Thursday, 26 March 2015

शिक्षया किम् न साध्यते

निर्धने ब्राह्मणकुले जन्म अभवत् नरेन्द्रस्य । बुभुक्षितः सन् अपि विद्याम् प्राप्तवान् श्रमेण । मनसि व्यचारयत् अयम् य़ुवकः पठनेन वृत्तिः प्राप्स्य़ामि । सुखेन जीवनम् यापयिष्यामि । बहूनि दिनानि व्यतीतानि सः न कुत्रापि वृत्तिम् अलभत । गृहे पितरौ , स्त्री च न्यवसन् । स्त्री तु पितृगृहे वसति स्म । यतो हि श्वसुरगृहे दीनतायाः साम्राज्यम् आसीत् ।
    सन्ध्यासमयः आसीत् । नरेन्द्रः पूर्णम् दिनम् अभ्रमद् भृत्यर्थम् । बुभुक्षितः सन् स्वगृहम् प्रविष्टः । तेन श्रुतम् – माता पितरम् कथयति स्म - शृणोतु - वधूः स्वपितृगृहे वर्तते , बहूनि दिनानि व्यतीतानि । ताम्+अत्रैव आनयतु भवान् । यथा कथञ्चित् अत्रैव स्वोदरम् पूरयिष्यति ।
    पिता प्रोवाच - तव कथनम् युक्तियुक्तम् अस्ति परम् वयम् यथा कथञ्चित् स्वजीवनम् यापयाम ।
    वधूः कथम् अत्र निवसिष्यति बुभिक्षिता ? व्यर्थम् एव मया स्वसुतः पाठितः।
    यदि सुतः मूर्खः अभविष्यत् तर्हि श्रमम् कृत्वा अपि स्वोदरम् अपूरयिष्यत् ।
गृहे वयम् बुभुक्षिताः , सुतः भृत्यर्थम् अटति प्रत्यहम्। उपजिलाधीशः  भवितुम् कल्पते।
    युवकः स्वपितृवचनम् अशृणोत् द्वारस्थः । मनसि व्यचारयत् - घिङ् माम् । स्वपरिवारस्य पोषणार्थम् अपि न अहम् किमपि उपार्जयितुम् क्षमः । मम अनेन कुत्सितेन जीवनेन कः लाभः? सः गृहाभ्यन्तरम् अपि न गतः । प्रतिनिवृत्तः सन् शनैः शनैः चलितुम् आरभत ।
    सः कुत्र गच्छति , कथम् गच्छति , स्वयम् अपि न जानाति स मनसि व्यचारयत् - अनेन रेलयानेन सुदूरम् गच्छानि किन्तु चिटिकार्थम् रूप्यकाणि न वर्तन्ते ।
प्रचलन् सः विरराम ।
    कलकलध्वनिना प्रवहन्ती च आसीद् गंगा । तेन विचारितम् – गंगातरंगेषु जीवनम् समापयिष्यामि। कः लाभः च अनेन भारभूतेन जीवनेन। सः शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्य अज्ञानम् विनष्टम् ।
    सः व्यचारयत् , न अहम् गंगायाम् देहत्यागम् करिष्यामि। एतत् पापकर्म न करिष्यामि।
    युवकः बहिः आगतः जलात्। रात्रौ तत्रैव गंगातटे एकस्मिन् उटजे न्यवसत्। प्रभाते सञ्जाते निरुद्देश्यम् एव प्राचलत्। पूर्णम् दिनम् निरन्तरम् प्रचलन् आस्ते।
क्षुधया क्लान्तम् आसीत् शरीरम्।
    अक्ष्णोः अग्रतः च अन्धकारः प्रसर्पति। इत्थम् प्रदोषकाले कस्यचित् प्रासादस्य द्वारदेशम् आससाद। सहसा प्रासादात् कोऽपि वृद्धः बहिः निर्गतः।
    कमपि अपरिचितम् युवकम् वीक्ष्य तत् पार्श्वम् आगत्य औत्सुक्येन प्रोवाच , कः असि भ्रातः ! किमर्थम् अत्र समागतः असि ? तत् श्रुत्वा युवकस्य नेत्रे सजले सञ्जाते ।
    सः उद्विग्नम् युवकम् पुनः पप्रच्छ वृद्धः कथय किम् ते कष्टम्? षड्त्रिंशद् होरात्मकः समयः व्यतीतः, न  मया अन्नकणम् अपि सम्प्राप्तम् ।
    वृद्धः दयार्द्रः सम्प्रोवाच , उतिष्ठ , गृहम् चल। स्नेहात् अयम् तम् प्रासादाभ्यन्तरम् आनयत्।
    भोक्तुम् च निवेदयाञ्चक्रे। बुभुक्षितः अपि अयम् भोक्तुम् न चेष्टते, यतो हि गृहे तस्य पितरौ बुभुक्षितौ। निरन्तरम् नेत्रयोः अश्रुबिन्दवः निपतन्तः च आसन्।
    युवकः पुनः स्नेहात् अपृच्छत्- सत्यम् वद पुत्र ! किम् ते कष्टम्। भोज्यानि प्राप्य अपि किमर्थम् व्यर्थम् एव रोदिषि?
    युवकः वृद्धस्य स्नेहपरिपूर्णानि वचनानि श्रुत्वा सर्वाम् कथाम् अश्रावयत् स्वकुटुम्बस्य।
    वृद्धः यु‍वकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे, सर्वम् सम्पादयिष्यति भगवान् भूतभावनः। युवकः सन्तुष्टः सन् भोजनम् चकार। वृद्धः युवकम् तद्दिनात् एव स्वगृहे एव शिक्षकपदे नियुक्तवान्। किञ्चित्कालानन्तरम् सः सर्वकारीयाम् भृतिम् अलभत।
    स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः। आसीत् असौ युवकः भूदेवमुखोपाध्यायः। बंगप्रान्तस्य प्रतिष्ठितः सामाजिकः अयम् विभिन्नशिक्षणसंस्थानाम् सञ्चालकः सञ्जातः।

Wednesday, 5 June 2013

अहं विघ्नविनायक: अस्मि-14


“विघ्नेश्वरः! इदानीं भवता गजासुरस्य संहारः कृतः। एतस्य स्मरणार्थं गणपतिनवरात्रोत्सवः चिरकालं यावत् सवैभवम् आचरिष्यते। इतः अग्रे जनाः किमपि कल्याणकारि कार्यं यदा करिष्यन्ति तदा भवतः उत्सवम् अपि आचरिष्यन्ति, सफलतां च प्राप्स्यन्ति’’ इति अशरीरवाणी श्रुता। एतत् श्रुत्वा विष्णुः विघ्नेश्वरम् उक्तवान् “पार्वतीनन्दन! भवान् मम भागिनेयः अस्ति । अतः मम दायित्वानि वर्धमानानि सन्ति “इति।
तदा गणपतिः उक्तवान् “आम्। भवान् अग्रे कंसस्य भागिनेयसम्बन्धं प्राप्य तं संहरिष्यति खलु? राक्षससंहारविद्या तु भवता एव बोधिता “इति।
“हे विघ्नविनाशक! स्यान्नाम तथा। किन्तु भवतः परशोः सामर्थ्यात् मम चक्रायुधं सर्वथा अवरम्। भवतः परशोः कौशलं दृष्टवतः मम महान् आनन्दः भवति” इति अवदत् विष्णुः।
एतत् श्रुत्वा विघ्नेश्वरः अवदत् “मम परशोः ग्रहणे इच्छा भवतः। अतः एव भवान् अग्रे परशुरामावतारं प्राप्य मम परशुं गृहीत्वा गर्वोद्धतान् क्षत्रियान् नाशयिष्यति” इति।
“विघ्नेश्वर! गजरूपिणः विघ्नासुरस्य उपरि स्थित्वा भवान् पादाभ्यां यदा मर्दयन् आसीत् तदा अहं भवतः वामनरूपं दृष्ट्वा आनन्दाब्धौ निमग्नः” इति अवदत् विष्णुः।
“भवान् अपि अग्रे कदाचित् वामनावतारं प्राप्य बलिचक्रवर्तिनं पादाघातैः पातालं प्रेषयिष्यति” इति अवदत् विघ्नेश्वरः।
‘‘भवतः बुद्धिः वर्णनातीता अस्ति’’ इति अवदत् विष्णुः।
“भवतः अवताराणाम् उद्देशः धर्मस्य स्थापनम्। यदा समाजे अन्धविश्वासहिंसादयः प्रवृद्धाः भविष्यन्ति तदा भवान् बुद्धः सन् योग्यस्य सामाजिकजीवनस्य निर्वाणस्य च उपदेशं करिष्यति। मायादेव्याः स्वप्ने श्वेतगजः गर्भं प्रविष्टवान् दृश्यते तदा। ततः भवान् सिद्धार्थनाम्ना जन्म प्राप्स्यति’’ इति
अवदत् गणपतिः।
एतस्य संवादस्य कारणतः विष्णुः नितरां सन्तुष्ट:। ततः परमाणुरूपेण स्थितः विघ्नः अवदत् – “हे विघ्नराज! अहं भवतः दासः अस्मि। मया इदानीं किं करणीयम् इति आदिश्यताम्। भवतः आज्ञाम् अक्षरशः पालयिष्यामि अहम्” इति। ततः स: विघ्नेश्वरस्य अनुज्ञां प्राप्य कालिन्दीतटाकं प्राप्य कालियरूपेण तत्र न्यवसत्।
विघ्नस्य निर्गमनस्य अनन्तरं मूषकासुरः मूषकरूपेण तत्र आगतवान्। कालियवेषेण अज्ञाततया वासं कुर्वतः विघ्नस्य स्थितिं दृष्ट्वा नितरां खिन्नः क्रुद्धः च सः स्वस्य नैजं रूपं धृत्वा विघ्नेश्वरस्य पुरतः तिष्ठन् सिंहनादं कृतवान्।
विघ्नेश्वरः मूषकासुरस्य बलयुतं देहं सन्तुष्टिपूर्वकं दृष्टवान्। मूषकासुरः अट्टहासं प्रकटयन् – “अये विघ्नेश्वर! विघ्नः तु भवतः दासः। अतः यथा भवतः आज्ञा तथा व्यवहारः तदीयं कर्तव्यम्। किन्तु अहं तु भवतः दासः नास्मि, प्रत्युत शत्रुः अस्मि। भवान् ‘सिंहस्वप्न’ शब्दं श्रुतवान् स्यात् खलु? अहं सिंहः भूत्वा भवतः गण्डस्थलं विदारयिष्यामि” इति उक्त्वा सिंहरूपं धृत्वा उच्चैः गर्जनं कृतवान।
एतत् श्रुत्वा विघ्नराजः अवदत – “हे सिंह! भवान् जगज्जनन्याः वाहनम्। अतः अहं भवन्तम् आदरेण एव पश्यामि” इति।
किन्तु सिंहः विघ्नेश्वरस्य आदरभावं तृणीकृत्य आक्रमणार्थम् आगतः। तदा विघ्नेश्वरः उपविश्य एव – “ हे शिव! हे शम्भो!” इति अवदत्। अनन्तरक्षणे एव शिवः शरभावतारं प्राप्य सिंहस्य पुरतः स्थित्वा अगर्जत्। शरभस्य शरीरं सिंहवत् आसीत्। तस्य कण्ठे केसराः आसन्। किन्तु मुखं गजस्य इव। दीर्घा शुण्डा आसीत् मुखे। उभौ हस्तौ अपि आस्तां तस्य। तदीयं पुच्छं सर्पाकारकम्। पुच्छस्य अन्ते अग्निम् उद्वमत् मकरमुखम् आसीत्। शरभः सकृत् गर्जनं कृत्वा स्वशुण्डया सिंहं मुखे बलात् प्राहरत्। तदा सिंहः क्रन्दन् ततः पलायनम् अकरोत्। शरभस्तु अदृश्यतां गतः।
विघ्नेश्वरः स्वस्य शुण्डां दीर्घतया प्रसार्य धावतं सिंहं झटिति गृहीतवान्। तम् उन्नीय अतिष्ठत् च। तस्मिन् समये नारदः आकाशे स्थित्वा हिन्दोलरागेण गीतवान्।


Tuesday, 4 June 2013

अङ्गुळीयकदर्शनम्

लघुनाटिका

(रङ्गस्थले नगररक्षकः तस्य पश्चात् कञ्चन पुरुषं बद्ध्वा रक्षकभटौ च
प्रविशन्ति)

रक्षकभटौ------(पुरुषं ताडयित्वा) अरे चोर, कथय,कुत्र त्वया एतत् राजकीयम्
अङ्गुळीयकं सम्पादितम्?
बद्धपुरुषः------(भीतिं नाटयन्) अनुगृह्णन्तु भोः। अहं न चोरः।
प्रथमः रक्षकभटः----किं शोभनो ब्राह्मणः इति मत्त्वा राज्ञा बहुमतिं
प्राप्तोऽसि?
बद्धपुरुषः----श्रुण्वन्तु भोः। अहं शक्रतीर्थसमीपवासी मत्स्यकारः।
द्वितीयः रक्षकभटः---रे मूर्ख, किम् अस्माभिः जातिः पृष्टा?
प्र.रक्षकभटः-----कथय सर्वं। एतत् अङ्गुळीयकं कथं सम्पादितम्?
बद्धपुरुषः------अहं जालोद्गारादिभिः मत्यबन्धनोपायैः मत्स्यान् सङ्गृह्य
कुटुम्बं पोषयन् जीवामि।
द्वि.रक्षकभटः-----ततः.......
बद्धपुरुषः-------एकदा एकं रोहितमत्स्यं लब्धवान्। तं गृहं आनीय खण्डितवान्।
तदा तस्य उदरे एतत् अङ्गुळीयकं दृष्टम्।एतं विक्रयाय विपणिम्
आनीतवान्। एवं बद्धोऽस्मि। मारयन्तु वा मोचयन्तु वा।
रक्षकभटौ----- आगच्छतु। राजसन्निधिं गच्छामः। तत्र अङ्गुळीयकविषये
विमर्शयितव्याम्।
(सर्वे निष्क्रान्ताः भवन्ति------राजभवनं गच्छन्ति)
द्वितीयं दृश्यम्------
(राजपुरुषः------रक्षकभटौ--------मत्स्यकारः-------रङ्गस्थले तिष्ठन्ति)
राजपुरुषः-------(रक्षकभटौ उद्दिश्य) अङ्गुळीयकं दर्शयन्तु।
रक्षकभटः------भोः इदं तत् अङ्गुळीयकम्।( अङ्गुळीयकं राजपुरुषाय ददाति)
(राजपुरुषः------ अङ्गुळीयकं स्वीकृत्य राज्ञः समीपं गत्वा अङ्गुळीयकं कथं
लब्धमिति सर्वं कथयित्वा पुनः आगच्छति)
राजपुरुषः--------सर्वं ज्ञातम्। एतत् अङ्गुळीयकं राज्ञ्याः सम्बन्धि।
शक्रतीर्थे तस्याः हस्तात् स्रस्तम्।मत्स्येन ग्रस्तम्।मत्स्यकारेण लब्धम्।
अत्र विषये मत्स्यकारस्य दोषः नास्ति। मत्स्यकारं
मोचयन्तु।
रक्षकभटः--------(मत्स्यकारम् उद्दिश्य) यमसदनं प्रविश्य प्रतिनिवृत्तोऽसि।
(इति शृङ्खलं निवर्तयति)
मत्स्यकारः----अनुगृहीतोऽस्मि प्रभुणा।
राजपुरुषः------गृह्णातु इदं पारितोषिकम्।(सुवर्णनाणकम् एकम् मत्स्यकाराय
ददाति)
(सर्वे निष्क्रमन्ति)

Wednesday, 27 March 2013

अहं विघ्नविनायक: अस्मि-13

मूषकासुरः विघ्नम् आदिष्टवान् - “भवान् गजासुरस्य रूपं धृत्वा विघ्नेश्वरस्य नाशं करोतु’’ इति।
तदा विघ्नः भयङ्करस्य गजासुरस्य रूपं धृत्वा हस्तेन खङ्गं चालयन् आकाशं प्रति उड्डयनं कृतवान्।
अपरत्र कैलासे विघ्नेश्वरः मातापित्रोः प्रीत्या वर्धमानः आसीत्। मातापित्रोः अनुमतिं स्वीकृत्य विश्वकर्मद्वारा निर्मिते भवने वासम् आरब्धवान् सः। कदाचित् पुरतः आगतः कामदेवः शरीरं धृत्वा गणपतेः पुरतः स्थितवान्। 

विघ्नेश्वरः आश्चर्येण - “भवान् तु निराकारः। कथं भवान् शरीरं धृत्वा मम पुरतः उपस्थितः अस्ति? कः विशेषः? अहं मुग्धः। भवतः धनुर्विद्यायाः प्रयोगं मम उपरि न करोतु’’ इति उक्तवान्।
कामदेवः विनयपूर्वकं शिरः अवनमय्य - “गजानन! भवान् तु मम बाणातीतः। यदि कस्यचित् पुरतः अहम् उपस्थातुम इच्छामि तर्हि मया शरीरधारणं कर्तुं सामर्थ्यं प्राप्यते। परशिवेन एव तादृशः वरः मह्यं प्रदत्तः अस्ति। आवयोः शरीरस्य आकृत्यां काचित् समानता वर्तते। आवां निकटवर्तिनौ अपि। अतः भवान् मां द्रष्टुं शक्तवान्। एषः एव विशेषः। भवान् वृषभवाहनस्य शिवस्य पुत्रः चेत् अहं गरुडवाहनस्य विष्णोः पुत्रः। मां शिवः भस्मीकृतवान्। सः एव भवतः शिरः अपि कर्तयित्वा भवन्तम् उज्जीवितवान्। मम वाहनं शुकः। भवतः वाहनं मूषिकः। मनसः विचलने समर्थाः पुष्पबाणाः मम आयुधानि। मनसः नियन्त्रणे समर्थौ पाशाङ्कुशौ भवतः आयुधे। भवतः अनुजस्य कुमारस्वामिनः अवतारः अग्रे भवेत् खलु। पार्वतीपरमेश्वरयोः अनुरागस्य तेजः एव कुमारस्वामिरूपेण अवतारं ग्रहीष्यति। तारकासुरस्य संहारः अग्रे भवेत्। अतः एव देवाः मां भस्मीकारितवन्तः। अहं कैलासं गच्छ्न् अस्मि। अनुज्ञा दीयताम्” इति उक्तवान्।

विघ्नेश्वरः उत्तररूपेण – “कामदेव, अहं तदर्थमेव कैलासतः दूरं गच्छन् अस्मि। भवान् स्वकीयं कार्यं सफलं भविष्यति” इति उक्त्वान्।
अनन्तरं कामदेवः अदृश्यः भूत्वा पार्वतिपरमेश्वरयोः निवासस्थानं कैलासमण्डपं प्राप्तवान्।
विघ्नेश्वरः स्वस्य भवनस्य सिंहद्वारस्य समीपे स्थितायाम् अमृतशिलायाम् उपविश्य प्रकृत्याः अवलोकनं कुर्वन् आनन्दम् अनुभवन् आसीत्। हिमालयस्य जलप्रपाताः मन्दगभीरस्वरेण सरिगमनादं कुर्वन्तः आसन्। तादृशे प्रशान्ते समये कश्च्न भयङ्करः स्वरः श्रुतः – “विघ्नेश्वरनामकः कुत्र अस्ति?” इति।
अल्पे एव काले गजासुररूपधारी विघ्नः विघ्नेश्वरस्य पुरतः उपस्थितः जातः। तदा भूकम्पनम् अभवत्। गजासुरः गर्जनस्वरेण – “अहं महागजासुरः अस्मि।  भवान् गजमुखधारी चेत् अहं गजकायः अस्मि। अहं भवतः संहरणार्थम् अत्र आगत्वान् अस्मि” इति उक्तवान्।
विघ्नेश्वरः बधिरः इव मुग्धस्वरेण – “रे, इक्षुदण्डान् खण्डयित्वा खादितुम् इच्छामि। भवान् मम परशुं तीक्ष्णं कृत्वा यदि ददाति तर्हि भवते अहं मोदकानि दास्यामि” इति उक्तवा परशुं गजासुरस्य दिशि क्षिप्तवान्। एतेन गजासुरस्य पादौ कर्तितौ जातौ। पर्वतः इव अधः पतितवान् गजासुरः। तदन्तः स्थितः विघ्नः चीत्कारं कुर्वन् – “महानुभाव! अहं विघ्नः अस्मि। ब्रह्मणः वरस्य कारणतः एवं गजासुरस्य रूपं धृतवान् अस्मि। मया योग्यं दण्डनं प्राप्तम्” इति उक्तवान्।

 तदा विघ्नेश्वरः शान्तस्वरेण – “अहं विघ्नानां विनाशकः विनायकः अस्मि। भवान् गजासुररूपेण स्थितः विघ्नः अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। यः मां भवन्तं च विस्मरति तं पीडयन्ति एते खण्डा। भवान् कालियनामकः सर्पः भूत्वा कालिन्दिसरोवरे तिष्ठतु। बालकृष्णः भवतः मर्दनं करिष्यति। तस्य चरणस्पर्शेन भवतः पापपरिहारः भविष्यति। उत्तमजातीयसर्पाणां फणायाः उपरि विष्णोः चरणचिह्नानि अङ्कितानि भूत्वा शोभां वर्धयिष्यन्ति” इति उक्त्वा परशुना विघ्नं खण्डशः कर्तितवान्। ते खण्डाः सर्वत्र पतिताः सन्तः अदृश्याः अभवन्। तदा विघ्नः अणुरूपेण अतिष्ठत्। देवाः प्रसन्नाः भूत्वा पुष्पवर्षणं कृतवन्तः।

अहं विघ्नविनायक: अस्मि-12

उत्तररूपेण विघ्नेश्वरः - “विघ्नेश्वरस्य विवाहे सहस्त्रं विघ्नाः इति उक्तिः एव अस्ति। एवं स्थिते मम विवाहः कथं सम्पद्येत’’ इति उक्तवान्।
तदा ब्रह्मा - “सहस्त्रशः न, कोटिशः विघ्नाः उत्पन्नाः चेदपि भवतः विवाहः भविष्यत्येव’’ इति उक्तवान्। तत्र विद्यमानाः सर्वेऽपि ब्रह्मणः वचनम् अनुमोदितवन्तः।
तदा नारदः अग्रे आगत्य - “हे विघ्नेश्वर! विवाहात् आत्मनः रक्षणम् असाध्यम्। ज्येष्ठाः वदन्ति यत् विवाहः कर्तव्यनिर्वहणं च पुरुषाणां लक्षणम् इति। एतत् सत्यं पुरस्कृत्य एव पुरुषोत्तमः आदिदेवताः च विवाहं कृत्वा सृष्टि-स्थिति-लयादिकर्तव्यं निर्वहन्तः सन्त। एवं स्थिते का स्थितिः आवयो?” इति उक्तवान्।  उत्तररूपेण विघ्नेश्वरः हसन् - “एवम्? विवाहविषये भवान् अपि आसक्तः जातः अस्ति इति भाति। स्वयंवरेषु अपि किं भागं वहन् अस्ति भवान्? “इति पृष्टवान्।
तदा नारदः - “अहम् आत्मानं त्रिकालवेदिनं भावयामि स्म। किन्तु भवान् तु अनन्तकालवेदी अस्ति। आवाम् उभौ अपि सम्भाषणचतुरौ। तर्कं कुर्वन्तौ भवावः चेत् एषः अनन्तः कालः अपि अपर्याप्तः स्यात्। भवान् तु पूर्णज्ञानी अस्ति। मादृशः अर्धज्ञानी कदाचित् मूर्खतां प्रदर्शयेत्। तदस्तु, सिद्धिः, बुद्धिः, अष्टसिद्धयः च भवन्तं वरिष्यन्ति। अतः मम मुखतः अपि श्रीरस्तु, शुभमस्तु इत्यातः एव शब्दाः निस्सरन्तु तावत्’’ इति वदन् नारदः स्वस्य ‘महति’ नामिकां’ वीणां वादयन् कल्याणीरागस्य आलापनं कृत्वा अन्ते मङ्गलगीतम् उक्तवान्। अनन्तरं सर्वेऽपि देवाः स्वनिवासं प्रति गतवन्तः। ततः शिवः पार्वत्या, गणेशेन च सह कैलासं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। केभ्यश्चित् दिनेभ्यः पूर्वं गणपतिः वज्रदन्तस्य पुच्छं गृहीत्वा क्षिप्तवान् आसीत्।
अधःपतनकारणतः वज्रदन्तस्य शरीरं क्षतग्रस्तम् आसीत्। सः अनन्तरकालेऽपि वेदनां सहमानः आसीत्। वज्रदन्तस्य पत्नी धवला पत्युः सेवायां निरता आसीत्। सा नारदं दृष्ट्वा - “एषः महाशयः पुनः कीदृशे कष्टे अस्मान् पातयिष्यति इति न ज्ञायते’’ इति चिन्तयन्ती अन्तः गतवती। 

नारदः मूषकासुरं वज्रदन्तम् उद्दिश्य - “यः भवतः अवमाननं कृतवान् सः गणपतिः इदानीं विघ्नेश्वररूपेण शोभमानः अस्ति’’ इति उक्तवान्।

अवमानकारणतः क्रोधाग्निना तप्तः वज्रदन्तः आश्चर्यचकितः सन - “आर्य! मया इदानीं किं करणीयम् इति भवान् एव उपदिशतु’’ इति प्रार्थितवान्।
तदा नारदः - “वज्रं वज्रेणैव छेत्तव्यम्। अतः प्रतीकारं साधयतु। गणपतिः इदानीं ‘विघ्नेश्वरः’ इति नाम धृतवान् अस्ति’’ इति उक्त्वा ततः निर्गतवान्।
ततः श्रुत्वा महश्वेताख्या धवला ‘विघ्नेश्वरस्य सहवासः मास्तु’ इति वज्रदन्त: बहुधा निवेदितवती। तथापि वज्रदन्तः पत्न्याः वचनं न लक्षितवान् एव। “महाश्वेते, भवत्याः सौभाग्यस्य कारणतः मम मरणभयं तु नास्ति। जातस्य अवमाननस्य प्रतीकारः कृतः चेदेव मम तृप्तिः’’ इति उक्त्वा ततः निर्गतः वज्रदन्तः उग्रं तपः आचर्य ब्रह्माणं प्रसन्नं कृतवान्। ब्रह्मा पृष्टवान् - “भवान् अन्यत् किम् इच्छति?’’ इति।

तदा मूषकासुरः - “विघ्नाय किमपि रूपं दत्त्वा तं मम आज्ञानुवर्तिनं करोतु’’ इति उक्तवान्।
ब्रह्मा विघ्नस्य आवाहनं कृत्वा वज्रदन्तस्य पुरतः उपस्थापितवान्। किन्तु वज्रदन्तेन किमपि न अदृश्यत। तदा ब्रह्मा तस्मै सूक्ष्मदर्शनार्थं दृष्टिं दत्तवान्। सामान्यनेत्राभ्यां यत् द्रष्टुं न शक्यं तादृशं विघनस्य रूपं वज्रदन्तः द्रष्टुं शक्तवान्। मूषकासुरः आश्चर्येण अपृच्छत् - “भगवन। किं एतत्? एतं स्वीकृत्य अहं किं करवाणि?’’ इति।
तदा ब्रह्मा मन्दहासपूर्वकं - “विघ्नबीजं सामान्यनेत्राभ्यां दृष्टुम् अशक्यम्। सूक्ष्मः अणुः इव अस्ति तत्। यथा सूक्ष्मजन्तुः भयङ्करं रोगं प्रसारयितुं शक्नोति तथा अनर्थदायकः विघ्नः लघुः चेत् अपि भीषणाकारं धृत्वा सर्वनाशं कर्तुं शक्नोति। कामरूपी सः। इष्टं रूपं धृत्वा अनर्थस्य उत्पादनम् एव तस्य कार्यम्। भवान् इतःपरं यत् इच्छति तत् कर्तुं शक्नोति’’ इति उक्तवान्।



अहं विघ्नविनायक: अस्मि-11


पार्वती क्षणाभ्यन्तरे स्वस्य दुखं विस्मृतवती। शिवः हस्तौ प्रसार्य शिशुम् आहूतवान्। विघ्नेश्वरः मन्दं पदानि निक्षिपन् शिवस्य समीपं गतवान्।
‘‘पुत्र, विघ्नेश्वर! भवन्तः पुत्ररूपेण प्राप्य आवां धन्यौ जातौ। चिरं जीवतु वत्स’’ इति वदन् प्रीत्या गणेशं चुम्बितवान् शिवः।
तदा विघ्नेश्वरः झटिति कूर्दनं कृत्वा “पितः, किं वदति भवान्? अहं तु भवतः पुत्रः। अतः अहम् आत्मानं धन्यं मन्ये’’ इति वदन् स्वस्य शुण्डां प्रसार्य पार्वतीपरमेश्वरयोः चरणस्पर्शं कृतवान्। तया शुण्डया स्वनेत्रे स्पृष्ट्वा प्रणामं कृतवान्। ततः परं सः विष्णुं नमस्कृतवान्।
तदा विष्णुः - “भागिनेय। आगच्छतु अत्र’’ इति उक्त्वा तं समीपे स्वीकृत्य ‘ मङ्गलम् अस्तु’ इति आशीर्वादं कृतवान्।

अनन्तरं विनायकः ब्रह्माणं नमस्कृतवान्। ब्रह्मा प्रीत्या तस्य कपोलौ स्पृशन् “हे गणपते! भवान् सर्वेभ्यः प्रथमपूजां प्राप्नोतु’’ इति आशीर्वादं कृतवान्।

पश्चात् विघ्नेश्वरः लक्ष्मीं सरस्वतीं च नमस्कृतवान्। उभे अपि विघ्नेश्वरम् अंङ्के उपवेशितवत्यौ। तदा सरस्वती पार्वतीं दृष्ट्वा “पुत्रेण गणपतिना पूर्वम् एव उक्तम् अस्ति यत् वयं तिस्रः मातरः अपि सहोदर्यः एव इति। अनन्तरं वयं पार्थक्येन अवतारं ग्रहीतवत्यः। सागरात् लक्ष्मीः, ब्रह्मंणः जिह्वातः अहम्  , प्रथमदक्षतः सतीदेवीरूपेण भवती च अवतारं प्राप्तवत्यः। विद्यावतीनामिका बुद्धिः विघ्नेश्वरस्य पत्नी भविष्यति। इतःपरं अस्माभिः विघ्नेश्वरस्य विवाहवैभवं द्रष्टव्यम् अस्ति’’ इति उक्तवती।
 सरस्वत्याः वचनं श्रुत्वा लक्ष्मीः “लक्ष्मीकरे विघ्नेश्वरे ये विश्वसन्ति तेषु अहं स्थिरतया वासं करिष्यामि। या अग्रे विघ्नेश्वरस्य पत्नी भविष्यति सा सिद्धिस्वरूपिणी जयलक्ष्मीः मम अंशात् एव उद्भूता अस्ति’’ इति उक्तवती।
तदा सरस्वती - “विघ्नेश्वरः ज्ञानप्रदाता, विज्ञानदायकः चापि। अतः वर्णमालायाः अभ्यासात् पूर्वं बालानां द्वारा हरिद्रया पिण्डनिर्माणं कारणीयम्। तत् पिण्डम् विघ्नेश्वरं मत्वा पूजां कारयित्वा ‘ॐ नमः’ इति लेखनीयम्। मम अंशात् उद्भूता विद्यावती बुद्धिरूपिणी अस्ति। सा अपि विनायकस्य पत्नी भविष्यति’’ इति उक्तवती।
एतत् श्रुत्वा विघ्नेश्वरः मुग्धतां प्रदर्शयन् सर्वान् अवलोक्य – “भवन्तः पश्यन्तः सन्ति खलु ‘ज्येष्ठानां व्यवहारः कथम् अस्ति’ इति। विवाहं कृत्वा कष्टम् अनुभवन्त्यः एताः तादृशानि कष्टानि मया अपि अनुभवितव्यानि इति उद्देशेन मम विवाहविषये त्वरन्ते। मां सुखेन स्थातुं न त्यजन्ति एताः। पुत्राणां विवाहविषये मातृणां त्वरा तु किञ्चित् अधिका एव” इति उक्त्तवान्।
विघनेश्वरस्य वचनानि श्रुत्वा विष्णुः – “भो! वत्स। विषयः तथा नास्ति। अष्टैश्चर्यकारिकाः आणिमादयः अष्टसिद्धयः सुन्दरनक्षत्राणां रूपं धृत्वा पूर्णचन्द्रस्य सेवां यथा कुर्वत्यः सन्ति तथा भवतः अपि सेवां कुर्वन्तु इति अस्माकम् इच्छा। अचिरात् एव ताभिः सेव्यमानं भवन्तं द्रष्टुम् इच्छामः वयम्” इति उक्तवान्।
तदा विघ्नेश्वरः – “एवम्? तर्हि भवान् कृष्णावतारसमये अष्टमहिषीभिः सह कष्टं सहमानः आनन्दम् अनुभवतु कामम्” इति उक्त्तवान्।
तदा विष्णुः मन्दहासपूर्वकं – “भवता उक्त्तम् अवितथम् एव भविष्यति। किन्तु भवता तु दश वध्वः परिणेतव्याः भविष्यन्ति’’ इति उक्तवान्।





अहं विघ्नविनायक: अस्मि -10

तदा विघ्नेश्वर: गम्भीरस्वरेण – ‘‘शिवभक्तानाम् एतत् सम्मेलनम् एव विश्वम्। अहं तु विश्वजननीजनकयो: पार्वतीशङ्करयो: पुत्र: अस्मि। अत: अहं करौ योजयित्वा तौ नमस्करोमि आदौ’’ इति उक्त्वा शिवं पार्वतीं च भक्त्या नमस्कृतवान्।
ब्रह्मा अग्रे आगत्य अवदत् – “मत्स्यावतारं प्राप्य विष्णु: सोमकासुरस्य संहारं कृत्वा वेदानां रक्षणं कृतवान्। तदापूर्णचन्द्रकान्तिं प्रसारयन् विघ्नेश्वरः प्रकटीभूय तान् मदधीनान्  कृतवान्। ततः मया ज्ञानं प्राप्तम्। तदा एव मया विघ्नेश्वरस्य बहवः विशेषाः अवगताः। विघ्नेश्वरः सङ्कल्पसृष्टे: मूलम्। तं ध्यात्वा एव अहं सृष्टेः आरम्भं कृतवान्।
विघ्नेश्वरस्य विराट्स्वरूपम्। सः सर्वत्र व्याप्तः अस्ति। अतः सः ‘विष्णुः’ इति उच्यते। आकाशः, वायुः, अग्निः, जलं, पृथिवी इत्येतेषां पञ्चानां भूतानाम् अधिपतिः अस्ति सः। अतः सः ‘महागणपतिः’ इति उच्यते। विश्वरूपिणः विघ्नेश्वरस्य शरीरे लक्ष्मीः सरस्वती च विराजते। एतस्य श्वेतनील–रक्त–श्यमनील–हरित–श्वेत–शिरांसि पञ्चमहाभूतानां प्रतीकभूतानि सन्ति। गजस्य शिरः बलस्य मेधाशक्तेः च प्रतीकम्। मुखं गजस्य भवति चेत् न पर्याप्तं, तेनैव सह बौद्धिकसामर्थ्यम् अपि भवेत् इति अर्थं सूचयति एतत्। अनन्ते आकाशे नक्षत्रमण्डलानि, ग्रहाः, उपग्रहाः, च सन्ति इति लम्बोदरत्वं स्मारयति। एषः लघुमूषकम् आरुह्म भ्रमति। एतस्य अर्थः अस्ति यत् सूर्यचन्द्रग्रहादयः महामण्डलानि च शून्ये आकाशे अत्यन्तं कुशलतया सञ्चरणे समर्थाः सन्ति इति। विघ्नेश्वरस्य यात्रा अपि विचित्रा, वैज्ञानिकी च। विघ्नेश्वरः विश्वज्ञानस्य सङ्केतः अस्ति। अतः तं विज्ञानेश्वररूपेणापि अभिजानन्ति जनाः।
सः विश्वस्य अधिनेता, नियन्ता, अङ्कुशधारी च। विघ्नेश्वरः बुद्धिबलयोः प्रतीकम् अस्ति। येन हस्तिपकः गजं नियन्त्रयति तम् अङ्कुशं धृत्वान् अस्ति एषः गणेशः। अङ्कुशः मनोनिग्रहसाधनस्य प्रतीकम्। विघ्नेश्वरस्य हस्ते विद्यमानः पाशः सूचयति यत् सर्वे स्वकीयेन धर्मेण बद्धाः सन्ति इति। परिपूर्णता पूर्णरूपेण पूर्णः सागरः इव। अतः सः कलशधारणं कृतवान् अस्ति। परशुः विघ्नान् छिनत्ति। अतः एव तेन  परशुधारणं कुर्वता स्वस्य विघ्ननिवारणसामर्थ्यं निरूपितम् अस्ति विश्वः नदात्मकः अस्ति। ओङ्कारस्य झङ्करणे समर्थायाः विश्ववीणायाः तन्त्रीः स्पृशन् झङ्कारं कुर्वन् अस्ति विघ्नेश्वरः। कोटिशः चराचरप्राणिनां कष्टसुखानि श्रोतुम् एव तस्य कर्णौ विशालौ स्तः। गजस्य नेत्रे लघ्वाकारे भवत:|

किन्तु सूक्ष्मदर्शिनी भवतः। सर्वं स्पष्टतया द्रष्टुं सामर्थ्यं भवति तयोः। विघ्नेश्वरः आ परमाणुतः आब्रह्माण्डं परिशीलनं करोति। वक्रा शुण्डा वक्रतां निवारयति। शुण्डा दीर्घा भूत्वा सर्वं स्प्रष्टुं, सर्वेभ्यः दातुं  च शक्नोति। समस्तायाः सम्पदः अधिपतिः अस्ति विघ्नेश्वरः। सः भोजनप्रियः। आहारेण शरीरे बलं भवति। शरीरे पुष्टता भवति चेत् एव बुद्धिबलस्य सम्भवः। अतः विघ्नेश्वरः फलानि, पक्वान्नानि, शाकाहारं च सहर्षं स्वीकरोति। भाद्रपदमासे एषः गजसदृशमेघद्वारा शुण्डासदृशीं वर्षाधारां कारयति। मेघगणस्यापि नाथः अस्ति एषः गणनाथः। विघ्नेश्वरः भाद्रपदमासे एव अवतारं गृहीतवान्। यः भाद्रपदमासस्य शुक्लपक्षस्य चतुर्थ्यां विघ्नेश्वरस्य पूजां करोति तेन सङ्कल्पसिद्धिः प्राप्यते। विघ्नानां सम्मुखी करणार्थं शक्तिः मनोधैर्यं च तेन प्राप्यते।
पञ्चमवेदः इति प्रख्यातस्य महाभारतस्य लेखनं विघ्नेश्वरेण एव कृतम्। विघ्नेश्वरस्य महिमवर्णनं सुकरं न। यस्य कस्यापि कार्यस्य आरम्भकरणात् पूर्वं विघ्नेश्वरं ध्यात्वा पूजा क्रियते चेत् शुभं भवति इति जनानां विश्वासः। अतः एव विघ्नेश्वरस्य हस्तः सर्वदा अभयमुद्रायुक्तः दृश्यते। महागणाधिपतिः सर्वेषाम् आराध्यदैवम् अस्ति” एवम् उक्त्वा ब्रह्मा विघ्नेश्वरस्य वृत्तान्तं समापितवान्। तदा शिवः सर्वान् अवलोक्य – “ब्रह्मणः वचनं श्रुतुं किम्? प्रथमपूजार्थं योग्यः देवः विघ्नेशः एव इति अवगतं खलु?” इति उक्त्वान्।
 सर्वे अङ्गीकारपूर्वकं शिरः चालितवन्तः। नारदः स्वस्य वीणया हंसध्वनिरागं कृतवान्। सरस्वती हंसनन्दीरागस्य आलापनं कृतवती। यदा पार्वती विघ्नेश्वरं नमस्कर्तुम् उद्युक्ता तदा विश्वरूपः महागणाधिपतिः तां निवारयन् – “मातः, मास्तु मास्तु। एवं मा करोतु” इति उक्त्वा स्वस्य विश्वस्य विश्व्वरूपस्य उपसंहारं कृत्वा पूर्ववत् बालविनायकः भूत्वा मातुः चरणौ गृहीतवान्।
कैप्शन जोड़ें