Thursday 22 November 2012

कूपे सुवर्णस्य अङ्गुलीयकम् -1

तानि घर्मदिनानि| सूर्योदय: जात: आसीत्|  सूर्यरश्मीनां ताप: वर्धमान: आसीत्|  नद्य: सिकताभि: एव पूर्णा: आसन्| कूपा: शुष्का: जाता: आसन्| आतपस्य आधिक्यम् असहमाना: जना: गृहस्य अन्त: एव भवन्ति स्म इत्यत: मार्गेषु कोऽपि न दृश्यते स्म|
एकदा प्रात: चक्रवर्ती अकबर: नगर-सञ्चारार्थं प्रस्थितवान्| तेन सह बीरबल: अन्ये गण्या: च आसन्| किञ्चित् अटनानन्तरं अकबर: अवदत् - ‘‘प्रात: अस्मिन् समये एव सूर्यातप: उग्र: अस्ति| सर्वे अपि कूपा: शुष्का: जाता: सन्ति’’ इति| एवं वदता तेन पार्श्वे विद्यमान: कूप: दृष्ट:| ‘‘अस्मिन् कूपे जलम् अस्ति उत न इति पश्यामि’’ इति वदन् स: किञ्चित् अवनम्य कूपस्य अन्त: अपश्यत्| अन्ये अपि अवनम्य कूपस्य अन्त: दृष्टिं प्रसारितवन्त:|  ‘‘जलस्य बिन्दु: अपि नास्ति’’ इति चिन्तायुतेन स्वरेण अवदत् अकबर:|
‘‘यावत् वृष्टि: न भवेत् तावत् एषा दुरवस्था अनुवर्तेत एव | कूपे किञ्चन वस्तु क्षिप्त्वा पश्याम - तत् भूमिं स्पृशति उत न इति | जलं यदि स्यात् तर्हि भूमिस्पर्श: असम्भव:’’ इति वदन् बीरबल: एकं लघुं शिलाखण्डं स्वीकृत्य कूपे अक्षिपत् | शिला-खण्डस्य पतनशब्दात् ज्ञातं यत् तेन भूमि: स्पृष्टा इति |
‘‘एकेन शिलाखण्डेन सह द्वितीय: शिला-खण्ड: अपि क्षेपणीय: खलु’’ इति वदन् अकबर: स्वस्य अङ्गुलीत: स्वर्णाङ्गुलीयकं निष्कास्य कूपे अक्षिपत् | एतत् दृष्ट्वा बीरबल: आश्चर्येण स्तब्ध: जात:|
स: अवदत् - ‘‘एक: शिलाखण्ड: यदा क्षिप्यते तदा द्वितीय: शिला-खण्ड: क्षेपणीय: इति जानामि | परं सामान्य: शिलाखण्ड: यत् कार्यं कुर्यात् तत् कर्तुम् अमूल्यस्य सुवर्णखण्डस्य उपयोगस्य का आवश्यकता ?’’ इति |  झटिति स्वेन कृत: दोष: अकबरेण अव- गत: | स: ज्ञातवान् यत् त्वरमाणेन मया एष: दोष: कृत: इति | स: चिन्ताक्रान्त: जात: | तस्य मनसि विचार: आगत: - ‘कूपे कञ्चित् जनम् अवतार्य तत् अङ्गुलीयकं प्राप्तव्यम्’ इति | परम् अपरस्मिन् एव क्षणे तस्य मनसि कश्चन विचित्र: विचार: आगत:!
‘‘बीरबल ! कञ्चित् जनं कूपे अवतार्य अङ्गुलीयकं प्राप्तुं शक्येत | परन्तु ...’’ इति वदन् अकबर: मौनेन स्थितवान् |  ‘‘उच्यतां महाप्रभो !’’ - बीरबल: अन्ये च उक्तवन्त: |  ‘‘कूपे अवतरणम् अकृत्वा एव किं कोऽपि अङ्गुलीयकं बहि: आनेतुं शक्नुयात् ?’’ - अकबर: अपृच्छत् |  ‘‘एतत् असम्भवम्’’ इति कश्चित् वृद्ध: अवदत् |  ‘‘एवं तर्हि कूपे अनवतीर्य अङ्गुलीयकं कोऽपि बहि: स्वीकर्तंु न शक्नुयात् इति खलु भवताम् अभिप्राय: ?’’ इति अपृच्छत् अकबर:| ‘‘आं महाप्रभो ! एतत् सर्वथा असम्भवम् एव’’ इति कश्चन अन्य: प्रमुख: अवदत् |
 ‘‘बीरबल, भवत: अभिप्राय: क: ?’’ इति बीरबलं पश्यन् अपृच्छत् अकबर: |  ‘‘अस्मिन् एव विषये अहं चिन्तयन् अस्मि महाप्रभो !’’ इति वदन् बीरबल: स्वस्य उष्णीषं निष्कास्य शिर: कण्डूयमान: अतिष्ठत् |  ‘‘शिरस: कण्डूयनमात्रेण किं समस्या परिहृता भवेत् ?’’ - कश्चन प्रमुख: उपहास-मिश्रितेन स्वरेण अपृच्छत् |
‘‘आं, मम विषये तु एतत् अस्ति सत्यम् | परं भवतां विषये एतत् सत्यं न स्यात्’’ - बीरबल: गम्भीरेण स्वरेण अवदत् |  ‘‘भवत: विषये एव एवं किमर्थं भवति ?’’ इति अन्य: अपृच्छत् | ‘‘यत: मयि बुद्धि: अस्ति, भवत्सु नास्ति | कोऽपि उपाय: न स्फुरित: इत्यत: अहं कण्डूय-मान: अस्मि | ज्ञातं खलु ?’’ इति अवदत् बीरबल: | तस्य वचनं श्रुत्वा सर्वे हसितवन्त: |  ‘‘मया उक्तं खलु ? शिरस: कण्डूयनेन उपाय: स्फुरति इति | इदानीं मया ज्ञातं - कथम् एतत् अङ्गुलीयकं बहि: स्वीकरणीयम् इति’’ इति उत्साहयुतेन स्वरेण अवदत् बीरबल: |
  अकबर: सोत्कण्ठम् अपृच्छत् - ‘‘उच्यताम् | कथं तत् निष्कासयितुं शक्येत ?’’ इति |  ‘‘तन्निमित्तं कश्चन समय: अपेक्षित: एव महाप्रभो ! एतत् कार्यं सायङ्कालाभ्यन्तरे सिद्धं भवेत् इति चिन्तयामि अहम् | तावत् अहं मम योजनां गोपयितुम् इच्छामि | कम् अपि वक्तुं न इच्छामि’’ इति अवदत् बीरबल: |
‘‘भवता वञ्चना न क्रियेत इत्यत्र क: विश्वास: ?’’ इति अपृच्छत् कश्चित् |  ‘‘वञ्चनाकरणं मम स्वभावविरुद्धम् अस्ति | कूपात् अङ्गुलीयकस्य निष्कासनार्थं मया समीचीन: उपाय: चिन्तित: अस्ति | एवं स्थिते मया किमर्थं वञ्चनामार्ग: आश्रीयेत ?’’ इति अवदत् बीरबल: |
  ‘‘ भवतु | महाप्रभो ! अहं निवेदयामि यत् अत्र परिवीक्षणार्थं द्वयो: सैनिकयो: नियोजनं वरम् इति | यत: कस्मिन्नपि जने पूर्ण: विश्वास: न करणीय: ’’ इति आग्रह-पूर्वकम् अवदत् कश्चन प्रमुख: ‘‘ बीरबले मयि पूर्ण: विश्वास: अस्ति एव | तथापि भवत: सूचनाम् अहम् अङ्गीकरोमि ’’ इति अवदत् अकबर: तत: गमनात् पूर्वं स: उभौ सैनिकौ आहूय अवदत् - ‘‘ भवन्तौ अत्रैव तिष्ठेताम् | कोऽपि जन: कूपं यथा न अवतरेत् तथा भवद्भ्यां द्रष्टव्यम् ’’ इति |

No comments:

Post a Comment