Monday, 1 June 2015

प्रतिशोधः

एकस्‍य राज्ञः भोजनालये दासी च एका महानस्‍य सर्वम् कार्यजातम् सम्‍भालयति स्‍म। राजा मेषम् एकम् पालितवान्। राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म। अत एव सर्वतन्‍त्रस्वतन्‍त्रः अयम् मेषः भोजनालये हानिम् उत्‍पादयति। किम् करोतु सा दासी? कथम् राज्ञः कोपभाजनम् भवेत् सा। दासी मेषयः मध्‍ये द्वन्‍द्वम् एतत् नित्‍यम् प्रचलति स्‍म। भोजनालयस्‍य पृष्ठभागे फलवृक्षाणाम् उद्यानम् आसीत्। वानराः उद्याने अस्मिन् भ्रमन्ति स्‍म। यूथाधिपतिः वृद्धः वानरः दासीम् एषयोः मध्‍ये द्वन्‍द्वयुद्धम् एतत् नित्‍यम् पश्‍यति स्‍म।
सः स्‍वपरिवारस्‍य वानरान् एकत्रितान् कृत्‍वा अकथयत्- "मित्र तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्। अतः अस्‍माभिः अन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम्।"
वानराः प्रोचुः- "दासीमेषयोः संघर्षेण अस्‍माकम् किम् प्रयोजनम्?" यूथपतिः तस्‍मात् अन्‍यत्र गतवान् एकाकी च न्‍यवसत्।
एकदा मेषः अयम् बहुदिनानन्‍तरम् दैत्‍यः इव महानसे प्राविशत्। उत्‍पातम् कर्तुम् आरेभे। क्रोधावेशे दासी चुल्‍लीतः ज्‍वलद् उल्‍मुकम् निष्‍कास्‍य मेषस्‍य उपरि प्रचिक्षेप। ऊर्णरोमान्वितः अयम् मेष ज्‍वलितुम् लग्‍नः। दिङ्मूढः अयम् अश्‍वशालायाम् प्रविष्टः घासनिकरे। अश्‍वशालायाम् अग्निर्व्‍याप्‍तः। शतशः च अश्‍वाः मृताः च अन्‍ये दग्‍धदेहाः च इतस्ततः पलायितुम् लग्‍नाः दुष्टः मेषः च मृतः। काठिन्‍येन अग्निशमनम् कृतवन्‍तः राज्‍यकर्मचारिणः राजा अपि घटनास्‍थलम् आगतः।
अर्द्धदग्‍धानाम् अश्‍वानाम् दशाम् विलोक्‍य राजा कुशलान् अश्‍ववैद्यान् आकार्य अपृच्‍छत् मर्मज्ञा वैद्याः च अब्रुवन्। वानराणाम् वसामर्दनेन अश्‍वानाम् व्रणाः प्रपूर्यन्‍ते।
राज्ञाप्तम्- समीपस्थान् वानरान् गृहीत्‍वा नयन्‍तु तेषाम् वसाभिः अश्‍वानाम् उपचारः भविष्‍यति।
तत्रत्याः सर्वे वानराः समाप्ताः।
किञ्चित् कालानन्तरम् सः वृद्धः वानरः च इतस्ततः पर्यटन् तत्र सम्‍प्राप्तः। मनसि दुःखितः अयम् व्‍यचारयत् यत् अनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेदः कृतः। अहम् अपि अस्‍य परिजनानाम् समूलोच्छेदम् विधास्‍यामि। सः युक्तिम् एकाम् व्‍यचारयत्।
गहनाद् वनात् अपरिचितफलम् एकम् आनीय राज्ञः समक्षम् प्रास्‍तौत्। विनम्रस्‍वरेण आह- "अमरफलम् एकम् आनीतवान् अस्मि।"
राजा ब्रूते- "किम् रहस्‍यम् वर्तते च अमृतफलस्‍य।"
वृद्धवानरः प्राह- "अस्‍य भक्षणेन अमरत्‍वम् इति प्राणी। दुर्लभफलम् एतत् महता श्रमेण मया भवतः कृते समानीतम्।"
राजा प्राह- "यदि सत्‍यम् एतत् तर्हि मत्‍ समस्‍त परिवारस्‍य कृते च अमरफलानि आनयतु येन सर्वे अमराः भवेयुः।"
महतोत्‍साहेन वानरः प्रोवाच- "राजन्! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि। तानि फलानि प्राप्‍त्यर्थम् समुद्रयात्रा करणीया भवति। प्रलम्‍बा इयम् यात्रा! तस्मिन् द्वीपे वर्तते हि अमरफलानाम् वृक्षः। समस्‍ते च अन्‍तःपुरे वार्ता इयम् प्रभृता। वानरः राजानम् न्‍यवारयत् समुद्रयात्रार्थम्- "भवान् अत्र राज्‍यव्‍यवस्‍थाम् अपि सम्‍भालयिष्‍यन्ति।"
वानरस्‍य कथनम् विश्‍वस्‍तः सन् राजा एकाकी तत्रैव स्थितः। अन्‍ये परिजनाः समुद्रयात्रार्थम् निर्गताः। सहसा च एकदा तेषाम् जलयानम् झञ्झावातेन छिन्‍नभिन्‍नम् अभवत्। समस्‍तः राजपरिवारः समुद्रस्‍य अगाधे जले निमग्नः। राजा जलयानम् प्रतीक्षते परम् अनेके मासाः व्‍यतीताः।
एकदा राजा वानरम् पृष्टवान्- "वानर! जलयानम् अद्यावधिः कथम् न प्रतिनिवृत्तम्?"
वानरः झटिति प्रोवाच- "राजन्! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्यागमनस्‍य। एतत् सर्वम् तु मया प्रतिशोधार्थम् एव कृतम्। यथा अहम् एकाकी भ्रमन् अस्मि यूथेन विना तथैव भवान् अपि एकाकी भ्रमतु। ध्‍यानपूर्वकम् सर्वे अशृण्‍वन् राजा किम् कर्तव्‍यविमूढः जातः। भयंकर प्रतिशोधस्य अयम् परिणामः। मित्र! तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्।

Tuesday, 12 May 2015

रंगितः तथा तिस्ता

पुरा हिमालयस्य शिखरे एकः देवः तथा एका देवी न्यवसत्। देवस्य नाम रंगितः तथा देव्याः नाम आसीत् तिस्ता। तौ परस्परम् स्नेहेन न्यवसताम् तयोः मध्ये एकम् विशालम् पाषाणखण्डम् आसीत् येन तौ मिलितुम् अशक्तौ। केवलम् वार्तालापेन एव कालम् अत्यवाहयताम्। तौ व्यचारयताम् कदा आगमिष्यति सः शुभदिवसः, यदा आवाम् एकीभवावः। रंगितः प्रोवाच- "इत्थम् तु अस्माकम् जीवनम् एव समाप्तम् भविष्यति। सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः।"
एकदा तिस्ता रंगितम् प्राह – "आवाम् अधस्तात् गत्वा मिलिष्यावः।
रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति- "चल तत्र मिलिष्याव। आवाम् धावावः, परम् आवाम् अधः भागे कथम् धावावः?"
रंगितः प्रोवाच- "आवाम् एकैकम् पथप्रदर्शकम् नेष्यामः अहम् सर्पराजम् सम्प्रार्थयामि त्वम् तु पक्षिराजम्।" द्वौ एव तथैव अकुरुताम्।
सर्पराजः तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन् अयम् नियतः स्थानम् प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम् एव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः।
रंगितः पक्षिराजम् ब्रूते- "भवान् जानाति यत् आवाम् प्रतियोगितायाम् भागम् गृहीष्यावः।यदि भवान् इत्थम् एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि।"
पक्षिराट् अवदत्- "अहम् बुभुक्षितः अस्मि। उदरे भरिते सति गन्तुम् शक्नोमि!" पक्षिराड् मार्गम् अपि न वेत्ति स्म।
किञ्चित् कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श। तिस्ता रंगितम् प्रतीक्षते स्म। रंगितः तु पराजितः जातः अस्ति। क्रोधाविष्टः अयम् विनाशस्य लीलाम् अकरोत्। सर्वतः हाहाकारः समजनि।
तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह- "क्रोधम् मा कुरुत, पक्षिराजस्य कारणात् विलम्बः जातः। शीघ्रम् आगच्छतु भवान्! माम् आलिंगतु।"
तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः अभवत्। यस्मिन् स्थाने तयोः मिलनम् अभूत् तस्मिन् स्थाने सम्प्रति अपि प्रतिवर्षम् मेलापकः लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति।

कूष्माण्डफलम्

सांयकालः आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत्। सुतायाः नाम आसीत्- ताइरा। मार्गेण प्रलम्बायाम् एकस्याम् लतायाम् कूष्माण्डफलम् अवलम्बितम् आसीत्। फलम् विलोक्य सुता तत् ग्रहीतुम् आग्रहम् अकरोत्।
जननी प्रोवाच– "वन्यकूष्माण्डफलम् एतत्। किम् अनेन करिष्यसि?"
"न अहम् एतत् नेष्यामि।" सुता पितरम् प्रोवाच!
पिता तस्याः आग्रहम् निभाल्य सुतया सह कूष्माण्डलतासमीपम् प्राप कर्तनिकया तत् फलम् विच्छेद। फूराइरा कूष्माण्डफलम् उत्थापयितुम् ऐच्छत् किन्तु तत् फलम् स्वयम् एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे। पिता आश्चर्यचकितः सञ्जातः।
कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित् कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद् अहम् मांसम् खादिष्यामि!" इति कथयित्वा तत् सुतायाम् आक्रमणम् कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा।पिता व्यचारयत्- "नूनम् एषः कोऽपि दैत्यः।"
सः सुताम् प्रोवाच- "भो फूराइरे! त्वम् धावन्ती अजागोष्ठम् प्रविश येन कूष्माण्डफलम् अपि तत्र प्रवेक्ष्यति। कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम् एकाम् न्यगिरत्। एतत् निभाल्य फूराइरा स्वगृहम् प्रत्यधावत्।
कूष्माण्डफलम् अपि ताम् अनुचचाल प्रोवाच च– "मांसम् भक्षयितुम् इच्छामि।"
पिता प्रोवाच- "फूराइरे!  धावित्वा पशुगोष्ठम् प्रविश।" कूष्माण्डफलम् अपि तदनु चचाल। गाम् एकाम् न्यगिरत् विशालरूपम् च दधौ। फूराइरा स्वगृहम् आगच्छत्। कूष्माण्डफलम् अपि प्रोवाच- "मह्यम् भोजनम् प्रयच्छ।"
तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः च आसन्। पिता स्वसुताम् प्राह- "क्रमेलकपार्श्वम् गच्छ कूष्माण्डफलम् क्रमेलकम् अपि न्यगिरत्। किञ्चित् क्षणानन्तरम् बुभुक्षितम् एतत् सुताम् एव खादितुम् ऐच्छत्।
एतद् वीक्ष्य क्रोधान्वितः पिता तस्य उपरि पादप्रहारम् अकरोत्। पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम्। स्फुटितमात्रम् एव तस्मात् निर्गता गौः, अजा , क्रमेलकः जीवितदशायाम् एव।
एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम् अकुर्वन्। यत् कूष्माण्डफलम् सर्वान् खादितुम् ऐच्छत् तत् क्षणेन भस्मसात् अभवत्।

जीवनस्य सार्थकता

पुरा एकस्मिन् ग्रामे अजापालकः च एकः न्यवसत्। एका अजा पुत्रजनानन्तरम् मृता। स तम् अजासुतम् पालयत् प्रेम्णा। शनैः शनैः सुतः च अयम् मेषरूपे  परिणतः।
एकदा अजापालकः व्यचारयत् कथम् न मेषम् हत्वा खादामि? अजापालकः च एकदा प्रातः उत्थाय कृपाणम् आकृष्य अजासमीपम् आगच्छत्।
कृपाणहस्तम् अजापालकम् विलोक्य मेषः व्यचारयत् किम् अयम् माम् हन्तुम् समुद्यतः? स्वमृत्युम् निकटम् वीक्ष्य मेष समृद्विग्नः सञ्जातः। अजापालकः मेषम् हन्तुम् इच्छति सम्प्रति एव किन्तु तेन विचारितम्- अद्य एकादशीव्रतम् वर्तते।
अद्य मांसम् अपि विक्रेतुम् न शक्यते। अद्य न हनिष्यामि मेषम्। इति विचार्य विरराम् अयम् अजापालकः।
एकदा पुनः च अजापालकः मेषम् हन्तुम् इयेष परम् केनापि छिक्का कृता। तस्य मनसि शंका समुत्पन्ना। तस्मिन् दिने अपि मेषस्य वधम् न कृतवान् अयम्। चिन्तया प्रत्यहम् दुर्बलः सञ्जातः मेषः। न सःघासम् चरति, न प्रसन्नेन चेतसा जलम् पिबति। सः अजाबन्धनस्थले सर्वदा चिन्तितः तिष्ठति।
तस्य तादृशीम् दुर्दशाम् वीक्ष्य काननस्थः कोऽपि शशकः तच्छमीपम् आगत्य प्रणमन् प्रोवाच- "भ्रातः!  किमर्थम् व्याकुलः असि? " मेषः पूर्वम् तु न किमपि अवदत् परम् शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वम् वृत्तान्तम्- "अजापतिः मा हन्तुम् इच्छति, तेन अहम् समुद्विग्नः अस्मि। न भोजनम् मे रोचते, न निद्रा, कथम् शेषम् जीवनम् यापय इयम् शीघ्रम् एव मरणम् स्यात् तर्हि वरम्।"
मेषवचनम् श्रुत्वा शशकः प्राह- "मित्र!  चिन्ताम् मा कुरु। उपायम् एकम् कथयामि। येन त्वम् सुखेन जीवनम् यापयिष्यसि। अजापालकः त्वया सह प्रेम्णा व्यवहरिष्यति।"
शशकवचनम् श्रुत्वा पुर्वन्तु मेषः  न विश्वसिति किञ्चित् क्षणानन्तरम् मेषः प्रोवाच- "मित्र!  यदि एवम् भवेत् तर्हि जीवनपर्यन्तम् तव उपकारम्  न विस्मरिष्यामि। उपायम् शीघ्रम् एव कथय, न जाने कदा माम् मारयेत् मम पालकः।"
शशकः च उपायम् कथयन् आस्ते- "मित्र!  अद्य रात्रौ द्वादशवादने त्वम् उच्चैः मैम्, मैम्, शब्दम् कुरु, येन अजापतिः विनिद्रितः स्यात् कृतेन अनेन अनुष्ठानेन अजापतिः त्वाम् पुत्रवत् प्रेम्णा पालयिष्यति।
सूर्यास्तः सञ्जातः। मेषः च अन्तर्मनसि शुशोच कदाचिद् शशकः माम् छलयेत? यद् अहम् रात्रौ स्वामिनम् विनिद्रितम् करिष्यामि तर्हि सः मम+उपरि भृशम् कुपितः भविष्यति। किञ्चित् कालानन्तरम् तेन विचारितम् मम मरणम् तु निश्चितम् एव वर्तते, कथम् न अद्य शशकस्य उपायम् करवाणि।
स मध्यरात्रौ मैम्-मैम् चीत्कुर्वन् आस्ते अजापालः तस्य शब्दम् श्रुत्वा यावद् विनिद्रितः सञ्जातः तावत् पश्यति चौराः तत्कक्षे प्रविष्टाः सन्ति। तम् समुत्थितम् वीक्ष्य चौराः पलायिताः।
मेषकृतम् उपकारम् स्मरन् अयम् नितराम् प्रहृष्टः सञ्जातः। तस्य वधस्य विचारः तेन परित्यक्तः। अधुना सः पुत्रवत् तम् पालयति। किञ्चित् दिनानन्तरम् मेषः शशकम् प्रणमत् प्राह- "भ्रातः! त्वया मम प्राणाः रक्षिताः!" शशकः प्रोवाच- "परेषाम् प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते।"
मेषः प्रतिजज्ञे- "अहम् अपि स्वजीवनम् सार्थकम् करिष्यामि परेषाम् उपकारेण।

वेणुवादकः राजपुत्रः

बहूनि दिनानि व्यतीतानि, सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। तस्य द्वौ पुत्रौ च आस्ताम्, ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते। ज्येष्ठराजपुत्रः सरलः दयालुः च वर्तते परम् कनिष्ठः क्रूरः स्वार्थी च।
एकदा राजा रुग्णः जातः। अपरराज्यात् अपि वैद्याः समाकारिताः परम् राजा स्वस्थः न अभवत्। राज्ञः अंगानि प्रत्यहम् क्षीयन्ते।
एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारम् अशृणोत्। बौद्धभिक्षुः राजानम् द्रष्टुम् इच्छति। दर्शनसमकालम् एव बौद्धभिक्षुः प्रोवाच- "यदि राज्ञः मस्तके “नारेबुहीरकम्” स्थाप्येत तर्हि राजा नीरोगः भविष्यति।"
चेसप्पा बौद्धभिक्षुम् अपृच्छत्- "कुतः प्राप्यते हीरकम् एतत्?"
"हीरकम् इदम् समुद्रे मिलति, एतदर्थम् भवता समुद्रयात्रा करणीया!" इति उक्त्वा बौद्धभिक्षुः राजप्रासादात् विनिर्गतः। चेसप्पा स्वपित्रे अधिकम् अस्निह्यत्। सः शीघ्रम् आदिष्टवान् यात्रार्थम् भृत्यान् भटान्। चेमीसम्पा अपि गन्तुम् इच्छति स्म परम् ज्येष्ठभ्राता ब्रूते- "आवयोः एकेन अत्र भवितव्यम्। अतः त्वम् अत्रैव तिष्ठ।"
परम् चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायाम् विनिर्गतः। प्रलम्बम् मार्गम् अतिक्रम्य तौ समुद्र तटम् प्रापतुः। चेप्सा समुद्राम्भसि प्रविष्टः तस्मात् हीरकम् अन्विष्य बहिः आगच्छति। चेमीसप्पा ज्येष्ठभ्रातुः हस्ते हीरकम् विलोक्य हीरकम् हस्तगतम् कर्तुम्+इच्छति। तत्रैव तयोः द्वन्द्वयुद्धम् अभवत्।
अन्ते चेमीसप्पा चेसप्पाम् हत्वा हीरकम् आच्छिद्य राजप्रासादम् प्रति आजगाम। चेमीसप्पा विजयीयोद्धा इव राजप्रासादम् आगत्य हीरकम् राज्ञः मस्तके न्यस्तवान्। तेन तत्कालम् एव राजा संज्ञावान् सञ्जातः। राजा चेसप्पा समाचारम् अपृच्छत्।
चेमीसप्पा प्रोवाच- "मार्गे सः दस्युभिः हतः। महता काठिन्येन अहम् हीरकम् आनेतुम् समर्थः अभवम्। चेसप्पा मृत्योः समाचारम् श्रुत्वा राजा विषण्णः सञ्जातः। भाग्ये विधात्रा यत् लिखितम् तत् मार्जितुम् कः क्षमः।
इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः। उत्थितुम् अपि च अक्षमः अयम् अजापालकैः समुत्थापितः। तस्य दुर्दशाम् वीक्ष्य ते अपि वृत्तान्तम् अपृच्छन् परम् चेसप्पा “सर्वम् भाग्याधीनम् वर्तते ” इति कथयामास। प्रजापालकाः चेसप्पाम्  स्वगृहम् अनयन्। व्रणानाम् उपचारपूर्वकम् दुग्धम् अपाययन्।
कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः। सः  तैः सह अजाः चारयितुम् अगच्छत्। अजापालकाः वेणुवादनम् अकुर्वन् वने। चेसप्पा तेभ्यः वेणुवादनम् अशिक्षयत्। शनैः शनैः सः वेणुवादने प्रवीणः सञ्जातः। सम्प्रति चेसप्पा गृहम् गन्तुम् इच्छति।
भगवतः लीला विचित्रा वर्तते। अजापालकाः भगवन्तम् सम्प्रार्थयन् यत् अयम् सकुशलम् स्वगृहम् प्राप्नोतु। अन्धः अयम् चेसप्पा मार्गे वेणुवादनम् कुर्वन् प्रयाति। जनाः तस्मै भोजनम् प्रयच्छन्ति।
एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपम् वेणुवादनम् अकरोत्! वेणुवादने समाकर्षिता राजपुत्री वेणुवादकम् आकारितवती। सायम् राजपुत्र्याः स्वयंवरः आसीत्। सा तम् वेणुवादकम् एव स्वपतिम् वरयामास।
राजा घटनाम् इमाम् स्वापमानम् मत्वा स्वपुत्रीम् राजप्रासादात् निष्कासयामास। राजकुमारी वेणुवादकेन सह काननम् प्रति विनिर्गता। तौ द्वौ एव परिश्रान्तौ वृक्षस्य अधः समुपविष्टौ। चेसप्पा मनसि व्यचारयत्- एकदा मम पित्रा प्रतिज्ञातम् आसीत् अनया राजपुत्र्या सह एव तव विवाहः भविता, किम् इयम् सा एव राजपुत्री वर्तते। द्रष्टुम् अपि न शक्नोमि। यदि मत्पित्रा इयम् एव मदर्थे निर्वाचिता तर्हि भगवन्तम् प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु।  तत्कालम् एव तस्य नेत्रे ज्योतिः प्रादुर्भूता। राजकुमारी तथैव भगवन्तम् प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रे अपि ज्योतिः उद्गता। द्वौ एव तौ परम् तुष्टौ सञ्जातौ।
सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादम् प्राप। राजा अपि तत्कृतम् विलोक्य प्रसन्नः जातः। चेसप्पा तस्मात् राजप्रासादात् स्वपितरम् विस्तरेण पत्रम् एकम् लिलेख। पत्रे स्वगृहागमनस्य समाचारम् अपि लिलेख। यदा राजा चेमीसप्पाकृतम् समाचारम् पठति तदा तत्कृते मृत्युदण्डस्य घोषणाम् अकारयत्।
किञ्चित् कालानन्तरम् चेसप्पा स्वपत्नीम् आदाय पितुः राजप्रासादम् आजगाम। स्वकनिष्ठभ्रातुः अपराधम् क्षमयितुम् अकथयत् पितरम्। चेमीसप्पा कुत्रचित् निलीय सर्वम् अशृणोत्। लज्जया सः राज्याद् बहिः निर्जगाम। राजा वृद्धः सञ्जातः। सम्प्रति सर्वम् राज्यकार्यम् चेसप्पा सम्भ्रालयति। तस्य राज्ये प्रजाः सुखेन स्वकालम् अयापयत्। तस्य राज्ये सर्वे सुखिनः च आसन्।

पशुपक्षिणाम् भाषा

अफ्रीकादेशे पुरा भाग्यहीनः च एकः जनः न्यवसत्। तस्य अभिधानम् आसीत् ओहिया। तस्य पत्नी अरीवेहू नाम्नी अवर्तत। सः क्षेत्रे बीजानि अवपत् परम् फलानि न अलगन्। तौ बुभुक्षितौ च आस्ताम्।
अरीवेहू स्वपतिम् उवाच- "त्वम् नदीपारम् गच्छ, भूस्वामिनम् सम्प्रार्थय यत् स तालवृक्षान् उच्छेत्तुम् आदिशतु येन आवाम् सुराम् विक्रीय लाभभाजौ भवावः।"
भूस्वामी आयस्य अर्धम् प्रदातुम् आदिशत्। ओहिया श्रमेण वृक्षेषु रन्ध्रम् विधाय रसनिष्पत्तये घटानि वबन्ध। यावत् प्रातः पश्यति तावत् वृक्षेषु सर्वाणि घटानि स्फुटितानि आसन्। सः व्यचारयत्- "कथम् भग्नानि घटानि?"
अरीबेहू प्रोवाच- "तालरसः भूमौ न पतितः, नूनम् कोऽपि चौरः रसम् चोरयति।"
ओहिया व्यचारयत्- "अहम् रात्रौ निरीक्षणम् करिष्यामि!" रात्रौ सः निकटे एव निकुञ्जे निलीय उपाविशत्। रात्रौ तृतीये प्रहरे हरिणः च एकः समागतः, सः घटेभ्यः रसम् स्वघटे निक्षिप्य घटानि स्फोटयति। ओहिया हरिणम् निग्रहीतुम् जवेन प्रधावन् पर्वतस्य आधित्यकायाम् प्राप। तेन आधित्यकायाम् दृष्टम् यत् वन्यपशुभिः आवृतः चित्रकः च एकः समुपविष्टःआस्ते। हरिणः ित्रकस्य चरणयोः पतति।
तत्र गत्वा ओहिया प्रोवाच- "हरिणः च अयम् चौरः, भाग्यहीनस्य तालरसम् चोरयति।"
चित्रकः प्राह- "दोषः तु हरिणस्य वर्तते। मया तु तालसुराम् आनेतुम् अयम् प्रेषितः, अयम् तव घटेभ्य रसम् आनीतवान्। यत् जातम् तत् जातम्। अस्मत्प्रतापेन त्वम् पशुपक्षिणाम् भाषाम् ज्ञास्यसि। रहस्यम् एतत् न आख्येयम् कस्मैचित्, नो चेत् तत्रैव तव मृत्युः भविता। ओहिया तस्मात् परावृतः।
बहूनि दिनानि व्यतीतानि । एकदा सः नद्याम् स्नानम् अकरोत्। तत्रैव तटस्था कुक्कुटी स्वशावकान् अकथयत्। पश्यत, मूर्खः अयम् जनः नद्याम् स्नाति, न जानाति अयम् यत् अस्य गृहस्य पृष्ठभागे हीरकपरिपूर्णानि त्रीणि घटानि वर्तन्ते। ओहिया स्वगृहम् प्रत्यागतः। स्वगृहपृष्ठे गर्तम् अखनत्। हीरकाणि नीत्वा गृहम् आगतः।
पशुभाषाज्ञानस्य रहस्यम् पत्नीम् अपि न अबोधयत्। ओहिया धनी सञ्जातः। सुसम्पन्नम् तस्य गृहम्। ओहिया अपरम् अपि विवाहमकरोत्। तस्य द्वितीया पत्नी सुन्दरी तु आसीत् परम् स्वभावेन च अतिक्रूरा।
एकदा विचारमग्नः ओहिया महानसे प्रथमभार्यया सह मूषकान् विलोक्य जहास। मूषकाः च अकथयन् अद्य महानसम् प्रविश्य यथेच्छम् शाकफलम् खादामः। स्वपतिम् हसन्तम् विलोक्य क्रूरा पत्नी प्रोवाच- "कथम् हसति? ज्ञातुम् इच्छामि अहम्।" ओहिया मनसि प्रहसन् किमपि न अवदत्। क्रूरा पत्नी तत्चेष्टितम् सर्वम् राज्ञे न्यवेदयत्। राजा ओहियाम् आकार्य च अज्ञापयत् सर्वम् सत्यम् सत्यम् वद नो चेत् दण्डभाक् भविष्यति।
ओहिया सर्वान् भोजनाय स्वगृहम् आमन्त्रयत्। भोजनानन्तरम् ओहिया स्वकथाम् अश्रावयत्। तत् क्षणम् एव मूर्छितः भूमौ न्यपतत् प्राणरहितः च सञ्जातः जनाः क्रूराम् पत्नीम् भर्त्सयन्तः च आसन्। तत्चेष्टितम् विलोक्य सर्वे क्रूराम् पत्नीम् हतवन्त। तस्य मृतशरीरम् ग्रामाद् बहिः भस्मसात् चक्रुः। यत्र यत्र तच्चिताभस्म उड्डीय गतम् तत्र घृणा, विद्वेषः, रोगः शोकः प्रासरत्। जनानाम् कथनम् अस्ति यत् इतः पूर्वम् संसारे न आसीत् घृणा, विद्वेषः रोगः शोकः च।

बालकः कृषकः नृपतिः च

एकस्मिन् ग्रामे बालकः च एकः न्यवसत्। तस्य पितरौ निर्धनौ वृद्धौ च आस्ताम्। दैन्येन तौ बालकम् पाठयितुम् अपि न शेकतुः। पितरौ गृहे एव कथाः श्रावयतः, येन अयम् बालकः निर्भीकः साहसिकः च सञ्जातः। एकदा बालकः प्रोवाच- "अहम् नगरम् प्रति गत्वा किमपि कार्यम् करिष्यामि, भवन्तौ वृद्धौ सञ्जातौ स्तः। मदीयम् अपि किमपि कर्तव्यम् भवति।"
पिता प्रोवाच- "नगरम्  गत्वा किम् करिष्यसि? अपठितः नगरे किम् कार्यम्+ करिष्यसि। राजप्रासादे अपि पठिता एव कार्यम् लभन्ते।"
बालकः प्रोवाच- "न अहम् शिक्षितः परम् मत्पार्श्वे वर्तन्ते गुणाः। अहम् अपि अर्जयित्वा समागमिष्यामि।" इति उक्त्वा बालकः नगरम् प्रति निर्गतः। मार्गे बालकेन दृष्टम् यत् कृषकः कोऽपि क्षेत्रे हलम् नीत्वा रोदिति। बालकः प्रोवाच- "कथम् तूष्णीम् तिष्ठसि भ्रातः!"
कृषकः प्राह- "राज्ञः सैनिकाः मद्वृषभौ आच्छिद्य नीतवन्तः।"
बालकः प्रोवाच- "किमर्थम्?"
कृषकः प्रोवाच- "दैन्येन मया राज्ञः करः न प्रदत्तः।"
बालकः प्राह- +चिन्ताम् मा कुरु, अहम् आनयामि तव वृषभौ। त्वम् सुखेन गृहम् गच्छ, अहम् आगच्छामि तव गृहम्।" इत्युक्त्वा बालकः च अग्रे प्रचलितः। मार्गे सिंहः मिलितः। निर्भयम् बालकम् विलोक्य सिंहः निजगाद- "भो भ्रातः! कुत्र गच्छसि एकाकी?" बालकः सर्वाम् कथाम् व्यथाम् कथयामास।
सिंहः प्रोवाच- "माम् अपि नय, तव  साहाय्यम् विधास्यामि।" बालकः सिंहम् स्ववामकर्णे स्थापितवान् प्रचलितः च तस्मात्। मार्गे व्याघ्रः च एकः अमिलत्।
सः अपि बालकम् अपृच्छत्- "भ्रातः !  कुत्र गच्छसि त्वम्? " बालकः सर्वाम् घटनाम् अश्रावयत्। व्याघ्रम् अपि स्वदक्षिणकर्णे स्थापयति, अग्रे च प्राचलत्। मार्गे च एकः अस्मिन् स्थाने अग्निः च अन्यस्मिन् स्थाने जलम् अमिलत्। तौ अपि बालकेन सह गन्तुम् समुत्सुकौ च आस्ताम्। बालकः च अग्निम् वामनासिकायाम् तथा जलम् दक्षिणनासिकायाम् अस्थापयेत्।
सायंकाले बालकः राजप्रासादम् प्रविवेश प्रोवाच च- "शीघ्रम् एव तस्य कृषकस्य वृषभौ प्रयच्छ।" क्रुद्धः नृपतिः बालकम् गौशालायाम् निक्षेप्तुम् आदिदेश। रक्षकाः तथैव अकुर्वन्।
किञ्चित् कालानन्तरम् गौशालायाम् स्थितिः विस्फोटका सञ्जाता। सिंहः बालकस्य वामकर्णान् निर्गत्य गौशालायाम् भ्रमितुम् लग्नः। समाचारम् श्रुत्वा नृपतिः क्रोधान्वितः सन् प्रोवाच- "बालकम् अजाशालायाम् निक्षिपन्तु।" तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः। व्याघ्रः अजा एडकान् च खादितुम् आरेभे।
राजा अपि घटनया अनया चकितः सञ्जातः, आदिदेश च यत् कारागारे क्षिपन्तु बालकम्। बालकः कारागारे प्रक्षिप्तः, किन्तु तत्र वामनासिकातः च अग्निः निसृत्य राजप्रासादे प्रसृतः। एतद् वीक्ष्य राजा बालकपार्श्वम् आगत्य क्षमायाचनम् अकरोत्। तत्क्षणम् एव बालकस्य दक्षिणनासिकातः जलम् ववर्ष, तेन राजप्रासादस्य अग्निः शान्तः अभवत्।
राजा प्रोवाच- "अद्य प्रभृति त्वम् मम प्रधानमंत्री अस्ति।"
बालकः प्राह- "प्रथमम् वृषभौ प्रयच्छ तस्य कृषकस्य।" बालकः वृषभौ नीत्वा कृषकस्य गृहम् प्राप। वृषभौ दृष्ट्वा कृषकः भृशम् प्रहर्षितः- "अहम् तव किम् प्रत्युपकारम् कर्तुम् शक्नोमि?"
बालकः प्राह- "अहम् राज्ञः सेवकः भवितुम् गृहात् निर्गतः किन्तु न अहम् तस्य अधमस्य सेवाम् कर्तुम् इच्छामि।"
कृषकः प्राह- "मया सह कृषिम् कुरु। आवाम् मिलित्वा पुष्कलम् धनम् अर्जयिष्याव। श्रमेण वसुन्धरा इयम् सर्वान् संभरति, प्रचुरम् अन्नम् च प्रयच्छति।" तौ सुखेन कृषिकार्यम् अकुरुताम् ।