Saturday, 22 December 2012

अहं विघ्नविनायक: अस्मि -04

वेदानां प्राप्त्या ब्रह्मा नितरां संतुष्टः। विघ्नेश्वरं प्रशंसन् सः उक्तवान् – “हे विघ्नेश्वर! इतः परं भवन्तं ध्यात्वा हृत्पूर्वकं सम्पूज्य च एव अहं सृष्टिकार्ये प्रवृत्तः भविष्यामि। मम सृष्टिकार्यं निर्विघ्नतया यथा प्रचलेत् तथा कृपां करोतु कृपया। एतावता मया या सृष्टिः कृता सा विकृता जाता अस्ति। तस्याः प्रतिस्वीकरणमार्गम् अपि उपदिशतु” इति।
ततः विघ्नेश्वरस्य प्रसादेन विकृतसृष्टिः अदृश्या जाता। तदा विघ्नेश्वरः ब्रह्माणम् उक्तवान् - “हे ब्रह्मदेव! अहं वक्रतां खण्डशः कृत्वा नाशयामि। मम शुण्डां वक्राकारेण धरन् अहं मम एतत् सामर्थ्यं सङ्केतयामि। वक्रस्य तुण्डस्य (मुखस्य) धारणात् अहं वक्रतुण्डः अस्मि। वक्रतुण्डरूपिणं मां ध्यात्वा यः कार्यारम्भं करोति तस्य कार्ये वक्रता कदापि न भवति। भवान् अपि स्व-इच्छानुरूपं मम रूपं ध्यात्वा सृष्टिकार्यस्य आरम्भं करोतु। सृष्टिः काचित् कला। तस्यां कलायां कापि वक्रता न भवेत्। मां ध्यात्वा सृष्टिकार्यस्य आरम्भं कुर्वतः भवतः कृते एतत् जगत् एव कलानिलयः। इतः परं सर्वे जीविनः मां पूजयितुं यथा शक्नुयुः तथा आदिपूज्यविघ्नेश्वररूपेण, समस्तजगतः रक्षणं कुर्वन् सङ्कल्पसिद्धिकारकस्य सिद्धिविनायकस्य रूपेण, समस्तगणानाम् अधिपतिः सन् गणपतिरूपेण, शिवपार्वत्योः पुत्ररूपेण, च अहम् अवतारं करिष्यामि’’ इति। एतावत् उक्त्वा विघ्नेश्वरमूर्तिः अदृश्यतां गता।
एतदवसरे सरस्वती हिन्दोलरागं श्रीरागं च आश्रित्य स्ववीणया मङ्गलध्वनिम् उत्पादयन्ती आकाशं पुलकितं कृतवती।
ब्रह्मदेवः ‘विघ्नेश्वराय नमः’ इति उक्त्वा सृष्टिकार्यस्य आरम्भं कृतवान्। एतदवसरे सृष्टिकार्यं सुन्दरं निर्विघ्नं च आसीत्। गम्भीर-विशाल-पर्वत-पङ्क्तयः अमृततुल्यजलयुक्ताः नद्यः, सुन्दराणि वनानि; वर्णमयपाञ्चालिकाः इव स्थिताः जीविनः, शारीरकतया मानसिकतया च शक्तिशालिनः मानवाः इत्यादयः ब्रह्मणा सृष्टाः| एतत् जगत् कलानिलयः एव आसीत् तस्य। वाग्देवी सरस्वती स्ववीणातः स्वरान् उत्पादयन्ती जगते सङ्गीतशास्त्रं दत्तवती। जीविसमुदायः समस्तशुभलक्षणैः विकासं प्राप्नोत्। जटाभिः उपेतः सन् विकासं प्राप्नुवन् वटवृक्षः इव जगत् विकासं प्राप्नुवत् आसीत्।

अहं विघ्नविनायक: अस्मि -02

केषाञ्चित् शिर: उदरभागे आसीत्। कबन्धा: इव दृश्यन्ते स्म ते। आक्रन्दनं श्रूयते स्म तेषाम्। केचन उन्मादेन नृत्यन्ति स्म। पुन: केचन विलक्षणव्यवहारं कुर्वन्ति स्म।
कश्चन दृढकाय: पुरुष: ताडवृक्षसदृशीं विकृताकारां महिलां प्रदर्शयन् आकाशस्य दिशि मुखं कृत्वा उच्चस्वरेण – ‘‘हे ब्रह्मदेव। एतादृश्‍या सह अहं कथं वा मम गृहस्थजीवनं यापयितुं शक्नुयाम्?’’ इति अपृच्छत्।
केचन विकृताकारा: मानवा: रुदन्त: ब्रह्माणं निन्दन्ति स्म - ‘‘हे ब्रह्मदेव। भवान् तु चतुर्मुख: इति निर्दिश्यते। चत्वारि मुखानि धरन् अपि भवान् सामान्यबुद्धिमान् अपि न इति भाति। किमर्थं भवता वयम् एतादृशरूपयुक्ता: सृष्टा:?’’ इति।
तेषां निन्दनकोलाहलाक्रन्दनादिकं श्रुत्वा वस्तुत: अपि ब्रह्मण: चतुर्षु अपि शिरस्सु भ्रमणम् उत्पन्नम् इव। तस्य अष्टानाम् अपि नेत्राणां पुरत: अन्धकार: प्रसृत:| आश्चर्यचकित: स: आर्तदृष्‍ट्या सरस्वतीं दृष्टवान्। सरस्वती अपि असहायकतां दर्शयन्ती मन्दहासं प्रकटय्य मौनम् आश्रितवती।
ब्रह्मा किञ्चित विचिन्त्य उच्चस्वरेण अवदत् – ‘‘मम सृष्टे: एषा दुस्थिति: किमर्थं अभवत्? मया तु योग्येन क्रमेण सङ्कल्प्य जगत: निर्माणम् आरब्धम् आसीत्। तथापि एवं किमर्थं जातम्?’’ इति।
ब्रह्मण: वचनं दशसु अपि दिक्षु प्रतिध्वनितं जातम्। किङ्कर्तव्यतामूढतया सर्वत्र पश्यता ब्रह्मणा एक: प्रकाश: दृष्ट:। तत्र तेन काऽपि अपूर्वा मूर्ति: दृष्‍टा। सा मूर्ति: गजशिरोयुक्ता आसीत्। तस्या चत्वार: हस्ता: आसन्। तेषु चतुर्षु हस्तेषु क्रमेण पाश:, अङ्कुश:, कलश:, परशु: च आसन्। सा मूर्ति: पूर्णचन्द्र: इव प्रकाशते स्म। तस्या: मुखकान्ति: सर्वत्र प्रसृता आसीत्।
तस्मिन् समये सरस्वती स्ववीणया ओङ्कारनादम् उत्पादितवती। तस्या: अङ्गुलय: वीणातन्त्रीषु स्वयं चलन्ति स्म। आदौ वीणात: मालवगौलरागस्य उत्पत्ति: जाता। तत: स: एव राग: हंसध्वनिरूपेण परिवृत्त:|

अहं विघ्नविनायक: अस्मि -01


सत्यलोके कमलासने उपविश्य आदिनं सृष्टिकरणात् ब्रह्मा श्रान्त: आसीत्। कल्पान्तकाल: यदा आसन्न: तदा निद्रासूचिका तन्द्रा तम् आवृणोत्। यदा यदा स: ज़ृम्भणम् अकरोत् तदा पर्वतेषु अग्नि: समुत्पन्न:| निद्राकारणत: यदा तस्य नेत्रे निमीलिते जाते तदा आकाशस्थै: प्रलयकालीनमेघै: मुलसधारया वर्षद्भि: जगत् जलेन आप्लावितम्। अत: सर्व जले निलीनं जातम्। सर्वासु दिक्षु अन्धकार: प्रसृत:|
एतस्मिन् प्रलयकाले ब्रह्मा निद्रां कृतवान्। प्रलयकाल: तस्य रात्रिसमय:। नूतनकल्पस्य आरम्भकाल: आसन्न:। यदा जगति प्रकाशस्य प्रसार: आरब्ध: तदा सरस्वतीदेवी वीणां गृहीत्वा भूपालरागस्य आलापनं कृतवती। एतेन ब्रह्मण: निद्रा अपगता जाता। ब्रह्मा पद्मासने उपविश्य  चतसृषु दिक्षु दृष्‍टिं प्रसारितवान्। अध: समग्रं जगत् जलमयं सत् कल्लोलितं दृष्टं तेन। तेषां तरङ्गांणां मध्ये एक: श्वेताकिरणपुञ्‍ज: तेन दृष्‍ट:| तरङ्गांणां मध्ये तरत् किञ्चन वटपत्रं, वटपत्रस्य उपरि शयान: कश्चन शिशु:, तेन शिशुना क्रियमाण: वामपादाङ्गुष्ठस्य लेहनं च तेन दृष्टम्।
ब्रह्मा नेत्रे निमील्य ध्यानं कृतवान्। यदा स: नेत्रे उन्मीलितवान् तदा एकं विचित्रं दृश्यं तेन दृष्टम्।
ब्रह्मा अवगतवान् यत् स: शिशु: न  अन्य:, अपि तु विराटस्वरूपि परब्रह्म एव इति। इदानीं तस्य शिशो: शिर: गरशिरसा समानं दृश्यते स्म। स: शिशु: लघ्व्या शुण्डया दक्षिणपादं गृहीत्वा मुखे स्थापयन् आसीत्।
शिशो: मुखं प्रसन्नम् आसीत्। चन्द्र: इव कान्त्या प्रकाशते स्म तत्। तस्य चत्वार: हस्ता आसन्। ब्रह्मा आश्चर्येण तम् एव शिशुं पश्यन् आसीत्। अकस्मात् स: शिशु: अदृश्यतां गत:| तस्मिन् प्रदेशे कश्चन मृद्राशि: दृष्टिगोचर: जात:|
गच्छता कालेन जलत: विशाल: भूभाग: उत्पन्न:| समुद्र: अपि निर्मित: अभवत्।
ब्रह्मा सृष्टे: आरम्भं कृत्वान्। आदौ नदीपर्वतादय: उत्पादनीया: इति सङ्कल्प्य ब्रह्मा कमण्डलुत: जलं स्वीकृत्य भूमौ पातितवान्। तत: वृक्ष-सस्य-खनिजादीनाम् उत्पत्तिं सङ्कल्प्य जलम् अभिमन्त्र्य भूमिं सिक्तवान्। तत: स: समुद्रे मत्स्यान्, भूमौ पशुपक्षिकृमि-कीटादीन् च सृष्टवान्। एतदनन्तरं मनुष्याणां सृष्‍टिं कर्तुम् इच्छन् स: कमण्डलुजलं हस्तेन स्वीकृत्य भूमौ पातितवान्।

यदा ब्रह्मा सष्‍टिक्रियायां मग्न: आसीत् तदा सरस्वती वीणावादननिरता आसीत्। तदवसरे अप्रयत्नेन अपस्वर: उत्पन्न:। एतत् श्रुत्वा आश्चर्यचकिता सरस्वती अध: दृष्‍टवती। पत्न्या: आश्चर्यस्य कारणं किम् इति न ज्ञातं ब्रह्मणा। सोऽपि कमलासनस्थ: एव अवनम्य अध: दृष्टवान्।

तत्र पर्वता: अधोमुखा: आसन्। तेषां शिखराणि भूमौ लग्नानि आसन्। मूलभागा: सूर्यकिरणप्रसारे अवरोधं जनयन्त: वर्धमाना: दृश्यन्ते स्म। नद्य: समुद्रात् निर्गत ऊर्ध्वमुखं वहनत्य: आसन्। वृक्षा: अपि अधोमुखा: आसन्। तेषां मूलानि आकाशं स्पृशन्ति स्म।

समुद्रस्य तरङ्गाणाम् उपरि मत्स्यादि जलचरा: दृश्यन्ते स्म। केचन क्षणे क्षणे वर्धमाना: आसन्। पुन: केचन पक्षिण: इव डयन्ते स्म। पशव: विकृताकारा दृश्यन्ते स्म। तेषु केषाञ्चित् शिर: न आसीत्। पुन: केषाञ्चित् पुच्छं। केचन पशव: एकपादवन्त: आसन्, पुन: केचन त्रिपादवन्त:| केषाञ्चित् नेत्रकर्णादय: न आसन्, पुन: केषाञ्चित् मुखम् एव न आसीत्। केषाञ्चित् मुखम् पृष्‍ठभागे आसीत्, पुन: केषाञ्चित् शिरसि पुच्छम् आसीत्। केषाञ्चित् ‍पक्षिणां पक्षौ न आस्तां, पुन: केषाञ्चित् पादौ। अत: ते पक्षिण: उड्डयने असमर्था: आसन्।

एतत् सर्वं दृष्ट्वा भीतिं प्राप्य ब्रह्मा मानवानां दिशि दृष्टिं प्रसारितवान्।

तत्रापि एषा एव कथा। केषाञ्चित् शिरोद्वयम् आसीत्। एकं शिर: पुरुषीयं चेत् अपरं महिलीयम्। काश्‍चित् ‍महिला: गजकारिका: ताडवृक्षाकारिका: च आसन्। केषाञ्चित् एक: पाद: त्रय: पादा: वा आसन्।

Friday, 7 December 2012

अहं विघ्नविनायक: अस्मि -03




गजाननाकारं प्राप्तवती सा मूर्ति: वटपत्रे स्थिता सती ब्रह्माणम् अभयमुद्रया आशिषा अनुगृहीतवती। तां परित: शरत्कालीनचन्द्रकिरणा: इव काचित् अपूर्वा कान्ति: प्रसृता आसीत्।  ब्रह्मा अप्रयत्नेन करौ योजयित्वा अवदत् - ‘’हे महानुभाव! अपूर्वाकार: क: भवान्? भवान् क: इति बहुधा चिन्तनेन अपि मया न ज्ञातम्। कृपया स्वस्य रूपस्य परिचयकथनेन माम् अनुगृह्णातु” इति।
‘’वत्स! ब्रह्मदेव! सङ्कल्पेन सह विकल्प: अपि अनुविद्ध: भवति सदापि। स: एव उच्यते ‘विघ्न:’ इति। विघ्नान् निवार्य सङ्कल्पपूर्तिं कुर्वन अहं विघ्नेश्वर: अस्मि। विघ्नानां नेतृत्वं वहन्तं विकल्पम् अहं स्वस्य परशुना छिनद्मि। कलशेन सङ्केत्यमानं साफल्यं गमयामि सर्वाणि कार्याणि इत्यत: अहं विघ्नविनायक: अस्मि। पृथिव्यप्तेजोवाय्वाकाशरूपाणां पङ्चभूतानां गणस्य अधिपति: अस्मि इत्यत: अहं गणपति: अपि अस्मि। खाद्यपदार्थान् क्षेत्रादींन् च नाशयत: विघ्नकारकान् गजान् तीक्ष्णेन अङ्कुशेन निगृह्य पाशेन बध्नामि। अत: भवान् मां विघ्नेश्वरनाम्ना निर्देष्टुम् अर्हति’’ इति गम्भीरवाण्या अवदत् विघ्नेश्वर:|
तदा ब्रह्मा अवदत् - “हे विघ्नेश्वर! हे देव! मम सृष्‍टिकार्ये एतादृश: विघ्न: किमर्थम् उत्पन्न:? उत्तमसृष्‍टिं कर्तुं मया क: मार्ग: आश्रयणीय:? अहं किङ्कर्तव्यतामूढ: अस्मि। कृपया इतिकर्तव्यतां बोधयतु” इति।

‘’विघ्नस्य परिचय: भवत: भवतु इति उद्देशेन एव एतत् सर्वं प्रवृत्तम्। वटपत्रशायिबालगणपतिरूपेण अहं भवते दर्शनं दत्तवान् आसम्। तस्मिन् समये भवता मद्विषये न चिन्तितम् एव। मम विषये चिन्तनं नाम सम्भाव्यविघ्नस्य विषये अवधानदानरूपस्य ज्ञानस्य प्राप्ति:। अहं तस्यैव ज्ञानस्य रूपम्। आ ब्रह्मण: आसामान्यजन्तु कार्यारम्भत: पूर्वं कार्यसफलतायै अपेक्षितं ज्ञानं प्राप्नुयात् एव। गज: अग्निमपदस्थापनात् पूर्वं भूमिं परीक्षते। प्राणिषु हस्ती महाबलवान्। एवमेव ज्ञानक्षेत्रे बुद्धिबलं श्रेष्ठम्। हस्तिन: यादृशी मेधाशक्ति: तादृशी मेधाशक्ति: प्राप्तव्या इत्येतत् सङ्क़ेतयितुम् अहं गजानन: जातः अस्मि। यदा भवान् निद्रायां मग्नः आसीत् तदा सोमकासुरः नाम राक्षसः चतुरः अपि वेदान् अपहृत्य समुद्रतले गोपितवान् आसीत्। महाविष्णुः मत्स्यावतारं धृत्वा तं राक्षसं संहृतवान्, चतुरः वेदान् वटपत्रशायिने मह्यं दत्तवान् च। एतानि स्वीकरोतु भवान्। इतः परं निर्विघ्नतया सृष्टिकार्यं करोतु” इति उक्त्वा विघ्नेश्वरः ब्रह्मणे वेदान् समर्पितवान्।

Thursday, 22 November 2012

कूपे सुवर्णस्य अङ्गुलीयकम् 2

 सर्वे जना: तत: निर्गता: | इदानीं बीरबल: एकाकी अतिष्ठत् | स: चतुसृषु दिक्षु दृष्टिं प्रसारितवान् | तेन अवलोकितं यत् किञ्चिद्दूरे कश्चन कुटीर: अस्ति , तत्पार्श्वे काचित् धेनु: वृक्षे बद्धा अस्ति इति | झटिति बीरबल: कुटीरस्य समीपं गत्वा उच्चै: अपृच्छत् - ‘‘ किम् अन्त: कोऽपि अस्ति ?’’ इति काचित् वृद्धा कुटीरात् बहि: आगत्य तत्र स्थितं बीरबलम् अपृच्छत् - ‘‘ पुत्र , क: भवान् ? भवते किम् आवश्यकम् ?’’ इति | ‘‘ मात: ! मया एकमुष्टिपरिमितं गोमयम् अपेक्ष्यते | तन्निमित्तं धनम् अपि दद्याम् ’’ इति वदन् बीरबल: स्वकोषात् धनं स्वीकर्तुम् उद्युक्त: जात: ‘‘ एतन्निमित्तं धनस्य आवश्यकता का पुत्र ? यावत् इष्यते तावत् भवान् स्वीकृत्य गच्छतु | आतप: अधिक: अस्ति ’’ इति वदन्ती वृद्धा अन्त: गतवती बीरबल: वामहस्तेन मुष्टिमितं गोमयं स्वीकृत्य कूपस्य समीपं गत्वा कूपस्य अन्त: दृष्टिं प्रसारितवान् | सुवर्णाङ्गुलीयकं तत्र प्रकाशमानम् आसीत् | अङ्गुलीयकं  लक्ष्यीकृत्य स: गोमयं क्षिप्तवान् | गोमयम् अङ्गुलीयकस्य उपरि पतितम् |  
तस्मात् अङ्गुलीयकं तिरोहितं जातम् | तत: बीरबल: शिलाखण्डं सूत्रेण सम्यक् बद्ध्‌वा कूपस्य अन्त: गोमयस्य उपरि अक्षिपत् | शिलाखण्ड: गोमये सम्यक् लग्न: | आत्मना कृतस्य कार्यस्य विषये सन्तोषम् अनुभवन् बीरबल: तत् सूत्रं कूपस्य पार्श्वे विद्यमाने सस्ये बद्धवान्‌ | तत: स: सैनिकौ उद्दिश्य - ‘‘ भवन्तौ एतस्य रक्षणं कुरुताम् | अहं सायङ्काले प्रत्यागमिष्यामि ’’ इति उक्त्वा तत: निर्गत: | महान् आतप: आसीत् | तथापि तेन सन्तोष: अनुभूत: , यत: एष: महान् आतप: मम योजनाया: सफलतायै एव भवेत् इति
सूर्यास्तानन्तरं घण्टात्मक: काल: अतीत: | तदा बीरबल: कूपस्य समीपम् आगच्छत् | सस्ये यत् सूत्रं बद्धम् आसीत् तत् निष्कास्य अत्यन्तं जागरूकतया स: तत् सूत्रं कूपात् बहि: स्वीकृतवान् | तदा सूत्रेण बद्ध: शिला-खण्ड: , तेन सह आतपात् शुष्कीभूतं गोमयं , तेनैव सह तस्य अन्त: विद्यमानं महाराजस्य सुर्वर्णस्य अङ्गुलीयकं च कूपात् बहि: आगतम् |
तत: बीरबल: शुष्कं गोमयं निष्कास्य अपश्यत् | तस्मिन् सुवर्णाङ्गुलीयकं सुरक्षितम् आसीत् | स: अङ्गुलीयकं स्वच्छीकृत्य स्वस्य वस्त्रे संस्थाप्य महाराजस्य समीपम् अगच्छत् | राजभवने अकबरेण सह अन्ये प्रमुखा: अपि आसन् |
‘‘ महाप्रभो , नमस्करोमि ’’ इति वदन् बीर-बल: अवनम्य स्थित: |
‘‘ किं भवता अङ्गुलीयकम् आनीतम् ?’’ - अकबर: अपृच्छत् |
‘‘ आं महाप्रभो , मया आनीतम् अस्ति अङ्गुलीयकम् ’’ इति वदन् बीरबल: महाराजाय अङ्गुलीयकम् अददात् |
‘‘ कथम् एतत् बहि: निष्कासितं भवता ?’’ इति अकबर: आश्चर्येण अपृच्छत् | बीरबल: सर्वं सविस्तरं विवृतवान् |
‘‘ निस्सन्देहं भवान् सर्वेषाम् अपेक्षया बुद्धिमान् चतुरश्च अस्ति ’’ इति वदन् अकबर: बीरबलाय धनयुक्तं स्यूतम् अददात् |
‘‘ भवादृश: दयालु: उदात्तगुणोपेत: महा-राज: अन्यत्र कुत्रापि न दृश्यते ’’ इति वदन् बीरबल: पुन: अकबरमहाराजं विनयेन नमस्कृतवान् |

कूपे सुवर्णस्य अङ्गुलीयकम् -1

तानि घर्मदिनानि| सूर्योदय: जात: आसीत्|  सूर्यरश्मीनां ताप: वर्धमान: आसीत्|  नद्य: सिकताभि: एव पूर्णा: आसन्| कूपा: शुष्का: जाता: आसन्| आतपस्य आधिक्यम् असहमाना: जना: गृहस्य अन्त: एव भवन्ति स्म इत्यत: मार्गेषु कोऽपि न दृश्यते स्म|
एकदा प्रात: चक्रवर्ती अकबर: नगर-सञ्चारार्थं प्रस्थितवान्| तेन सह बीरबल: अन्ये गण्या: च आसन्| किञ्चित् अटनानन्तरं अकबर: अवदत् - ‘‘प्रात: अस्मिन् समये एव सूर्यातप: उग्र: अस्ति| सर्वे अपि कूपा: शुष्का: जाता: सन्ति’’ इति| एवं वदता तेन पार्श्वे विद्यमान: कूप: दृष्ट:| ‘‘अस्मिन् कूपे जलम् अस्ति उत न इति पश्यामि’’ इति वदन् स: किञ्चित् अवनम्य कूपस्य अन्त: अपश्यत्| अन्ये अपि अवनम्य कूपस्य अन्त: दृष्टिं प्रसारितवन्त:|  ‘‘जलस्य बिन्दु: अपि नास्ति’’ इति चिन्तायुतेन स्वरेण अवदत् अकबर:|
‘‘यावत् वृष्टि: न भवेत् तावत् एषा दुरवस्था अनुवर्तेत एव | कूपे किञ्चन वस्तु क्षिप्त्वा पश्याम - तत् भूमिं स्पृशति उत न इति | जलं यदि स्यात् तर्हि भूमिस्पर्श: असम्भव:’’ इति वदन् बीरबल: एकं लघुं शिलाखण्डं स्वीकृत्य कूपे अक्षिपत् | शिला-खण्डस्य पतनशब्दात् ज्ञातं यत् तेन भूमि: स्पृष्टा इति |
‘‘एकेन शिलाखण्डेन सह द्वितीय: शिला-खण्ड: अपि क्षेपणीय: खलु’’ इति वदन् अकबर: स्वस्य अङ्गुलीत: स्वर्णाङ्गुलीयकं निष्कास्य कूपे अक्षिपत् | एतत् दृष्ट्वा बीरबल: आश्चर्येण स्तब्ध: जात:|
स: अवदत् - ‘‘एक: शिलाखण्ड: यदा क्षिप्यते तदा द्वितीय: शिला-खण्ड: क्षेपणीय: इति जानामि | परं सामान्य: शिलाखण्ड: यत् कार्यं कुर्यात् तत् कर्तुम् अमूल्यस्य सुवर्णखण्डस्य उपयोगस्य का आवश्यकता ?’’ इति |  झटिति स्वेन कृत: दोष: अकबरेण अव- गत: | स: ज्ञातवान् यत् त्वरमाणेन मया एष: दोष: कृत: इति | स: चिन्ताक्रान्त: जात: | तस्य मनसि विचार: आगत: - ‘कूपे कञ्चित् जनम् अवतार्य तत् अङ्गुलीयकं प्राप्तव्यम्’ इति | परम् अपरस्मिन् एव क्षणे तस्य मनसि कश्चन विचित्र: विचार: आगत:!
‘‘बीरबल ! कञ्चित् जनं कूपे अवतार्य अङ्गुलीयकं प्राप्तुं शक्येत | परन्तु ...’’ इति वदन् अकबर: मौनेन स्थितवान् |  ‘‘उच्यतां महाप्रभो !’’ - बीरबल: अन्ये च उक्तवन्त: |  ‘‘कूपे अवतरणम् अकृत्वा एव किं कोऽपि अङ्गुलीयकं बहि: आनेतुं शक्नुयात् ?’’ - अकबर: अपृच्छत् |  ‘‘एतत् असम्भवम्’’ इति कश्चित् वृद्ध: अवदत् |  ‘‘एवं तर्हि कूपे अनवतीर्य अङ्गुलीयकं कोऽपि बहि: स्वीकर्तंु न शक्नुयात् इति खलु भवताम् अभिप्राय: ?’’ इति अपृच्छत् अकबर:| ‘‘आं महाप्रभो ! एतत् सर्वथा असम्भवम् एव’’ इति कश्चन अन्य: प्रमुख: अवदत् |
 ‘‘बीरबल, भवत: अभिप्राय: क: ?’’ इति बीरबलं पश्यन् अपृच्छत् अकबर: |  ‘‘अस्मिन् एव विषये अहं चिन्तयन् अस्मि महाप्रभो !’’ इति वदन् बीरबल: स्वस्य उष्णीषं निष्कास्य शिर: कण्डूयमान: अतिष्ठत् |  ‘‘शिरस: कण्डूयनमात्रेण किं समस्या परिहृता भवेत् ?’’ - कश्चन प्रमुख: उपहास-मिश्रितेन स्वरेण अपृच्छत् |
‘‘आं, मम विषये तु एतत् अस्ति सत्यम् | परं भवतां विषये एतत् सत्यं न स्यात्’’ - बीरबल: गम्भीरेण स्वरेण अवदत् |  ‘‘भवत: विषये एव एवं किमर्थं भवति ?’’ इति अन्य: अपृच्छत् | ‘‘यत: मयि बुद्धि: अस्ति, भवत्सु नास्ति | कोऽपि उपाय: न स्फुरित: इत्यत: अहं कण्डूय-मान: अस्मि | ज्ञातं खलु ?’’ इति अवदत् बीरबल: | तस्य वचनं श्रुत्वा सर्वे हसितवन्त: |  ‘‘मया उक्तं खलु ? शिरस: कण्डूयनेन उपाय: स्फुरति इति | इदानीं मया ज्ञातं - कथम् एतत् अङ्गुलीयकं बहि: स्वीकरणीयम् इति’’ इति उत्साहयुतेन स्वरेण अवदत् बीरबल: |
  अकबर: सोत्कण्ठम् अपृच्छत् - ‘‘उच्यताम् | कथं तत् निष्कासयितुं शक्येत ?’’ इति |  ‘‘तन्निमित्तं कश्चन समय: अपेक्षित: एव महाप्रभो ! एतत् कार्यं सायङ्कालाभ्यन्तरे सिद्धं भवेत् इति चिन्तयामि अहम् | तावत् अहं मम योजनां गोपयितुम् इच्छामि | कम् अपि वक्तुं न इच्छामि’’ इति अवदत् बीरबल: |
‘‘भवता वञ्चना न क्रियेत इत्यत्र क: विश्वास: ?’’ इति अपृच्छत् कश्चित् |  ‘‘वञ्चनाकरणं मम स्वभावविरुद्धम् अस्ति | कूपात् अङ्गुलीयकस्य निष्कासनार्थं मया समीचीन: उपाय: चिन्तित: अस्ति | एवं स्थिते मया किमर्थं वञ्चनामार्ग: आश्रीयेत ?’’ इति अवदत् बीरबल: |
  ‘‘ भवतु | महाप्रभो ! अहं निवेदयामि यत् अत्र परिवीक्षणार्थं द्वयो: सैनिकयो: नियोजनं वरम् इति | यत: कस्मिन्नपि जने पूर्ण: विश्वास: न करणीय: ’’ इति आग्रह-पूर्वकम् अवदत् कश्चन प्रमुख: ‘‘ बीरबले मयि पूर्ण: विश्वास: अस्ति एव | तथापि भवत: सूचनाम् अहम् अङ्गीकरोमि ’’ इति अवदत् अकबर: तत: गमनात् पूर्वं स: उभौ सैनिकौ आहूय अवदत् - ‘‘ भवन्तौ अत्रैव तिष्ठेताम् | कोऽपि जन: कूपं यथा न अवतरेत् तथा भवद्भ्यां द्रष्टव्यम् ’’ इति |

Saturday, 10 November 2012

बुद्धिमान्‌ बालः

बुद्धिमान्‌ बालः 

कश्चन द्विजः सकलेषु शास्त्रेषु प्रवीणः आसीत्‌ । काशीं जिगमिषु सः छात्रैः सह ग्रामात्‌ निर्जगाम । एकस्मिन्‌ दिने सूर्ये अस्तंगते न कोपि ग्रामः तस्य दृष्टिपथमगात्‌ । परन्तु वने गाः चारयन्तं स्फुरद्रूपिणं बालकं ददर्श, पप्रच्छ च बालं तव ग्रामः कि यद्दूरे वर्तते इति सोब्रूत तात, मां पश्य चार्यमाणाः गाः पश्य, इमां अटवी पश्य, अतीतां सन्ध्यां, अन्धकारमायान्तं पश्य, विचारिते तव उत्तरं सुव्यक्तं भवति ननु ? ग्रामः यदि अदूरे न अस्यां भीकरवेलायां कथमहं एकाकी अभविष्यम्‌? मम पितरः कथं वा निश्चिन्ताः भवेयुः ? इति । विद्वान्‌ सः बालक वचः शुश्राव । तस्य तार्कि कीं धियं चाजानात्‌ । कर्तव्यं च निश्चित्य तेन सह तस्य गृहं प्राप । रात्रौ तस्य पितरं संबोध्य भाग्यशालिन्‌, तव पुत्रः अतीव बुद्धिमान्‌ । गाः चारयितुं नार्हति । मां काशीं अनुगच्छतु एनं सर्वशास्त्रज्ञं क रोमि इत्यवोचत्‌ । पितरौ सशिष्यस्य विदुषः अपेक्षां विज्ञाय बालं तेन सह प्रास्थापयताम्‌ । गते कस्मिंश्चित्‌ काले बालः पण्डितश्रेष्ठो भूत्वा ग्रामे पित्रोः तृप्तिमावहन्‌ चिरं अवसत्‌ ।