय अनूकस्य समीपं गता: । तान्‌ स्वागतीकृत्य अनूक: अपृच्छत्‌ - ‘‘अपि कुशलं भवतां सर्वेषाम्‌ ? किमर्थं भवतां मुखे चिन्तारेखा: दृश्यन्ते ?’’ इति ।


तदा पक्षिराज: अवदत्‌ - ‘‘महोदय ! किं वदाम अस्माकं दुर्गतिविषये ? अरण्ये शान्त्या जीवनम्‌ असम्भवं जातम्‌ अस्ति सर्वथा’’ इति । 


तत: गजराज: अवदत्‌ - ‘‘दुश्चेष्टाप्रियाणां वानराणां पीडा वर्णयितुम्‌ एव अशक्या । ह्य: मम पुत्र: कदलीफलस्य खादनाय शुण्डाम्‌ उन्नीतवान्‌ । तावता कुतश्र्चित्‌ आगत: कश्र्चन बाण: तम्‌ अविध्यत्‌ । तदा तेन यत्‌ क्रन्दनं कृतं तत्‌ इदानीम्‌ अपि गुञ्जति मम कर्णयो: । समीपे स्थितायां वृक्षशाखायाम्‌ उपविष्टौ वानरौ एतत्‌ दृष्ट्वा महान्तम्‌ आनन्दम्‌ अनुभवत: स्म’’ इति ।


‘‘आर्य ! अत्र पश्यतु तावत्‌’’ इति वदन्‌ शशकुमार: व्रणितं वस्त्रपट्टेन बद्धं स्वस्य पादं दर्शयन्‌ अवदत्‌ - ‘‘ह्य: वयम्‌ अरण्ये धावनाभ्यासं कुर्वन्त: आस्म । तदा दुष्टै: वानरै: प्रयुक्ता: बाणा: अस्मासु बहून्‌ व्रणितान्‌ अकरोत्‌’’ इति । 


‘‘भवतां दु:खम्‌ अहम्‌ अवगच्छामि । अयि बान्धवा: ! अलं चिन्तया । ते वानरा: कथं बोधनीया: इति अहं चिन्तयिष्यामि । भवन्त: निश्र्चिन्ततया अरण्यं प्रतिगच्छन्तु’’ इति । अनन्तरदिने स: वानराणां प्रमुखम्‌ आहूय अपृच्छत्‌ - ‘‘कथं प्रचलति भवत्कुलीयानां तरुणानां धनुर्विद्याभ्यास: ? अरण्ये ग्रामे च तेषां नैपुण्यं वार्ताविषय: अस्ति’’ इति । ‘‘आर्य ! ते सर्वे धनुर्विद्यायाम्‌ अद्वितीयं नैपुण्यम्‌ आसादितवन्त: सन्ति’’ इति साभि-मानम्‌ अवदत्‌ वानरप्रमुख: । 


‘‘एवं तर्हि एतस्मिन्‌ वर्षे धनुर्विद्यास्पर्धायां भवत्कुलीया: एव स्वर्णपदकं प्राप्तुम्‌ अर्हन्ति इति भाति’’ इति अवदत्‌ वृद्ध: अनूक: । ‘‘प्राय: सर्वाणि पदकानि अपि अस्मदीयै: एव प्राप्येरन्‌ । अल्पा: किशोरा: अपि डयमानं पतङ्गं चटकं चापि वेद्धुं समर्था: सन्ति’’ इति अवदत्‌ वानरप्रमुख: ।

‘‘एवम्‌ ! तर्हि भवत्कुलीयानां बाण-प्रयोगकौशलं मया द्रष्टव्यम्‌ एव । श्व: भवान्‌ स्वकुलीयं निपुणतमं धनुर्वीरं नदीतीरं प्रति प्रेषयितुं किं शक्नुयात्‌ ?’’ इति । अनन्तरदिने कश्र्चन सुन्दर: वानर: धनुर्बाण-हस्त: सन्‌ आगत्य अनूकं नमस्कृतवान्‌ । अनूकोऽपि धनुर्बाणहस्त: सन्‌ सज्ज: आसीत्‌ ।

‘‘किं भवान्‌ स्पर्धार्थं सज्ज: ?’’ इति तं तरुणं वानरम्‌ अपृच्छत्‌ अनूक: ।


‘‘सज्ज: अस्मि एव महोदय !’’ इति आत्म-विश्वासपूर्वकम्‌ अवदत्‌ वानरतरुण: ।


‘‘तत्र, नद्या: अपरतीरस्य समीपे जले काचित्‌ शिला दृश्यते खलु ? किं सा लक्षिता भवता ?’’ इति अपृच्छत्‌ अनूक: । ‘‘पश्यामि एव’’ इति अवदत्‌ वानर: । ‘‘तस्या: शिलाया: जलस्थ: भाग: बाणेन वेद्धव्य: । य: एतत्‌ कर्तुं समर्थ: भवति स: एव जयं प्राप्स्यति । अहम्‌ आदौ बाणप्रयोगं करोमि’’ इति अवदत्‌ अनूक: । ‘‘अस्तु’’ इति अवदत्‌ वानरवीर: ।


उभौ अपि क्षणकालं  तां शिलां परीक्षादृष्ट्या दृष्ट-वन्तौ । तत: अनूक: एकं बाणं प्रयुक्तवान्‌ । स: बाण: सशब्दं गत्वा जलं विभिद्य शिलायां लग्न: जात: । तेन प्रयुक्ता: अन्ये द्वित्रा: बाणा: अपि शिलायां लग्ना: ।


एतदनन्तरं वानरतरुण: बाणप्रयोगम्‌ आरब्धवान्‌ । तेन प्रयुक्त: बाण: वेगेन तु गत:, किन्तु जलं भेत्तुम्‌ असमर्थ: सन्‌ जले अप्लवत । ‘अहो, मम बाण: लक्ष्ये न लग्न: एव !’ इति विषादेन अवदत्‌ वानरतरुण: । तत:  जागरूक-तया तेन पुनरपि द्वित्रा: बाणा: प्रयुक्ता: । किन्तु ते अपि लक्ष्यभेदने असमर्था: एव ! एतस्मात्‌ वानरतरुणस्य मुखं कान्तिहीनं जातम्‌ । स: म्लानमुख: सन्‌ स्वस्य पराजयम्‌ अङ्गीकृत्य तत: निर्गतवान्‌ मन्दं पदानि स्थापयन्‌ ।


वस्तुत: अनूक: जानाति स्म एव यत्‌ जय: ममैव इति । यत: तदीया: बाणा: लोहेन निर्मिता: आसन्‌, किन्तु वानरतरुणस्य बाणा: तु निर्मिता: आसन्‌ वेत्रेण । काष्ठमय: बाण: जले प्लवते इति तु सहजम्‌ एव खलु ? तत: आरभ्य वानराणां बाणप्रयोगकौशलं क्षीणं जातम्‌ । गच्छता कालेन तत्‌ विनष्टम्‌ अपि ।


 

Wednesday, 19 September 2012

शबरी”

ऋष्यमूकपर्वतस्य मूले पम्पानाम विशालं विमलजलं च सरः अस्ति । तस्य तीरे विराजते भगवतो मतन्गमहर्षेः आश्रमपदम्‌ । महर्षेः प्रभावात्‌ तत्रत्याः लताः वृक्षाश्च सर्वे सर्वदा पुष्पैः फफ लैश्च शोभन्ते । वन्यप्राणिनः अपि परस्परं वैरं विहाय सुखं जीवन्ति । विहन्गमा अपि नानाविधानि फफ लानि खादन्तः मधुरं कू जन्तश्च कालं यापयन्ति । धर्मस्य सदने तस्मिन्नाश्रमे नास्ति अधर्मस्य लेशतोऽपि सञ्चारः । रमणीये एतस्मिन्‌ प्रदेशे महर्षेः शिष्याः सततं वेदाध्ययनं कुर्वन्ति । शास्त्राणि च विचारयन्ति । महर्षिवचनानुसारेण लोक क ल्याणाय यज्ञं कु र्वतां वेदज्ञानां मन्त्रः सर्वत्र श्रूयते । एवम्‌ अतिमनोहरे तस्मिन्‌ आश्रमपदे शबरी नाम काचित्‌ वृद्धा तापसी निवसति स्म । मातङ्ममहर्षे भक्ति मती सा प्रभाते एव उत्थाय निखिलम्‌ आश्रमपदं जलेन सिञ्चन्ती स्वच्छीक रोति । पूजार्थं पुष्पाणि फफ लानि च आनयति यज्ञोपयोगीनि समिदादीनि सन्गृह्यति । गुरुभक्तिः निश्चयेन सद्गतिं जनयतिफफइति तस्याः दृढं विश्वासः । वृद्धायाः शबर्याः दृढभक्तिं गुरुशुश्रूषां च विलोक्य सन्तुष्टः मतन्गमहर्षिः ताम एवमवोचत्‌ ।
भद्रे ! दिव्यरू पं धरत्‌ विमानेन स्वर्गं गच्छन्‌ अिस्म्‌ । दशरथस्य पुत्रौ रामल्मणौ संप्रति चित्रकूटं प्राप्तौ । सद्य एव तौ इदमाश्रमपदम्‌ आगमिष्यतः । इदमवेहि श्रीरामः न साधारण मनुष्यः, अपि तु दुष्टानां दमनाय शिष्टानां रक्षणाय च भूमिम्‌ अवतीर्णः साक्षात्‌ महाविष्णुः । लक्ष्मणोऽपि सदा भूभारधारकः महाविष्णोः शय्याभूत आदिशेषः । यदा रामलक्ष्मणौ अत्र आगमिष्यतः तौ सतकु रुष्व । तयोः सेवनात्‌ ते सद्गतिः भविष्यति इति । शबरी तदारभ्य विमुक्त सर्वव्यापारा सदा रामध्यानं कुर्वती सलक्ष्मणं तं प्रतीक्षमाणा कालमनयत्‌ । रामोऽपि भार्यावियुक्तः लक्ष्मणेन सह कबन्धवचनानुसारेण सुग्रीवं द्रष्टुमिच्छन्‌ ऋष्यमूकपर्वतं प्रस्थितः मध्येमार्गम्‌ इदम्‌ आश्रमपदम्‌ आगच्छत्‌ । शबरी रामलक्ष्मणौ अवलोक्य सानन्दं तयोः पादारविन्दयोः प्रणिपत्य पाद्यम्‌ आचमनीयं च अयच्छत्‌ । नानाविधैः फलैः सत्कारम्‌ अकरोत्‌ च । तेन सन्तुष्टः रामः ताम्‌ अपृच्छत्‌ आर्थे ! अपि कु शलं ते, किं निर्विधं तपो वर्धते कि म्‌ ? आश्रमवासिनः सर्वेऽपि कुशलिनि ? किं वन्यप्राणियः आश्रमस्य भयं वर्तते, किं तव गुरुशुश्रूषा फलिताः शबरी अपि राम ! पवित्रं ते नाम जपन्तयाः मम तपसि कथं विघ्नाः सम्भवन्ति? सर्वमस्ति कुशलम्‌ इति वदन्ती स्वगुरोः मतन्गमहर्षेः आश्रमपदम्‌ अदर्शयत्‌ । रामः इयं हि यज्ञवेदिका या स्वयं द्योतमाना सर्वा दिशाः सन्ततं द्योतयति । मम गुरवः वृद्धत्वदीषात्‌ क म्पमानक राः अत्रैव मदानीतानि पुष्पाणि स्वीकृतवन्तः । अत्रैव फफ लानि भक्षितवन्तः सञ्चरितुम्‌ अशक्नुवतां तेषां प्रभावेण इदं सरा समुत्पन्नाम्‌ यत्र तत्सन्कल्पानुसारेण सप्त अपि सागरा अंशेन सन्गता विलसन्ति । इमे च तेषां आर्द्राः वल्क लाः । ये अद्यापि न शुष्क तां उपगच्छन्ति । इमानि च देवपूजायां तैः उपयुक्त ानि पुष्पाणि, यानि अद्यापि न म्लानतां प्राप्नुवन्ति । रामलक्ष्मणौ समग्रमाश्रमपदं दृष्टवन्तौ । पुनरपि शबरी अब्रवीत्‌ राम! मया त्वदर्थं नानाविधानि फलानि आनीतानि । निर्मलं मधुरं च जलमानीतम्‌ ।

गणेशपर्वाचरणम्‌

कुमुदानन्द झा  

अस्मिन्‌ काले पर्वाणि हर्षं न जनयन्ति, किन्तु भयं जनयन्ति । पुष्पपत्रफलादीनां मूल्यं गगनचुम्बि । गणेशस्य मृन्मयी प्रतिमा क्व विसर्जनीयेति समस्या । पूजां कर्तुं मन्त्राः पठनीयाः । ये संस्कृतं न विदन्ति तैः पुरोहितोऽन्वेष्टव्यः इति बहुधा चिन्ता । तदुपरि गणेशपर्वकाले केचन ‘नायकाः समुद्‌भवन्ति । एते वीथ्यां वीथ्यां मण्टपान्‌ रचयितुं तत्र बृहतीं विनायक मूर्तिं प्रतिष्ठापयितुं समारम्भं कर्तुं च वाञ्छन्ति । गणेशप्रतिष्ठा तेषां स्वप्रतिष्ठावृद्धेः कारणम्‌ इति द्रढिष्ठो विश्वासः । एतत्‌ सर्वं कर्तुं अपेक्ष्यते धनम्‌ । प्रतिगृहं गत्वा एते किल नायका धनं प्रयाचन्ते । ये गृहस्था धनं न ददति, तान्‌ अनेकधा त्रासयन्ति । अपि च गणेशमण्डपे असभ्यानि अश्लीलानि गानानि प्रवर्तन्ते, कदाचिनर्तनं च । स्वेच्छाचारस्य स्थलमेव गणेशमण्डपः इति । पुरा लोक मान्यो बालगङ्गाधरतिलकः स्वातन्त्र्यसंग्रामाय जनान्‌ प्रेरयितुं गणेशोत्सवं मार्गीकृ तवान्‌ । सम्प्रति तादृशः कोऽपि घनोद्देशो नास्ति । जनैरहं द्रष्टव्यः, पत्रिकासु मम चित्रं प्रक टनीयम्‌, उत्तरत्र निर्वाचने विजयं लब्ध्‌ु इदं प्रथमं सोपानम्‌ इति विचिन्त्य गणेशोत्सवम्‌ आयोजयन्ति । देवो गणेशः सर्वं दृष्टा किं चिन्तयतीति इराक देशे नरमेधः न विद्मः । गणशाय नमो नमः इत्युक्त्वा विरमामः ।
“गणेशपर्वाचरणम्‌”

Monday, 17 September 2012

सत्यप्रतिज्ञो राजा

उज्जयिन्यां महेन्द्रो नाम राज आसीत्‌ । स विद्वान्‌, विदुषां आश्रयदाता च आसीत्‌ । सर्वदा तस्य आस्थानं विद्वद्भिः मण्डितं अवर्तत । के चन राजानं अस्तुवन्‌, के चन स्वीयां विद्वत्प्रौढिमां प्रादर्शयन्‌, अन्ये स्वलिखितान्‌ ग्रन्थान्‌ वाचयन्ति स्म । राजा सर्वेभ्यः अतुलं धनं प्रयच्छन्‌ विद्वद्रञ्जकः अशोभत ।

एक दा तस्य मनसि काचिदालोचना संजाता । सभ्याःतस्य अविदितं किंचित्‌ ब्रूयुः । तत्‌ सत्यं अविदितं यदि तेभ्यः रूप्यसहस्रकं दद्याम्‌ इति । एवं प्रक टयामास च । बहवो विद्वांसः आगताः । शास्त्रीयेन पाण्डित्येन व्यावहारिक न्यायैः च तं बहुधा पीडयामासुः । दैवात्‌ सर्वं तस्य विदितमेवासीत्‌ । के नापि पणं न लब्धम्‌ । तदारभ्य विद्वांसश्च दूरीकृ ताः । राजा च पर्यतप्यत फफक थं प्रकटनं सत्यं भवति । स्वात्माऽपि तृप्यते । पूर्ववत्‌ विद्वांसः समीपमुपसर्पन्ति फफ इति । तस्यापि प्रतिभातीत्यर्थः । एवं नकु लानपदिश्य अरसिकान्‌ काव्यवाचकान्‌ उद्दिशति । ये पण्डिताः काव्यवाचनादना जीविकामार्जयितुमिच्छन्ति , ते काव्यं पठन्तु । ये तु क वयो मुख्यतया काव्यमेव जीविताधा
रं मन्यन्ते, तेऽपि काव्यमाश्रयन्तु नाम । ये तु अरसिकाः काव्यस्य गन्धमपि नाघ्रातुमिच्छन्ति, तैर्हठात्‌ यत्‌ काव्यं पठ्यते, यदपि अस्थाने पदविच्छेदादिना खण्ड्यत इव तत्र किं कारणम्‌ इति । उपदेशस्तु नीचाः यदा क मपि हिंसन्ति, तत्र प्रयोजनं न गवेषयन्ति । ते निरर्थक मेव परान्‌ घ्नन्ति इति । समस्यायाः उत्तरं न ज्ञातमभूत्‌ । एवं स्थिते कश्चन बुद्धिमान्‌ वृद्धः राजानं उपससर्प । सः राजानं प्रत्यवोचत्‌ भो राजन्‌, तव प्रकटनं मया श्रुतम्‌ । तव अविदितं किंचिदस्ति । दत्ते अभये विज्ञापयामी ति । सन्तुष्टो राजा तस्य अभयं उक्त्वा वद इत्यवोचत्‌ । स तु वृद्धः अतीव विनयं प्रदर्श्य फफभो राजन्‌, अहं समीपस्थे ग्रामे वसामि । एक दा तव पिता कीर्तिशेषः महाराजः मामुपसृत्य रूप्यकसहस्रं याचत । एक स्मिन्नेव मासावधौ प्रति निवर्तिष्ये इत्युक्त्वा सः मया दत्तं धनं गृहीत्वा ययौ ।

राजा दीर्घमालोचयामास । विदितो वा अविदितो वा वृद्धाय क थमपि पणं देयम्‌ । भवतु इत्युक्त्वा तं प्रशंसन्‌ अमितेन द्रव्यदानेन अतोषयत्‌ ।

वाणी सुरगिरा...

रचनाकारा _ संस्कृता मिश्रा 

विरञ्चेरुद्भूतैः प्रथमपदबन्धैः श्रुतिगतैः
ऋषीणामार्याणामनुभवमहिष्ठैः गुरुपदैः..
अनन्तायाः सृष्टेः विकसनकथारूपिमधुपैः
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
 
गिरामन्यान्यासां पृथगिति भिदायुक्तसरणौ..
प्रसूत्वादेकत्व-प्रणयिनि-महित्वं विदधती
समासस्निग्धा प्रत्ययबलमहिम्ना बलवती..
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...

||श्रीः ||  

||मीनाक्षी पञ्चरत्नम् ||

उद्यद्भानु सहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपंक्तिरुचिरां पीताम्बरालंकृताम् |
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||१||
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्र प्रभां
शिञ्जन्नूपुरकिंकिणिमणिधरां पद्मप्रभाभासुराम् |
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||२||
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम् |
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||३||
श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् |
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडाम्बिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||४||
नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदां
नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् |
नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ||५|| 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ मीनाक्षी पञ्चरत्नं संपूर्णम् |

Sunday, 16 September 2012


पंचदेवस्तुतिः

समर्थश्री और संस्कृता  


ये मालिनी छंद की रचना है,,ये छंद नामानुरूप अत्यन्त मधुर है,,गेय है,,भावुक सहृदयों की प्रीति के लिये प्रयास करते हुए सदाशिव देवाधिदेव महादेव के पावन पादारविन्दों में कोटिशः प्रणति,,
ननमयययुतेयं मालिनीभोगिलोकैः

गणपति

गजवदनविशेषःज्ञानविज्ञानशेषः,

प्रमथगणनिधीशोदेवदेवःसुरेशः।
निरतिशयसुखाब्धौ मज्जने यो विरक्तः,
जयतिशुभदमूर्तिःविघ्नहर्ता गणेशः।।

शिव 

धवलविमलचन्द्रःशोभितो यस्यभाले,
भुजगरचितमाला कण्ठमध्ये विभाति।
पशुपतिपरमेशःसर्वमांगल्यमूर्तिः.
भुवनविभवदाता शंकरःशंकरोतु।।


सूर्य
गहनतिमिरहारी दिव्यनक्षत्रचारी,
जननमरणधारी सर्वदानंदकारी।
भवविभवविकारी भक्तदौर्भाग्यतारी,
गगनविपिनसिंहःतेजरूपोविहारी।।
विष्णु
जगदवनविधाताविश्वसौभाग्यदाता,
मदनरिपुसखायःभक्तसम्मानत्राता।
निजजनसुखरूपःभावसंदोहदीप्तः,
भवजलधिनियन्ता श्रीहरिःशंतनोतु।।
दुर्गा
सकलभुवनमध्येवंदनीयापराया,
सुरवरमुनिपूज्या कल्पवल्ली विधात्री।
सुजनसुमनशोभासर्वसौभाग्यमूला,
दनुजकुलनिहन्त्रीशाम्भवी नः पुनातु।।