बुद्धिमान् बालः
कश्चन द्विजः सकलेषु शास्त्रेषु प्रवीणः आसीत् । काशीं जिगमिषु सः छात्रैः सह ग्रामात् निर्जगाम । एकस्मिन् दिने सूर्ये अस्तंगते न कोपि ग्रामः तस्य दृष्टिपथमगात् । परन्तु वने गाः चारयन्तं स्फुरद्रूपिणं बालकं ददर्श, पप्रच्छ च बालं तव ग्रामः कि यद्दूरे वर्तते इति सोब्रूत तात, मां पश्य चार्यमाणाः गाः पश्य, इमां अटवी पश्य, अतीतां सन्ध्यां, अन्धकारमायान्तं पश्य, विचारिते तव उत्तरं सुव्यक्तं भवति ननु ? ग्रामः यदि अदूरे न अस्यां भीकरवेलायां कथमहं एकाकी अभविष्यम्? मम पितरः कथं वा निश्चिन्ताः भवेयुः ? इति । विद्वान् सः बालक वचः शुश्राव । तस्य तार्कि कीं धियं चाजानात् । कर्तव्यं च निश्चित्य तेन सह तस्य गृहं प्राप । रात्रौ तस्य पितरं संबोध्य भाग्यशालिन्, तव पुत्रः अतीव बुद्धिमान् । गाः चारयितुं नार्हति । मां काशीं अनुगच्छतु एनं सर्वशास्त्रज्ञं क रोमि इत्यवोचत् । पितरौ सशिष्यस्य विदुषः अपेक्षां विज्ञाय बालं तेन सह प्रास्थापयताम् । गते कस्मिंश्चित् काले बालः पण्डितश्रेष्ठो भूत्वा ग्रामे पित्रोः तृप्तिमावहन् चिरं अवसत् ।
No comments:
Post a Comment