Saturday, 12 March 2016

सत्यनारायण व्रत कथा मूल पाठ (संस्कृत)

प्रथमोऽध्याय: व्यास उवाच- एकदा नैमिषारण्ये ऋषय: शौनकादय:। पप्रच्छुर्मुनय: सर्वे सूतं पौराणिकं खलु॥1॥ ऋषय: ऊचु:- व्रतेन तपसा किं वा प्राप्यते वाञ्छितं फलम्‌। तत्सर्वं श्रोतुमिच्छाम: कथयस्व महामुने !॥2॥ सूत उवाच- नारदेनैव सम्पृष्टो भगवान्‌ कमलापति:। सुरर्षये यथैवाऽऽह तच्छृणुध्वं समाहिता:॥3॥ एकदा नारदो योगी परानुग्रहकाङ्‌क्षया। पर्यटन्‌ विविधान्‌ लोकान्‌ मत्र्य लोकमुपागत:॥4॥ तत्र दृष्ट्‌वा जनान्‌ सर्वान्‌ नाना क्लेशसमन्वितान्‌। नाना योनिसमुत्पन्नान्‌ क्लिश्यमानान्‌ स्वकर्मभि:॥5॥ केनोपायेन चैतेषां दु:खनाशो भवेद्‌ ध्रुवम्‌। इति सञ्चिन्त्य मनसा विष्णुलोकं गतस्तदा ॥6॥ तत्र नारायणं देवं कृष्णवर्णं चतुर्भुजम्‌। शङ्‌ख-चक्र- गदा-पद्‌म-वन मालाविभूषितम्‌॥7॥ दृष्ट्‌वा तं देवदेवेशं स्तोतुं समुपचक्रमे। नारद-उवाच- नमो वाङ्‌मनसाऽतीतरूपायाऽनन्तशक्तये॥8॥ आदि-मध्याऽन्तहीनाय निर्गुणाय गुणात्मने। सर्वेषामादिभूताय भक्तानामार्तिनाशिने॥9॥ श्रुत्वा स्तोत्रं ततो विष्णुर्नारदं प्रत्यभाषत। श्रीभगवानुवाच- किमर्थमागतोऽसि त्वं किं ते मनसि वर्तते॥10॥ कथयस्व महाभाग तत्सर्वं कथयामि ते। नारद उवाच- मत्र्यलोके जना: सर्वे नाना क्लेशसमन्विता:। नाना योनिसमुत्पन्ना: क्लिश्यन्ते पापकर्मभि:॥11॥ तत्कथं शमयेन्नाथ लघूपायेन तद्‌ वद। श्रोतुमिच्छामि तत्सर्वं कृपास्ति यदि ते मयि॥12॥ श्रीभगवानुवाच- साधु पृष्टं त्वया वत्स! लोकानुग्रहकाङ्‌क्षया। यत्कृत्वा मुच्यते मोहात्‌ तच्क्षुणुष्व वदामि ते॥13॥ व्रतमस्ति महत्पुण्यं स्वर्गे मत्र्ये च दुलर्भम्‌। तव स्नेहान्मया वत्स! प्रकाश: क्रियतेऽधुना॥14॥ सत्यनारायणस्यैतद्‌ व्रतं सम्यग्विधानत:। कृत्वा सद्य:सुखं भुक्त्वा परत्र मोक्षमाप्नुयात्‌॥15॥ तच्छ्रत्वा भगवद्‌ वाक्यं नारदो मुनिरब्रवीत्‌। नारद उवाच- किं फलं किं विधानं च कृतं केनैव तद्‌व्रतम्‌॥16॥ तत्सर्वं विस्तराद्‌ बूरहि कदा कार्यं व्रतं हि तत्‌। श्रीभगवानुवाच- दु:ख-शोकादिशमनं धन-धान्यप्रवर्धनम्‌॥17॥ सौभाग्य-सन्ततिकरं सर्वत्रा विजयप्रदम्‌। यस्मिन्‌ कस्मिन्‌ दिने मत्र्यो भक्ति श्रद्धासमन्वित:॥18॥ सत्यनारायणं देवं यजेच्चैव निशामुखे। ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्पर:॥19॥ नैवेद्यं भक्तितो दद्यात्‌ सपादं भक्तिसंयुतम्‌। रम्भाफलं घृतं क्षीरं गोधूमस्य च चूर्णकम्‌॥ 20॥ अभावे शालिचूर्णं वा शर्करा वा गुडं तथा। सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत्‌ ॥21॥ विप्राय दक्षिणां दद्यात्‌ कथां श्रुत्वा जनै: सह। ततश्च बन्धुभि: सार्धं विप्रांश्च प्रतिभोजयेत्‌॥22॥ प्रसादं भक्षयेद्‌ भक्त्यानृत्यगीतादिकं चरेत्‌। ततश्च स्वगृहं गच्छेत्‌ सत्यनारायणं स्मरन्‌॥ 23॥ एवं कृते मनुष्याणां वाञ्छासिद्धिर्भवेद्‌ ध्रुवम्‌। विशेषत: कलियुगे लघूपायोऽस्ति भूतले॥24॥ इति श्री स्कन्दपुराणे रेवाखण्डे सूत-शौन-संवादे सत्यनारायण-व्रत कथायां प्रथमोऽध्याय:॥1॥ द्वितीयोऽध्याय:ᅠ सूत उवाच- अथाऽन्यत्‌ सम्प्रवक्ष्यामि कृतं येन पुरा व्रतम्‌। कश्चित्‌ काशीपुरे रम्ये ह्यासीद्‌ विप्रोऽतिनिर्धन:॥1॥ क्षुत्तृड्‌भ्यां व्याकुलो भूत्वा नित्यं बभ्राम भूतले। दु:खितं ब्राह्मणं दृष्ट्‌वा भगवान्‌ ब्राह्मणप्रिय:॥2॥ वृद्धब्राह्मणरूपस्तं पप्रच्छ द्विजमादरात्‌। किमर्थं भ्रमसे विप्र! महीं नित्यं सुदु: खित: ॥3॥ तत्सर्वं श्रोतुमिच्छामि कथ्यतां द्विजसत्तम!। ब्राह्मणोऽतिदरिद्रोऽहं भिक्षार्थं वै भ्रमे महीम्‌॥4॥ उपायं यदि जानासि कृपया कथय प्रभो! वृद्धब्राह्मण उवाच- सत्यनारायणो विष्णुर्वछितार्थफलप्रद:॥5॥ तस्य त्वं पूजनं विप्र कुरुष्व व्रतमुत्तमम्‌। यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव: ॥6॥ विधानं च व्रतस्यास्य विप्रायाऽऽभाष्य यत्नत:। सत्यनारायणोवृद्ध-स्तत्रौवान्तर धीयत॥7॥ तद्‌ व्रतं सङ्‌करिष्यामि यदुक्तं ब्राह्मणेन वै। इति सचिन्त्य विप्रोऽसौ रात्रौ निद्रां न लब्धवान्‌॥8॥ तत: प्रात: समुत्थाय सत्यनारायणव्रतम्‌। करिष्य इति सङ्‌कल्प्य भिक्षार्थमगद्‌ द्विज:॥9॥ तस्मिन्नेव दिने विप्र: प्रचुरं द्रव्यमाप्तवान्‌। तेनैव बन्धुभि: साद्‌र्धं सत्यस्य व्रतमाचरत्‌॥10॥ सर्वदु:खविनिर्मुक्त: सर्वसम्पत्‌ समन्वित:। बभूव स द्विज-श्रेष्ठो व्रतास्यास्य प्रभावत:॥11॥ तत: प्रभृतिकालं च मासि मासि व्रतं कृतम्‌। एवं नारायणस्येदं व्रतं कृत्वा द्विजोत्तम:॥12॥ सर्वपापविनिर्मुक्तो दुर्लभं मोक्षमाप्तवान्‌। व्रतमस्य यदा विप्रा: पृथिव्यां सचरिष्यन्ति॥13॥ तदैव सर्वदु:खं च मनुजस्य विनश्यति। एवं नारायणेनोक्तं नारदाय महात्मने ॥14॥ मया तत्कथितं विप्रा: किमन्यत्‌ कथयामि व:। ऋषय ऊचु:- तस्माद्‌ विप्राच्छुरतं केन पृथिव्यां चरितं मुने। तत्सर्वं श्रोतुमिच्छाम:श्रद्धाऽस्माकं प्रजायते॥15॥ सूत उवाच-श्रृणुध्वं मुनय:सर्वे व्रतं येन कृतं भुवि। एकदा स द्विजवरो यथाविभवविस्तरै:॥16॥ बन्धुभि: स्वजैन: सार्ध व्रतं कर्तुं समुद्यत:। एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत्‌॥17॥ बहि: काष्ठं च संस्थाप्य विप्रस्य गृहमाययौ। तृष्णया पीडितात्मा च दृष्ट्‌वा विप्रकृतं व्रतम्‌ ॥18॥ प्रणिपत्य द्विजं प्राह किमिदं क्रियते त्वया। कृते किं फलमाप्नोति विस्तराद्‌ वद मे प्रभो! ॥19॥ विप्र उवाच-सत्यनाराणस्येदं व्रतं सर्वेप्सित- प्रदम्‌। तस्य प्रसादान्मे सर्वं धनधान्यादिकं महत्‌॥20॥ तस्मादेतत्‌ ब्रतं ज्ञात्वा काष्ठक्रेतातिहर्षित:। पपौ जलं प्रसादं च भुक्त्वा स नगरं ययौ॥21॥ सत्यनारायणं देवं मनसा इत्यचिन्तयत्‌। काष्ठं विक्रयतो ग्रामे प्राप्यते चाद्य यद्धनम्‌॥22॥ तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम्‌। इति सञ्चिन्त्य मनसा काष्ठं धृत्वा तु मस्तके॥23॥ जगाम नगरे रम्ये धनिनां यत्र संस्थिति:। तद्‌दने काष्ठमूल्यं च द्विगुणं प्राप्तवानसौ॥24॥ तत: प्रसन्नहृदय: सुपक्वं कदलीफलम्‌। शर्करा-घृत-दुग्धं च गोधूमस्य च चूर्णकम्‌ ॥25॥ कृत्वैकत्र सपादं च गृहीत्वा स्वगृहं ययौ। ततो बन्धून्‌ समाहूय चकार विधिना व्रतम्‌॥26॥ तद्‌ व्रतस्य प्रभावेण धनपुत्रान्वितोऽभवत्‌। इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥27॥ इति श्री स्कन्दपुराणे रेवाखण्डे सूत शौनकसंवादे सत्यनारायण व्रतकथायां द्वितीयोऽध्याय: ॥2॥ तृतीयोऽध्याय:ᅠ सूत उवाच- पुनरग्रे प्रवक्ष्यामि श्रृणुध्वं मुनिसत्तमा:। पुरा चोल्कामुखो नाम नृपश्चासीन्महामति:॥1॥ जितेन्द्रिय: सत्यवादी ययौ देवालयं प्रति। दिने दिने धनं दत्त्वा द्विजान्‌ सन्तोषयत्‌ सुधी:॥2॥ भार्या तस्य प्रमुग्धा च सरोजवदना सती। भद्रशीलानदीतीरे सत्यस्य व्रतमाचरत्‌॥3॥ एतस्मिन्‌ समये तत्र साधुरेक: समागत:। वाणिज्यार्थं बहुधनैरनेकै: परिपूरिताम्‌ ॥4॥ नावं संस्थाप्य तत्तीरे जगाम नृपतिं प्रति। दृष्ट्‌वा स व्रतिनं भूपं पप्रच्छ विनयान्वित:॥5॥ साधुरुवाच-किमिदं कुरुषे राजन्‌! भक्तियुक्तेन चेतसा। प्रकाशं कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम्‌॥6॥ राजोवाच- पूजनं क्रियते साधो! विष्णोरतुलतेजस: । व्रतं च स्वजनै: सार्धं पुत्राद्यावाप्तिकाम्यया॥7॥ भूपस्य वचनं श्रुत्वा साधु: प्रोवाच सादरम्‌। सर्वं कथय में राजन्‌! करिष्येऽहं तवोदितम्‌॥8॥ ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम्‌। ततो निवृत्य वाणिज्यात्‌ सानन्दो गृहमागत:॥9॥ भार्यायै कथितं सर्वं व्रतं सन्ततिदायकम्‌। तदा व्रतं करिष्यामि यदा में सन्ततिर्भवेत्‌ ॥10॥ इति लीलावती प्राह स्वपत्नीं साधुसत्तम:। एकस्मिन्‌ दिवसे तस्य भार्या लीलावती सती॥11॥ भर्तृयुक्ताऽऽनन्दचित्ताऽभवद्धर्मपरायणा। गर्भिणी साऽभवत्तस्य भार्या सत्यप्रसादत: ॥12॥ दशमे मासि वै तस्या: कन्यारत्नमजायत। दिने दिने सा ववृधे शुक्लपक्षे यथा शशी॥13॥ नाम्ना कलावती चेति तन्नामकरणं कृतम्‌। ततो लीलावती प्राह स्वामिनं मधुरं वच:॥14॥ न करोषि किमर्थं वै पुरा सङ्‌कल्पितं व्रतम्‌। साधुरुवाच-विवाहसमये त्वस्या: करिष्यामि व्रतं प्रिये!॥15॥ इति भार्यां समाश्वास्य जगाम नगरं प्रति। तत: कलावती कन्या वृधपितृवेश्मनि॥16॥ दृष्ट्‌वा कन्यां तत: साधुर्नगरे सखिभि: सह। मन्त्रायित्वा दुरतं दूतं प्रेषयामास धर्मवित्‌॥17॥ विवाहार्थं च कन्याया वरं श्रेष्ठ विचारय। तेनाऽऽज्ञप्तश्च दूतोऽसौ काचनं नगरं ययौ ॥18॥ तस्मादेकं वणिक्पुत्रां समादायाऽऽगतो हि स:। दृष्ट्‌वा तु सुन्दरं बालं वणिक्‌पुत्रां गुणान्वितम्‌॥19॥ ज्ञातिभि-र्बन्धुभि: सार्धं परितुष्टेन चेतसा। दत्तवान्‌ साधुपुत्रााय कन्यां विधि-विधानत: ॥20॥ ततो भाग्यवशात्तेन विस्मृतं व्रतमुत्तमम्‌। विवाहसमये तस्यास्तेन रुष्टोऽभवत्‌ प्रभु: ॥21॥ तत: कालेन नियतो निजकर्मविशारद:। वाणिज्यार्थं तत: शीघ्रं जामातृसहितो वणिक्‌॥22॥ रत्नसारपुरे रम्ये गत्वा सिन्धुसमीपत:। वाणिज्यमकरोत्‌ साधुर्जामात्रा श्रीमता सह॥ 23॥ तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च। एतस्मिन्नेव काले तु सत्यनारायण: प्रभु: ॥24॥ भ्रष्टप्रतिज्ञमा-लोक्य शापं तस्मै प्रदत्तवान्‌। दारुणं कठिनं चास्य महद्‌दु:खं भविष्यिति॥25॥ एकस्मिन्‌ दिवसे राज्ञो धनमादाय तस्कर:। तत्रौव चागतश्चौरौ वणिजौ यत्र संस्थितौ॥26॥ तत्पश्चाद्‌ धावकान्‌ दूतान्‌ दृष्ट्‌वा भीतेन चेतसा। धनं संस्थाप्य तत्रौव स तु शिघ्रमलक्षित:॥27॥ ततो दूता: समायाता यत्रास्ते सज्जनो वणिक्‌। द्दष्ट्‌वा नृपधनं तत्र बद्‌ध्वाऽ ऽनीतौ वणिक्सुतौ॥28॥ हर्षेण धावमानाश्च ऊचुर्नृपसमीपत:। तस्करौ द्वौ समानीतौ विलोक्याऽऽज्ञापय प्रभो॥29॥ राज्ञाऽऽज्ञप्तास्तत: शीघ्रं दृढं बद्‌ध्वा तु तावुभौ। स्थापितौ द्वौ महादुर्गे कारागारेऽविचारत:॥30॥ मायया सत्यदेवस्य न श्रुतं कैस्तयोर्वच:। अतस्तयोर्धनं राज्ञा गृहीतं चन्द्रकेतुना॥31॥ तच्छापाच्च तयोर्गेहे भार्या चैवातिदु:खिता। चौरेणापहृतं सर्वं गृहे यच्च स्थितं धनम्‌॥32॥ आधिव्याधिसमायुक्ता क्षुत्पिपसातिदु:खिता। अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे॥33॥ कलावती तु कन्यापि बभ्राम प्रतिवासरम्‌। एकस्मिन्‌ दिवसे जाता क्षुधार्ता द्विजमन्दिरम्‌ ॥34॥ गत्वाऽपश्यद्‌ व्रतं तत्र सत्यनारायणस्य च। उपविश्य कथां श्रुत्वा वरं सम्प्रार्थ्य वाछितम्‌॥35॥ प्रसादभक्षणं कृत्वा ययौ रात्रौ गृहं प्रति। माता लीलावती कन्यां कथयामास प्रेमत:॥36॥ पुत्रि रात्रौ स्थिता कुत्रा किं ते मनसि वर्तते। कन्या कलावती प्राह मातरं प्रति सत्वरम्‌॥37॥ द्विजालये व्रतं मातर्दृष्टं वाञ्छितसिद्धिदम्‌। तच्छ्रुत्वा कन्यका वाक्यं व्रतं कर्तु समुद्यता॥38॥ सा तदा तु वणिग्भार्या सत्यनारायणस्य च। व्रतं चक्रे सैव साध्वी बन्धुभि: स्वजनै: सह॥39॥ भर्तृ-जामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम्‌। इति दिव्यं वरं बब्रे सत्यदेवं पुन: पुन:॥40॥ अपराधं च मे भर्तुर्जामातु: क्षन्तुमर्हसि। व्रतेनानेन तुष्टोऽसौ सत्यनारायण: पुन:॥41॥ दर्शयामास स्वप्नं हि चन्द्रकेतुं नृपोत्तमम्‌। वन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम!॥42॥ देयं धनं च तत्सर्वं गृहीतं यत्त्वयाऽधुना। नो चेत्‌ त्वा नाशयिष्यामि सराज्यं-धन-पुत्रकम्‌॥43॥ एवमाभाष्य राजानं ध्यानगम्योऽभवत्‌ प्रभु:। तत: प्रभातसमये राजा च स्वजनै: सह॥44॥ उपविश्य सभामध्ये प्राह स्वप्नं जनं प्रति॥ बद्धौ महाजनौ शीघ्रं मोचय द्वौ वणिक्सुतौ॥45॥ इति राज्ञो वच: श्रुत्वा मोचयित्वा महाजनौ। समानीय नृपस्याऽग्रे प्राहुस्ते विनयान्विता:॥46॥ आनीतौ द्वौ वणिक्पुत्रौ मुक्त्वा निगडबन्धनात्‌। ततो महाजनौ नत्वा चन्द्रकेतुं नृपोत्तमम्‌॥47॥ स्मरन्तौ पूर्ववृत्तान्तं नोचतुर्भयविद्दलौ। राजा वणिक्सुतौ वीक्ष्य वच: प्रोवाच सादरम्‌॥48॥ दैवात्‌ प्राप्तं महद्‌दु:खमिदानीं नास्ति वै भयम्‌। तदा निगडसन्त्यागं क्षौरकर्माऽद्यकारयत्‌॥49॥ वस्त्लङ्‌कारकं दत्त्वा परितोष्य नृपश्च तौ। पुरस्कृत्य वणिक्पुत्रौ वचसाऽतोच्चयद्‌ भृशम्‌॥50॥ पुराऽऽनीतं तु यद्‌ द्रव्यं द्विगुणीकृत्य दत्तवान्‌। प्रोवाच तौ ततो राजा गच्छ साधो! निजाश्रमम्‌॥51॥ राजानं प्रणिपत्याऽऽह गन्तव्यं त्वत्प्रसादत:। इत्युक्त्वा तौ महावैश्यौ जग्मतु: स्वगृहं प्रति॥52॥ इति श्री स्कन्दपुराणे रेवाखण्डे सूतशौनकसंवादे सत्यनारायणव्रतकथायां तृतीयोध्याय:। चतुर्थोध्याय:ᅠ सूत उवाच-यात्रां तु कृतवान्‌ साधुर्मङ्‌गलायनपूर्विकाम्‌। ब्राह्मणेभ्यो धनं दत्त्वा तदा तु नगरं ययौ॥1॥ कियद्‌ दूरे गते साधौ सत्यनारायण: प्रभु:। जिज्ञासां कृतवान्‌ साधो! किमस्ति तव नौ स्थितम्‌॥2॥ ततो महाजनौ मत्तौ हेलया च प्रहस्य वै। कथं पृच्छसि भो दण्डिन्! मुद्रां नेतुं किमिच्छसि॥3॥ लता-पत्रादिकं चैव वर्तते तरणौ मम। निष्ठुरं च वच: श्रुत्वा सत्यं भवतु ते वच:॥4॥ एवमुक्त्वा गत: शीघ्रं दण्डी तस्य समीपत:। कियद्‌दूरे ततो गत्वा स्थित: सिन्धुसमीपत:॥5॥ गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा। उत्थितां तरणीं ट्टष्ट्‌वा विस्मयं परमं ययौ ॥6॥ दृष्ट्‌वा लतादिकं चैव मूच्र्छितो न्यपतद्‌ भुवि। लब्धसंज्ञो वणिक्‌ पुत्रास्ततश्चिन्ताऽन्वितोऽभवत्‌॥7॥ तदा तु दुहितु: कान्तो वचनं चेदमब्रवीत्‌॥ किमर्थं क्रियते शोक: शापो दत्तश्च दण्डिना॥8॥ शक्यतेऽनेन सर्वं हि कर्तुं चात्रा न संशय:। अतस्तच्छरणं याहि वञ्छितार्थो भविष्यति ॥9॥ जामातुर्वचनं श्रुत्वा तत्सकाशं गतस्तदा॥ द्दष्ट्‌वा च दण्डिनं भक्त्या नत्वा प्रोवाच सादरम्‌॥10॥ क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ॥ एवं पुन: पुनर्नत्वा महाशोकाऽऽकुलोऽभवत्‌॥11॥ प्रोवाच वचनं दण्डी विलपन्तं विलोक्य च। मारोदी: श्रृणु मद्वाक्यं मम पूजाबहिर्मुख:॥12॥ ममाऽऽज्ञया च दुर्बुद्‌धे! लब्धं दु:खं मुहुर्मुहु:। तच्छ्रुत्वा भगवद्‌ वाक्यं व्रतं कर्तुं समुद्यत:॥13॥ साधुरुवाच-त्वन्मायामोहिता: सर्वे ब्रह्माद्यास्त्रिदिवौकस:। न जानन्ति गुणान्‌ रूपं तवाऽऽश्चर्यर्ममिदं प्रभो॥14॥ मूढोऽहं त्वां कथं जाने मोहितस्तव मायया। प्रसीद पूजमिष्यामि यथाविभवविस्तरै:॥15॥ पुरा वित्तैश्च तत्सर्वै: पाहि मां शरणागतम्‌। श्रुत्वा भक्तियुतं वाक्यं परितुष्टो जनार्दन:॥16॥ वरं च वाञ्छितं दत्त्वा तत्रौवाऽन्तर्दधे हरि:। ततो नौकां समारुह्य दृष्ट्‌वा वित्तप्रपूरिताम्‌॥17॥ कृपया सत्यदेवस्य सफलं वाञ्छितं मम। इत्युक्त्वा स्वजनै: सार्धं पूजां कृत्वा यथाविधि॥18॥ हर्षेण चाऽभवत्पूर्ण: सत्यदेवप्रसादत:। नावं संयोज्य यत्नेन स्वदेशगमनं कृतम्‌॥19॥ साधुर्जामातरं प्राह पश्य रत्नपुरीं मम। दूतं च प्रेषयामास निजवित्तस्य रक्षकम्‌॥20॥ दूतोऽसौ नगरं गत्वा साधुभार्यां विलोक्य च। प्रोवाच वाञ्छितंवाक्यं नत्वा बद्धाजलिस्तदा॥21॥ निकटे नगरस्यैव जामात्रा सहितो वणिक्‌। आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युत:॥22॥ श्रुत्वा दूतमुखाद्‌ वाक्यं महाहर्षवती सती। सत्यपूजां तत: कृत्वा प्रोवाच तनुजां प्रति॥23॥ ब्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च। इति मातृवच: श्रुत्वा व्रतं कृत्वा समासत:॥24॥ प्रसादं च परित्यज्य गता साऽपि पतिं प्रति। तेन रुष्ट: सत्यदेवो भर्तारं तरणीं तथा॥25॥ संहृत्य च धनै: सार्धं जले तस्मिन्नमज्जयत्‌। तत: कलावती कन्या न विलोक्य निजं पतिम्‌॥26॥ शोकेन महता तत्र रुदती चाऽपतद्‌ भुवि। दृष्ट्‌वा तथाविधां नौकां कन्यां च बहुदु:खिताम्‌ ॥27॥ भीतेन मनसा साधु: किमाश्चर्यमिदं भवेत्‌ चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहका:॥28॥ ततो लीलावती कन्या दृष्ट्‌वा सा विह्नलाऽभवत्‌। विललापऽतिदु: खेन भर्तारं चेदमब्रतीत्‌॥29॥ इदानीं नौकया सार्धं कथं सोऽभूदलक्षित:। न जाने कस्य देवस्य हेलया चैव सा हृता॥30॥ सत्यदेवस्य माहात्म्यं ज्ञातुं वा केन शक्यते। इत्युक्त्वा विलालपैवं ततश्च स्वजनै: सह॥31॥ ततौ लीलावती कन्या क्रोडे कृत्वा रुरोद ह। तत: कलावती कन्या नष्टे स्वामिनि दु:खिता॥32॥ गृहीत्वा पादुकां तस्याऽनुगन्तुं च मनोदधे। कन्यायाश्चरितं दृष्ट्‌वा सभार्य: सज्जनो वणिक्‌॥33॥ अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित्‌। हृतं वा सत्यदेवेन भ्रान्तोऽहं सत्यमायया॥34॥ सत्यपूजां करिष्यामि यथाविभवविस्तरम्‌। इति सर्वान्‌ समाहूय कथयित्वा मनोरथम्‌॥35॥ नत्वा च दण्डवद्‌ भूमौ सत्यदेवं पुन: पुन:। ततस्तुष्ट: सत्यदेवो दीनानां परिपालक:॥36॥ जगाद वचनं चैनं कृपया भक्तवत्सल:। त्यक्त्त्वा प्रसादं ते कन्या पतिं दुरष्टुं समागता॥37॥ अतोऽदृष्टोभवत्तस्या: कन्यकाया: पतिध्र्रुवम्‌। गृहं गत्वा प्रसादं च भुक्त्वा साऽऽयाति चेत्पुन:॥38॥ लब्धभत्ररी सुता साधो! भविष्यति न संशय:। कन्यका तादृशं वाक्यं श्रुत्वा गगनमण्डलात्‌॥39॥ क्षिपंर तदा गृहं गत्वा प्रसादं च बुभोज सा। तत्‌ पश्चात्पुनरागत्य सा ददर्श निजं पतिम्‌॥40॥ तत: कलावती कन्या जगाद पितरं प्रति। इदानीं च गृहं याहि विलम्बं कुरुषे कथम्‌॥41॥ तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टोऽभूद वणिक्सुत:। पूजनं सत्यदेवस्य कृत्वा विधिविधानत:॥42॥ धनैर्बन्धुगणै: सार्धं जगाम निजमन्दिरम्‌॥ पौर्णमास्यां च सङ्‌क्रान्तौ कृतवान्‌ सत्यपूजनम्‌॥43॥ इह लोके सुखं भुक्त्वा चान्ते सत्यपुरं ययौ॥44॥ इति श्री सकन्दपुराणे रेवाखण्डे सूतशौनकसंवादे सत्यनारायणव्रतकथायां चतुर्थोऽध्याय:॥4॥ पञ्चमोध्याय:ᅠ सूत उवाच- अथान्यत् संप्रवक्ष्यामि श्रृणध्वं मुनिसत्तमा:॥ आसीत्‌ तुङ्‌गध्वजो राजा प्रजापालनतत्पर:॥1॥ प्रसादं सत्यदेवस्य त्यक्त्त्वा दु:खमवाप स:। एकदा स वनं गत्वा हत्वा बहुविधान्‌ पशून्‌॥2॥ आगत्य वटमूलं च दृष्ट्‌वा सत्यस्य पूजनम्‌। गोपा: कुर्वन्ति सन्तुष्टा भक्तियुक्ता: सबन्धवा:॥3॥ राजा दृष्ट्‌वा तु दर्पेण न गतो न ननाम स:। ततो गोपगणा: सर्वे प्रसादं नृपसन्निधौ ॥4॥ संस्थाप्य पुनरागत्य भुक्त्वा सर्वे यथेप्सितम्‌। तत: प्रसादं संत्यज्य राजा दु:खमवाप स:॥5॥ तस्य पुत्राशतं नष्टं धनधान्यादिकं च यत्‌। सत्यदेवेन तत्सर्वं नाशितं मम निश्चितम्‌॥6॥ अतस्तत्रैव गच्छामि यत्र देवस्य पूजनन्‌। मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ॥7॥ ततोऽसौ सत्यदेवस्य पूजां गोपगणै: सह। भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृप:॥8॥ सत्यदेवप्रसादेन धनपुत्राऽन्वितोऽभवत्‌। इह लोके सुखं भुक्त्वा पश्चात्‌ सत्यपुरं ययौ॥9॥ य इदं कुरुते सत्यव्रतं परम दुर्लभम्‌। श्रृणोति च कथां पुण्यां भक्तियुक्तां फलप्रदाम्‌॥10॥ धनधान्यादिकं तस्य भवेत्‌ सत्यप्रसादत:। दरिद्रो लभते वित्तं बद्धो मुच्येत बन्धनात्‌॥11॥ भीतो भयात्‌ प्रमुच्येत सत्यमेव न संशय:। ईप्सितं च फलं भुक्त्वा चान्ते सत्यपुरं ब्रजेत्‌॥12॥ इति व: कथितं विप्रा: सत्यनारायणव्रतम्‌। यत्कृत्वा सर्वदु:खेभ्यो मुक्तो भवति मानव:॥13॥ विशेषत: कलियुगे सत्यपूजा फलप्रदा। केचित्कालं वदिष्यन्ति सत्यमीशं तमेव च॥14॥ सत्यनारायणं केचित्‌ सत्यदेवं तथापरे। नाना रूपधरो भूत्वा सर्वेषामीप्सितप्रद:॥15॥ भविष्यति कलौ सत्यव्रतरूपी सनातन:। श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम्‌॥16॥ श्रृणोति य इमां नित्यं कथा परमदुर्लभाम्‌। तस्य नश्यन्ति पापानि सत्यदेव प्रसादत:॥17॥ व्रतं यैस्तु कृतं पूर्वं सत्यनारायणस्य च। तेषां त्वपरजन्मानि कथयामि मुनीश्वरा:॥18॥ शतानन्दो महा-प्राज्ञ: सुदामा ब्राह्मणोऽभवत्‌। तस्मिन्‌ जन्मनि श्रीकृष्णं ध्यात्वा मोक्षमवाप ह॥19॥ काष्ठभारवहो भिल्लो गुहराजो बभूव ह। तस्मिन्‌ जन्मनि श्रीरामसेवया मोक्षमाप्तवान्‌॥20॥ उल्कामुखो महाराजो नृपो दशरथो-ऽभवत्‌। श्रीरङ्‌नाथं सम्पूज्य श्रीवैकुण्ठं तदाऽगमत्‌॥21॥ धार्मिक: सत्यसन्धश्च साधुर्मोरध्वजोऽभवत्‌।

Sunday, 17 January 2016

बिजली का आविष्कार

निश्चित ही बिजली का आविष्कार बेंजामिन फ्रेंक्लिन ने किया लेकिन बेंजामिन फ्रेंक्लिन अपनी एक किताब में लिखते हैं कि एक रात मैं संस्कृत का एक वाक्य पढ़ते-पढ़ते सो गया। उस रात मुझे स्वप्न में संस्कृत के उस वचन का अर्थ और रहस्य समझ में आया जिससे मुझे मदद मिली। महर्षि अगस्त्य एक वैदिक ऋषि थे। महर्षि अगस्त्य राजा दशरथ के राजगुरु थे। इनकी गणना सप्तर्षियों में की जाती है। ऋषि अगस्त्य ने 'अगस्त्य संहिता' नामक ग्रंथ की रचना की। आश्चर्यजनक रूप से इस ग्रंथ में विद्युत उत्पादन से संबंधित सूत्र मिलते हैं- संस्थाप्य मृण्मये पात्रे ताम्रपत्रं सुसंस्कृतम्‌। छादयेच्छिखिग्रीवेन चार्दाभि: काष्ठापांसुभि:॥ दस्तालोष्टो निधात्वय: पारदाच्छादितस्तत:। संयोगाज्जायते तेजो मित्रावरुणसंज्ञितम्‌॥ -अगस्त्य संहिता अर्थात : एक मिट्टी का पात्र लें, उसमें ताम्र पट्टिका (Copper Sheet) डालें तथा शिखिग्रीवा (Copper sulphate) डालें, फिर बीच में गीली काष्ट पांसु (wet saw dust) लगाएं, ऊपर पारा (mercury‌) तथा दस्त लोष्ट (Zinc) डालें, फिर तारों को मिलाएंगे तो उससे मित्रावरुणशक्ति (Electricity) का उदय होगा। अगस्त्य संहिता में विद्युत का उपयोग इलेक्ट्रोप्लेटिंग (Electroplating) के लिए करने का भी विवरण मिलता है। उन्होंने बैटरी द्वारा तांबे या सोने या चांदी पर पॉलिश चढ़ाने की विधि निकाली अत: अगस्त्य को कुंभोद्भव (Battery Bone) कहते हैं। — मित्रो भारत ने दुनिया को और क्या क्या दिया है ? जरूर देखे अपने बच्चो को बताएं !

Friday, 24 July 2015

'आ'काराः सुभाषिताः

आन्द्रेन्धनमप्यनले शुष्कं पूर्वं ततो ज्वलति एवं सज्जन सविधे पूर्वं लोभार्द्रता विशुष्य ततः । विषयाभिग्रस्तानां अन्तस्था कामरोष सहिता या ज्वलति च विवेकवह्नौ साऽपी ज्वलति प्रकृष्ट सुखमन्ते ॥ Even when the fuel is wet, it will dry as soon as you put in fire and get burnt as it is meant to. Kinship with virtuous people is also like that. Even when people are drenched(wet) with greed, they will lose their lust and anger in the fire of knowledge. Along with that they will lose their greed also and find happiness.

Tuesday, 14 July 2015

नागपञ्चमी (विशेषः)

सनातन-आर्यभारतीय-महर्षिणां सम्प्रदाये विद्यमानेषु पर्वसु नागपञ्चम्या अपि मुख्यं स्थानं प्राप्तमस्ति । एकदेवोपासकाः अपि कुत्रचित् काम्यव्रतरूपेण आचरन्ति नागपञ्चमीम् । सर्पाः अस्मान् न दशन्तु, विषबाधा परिहृता भवतु, सन्तानप्राप्तिः धनप्राप्तिः च भवतु, चर्मरोगनिवृत्तिः भवतु, स्वर्गप्राप्तिः भवतु इत्यादिभिः कामनाभिः एतत् पर्व आचरन्ति । श्रावणमासः पर्वणाम् एव मासः । तत्र आरम्भे एव भवति नागपञ्चमी । श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यते इदं पर्व ।
श्रावणे मासि पञ्चम्यां शुक्लपक्षे तु पार्वती ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥
सा तु पुण्यतमा प्रोक्ता देवानामपि दुर्लभा ।
कुर्याद्द्वादशवर्षाणि पञ्चम्यां स वरानने ॥
नागपञ्चमीदिने पूज्यमानं नागशिल्पम्
सर्पः
इति भविष्योत्तरपुराणे ३६तमे अध्याये अस्य पर्वणः उल्लेखः कृतः अस्ति । आश्वलायन-परस्कर-गृह्यसूत्रानुसारं “सर्पबलिः” इति कर्म आचर्यते एतद्दिने एव । भारतस्य विभिन्नेषु भागेषु एतस्य पर्वणः आचरणे भेदाः सन्ति चेदपि सर्वत्र पूज्यमाना देवता तु नागदेवता एव ।

दक्षिणभारते तु व्रतम् आचर्यमाणाः तण्डुलपिष्टेन एकां प्रेङ्खां वा पात्रं वा निर्माय तत्र पिष्टनिर्मितम् एकं बृहत् एकं लघु च नागदेवताविग्रहं स्थापयन्ति । तयोः विग्रहयोः एव पूजा भवति तद्दिने । पूजायां तालपुष्पस्य उपयोगं विशेषतया कुर्वन्ति । वल्मीकमृत्तिकायाः पूजाम् अपि कुर्वन्ति । नैवेद्यरूपेण दुग्धं, तण्डुलपिष्टेन निर्मितं मधुरं, लाजाः, कलायः, माषापूपः, मधुरापूपः वा समर्प्यते । नागशिलाः यत्र सन्ति तत्र गत्वा तासां शिलानां क्षीराभिषेकः क्रियते । स्वर्ण-रजत-मृत्तिकानिर्मितानां वा विग्रहाणां पूजा क्रियते । विशेषतया तद्दिने लवणरहितान् एव पदार्थान् नैवेद्यरूपेण समर्पयन्ति । गृहस्य मुख्यद्वारस्य उभयोः पार्श्वयोः अपि गोमयेन नागचित्रं लिखित्वा दधि-दूर्वा-कुश-चन्दन-पुष्पैः पूजां कुर्वन्ति । अस्मिन् पर्वणि विशेषतया भ्रातरः विवाहिताः भगिनीः गृहम् आहूय सत्कारं कुर्वन्ति । तद्दिने पूज्यमानाः अष्टनागाः ।
वासुकिः तक्षकश्चैव कालियो मणिभद्रकः ।
ऎरावतो धृतराष्ट्रः कार्कोटकधनञ्जयौ ॥
एतेऽभयं प्रयच्छन्ति प्राणिनां प्राणजीविनाम् ॥ (भविष्योत्तरपुराणम् – ३२-२-७)
व्रतम् आचर्यमाणाः चतुर्थ्याम् एकभुक्तिम् आचरन्ति । पञ्चम्यां दिनपूर्णम् उपवासं स्थित्वा पूजादिकं समाप्य रात्रौ भोजनं कुर्वन्ति ।
कुत्रचित् नागाः भिन्नाः सर्पाः भिन्नाः इति उल्लेखः दृश्यते ।
१. भगवद्गीतायां श्रीकृष्णः वदति – “सर्पाणां वासुकिश्चास्मि अनन्ताश्चास्मि नागानाम्” इति ।
२. श्रीधरीये उक्तम् अस्ति – “विषयुक्ताः सर्पाः विषरहिताश्च नागाः” इति ।
३. (निघण्टु १९-५३) “फणिनो धवळाङ्गा ये ते नागा इति किर्तिताः । अन्ये रक्तादिवर्णाद्यैः बोध्याः सर्पादिनामभिः” इति ।
४.(रा.मा. ३-१४-३०) “सुरसाऽजनयन्नागान् राम कद्रूस्तु पन्नगान्” इति ।
५. महातले वसन्तः तक्षकादयः सर्पाः, पातालवासिनः वासुक्यादयः नागाः इत्यपि उच्यते – “अधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादिप्रधानाः महाभोगवन्तः ।
अधस्तात्पाताले नागलोकपतयः वासुकिप्रमुखाः शङ्ख-कुलिक-महाशम्ब-धनञ्जय-ध्रुतराष्ट्र-शम्बचूड-कम्बलाश्चतर-देवदत्तादयो महाभोगिनः ।”(भाग – ५-२४)
६. एकफणायुक्तः सर्पः, अनेकफणयुक्तः नागः इति उक्तम् अस्ति गीताभाष्ये श्रीरामानुजाचार्यैः रामायणव्याख्याने श्रीतीर्थैः च ।
७. “वस्तुतस्तु सर्पसंज्ञा सर्वेषामपि गोनसाजगरादीनामपि सामान्या, यथा चतुष्पदां पशुसंज्ञा । नागसंज्ञा च सटादिमतां सिंहसंज्ञेव सफणानां पद्माद्यङ्कितानां च विशिष्टा ॥“ इति अविगीतायाम् उक्तम् अस्ति

Monday, 1 June 2015

प्रतिशोधः

एकस्‍य राज्ञः भोजनालये दासी च एका महानस्‍य सर्वम् कार्यजातम् सम्‍भालयति स्‍म। राजा मेषम् एकम् पालितवान्। राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म। अत एव सर्वतन्‍त्रस्वतन्‍त्रः अयम् मेषः भोजनालये हानिम् उत्‍पादयति। किम् करोतु सा दासी? कथम् राज्ञः कोपभाजनम् भवेत् सा। दासी मेषयः मध्‍ये द्वन्‍द्वम् एतत् नित्‍यम् प्रचलति स्‍म। भोजनालयस्‍य पृष्ठभागे फलवृक्षाणाम् उद्यानम् आसीत्। वानराः उद्याने अस्मिन् भ्रमन्ति स्‍म। यूथाधिपतिः वृद्धः वानरः दासीम् एषयोः मध्‍ये द्वन्‍द्वयुद्धम् एतत् नित्‍यम् पश्‍यति स्‍म।
सः स्‍वपरिवारस्‍य वानरान् एकत्रितान् कृत्‍वा अकथयत्- "मित्र तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्। अतः अस्‍माभिः अन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम्।"
वानराः प्रोचुः- "दासीमेषयोः संघर्षेण अस्‍माकम् किम् प्रयोजनम्?" यूथपतिः तस्‍मात् अन्‍यत्र गतवान् एकाकी च न्‍यवसत्।
एकदा मेषः अयम् बहुदिनानन्‍तरम् दैत्‍यः इव महानसे प्राविशत्। उत्‍पातम् कर्तुम् आरेभे। क्रोधावेशे दासी चुल्‍लीतः ज्‍वलद् उल्‍मुकम् निष्‍कास्‍य मेषस्‍य उपरि प्रचिक्षेप। ऊर्णरोमान्वितः अयम् मेष ज्‍वलितुम् लग्‍नः। दिङ्मूढः अयम् अश्‍वशालायाम् प्रविष्टः घासनिकरे। अश्‍वशालायाम् अग्निर्व्‍याप्‍तः। शतशः च अश्‍वाः मृताः च अन्‍ये दग्‍धदेहाः च इतस्ततः पलायितुम् लग्‍नाः दुष्टः मेषः च मृतः। काठिन्‍येन अग्निशमनम् कृतवन्‍तः राज्‍यकर्मचारिणः राजा अपि घटनास्‍थलम् आगतः।
अर्द्धदग्‍धानाम् अश्‍वानाम् दशाम् विलोक्‍य राजा कुशलान् अश्‍ववैद्यान् आकार्य अपृच्‍छत् मर्मज्ञा वैद्याः च अब्रुवन्। वानराणाम् वसामर्दनेन अश्‍वानाम् व्रणाः प्रपूर्यन्‍ते।
राज्ञाप्तम्- समीपस्थान् वानरान् गृहीत्‍वा नयन्‍तु तेषाम् वसाभिः अश्‍वानाम् उपचारः भविष्‍यति।
तत्रत्याः सर्वे वानराः समाप्ताः।
किञ्चित् कालानन्तरम् सः वृद्धः वानरः च इतस्ततः पर्यटन् तत्र सम्‍प्राप्तः। मनसि दुःखितः अयम् व्‍यचारयत् यत् अनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेदः कृतः। अहम् अपि अस्‍य परिजनानाम् समूलोच्छेदम् विधास्‍यामि। सः युक्तिम् एकाम् व्‍यचारयत्।
गहनाद् वनात् अपरिचितफलम् एकम् आनीय राज्ञः समक्षम् प्रास्‍तौत्। विनम्रस्‍वरेण आह- "अमरफलम् एकम् आनीतवान् अस्मि।"
राजा ब्रूते- "किम् रहस्‍यम् वर्तते च अमृतफलस्‍य।"
वृद्धवानरः प्राह- "अस्‍य भक्षणेन अमरत्‍वम् इति प्राणी। दुर्लभफलम् एतत् महता श्रमेण मया भवतः कृते समानीतम्।"
राजा प्राह- "यदि सत्‍यम् एतत् तर्हि मत्‍ समस्‍त परिवारस्‍य कृते च अमरफलानि आनयतु येन सर्वे अमराः भवेयुः।"
महतोत्‍साहेन वानरः प्रोवाच- "राजन्! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि। तानि फलानि प्राप्‍त्यर्थम् समुद्रयात्रा करणीया भवति। प्रलम्‍बा इयम् यात्रा! तस्मिन् द्वीपे वर्तते हि अमरफलानाम् वृक्षः। समस्‍ते च अन्‍तःपुरे वार्ता इयम् प्रभृता। वानरः राजानम् न्‍यवारयत् समुद्रयात्रार्थम्- "भवान् अत्र राज्‍यव्‍यवस्‍थाम् अपि सम्‍भालयिष्‍यन्ति।"
वानरस्‍य कथनम् विश्‍वस्‍तः सन् राजा एकाकी तत्रैव स्थितः। अन्‍ये परिजनाः समुद्रयात्रार्थम् निर्गताः। सहसा च एकदा तेषाम् जलयानम् झञ्झावातेन छिन्‍नभिन्‍नम् अभवत्। समस्‍तः राजपरिवारः समुद्रस्‍य अगाधे जले निमग्नः। राजा जलयानम् प्रतीक्षते परम् अनेके मासाः व्‍यतीताः।
एकदा राजा वानरम् पृष्टवान्- "वानर! जलयानम् अद्यावधिः कथम् न प्रतिनिवृत्तम्?"
वानरः झटिति प्रोवाच- "राजन्! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्यागमनस्‍य। एतत् सर्वम् तु मया प्रतिशोधार्थम् एव कृतम्। यथा अहम् एकाकी भ्रमन् अस्मि यूथेन विना तथैव भवान् अपि एकाकी भ्रमतु। ध्‍यानपूर्वकम् सर्वे अशृण्‍वन् राजा किम् कर्तव्‍यविमूढः जातः। भयंकर प्रतिशोधस्य अयम् परिणामः। मित्र! तत्र न वस्‍तव्‍यम् यत्र वैरम् परस्‍परम्।

Tuesday, 12 May 2015

रंगितः तथा तिस्ता

पुरा हिमालयस्य शिखरे एकः देवः तथा एका देवी न्यवसत्। देवस्य नाम रंगितः तथा देव्याः नाम आसीत् तिस्ता। तौ परस्परम् स्नेहेन न्यवसताम् तयोः मध्ये एकम् विशालम् पाषाणखण्डम् आसीत् येन तौ मिलितुम् अशक्तौ। केवलम् वार्तालापेन एव कालम् अत्यवाहयताम्। तौ व्यचारयताम् कदा आगमिष्यति सः शुभदिवसः, यदा आवाम् एकीभवावः। रंगितः प्रोवाच- "इत्थम् तु अस्माकम् जीवनम् एव समाप्तम् भविष्यति। सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः।"
एकदा तिस्ता रंगितम् प्राह – "आवाम् अधस्तात् गत्वा मिलिष्यावः।
रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति- "चल तत्र मिलिष्याव। आवाम् धावावः, परम् आवाम् अधः भागे कथम् धावावः?"
रंगितः प्रोवाच- "आवाम् एकैकम् पथप्रदर्शकम् नेष्यामः अहम् सर्पराजम् सम्प्रार्थयामि त्वम् तु पक्षिराजम्।" द्वौ एव तथैव अकुरुताम्।
सर्पराजः तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन् अयम् नियतः स्थानम् प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम् एव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः।
रंगितः पक्षिराजम् ब्रूते- "भवान् जानाति यत् आवाम् प्रतियोगितायाम् भागम् गृहीष्यावः।यदि भवान् इत्थम् एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि।"
पक्षिराट् अवदत्- "अहम् बुभुक्षितः अस्मि। उदरे भरिते सति गन्तुम् शक्नोमि!" पक्षिराड् मार्गम् अपि न वेत्ति स्म।
किञ्चित् कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श। तिस्ता रंगितम् प्रतीक्षते स्म। रंगितः तु पराजितः जातः अस्ति। क्रोधाविष्टः अयम् विनाशस्य लीलाम् अकरोत्। सर्वतः हाहाकारः समजनि।
तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह- "क्रोधम् मा कुरुत, पक्षिराजस्य कारणात् विलम्बः जातः। शीघ्रम् आगच्छतु भवान्! माम् आलिंगतु।"
तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः अभवत्। यस्मिन् स्थाने तयोः मिलनम् अभूत् तस्मिन् स्थाने सम्प्रति अपि प्रतिवर्षम् मेलापकः लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति।

कूष्माण्डफलम्

सांयकालः आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत्। सुतायाः नाम आसीत्- ताइरा। मार्गेण प्रलम्बायाम् एकस्याम् लतायाम् कूष्माण्डफलम् अवलम्बितम् आसीत्। फलम् विलोक्य सुता तत् ग्रहीतुम् आग्रहम् अकरोत्।
जननी प्रोवाच– "वन्यकूष्माण्डफलम् एतत्। किम् अनेन करिष्यसि?"
"न अहम् एतत् नेष्यामि।" सुता पितरम् प्रोवाच!
पिता तस्याः आग्रहम् निभाल्य सुतया सह कूष्माण्डलतासमीपम् प्राप कर्तनिकया तत् फलम् विच्छेद। फूराइरा कूष्माण्डफलम् उत्थापयितुम् ऐच्छत् किन्तु तत् फलम् स्वयम् एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे। पिता आश्चर्यचकितः सञ्जातः।
कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित् कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद् अहम् मांसम् खादिष्यामि!" इति कथयित्वा तत् सुतायाम् आक्रमणम् कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा।पिता व्यचारयत्- "नूनम् एषः कोऽपि दैत्यः।"
सः सुताम् प्रोवाच- "भो फूराइरे! त्वम् धावन्ती अजागोष्ठम् प्रविश येन कूष्माण्डफलम् अपि तत्र प्रवेक्ष्यति। कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम् एकाम् न्यगिरत्। एतत् निभाल्य फूराइरा स्वगृहम् प्रत्यधावत्।
कूष्माण्डफलम् अपि ताम् अनुचचाल प्रोवाच च– "मांसम् भक्षयितुम् इच्छामि।"
पिता प्रोवाच- "फूराइरे!  धावित्वा पशुगोष्ठम् प्रविश।" कूष्माण्डफलम् अपि तदनु चचाल। गाम् एकाम् न्यगिरत् विशालरूपम् च दधौ। फूराइरा स्वगृहम् आगच्छत्। कूष्माण्डफलम् अपि प्रोवाच- "मह्यम् भोजनम् प्रयच्छ।"
तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः च आसन्। पिता स्वसुताम् प्राह- "क्रमेलकपार्श्वम् गच्छ कूष्माण्डफलम् क्रमेलकम् अपि न्यगिरत्। किञ्चित् क्षणानन्तरम् बुभुक्षितम् एतत् सुताम् एव खादितुम् ऐच्छत्।
एतद् वीक्ष्य क्रोधान्वितः पिता तस्य उपरि पादप्रहारम् अकरोत्। पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम्। स्फुटितमात्रम् एव तस्मात् निर्गता गौः, अजा , क्रमेलकः जीवितदशायाम् एव।
एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम् अकुर्वन्। यत् कूष्माण्डफलम् सर्वान् खादितुम् ऐच्छत् तत् क्षणेन भस्मसात् अभवत्।