Friday, 24 July 2015

'आ'काराः सुभाषिताः

आन्द्रेन्धनमप्यनले शुष्कं पूर्वं ततो ज्वलति एवं सज्जन सविधे पूर्वं लोभार्द्रता विशुष्य ततः । विषयाभिग्रस्तानां अन्तस्था कामरोष सहिता या ज्वलति च विवेकवह्नौ साऽपी ज्वलति प्रकृष्ट सुखमन्ते ॥ Even when the fuel is wet, it will dry as soon as you put in fire and get burnt as it is meant to. Kinship with virtuous people is also like that. Even when people are drenched(wet) with greed, they will lose their lust and anger in the fire of knowledge. Along with that they will lose their greed also and find happiness.

Tuesday, 14 July 2015

नागपञ्चमी (विशेषः)

सनातन-आर्यभारतीय-महर्षिणां सम्प्रदाये विद्यमानेषु पर्वसु नागपञ्चम्या अपि मुख्यं स्थानं प्राप्तमस्ति । एकदेवोपासकाः अपि कुत्रचित् काम्यव्रतरूपेण आचरन्ति नागपञ्चमीम् । सर्पाः अस्मान् न दशन्तु, विषबाधा परिहृता भवतु, सन्तानप्राप्तिः धनप्राप्तिः च भवतु, चर्मरोगनिवृत्तिः भवतु, स्वर्गप्राप्तिः भवतु इत्यादिभिः कामनाभिः एतत् पर्व आचरन्ति । श्रावणमासः पर्वणाम् एव मासः । तत्र आरम्भे एव भवति नागपञ्चमी । श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यते इदं पर्व ।
श्रावणे मासि पञ्चम्यां शुक्लपक्षे तु पार्वती ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥
सा तु पुण्यतमा प्रोक्ता देवानामपि दुर्लभा ।
कुर्याद्द्वादशवर्षाणि पञ्चम्यां स वरानने ॥
नागपञ्चमीदिने पूज्यमानं नागशिल्पम्
सर्पः
इति भविष्योत्तरपुराणे ३६तमे अध्याये अस्य पर्वणः उल्लेखः कृतः अस्ति । आश्वलायन-परस्कर-गृह्यसूत्रानुसारं “सर्पबलिः” इति कर्म आचर्यते एतद्दिने एव । भारतस्य विभिन्नेषु भागेषु एतस्य पर्वणः आचरणे भेदाः सन्ति चेदपि सर्वत्र पूज्यमाना देवता तु नागदेवता एव ।

दक्षिणभारते तु व्रतम् आचर्यमाणाः तण्डुलपिष्टेन एकां प्रेङ्खां वा पात्रं वा निर्माय तत्र पिष्टनिर्मितम् एकं बृहत् एकं लघु च नागदेवताविग्रहं स्थापयन्ति । तयोः विग्रहयोः एव पूजा भवति तद्दिने । पूजायां तालपुष्पस्य उपयोगं विशेषतया कुर्वन्ति । वल्मीकमृत्तिकायाः पूजाम् अपि कुर्वन्ति । नैवेद्यरूपेण दुग्धं, तण्डुलपिष्टेन निर्मितं मधुरं, लाजाः, कलायः, माषापूपः, मधुरापूपः वा समर्प्यते । नागशिलाः यत्र सन्ति तत्र गत्वा तासां शिलानां क्षीराभिषेकः क्रियते । स्वर्ण-रजत-मृत्तिकानिर्मितानां वा विग्रहाणां पूजा क्रियते । विशेषतया तद्दिने लवणरहितान् एव पदार्थान् नैवेद्यरूपेण समर्पयन्ति । गृहस्य मुख्यद्वारस्य उभयोः पार्श्वयोः अपि गोमयेन नागचित्रं लिखित्वा दधि-दूर्वा-कुश-चन्दन-पुष्पैः पूजां कुर्वन्ति । अस्मिन् पर्वणि विशेषतया भ्रातरः विवाहिताः भगिनीः गृहम् आहूय सत्कारं कुर्वन्ति । तद्दिने पूज्यमानाः अष्टनागाः ।
वासुकिः तक्षकश्चैव कालियो मणिभद्रकः ।
ऎरावतो धृतराष्ट्रः कार्कोटकधनञ्जयौ ॥
एतेऽभयं प्रयच्छन्ति प्राणिनां प्राणजीविनाम् ॥ (भविष्योत्तरपुराणम् – ३२-२-७)
व्रतम् आचर्यमाणाः चतुर्थ्याम् एकभुक्तिम् आचरन्ति । पञ्चम्यां दिनपूर्णम् उपवासं स्थित्वा पूजादिकं समाप्य रात्रौ भोजनं कुर्वन्ति ।
कुत्रचित् नागाः भिन्नाः सर्पाः भिन्नाः इति उल्लेखः दृश्यते ।
१. भगवद्गीतायां श्रीकृष्णः वदति – “सर्पाणां वासुकिश्चास्मि अनन्ताश्चास्मि नागानाम्” इति ।
२. श्रीधरीये उक्तम् अस्ति – “विषयुक्ताः सर्पाः विषरहिताश्च नागाः” इति ।
३. (निघण्टु १९-५३) “फणिनो धवळाङ्गा ये ते नागा इति किर्तिताः । अन्ये रक्तादिवर्णाद्यैः बोध्याः सर्पादिनामभिः” इति ।
४.(रा.मा. ३-१४-३०) “सुरसाऽजनयन्नागान् राम कद्रूस्तु पन्नगान्” इति ।
५. महातले वसन्तः तक्षकादयः सर्पाः, पातालवासिनः वासुक्यादयः नागाः इत्यपि उच्यते – “अधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादिप्रधानाः महाभोगवन्तः ।
अधस्तात्पाताले नागलोकपतयः वासुकिप्रमुखाः शङ्ख-कुलिक-महाशम्ब-धनञ्जय-ध्रुतराष्ट्र-शम्बचूड-कम्बलाश्चतर-देवदत्तादयो महाभोगिनः ।”(भाग – ५-२४)
६. एकफणायुक्तः सर्पः, अनेकफणयुक्तः नागः इति उक्तम् अस्ति गीताभाष्ये श्रीरामानुजाचार्यैः रामायणव्याख्याने श्रीतीर्थैः च ।
७. “वस्तुतस्तु सर्पसंज्ञा सर्वेषामपि गोनसाजगरादीनामपि सामान्या, यथा चतुष्पदां पशुसंज्ञा । नागसंज्ञा च सटादिमतां सिंहसंज्ञेव सफणानां पद्माद्यङ्कितानां च विशिष्टा ॥“ इति अविगीतायाम् उक्तम् अस्ति

Monday, 1 June 2015

प्रतिशोधः

एकस्‍य राज्ञः भोजनालये दासी च एका महानस्‍य सर्वम् कार्यजातम् सम्‍भालयति स्‍म। राजा मेषम् एकम् पालितवान्। राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म। अत एव सर्वतन्‍त्रस्वतन्‍त्रः अयम् मेषः भोजनालये हानिम् उत्‍पादयति। किम् करोतु सा दासी? कथम् राज्ञः कोपभाजनम् भवेत् सा। दासी मेषयः मध्‍ये द्वन्‍द्वम् एतत् नित्‍यम् प्रचलति स्‍म। भोजनालयस्‍य पृष्ठभागे फलवृक्षाणाम् उद्यानम् आसीत्। वानराः उद्याने अस्मिन् भ्रमन्ति स्‍म। यूथाधिपतिः वृद्धः वानरः दासीम् एषयोः मध्‍ये द्वन्‍द्वयुद्धम् एतत् नित्‍यम् पश्‍यति स्‍म।
सः स्‍वपरिवारस्‍य वानरान् एकत्रितान् कृत्‍वा अकथयत्- "मित्र तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्। अतः अस्‍माभिः अन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम्।"
वानराः प्रोचुः- "दासीमेषयोः संघर्षेण अस्‍माकम् किम् प्रयोजनम्?" यूथपतिः तस्‍मात् अन्‍यत्र गतवान् एकाकी च न्‍यवसत्।
एकदा मेषः अयम् बहुदिनानन्‍तरम् दैत्‍यः इव महानसे प्राविशत्। उत्‍पातम् कर्तुम् आरेभे। क्रोधावेशे दासी चुल्‍लीतः ज्‍वलद् उल्‍मुकम् निष्‍कास्‍य मेषस्‍य उपरि प्रचिक्षेप। ऊर्णरोमान्वितः अयम् मेष ज्‍वलितुम् लग्‍नः। दिङ्मूढः अयम् अश्‍वशालायाम् प्रविष्टः घासनिकरे। अश्‍वशालायाम् अग्निर्व्‍याप्‍तः। शतशः च अश्‍वाः मृताः च अन्‍ये दग्‍धदेहाः च इतस्ततः पलायितुम् लग्‍नाः दुष्टः मेषः च मृतः। काठिन्‍येन अग्निशमनम् कृतवन्‍तः राज्‍यकर्मचारिणः राजा अपि घटनास्‍थलम् आगतः।
अर्द्धदग्‍धानाम् अश्‍वानाम् दशाम् विलोक्‍य राजा कुशलान् अश्‍ववैद्यान् आकार्य अपृच्‍छत् मर्मज्ञा वैद्याः च अब्रुवन्। वानराणाम् वसामर्दनेन अश्‍वानाम् व्रणाः प्रपूर्यन्‍ते।
राज्ञाप्तम्- समीपस्थान् वानरान् गृहीत्‍वा नयन्‍तु तेषाम् वसाभिः अश्‍वानाम् उपचारः भविष्‍यति।
तत्रत्याः सर्वे वानराः समाप्ताः।
किञ्चित् कालानन्तरम् सः वृद्धः वानरः च इतस्ततः पर्यटन् तत्र सम्‍प्राप्तः। मनसि दुःखितः अयम् व्‍यचारयत् यत् अनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेदः कृतः। अहम् अपि अस्‍य परिजनानाम् समूलोच्छेदम् विधास्‍यामि। सः युक्तिम् एकाम् व्‍यचारयत्।
गहनाद् वनात् अपरिचितफलम् एकम् आनीय राज्ञः समक्षम् प्रास्‍तौत्। विनम्रस्‍वरेण आह- "अमरफलम् एकम् आनीतवान् अस्मि।"
राजा ब्रूते- "किम् रहस्‍यम् वर्तते च अमृतफलस्‍य।"
वृद्धवानरः प्राह- "अस्‍य भक्षणेन अमरत्‍वम् इति प्राणी। दुर्लभफलम् एतत् महता श्रमेण मया भवतः कृते समानीतम्।"
राजा प्राह- "यदि सत्‍यम् एतत् तर्हि मत्‍ समस्‍त परिवारस्‍य कृते च अमरफलानि आनयतु येन सर्वे अमराः भवेयुः।"
महतोत्‍साहेन वानरः प्रोवाच- "राजन्! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि। तानि फलानि प्राप्‍त्यर्थम् समुद्रयात्रा करणीया भवति। प्रलम्‍बा इयम् यात्रा! तस्मिन् द्वीपे वर्तते हि अमरफलानाम् वृक्षः। समस्‍ते च अन्‍तःपुरे वार्ता इयम् प्रभृता। वानरः राजानम् न्‍यवारयत् समुद्रयात्रार्थम्- "भवान् अत्र राज्‍यव्‍यवस्‍थाम् अपि सम्‍भालयिष्‍यन्ति।"
वानरस्‍य कथनम् विश्‍वस्‍तः सन् राजा एकाकी तत्रैव स्थितः। अन्‍ये परिजनाः समुद्रयात्रार्थम् निर्गताः। सहसा च एकदा तेषाम् जलयानम् झञ्झावातेन छिन्‍नभिन्‍नम् अभवत्। समस्‍तः राजपरिवारः समुद्रस्‍य अगाधे जले निमग्नः। राजा जलयानम् प्रतीक्षते परम् अनेके मासाः व्‍यतीताः।
एकदा राजा वानरम् पृष्टवान्- "वानर! जलयानम् अद्यावधिः कथम् न प्रतिनिवृत्तम्?"
वानरः झटिति प्रोवाच- "राजन्! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्यागमनस्‍य। एतत् सर्वम् तु मया प्रतिशोधार्थम् एव कृतम्। यथा अहम् एकाकी भ्रमन् अस्मि यूथेन विना तथैव भवान् अपि एकाकी भ्रमतु। ध्‍यानपूर्वकम् सर्वे अशृण्‍वन् राजा किम् कर्तव्‍यविमूढः जातः। भयंकर प्रतिशोधस्य अयम् परिणामः। मित्र! तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्।

Tuesday, 12 May 2015

रंगितः तथा तिस्ता

पुरा हिमालयस्य शिखरे एकः देवः तथा एका देवी न्यवसत्। देवस्य नाम रंगितः तथा देव्याः नाम आसीत् तिस्ता। तौ परस्परम् स्नेहेन न्यवसताम् तयोः मध्ये एकम् विशालम् पाषाणखण्डम् आसीत् येन तौ मिलितुम् अशक्तौ। केवलम् वार्तालापेन एव कालम् अत्यवाहयताम्। तौ व्यचारयताम् कदा आगमिष्यति सः शुभदिवसः, यदा आवाम् एकीभवावः। रंगितः प्रोवाच- "इत्थम् तु अस्माकम् जीवनम् एव समाप्तम् भविष्यति। सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः।"
एकदा तिस्ता रंगितम् प्राह – "आवाम् अधस्तात् गत्वा मिलिष्यावः।
रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति- "चल तत्र मिलिष्याव। आवाम् धावावः, परम् आवाम् अधः भागे कथम् धावावः?"
रंगितः प्रोवाच- "आवाम् एकैकम् पथप्रदर्शकम् नेष्यामः अहम् सर्पराजम् सम्प्रार्थयामि त्वम् तु पक्षिराजम्।" द्वौ एव तथैव अकुरुताम्।
सर्पराजः तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन् अयम् नियतः स्थानम् प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम् एव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः।
रंगितः पक्षिराजम् ब्रूते- "भवान् जानाति यत् आवाम् प्रतियोगितायाम् भागम् गृहीष्यावः।यदि भवान् इत्थम् एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि।"
पक्षिराट् अवदत्- "अहम् बुभुक्षितः अस्मि। उदरे भरिते सति गन्तुम् शक्नोमि!" पक्षिराड् मार्गम् अपि न वेत्ति स्म।
किञ्चित् कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श। तिस्ता रंगितम् प्रतीक्षते स्म। रंगितः तु पराजितः जातः अस्ति। क्रोधाविष्टः अयम् विनाशस्य लीलाम् अकरोत्। सर्वतः हाहाकारः समजनि।
तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह- "क्रोधम् मा कुरुत, पक्षिराजस्य कारणात् विलम्बः जातः। शीघ्रम् आगच्छतु भवान्! माम् आलिंगतु।"
तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः अभवत्। यस्मिन् स्थाने तयोः मिलनम् अभूत् तस्मिन् स्थाने सम्प्रति अपि प्रतिवर्षम् मेलापकः लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति।

कूष्माण्डफलम्

सांयकालः आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत्। सुतायाः नाम आसीत्- ताइरा। मार्गेण प्रलम्बायाम् एकस्याम् लतायाम् कूष्माण्डफलम् अवलम्बितम् आसीत्। फलम् विलोक्य सुता तत् ग्रहीतुम् आग्रहम् अकरोत्।
जननी प्रोवाच– "वन्यकूष्माण्डफलम् एतत्। किम् अनेन करिष्यसि?"
"न अहम् एतत् नेष्यामि।" सुता पितरम् प्रोवाच!
पिता तस्याः आग्रहम् निभाल्य सुतया सह कूष्माण्डलतासमीपम् प्राप कर्तनिकया तत् फलम् विच्छेद। फूराइरा कूष्माण्डफलम् उत्थापयितुम् ऐच्छत् किन्तु तत् फलम् स्वयम् एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे। पिता आश्चर्यचकितः सञ्जातः।
कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित् कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद् अहम् मांसम् खादिष्यामि!" इति कथयित्वा तत् सुतायाम् आक्रमणम् कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा।पिता व्यचारयत्- "नूनम् एषः कोऽपि दैत्यः।"
सः सुताम् प्रोवाच- "भो फूराइरे! त्वम् धावन्ती अजागोष्ठम् प्रविश येन कूष्माण्डफलम् अपि तत्र प्रवेक्ष्यति। कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम् एकाम् न्यगिरत्। एतत् निभाल्य फूराइरा स्वगृहम् प्रत्यधावत्।
कूष्माण्डफलम् अपि ताम् अनुचचाल प्रोवाच च– "मांसम् भक्षयितुम् इच्छामि।"
पिता प्रोवाच- "फूराइरे!  धावित्वा पशुगोष्ठम् प्रविश।" कूष्माण्डफलम् अपि तदनु चचाल। गाम् एकाम् न्यगिरत् विशालरूपम् च दधौ। फूराइरा स्वगृहम् आगच्छत्। कूष्माण्डफलम् अपि प्रोवाच- "मह्यम् भोजनम् प्रयच्छ।"
तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः च आसन्। पिता स्वसुताम् प्राह- "क्रमेलकपार्श्वम् गच्छ कूष्माण्डफलम् क्रमेलकम् अपि न्यगिरत्। किञ्चित् क्षणानन्तरम् बुभुक्षितम् एतत् सुताम् एव खादितुम् ऐच्छत्।
एतद् वीक्ष्य क्रोधान्वितः पिता तस्य उपरि पादप्रहारम् अकरोत्। पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम्। स्फुटितमात्रम् एव तस्मात् निर्गता गौः, अजा , क्रमेलकः जीवितदशायाम् एव।
एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम् अकुर्वन्। यत् कूष्माण्डफलम् सर्वान् खादितुम् ऐच्छत् तत् क्षणेन भस्मसात् अभवत्।

जीवनस्य सार्थकता

पुरा एकस्मिन् ग्रामे अजापालकः च एकः न्यवसत्। एका अजा पुत्रजनानन्तरम् मृता। स तम् अजासुतम् पालयत् प्रेम्णा। शनैः शनैः सुतः च अयम् मेषरूपे  परिणतः।
एकदा अजापालकः व्यचारयत् कथम् न मेषम् हत्वा खादामि? अजापालकः च एकदा प्रातः उत्थाय कृपाणम् आकृष्य अजासमीपम् आगच्छत्।
कृपाणहस्तम् अजापालकम् विलोक्य मेषः व्यचारयत् किम् अयम् माम् हन्तुम् समुद्यतः? स्वमृत्युम् निकटम् वीक्ष्य मेष समृद्विग्नः सञ्जातः। अजापालकः मेषम् हन्तुम् इच्छति सम्प्रति एव किन्तु तेन विचारितम्- अद्य एकादशीव्रतम् वर्तते।
अद्य मांसम् अपि विक्रेतुम् न शक्यते। अद्य न हनिष्यामि मेषम्। इति विचार्य विरराम् अयम् अजापालकः।
एकदा पुनः च अजापालकः मेषम् हन्तुम् इयेष परम् केनापि छिक्का कृता। तस्य मनसि शंका समुत्पन्ना। तस्मिन् दिने अपि मेषस्य वधम् न कृतवान् अयम्। चिन्तया प्रत्यहम् दुर्बलः सञ्जातः मेषः। न सःघासम् चरति, न प्रसन्नेन चेतसा जलम् पिबति। सः अजाबन्धनस्थले सर्वदा चिन्तितः तिष्ठति।
तस्य तादृशीम् दुर्दशाम् वीक्ष्य काननस्थः कोऽपि शशकः तच्छमीपम् आगत्य प्रणमन् प्रोवाच- "भ्रातः!  किमर्थम् व्याकुलः असि? " मेषः पूर्वम् तु न किमपि अवदत् परम् शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वम् वृत्तान्तम्- "अजापतिः मा हन्तुम् इच्छति, तेन अहम् समुद्विग्नः अस्मि। न भोजनम् मे रोचते, न निद्रा, कथम् शेषम् जीवनम् यापय इयम् शीघ्रम् एव मरणम् स्यात् तर्हि वरम्।"
मेषवचनम् श्रुत्वा शशकः प्राह- "मित्र!  चिन्ताम् मा कुरु। उपायम् एकम् कथयामि। येन त्वम् सुखेन जीवनम् यापयिष्यसि। अजापालकः त्वया सह प्रेम्णा व्यवहरिष्यति।"
शशकवचनम् श्रुत्वा पुर्वन्तु मेषः  न विश्वसिति किञ्चित् क्षणानन्तरम् मेषः प्रोवाच- "मित्र!  यदि एवम् भवेत् तर्हि जीवनपर्यन्तम् तव उपकारम्  न विस्मरिष्यामि। उपायम् शीघ्रम् एव कथय, न जाने कदा माम् मारयेत् मम पालकः।"
शशकः च उपायम् कथयन् आस्ते- "मित्र!  अद्य रात्रौ द्वादशवादने त्वम् उच्चैः मैम्, मैम्, शब्दम् कुरु, येन अजापतिः विनिद्रितः स्यात् कृतेन अनेन अनुष्ठानेन अजापतिः त्वाम् पुत्रवत् प्रेम्णा पालयिष्यति।
सूर्यास्तः सञ्जातः। मेषः च अन्तर्मनसि शुशोच कदाचिद् शशकः माम् छलयेत? यद् अहम् रात्रौ स्वामिनम् विनिद्रितम् करिष्यामि तर्हि सः मम+उपरि भृशम् कुपितः भविष्यति। किञ्चित् कालानन्तरम् तेन विचारितम् मम मरणम् तु निश्चितम् एव वर्तते, कथम् न अद्य शशकस्य उपायम् करवाणि।
स मध्यरात्रौ मैम्-मैम् चीत्कुर्वन् आस्ते अजापालः तस्य शब्दम् श्रुत्वा यावद् विनिद्रितः सञ्जातः तावत् पश्यति चौराः तत्कक्षे प्रविष्टाः सन्ति। तम् समुत्थितम् वीक्ष्य चौराः पलायिताः।
मेषकृतम् उपकारम् स्मरन् अयम् नितराम् प्रहृष्टः सञ्जातः। तस्य वधस्य विचारः तेन परित्यक्तः। अधुना सः पुत्रवत् तम् पालयति। किञ्चित् दिनानन्तरम् मेषः शशकम् प्रणमत् प्राह- "भ्रातः! त्वया मम प्राणाः रक्षिताः!" शशकः प्रोवाच- "परेषाम् प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते।"
मेषः प्रतिजज्ञे- "अहम् अपि स्वजीवनम् सार्थकम् करिष्यामि परेषाम् उपकारेण।

वेणुवादकः राजपुत्रः

बहूनि दिनानि व्यतीतानि, सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। तस्य द्वौ पुत्रौ च आस्ताम्, ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते। ज्येष्ठराजपुत्रः सरलः दयालुः च वर्तते परम् कनिष्ठः क्रूरः स्वार्थी च।
एकदा राजा रुग्णः जातः। अपरराज्यात् अपि वैद्याः समाकारिताः परम् राजा स्वस्थः न अभवत्। राज्ञः अंगानि प्रत्यहम् क्षीयन्ते।
एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारम् अशृणोत्। बौद्धभिक्षुः राजानम् द्रष्टुम् इच्छति। दर्शनसमकालम् एव बौद्धभिक्षुः प्रोवाच- "यदि राज्ञः मस्तके “नारेबुहीरकम्” स्थाप्येत तर्हि राजा नीरोगः भविष्यति।"
चेसप्पा बौद्धभिक्षुम् अपृच्छत्- "कुतः प्राप्यते हीरकम् एतत्?"
"हीरकम् इदम् समुद्रे मिलति, एतदर्थम् भवता समुद्रयात्रा करणीया!" इति उक्त्वा बौद्धभिक्षुः राजप्रासादात् विनिर्गतः। चेसप्पा स्वपित्रे अधिकम् अस्निह्यत्। सः शीघ्रम् आदिष्टवान् यात्रार्थम् भृत्यान् भटान्। चेमीसम्पा अपि गन्तुम् इच्छति स्म परम् ज्येष्ठभ्राता ब्रूते- "आवयोः एकेन अत्र भवितव्यम्। अतः त्वम् अत्रैव तिष्ठ।"
परम् चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायाम् विनिर्गतः। प्रलम्बम् मार्गम् अतिक्रम्य तौ समुद्र तटम् प्रापतुः। चेप्सा समुद्राम्भसि प्रविष्टः तस्मात् हीरकम् अन्विष्य बहिः आगच्छति। चेमीसप्पा ज्येष्ठभ्रातुः हस्ते हीरकम् विलोक्य हीरकम् हस्तगतम् कर्तुम्+इच्छति। तत्रैव तयोः द्वन्द्वयुद्धम् अभवत्।
अन्ते चेमीसप्पा चेसप्पाम् हत्वा हीरकम् आच्छिद्य राजप्रासादम् प्रति आजगाम। चेमीसप्पा विजयीयोद्धा इव राजप्रासादम् आगत्य हीरकम् राज्ञः मस्तके न्यस्तवान्। तेन तत्कालम् एव राजा संज्ञावान् सञ्जातः। राजा चेसप्पा समाचारम् अपृच्छत्।
चेमीसप्पा प्रोवाच- "मार्गे सः दस्युभिः हतः। महता काठिन्येन अहम् हीरकम् आनेतुम् समर्थः अभवम्। चेसप्पा मृत्योः समाचारम् श्रुत्वा राजा विषण्णः सञ्जातः। भाग्ये विधात्रा यत् लिखितम् तत् मार्जितुम् कः क्षमः।
इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः। उत्थितुम् अपि च अक्षमः अयम् अजापालकैः समुत्थापितः। तस्य दुर्दशाम् वीक्ष्य ते अपि वृत्तान्तम् अपृच्छन् परम् चेसप्पा “सर्वम् भाग्याधीनम् वर्तते ” इति कथयामास। प्रजापालकाः चेसप्पाम्  स्वगृहम् अनयन्। व्रणानाम् उपचारपूर्वकम् दुग्धम् अपाययन्।
कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः। सः  तैः सह अजाः चारयितुम् अगच्छत्। अजापालकाः वेणुवादनम् अकुर्वन् वने। चेसप्पा तेभ्यः वेणुवादनम् अशिक्षयत्। शनैः शनैः सः वेणुवादने प्रवीणः सञ्जातः। सम्प्रति चेसप्पा गृहम् गन्तुम् इच्छति।
भगवतः लीला विचित्रा वर्तते। अजापालकाः भगवन्तम् सम्प्रार्थयन् यत् अयम् सकुशलम् स्वगृहम् प्राप्नोतु। अन्धः अयम् चेसप्पा मार्गे वेणुवादनम् कुर्वन् प्रयाति। जनाः तस्मै भोजनम् प्रयच्छन्ति।
एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपम् वेणुवादनम् अकरोत्! वेणुवादने समाकर्षिता राजपुत्री वेणुवादकम् आकारितवती। सायम् राजपुत्र्याः स्वयंवरः आसीत्। सा तम् वेणुवादकम् एव स्वपतिम् वरयामास।
राजा घटनाम् इमाम् स्वापमानम् मत्वा स्वपुत्रीम् राजप्रासादात् निष्कासयामास। राजकुमारी वेणुवादकेन सह काननम् प्रति विनिर्गता। तौ द्वौ एव परिश्रान्तौ वृक्षस्य अधः समुपविष्टौ। चेसप्पा मनसि व्यचारयत्- एकदा मम पित्रा प्रतिज्ञातम् आसीत् अनया राजपुत्र्या सह एव तव विवाहः भविता, किम् इयम् सा एव राजपुत्री वर्तते। द्रष्टुम् अपि न शक्नोमि। यदि मत्पित्रा इयम् एव मदर्थे निर्वाचिता तर्हि भगवन्तम् प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु।  तत्कालम् एव तस्य नेत्रे ज्योतिः प्रादुर्भूता। राजकुमारी तथैव भगवन्तम् प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रे अपि ज्योतिः उद्गता। द्वौ एव तौ परम् तुष्टौ सञ्जातौ।
सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादम् प्राप। राजा अपि तत्कृतम् विलोक्य प्रसन्नः जातः। चेसप्पा तस्मात् राजप्रासादात् स्वपितरम् विस्तरेण पत्रम् एकम् लिलेख। पत्रे स्वगृहागमनस्य समाचारम् अपि लिलेख। यदा राजा चेमीसप्पाकृतम् समाचारम् पठति तदा तत्कृते मृत्युदण्डस्य घोषणाम् अकारयत्।
किञ्चित् कालानन्तरम् चेसप्पा स्वपत्नीम् आदाय पितुः राजप्रासादम् आजगाम। स्वकनिष्ठभ्रातुः अपराधम् क्षमयितुम् अकथयत् पितरम्। चेमीसप्पा कुत्रचित् निलीय सर्वम् अशृणोत्। लज्जया सः राज्याद् बहिः निर्जगाम। राजा वृद्धः सञ्जातः। सम्प्रति सर्वम् राज्यकार्यम् चेसप्पा सम्भ्रालयति। तस्य राज्ये प्रजाः सुखेन स्वकालम् अयापयत्। तस्य राज्ये सर्वे सुखिनः च आसन्।