Monday 20 April 2015

हीरकहारः

जीवनस्य मार्गः निर्जनारण्य़ेषु निर्गच्छति। कट्वनुभूतयः जीवने भवन्ति एव। गृहस्थाश्रमे अपि विपरीताः परिस्थितयः समागच्छन्ति। द्वारकाधीशस्य श्रीकृष्णस्य पट्टमहिषीम् सत्यभामाम् अधिकृत्य विविधाहासपरिहासदन्तकथाः प्रचलिताः सन्ति, तासु कथासु किमपि उद्देश्यम् तु निहितम् वर्तते।
एकदा श्रीकृष्णः स्वराजमहिषीभिः सह समुपविष्टाः आसन् उद्याने। एकतः सत्यभामा अन्यतः च रुक्मिणी समुपविष्टा आसीत्। रुक्मिणी प्रकृत्या शान्ता गंभीरा च आसीत्। सत्यभामा तु प्रकृत्या कठोरा स्वाभिमानिनी च वर्तते, अतः एव विविधाः प्रसंगाः घटिताः भवन्ति स्म। तस्मिन् एव समये कोऽपि मालाकारः पुष्पमालाभिः सह तत्र उपस्थितः। सुरभिता माला मनोरमाः च आसन्।
श्रीकृष्णः च एकाम् मालाम् गृहीत्वा पार्श्वस्थानाम् रमणीनाम् गले न्यक्षिपत्। श्रीकृष्णस्य हस्ते एका विशाला सुरभिता माला आसीत् परम् ते कस्यापि गले न न्यक्षिपन्। सत्यभामा इच्छति स्म यत् श्रीकृष्णः मत्कण्ठे क्षिपतु सुरभिताम् इमाम् चम्पकपुष्पमालाम्।
सत्यभामा तत्क्षणम् एव प्रोवाच यस्याः कण्ठे निक्षेप्तुम् इच्छति तस्याः कण्ठे क्षिपतु शीघ्रम् स्वकृपाम् च दर्शयतु। श्रीकृष्णः तत्क्षणम् एव मालाम् इमाम् रुक्मिणीकण्ठे न्यक्षिपत्। रुक्मिणी नितराम् पुलकिता सञ्जाता। परम् सत्यभामा तु मनसि क्रुद्धा ततः समुत्थाय अन्यत्र निर्गता। श्रीकृष्णः तद्रहस्यम् वेत्तिस्म।
अन्ततः सा स्वकोपभवनम् गत्वा शयनम् कुरुते। तस्याः मनसि विविधाः विकल्पाः समुत्थिताः। सर्वाः महिष्यः स्वस्वभवनम् गताः। एकान्तम् वीक्ष्य रुक्मिणी प्राह- हरिवर भवता किमर्थम् इत्थम् कृतम्। भवान् जानाति एव सत्यभामास्वभावम् स्मयमानः श्रीकृष्णः प्राह– तस्याः क्रोधः तु क्षणिकः वर्तते। उद्वलद्दुग्धम् इव जलबिन्दुनाशान्तः भविष्यति।
किञ्चित्कालानन्तरम् श्रीकृष्णः सत्यभामाभवनम् आजगाम। तया स्वकपाटद्वारम् आवृतम् आसीत्। श्रीकृष्णः प्रोच्चैः प्राह सत्यभामे!  द्वारम् अनावृतम् कुरु। कोपारुणा सत्यभामा स्वरेण पर्यचाययत् यत् श्रीकृष्णः समागतः। पुनरपि सा उत्तरम् ददाति- कः कःअस्ति।
श्रीकृष्णः प्राह नाथः अस्मि।
सत्यभामा प्रोवाच यदि नाथः अस्ति तर्हि स्वासनम् गच्छ , नाथानाम् तु आसनानि भवन्ति।
अहम्  लालः अस्मि, अहम् श्यामः अस्मि, अहम् केशवः अपि, अहम् हरिः अस्मि। सर्वेषाम् प्रश्नानाम् उत्तराणि सत्यभामा प्रादात् परम् तस्य क्रोधः शान्तः न अभवत्। श्रीकृष्णः तूष्णीम् एव तस्मात् प्रतिनिवृत्तः। सत्यभामासखिभिः सर्वम् नाटकम् दृष्टम्। सख्यः सत्यभामाम् अवदन्- त्वया न सुष्ठुः कृतम्। परम् सत्यभामा तासाम् अपि कथनम् न स्वीकृतवती। सा सर्वाः निरभर्त्सयत्। इत्थम् तस्याः पूर्णा रात्री व्यतीयाय।
प्रातः श्रीकृष्णः बहुमूल्य हीरकहारम् नीत्वा सत्यभामागले न्यक्षिपत्। सत्यभामायाः क्रोधः शान्तः अभवत्। अन्तः वेदनया सा व्यथिता आसीत्। केवलम् हीरकहारस्य महत्त्वम् न वर्तते, महत्त्वम् वर्तते अवसरे प्रदत्तस्य वस्तुनः। तस्य क्षतिपूर्तिः बहुमूल्येन हारेण भवितुम् न शक्यते। मूल्यम् तु वस्तुनः न भवति, अपितु अवसरस्य भवति।

भूस्वामिनः कूष्माण्डफलम्

एकदा कस्यापि कृषकस्य क्षेत्रे प्रभूतानि कूष्माण्डफलानि समुत्पन्नानि। स तानि विक्रेतुम् विपणिम् गच्छन् आस्ते। मार्गे कोऽपि भूस्वामी च अमिलत्। भूस्वामी प्रोवाच, भो तव वृषभशकट्याम् किम् अस्ति? कृषकः ब्रूते- न पश्यति किम् अण्डानि वर्तन्ते। आश्चर्यचकितः सञ्जातः भूस्वामी। प्रथमवारम् एव एतादृशानि अण्डानि अपश्यत्। भूस्वामी प्रोवाच- जनाः किम् कुर्वन्ति एतेषाम् अण्डानाम्।
कृषकः प्राह- न एतानि साधारणानि अण्डानि। इमानि तु धरणीअण्डानि। एतेभ्यः अश्वाः समुत्पद्यन्ते। पूर्वम् नीडेषु अण्डानि रक्षितव्यानि भवन्ति तदनन्तरम् अण्डेभ्यः अश्वाः समुत्पद्यन्ते। नीडनिर्माणम् अपि कठिनम् वर्तते।
भूस्वामी प्रोवाच- नीडनिर्माणस्य विधिम् तथा अण्डानि रक्षणस्य विधिम् च उपवर्णय।
भूस्वामी स्वप्रासादपार्श्वम् आगतः। कृषकः अपि कूष्माण्डफलानि नीत्वा तत्र समुपस्थितः आसीत्।
भूस्वामी ब्रूते कुत्र भविष्यति नीडस्य निर्माणम्?
कृषकः ब्रूते- पूर्वम् रूबलानाम् व्यवस्था कर्तव्या, यतो हि एकविंशतिदिनानि यावत् नीडम् विहाय न अन्यत्र गन्तुम् शक्यते भवता।
भूस्वामी समादिष्टवान् मत्कृते भोजनस्य व्यवस्था नीडपार्श्वे एव कर्तव्या। कृषकः भूस्वामिनम् कानने समानीतवान्। कृषकः एकस्मिन् विशाले वृक्षे नीडस्य निर्माणम् अकरोत्। भूस्वामी वृक्षम् आरुह्य नीडे प्रसुप्तः।
त्रीणि दिनानि व्यतीतानि। चतुर्थे दिने भूस्वामी निद्राभिभूतः सन् प्रगाढनिद्रायाम् निमग्नः। गाढनिद्रायाम् यदा सः पार्श्वम् परिवर्तयति तदा भूमौ पतति। तत्पतनसमकालम् एव कूष्माण्डफलानि अपि पतितानि। भूस्वामी निपातशब्देन वृक्षाधः स्थितः शशकशावकः पलायितुम् आरब्धः। एकम् कूष्माण्डफलम् अपि स्फुटितम् आसीत्।
भूस्वामी व्यचारयत्– अहो , चतुर्थे एव दिने अश्वशावकः समुत्पन्नः। यदि एकविंशतिदिनानि अण्डानि सुरक्षितानि स्युः तर्हि द्रुतगामिनः अश्वाः समुत्पद्येरन्। तस्य विश्वासः आसीत् यत् तस्य कृषकपार्श्वे अन्यानि अपि धरण्यण्डानि भविष्यन्ति। सः कृषकम् अन्वेष्टुम् विनिर्गतः।

मायावी मुद्रिका

एकस्मिन् राज्ये वृद्धदम्पती निवसतः स्म। तयो मर्तीन्कानामकः एकः एव पुत्रः आसीत्। पिता यावत् जीवम् आखेटम् कुर्वन् वृद्धावस्थायाम् मृतः। मातुः पार्श्वे रूबलानाम् द्विशतम् अवर्तत। सा रूबलानाम् एकशतम् मर्तीन्काय प्रयच्छन्ती प्रोवाच- अनेन भोजनाय गोधूमान् आनय।
मर्तीन्का प्रतिवेशिनः च अश्वरथम् आरुह्य नगरम् प्रति प्रचलितः। तेन दृष्टम् यत् बहवः जनाः मांसविपणिकायाम् कुक्कुरम् ताडयन्ति। दयालुः अयम् रूबलानाम् शतम् दत्वा कुक्कुरम् आनीय स्वगृहम् प्रतिनिवृत्तः। माता पप्रच्छ किम् आनीतवान् असि गोधूमान्? मर्तीन्का प्रोवाच, कुक्कुरम् क्रीत्वा समागतः अस्मि। माता नितराम् रुष्टा अभवत्।
किञ्चित्कालानन्तरम् माता पुनः रूबलानाम् शतम् गोधूमानम् क्रेतुम् प्रायच्छत् परम् मर्तीन्का बिडालम् अक्रीणात्। किञ्चित्कालानन्तरम् मर्तीन्का कार्यम् अन्वेष्टुम् निर्गतः। मार्गे गिरिजागृहपूजकः प्राह वर्षानन्तरम् एव किमपि वेतनम् दास्यामि। मर्तीन्का तत्रैव कार्यकरणे लग्नः।
त्रीणि वर्षाणि व्यतीतानि। एकस्याम् पोटलिकायाम् रजतम् अन्यस्याम् च सिकताम् प्रदर्शयन् गिरिजागृहपूजकः प्राहः यथेच्छम् गृहाण। मर्तीन्का सिकतापोटलिकाम् कार्यान्वेषणाय अन्यत्र प्रचलितः। स गच्छन्  वने प्रज्वलितम् अग्निम् तस्मिन् उपविष्टाम् कन्यकाम् ददर्श। सा कन्या प्रोवाच, यदि त्वम् सुखम् इच्छसि तर्हि मम उपरि सिकताम् निपातय। मर्तीन्काम् सिकतया अग्निम् शमयामास। तत्क्षणम् एव सा कन्या नागकन्यारूपम् धृत्वा प्रोवाच, मया सह मम पितुः भूगर्भराज्ये चल।
मम पिता तुभ्यम् अमूल्यानि रत्नानि दास्यति परम् त्वम् केवलम् करमुद्रिकाम् एव याचस्व। मुद्रिकया प्रभावेण तव सम्मुखे द्वादशनवयुवकाः कार्यकरणाय सर्वदा समुद्यताः स्थास्यन्ति परम् मुद्रिकाया रहस्यम् न कोऽपि जानातु। मर्तीन्का तया सार्धम् प्राचलत्।
बहूनि दिनानि व्यतीतानि, सा नागकन्या सप्तसमुद्राभ्यन्तरे भूगर्भगृहे स्वपितृराज्यम् दर्शयामास यस्मिन् विशालानि उद्यानानि, मणिमयानि भवनानि च आसन्। नागकन्या मर्तीन्काकृतम् उपकारम् पित्रे निवेदयामास। पिता प्रोवाच– यथेच्छम् रत्नाभूषणानि गृहाण। मर्तीन्का तत्करमुद्रिकाम् एव अयाचत।
किञ्चित्कालानन्तरम् तत्करमुद्रिकाम् नीत्वा मर्तीन्का मातरम् अन्वेष्टुम् विनिर्गतः। माता तस्य विवाहम् कर्तुम् ऐच्छत्। मर्तीन्का प्रोवाच- अस्य प्रान्तस्य राजकुमार्या सह विवाहम् करिष्यामि। माता राजद्वारम् गत्वा सर्वम् राजानम् निवेदयामास।
राजा प्रोवाच- यदि तव पुत्रः एकस्मिन् एव दिने नूतनम् राजभवनम् निर्मातुम् शक्ष्यति तर्हि राजकुमारी तेन सह विवाहम् करिष्यति। अन्यथा अहम् तस्य शिरः छेत्स्यामि।
नृपतेः इमाम् असम्भाव्याम् प्रतिज्ञाम् श्रुत्वा माता रुदती स्वगृहम् प्रतिनिवृत्ता। पुत्र प्रोवाच– मातः ! मा शुचः।
स करमुद्रिकाम् हस्ते धारयति, तत्क्षणम् एव द्वादशनवयुवकाः तस्य सम्मुखम् आगताः। ते तत्क्षणम् एव राजभवनम् निर्मितवन्तः। इतः राजकुमारी वस्त्राभूषणानि परिधाय विवाहार्थम् सुसज्जिता वर्तते। गिरिजागृहे घंटानादपूर्वकम् तयोः विवाहः समजनि। सर्वे सम्बन्धिनः भोजनपाने संलग्नाः। मर्तीन्का - माता स्वसुतस्य कौशलम् विलोक्य भृशम् तुष्टा सञ्जाता। मर्तीन्का तदनन्तरम् सुखेन कालम् यापयामास।

वानरस्य चातुर्यम्

एकः वानरः तथा एकः वकः परस्परम् मित्रभावम् उपगतौ। वकः तु कपटमित्रम् आसीत्। वानरः सर्वम् सत्यम् अकथयत् सः स्वमित्रस्य कृते प्राणान् अपि त्यक्तुम् इच्छति। परम् वकः तु समययापनाय एव मैत्रीम् अकरोत्।
एकदा वृक्षस्थौ मित्रे व्यचारयताम् आवाम् उच्चस्वरेण शब्दम् कुर्वः यः प्रोच्चैः शब्दम् करिष्यति स विजयम् अवाप्स्यति। रुचिहीनः अपि वकः शब्दकरणाय वानरम् अकथयत्।
वानरः प्रोच्चैः शब्दम् अकरोत् तेन वृक्षः प्रकम्पितः। वानरस्य कथनेन वकः च अपि शब्दम् अकरोत् परम् तेन वृक्षस्य पत्रम् अपि न अकम्पत।
वानरः पुनः शब्दकरणाय अकथयत् वकः अधुना प्रोच्चस्वरेण शब्दम् अकरोत्, वृक्षकम्पनेन अधुना वानरः अधः अपतत्। वकः तु उड्डीय सुदूरम् विनिर्गतः परम् वानरः पंके विषीदति, चीत्करोति, उत्थातुम् अपि न अशक्नोत्।
स व्यचारयत् यदि मम सहायतार्थम् कोऽपि न समागतः चेत् तर्हि म्रिये, इत्थम् सः विषण्णवदनः सञ्जातः। एतावत् तस्मात् एकः वन्यगजः विनिर्गतः। स हस्तिनम् सम्प्रार्थयत् परम् हस्ती शीघ्रतरम् विनिर्गतः।
किञ्चित्कालानन्तरम् समुद्रस्थः अश्वः तत्र आजगाम। वानरः तम् अपि सम्प्रार्थयत्, परम् सः अपि द्रुतम् निर्जगाम। बहवः वन्यपशवः तस्मात् विनिर्गताः परम् न एकेन अपि तस्य समुद्धारः कृतः। अन्ते व्याघ्रः च एकः समागतः।
तम् विलोक्य वानरः प्राह- अहम् पंके विषीदन् म्रिये। माम् निःसार्य विपाच्य भवान् खादतु। व्याघ्रः अवदत्- सर्वे पशवः अग्रे विनिर्गताः सन्ति, अहम् अपि धावामि- इति उक्त्वा व्याघ्रः अपि निर्गतः। वानरः व्यचारयत् अस्मिन् पंके एव रात्रौ मम मृत्युः भविता।
किञ्चित् अग्रे गत्वा व्यचारयत्- कथम् न वानरम् विपाच्य भक्षयानि, इति विचार्य व्याघ्रः प्रतिनिवृत्तः। वानरः समायान्तम् व्याघ्रम् ददर्श। समागत्य व्याघ्रः प्रोवाच, त्वाम् पंकात् उद्धृत्य खादामि।
वानरः प्राह- पंकेन मम शरीरम् मलिनम् सञ्जातम् अस्ति, माम् संस्नाप्य शुष्कप्रस्तरखण्डे स्थापय। माम् विपाचनाय अग्नेः प्रबन्धम् कुरु।
व्याघ्रः प्रसन्नः सन् वानरम् स्नापयित्वा प्रस्तरखण्डे स्थापयति स्वयम् च चुल्लिकानिर्माणाय प्रस्तराणि आनयति।
वानरः वंशवृक्षम् आह्वायति, तत् श्रुत्वा व्याघ्रः ब्रूते- किम् कथयसि रे दुष्टवानर!  वानरः प्रत्यवदत्। तव चुल्लिकाकृते इन्धनस्य व्यवस्थाम् करोमि। व्याघ्रः चुल्लिकाम् निर्मापयति। वानरः पुनः वंशवृक्षम् प्रार्थयति, हे सखे ! स्वशाखाम् अधः निपातय। तत् श्रुत्वा शंकितः व्याघ्रः ब्रूते।
वानरः कथयति सम्प्रति मम शरीरम् शुष्कम् सञ्जातम्, अग्निम् ज्वालय, जलम् आनय माम् विपाचनाय। व्याघ्रः जलानयनाय गच्छति।
वानरः पुनः वंशवृक्षम् प्रोच्चैः आह्वयति- वानरस्य व्यथाम् निभाल्य वंशवृशः सम्प्रति स्वशाखाम् अधः निपातयति, वानरः कूर्दित्वा ताम् आरोहति। व्याघ्रः दूरात् सर्वम् पश्यति परम् किमपि कर्तुम् न शक्नोति। सम्प्रति अपि व्याघ्रः वानरम् अनुधावति परम् वानरः वृक्षम् आरोहति।
तद्दिनात् वानरः वकस्य मिथ्यामैत्रीभावेन शिक्षागृह्णात्, यत् स्वसुरक्षार्थम् स्वयमेव प्रयतितव्यम्। न अन्येन केनापि स्वसुरक्षा सम्भावनीया।

चन्द्रमानवः

साइबेरियाप्रान्तस्य हिमवत्प्रदेशे ये जनाः निवसन्ति ते चुकचीनाम्ना व्यवह्रियन्ते। पुरा चुकचीजात्याम् एका वीरबालिका जनिम् अलभत। सा स्वपितुः च एकाकिनी सन्ततिः आसीत् तथा स्वपितुः कार्येषु साहाय्यम् अकरोत्। ग्रीष्मर्तौ सा कानने हरिणान् अचारयत्। सा स्वावासे भोजनाय स्लेजवाहनम् आरुह्य आगच्छति। तत् वाहनम् हरिणः आकर्षति।
एकदा रात्रौ प्रत्यागच्छन् हरिणः गगनम् प्रति वीक्ष्य चीत्कारम् कुर्वन् प्राह, पश्य, पश्य। बालिका गगनम् प्रति पश्यति यत् कोऽपि चन्द्रमानवः भूमौ च अवतरति। आश्चर्यचकिताम् बालिकाम् हरिणः प्राह- अयम् भवतीम् उपरि नेतुम् आगच्छति। मया किम् करणीयम्?  इति तया उक्ते सति हरिणः तूष्णीम् तस्थौ। केवलम् स्वखुरेण हिमम् खनति।
किञ्चित्कालानन्तरम् हरिणः प्रोवाच, गर्ते अस्मिन् तिरोहिता भव। सा तथैव कृतवती। शीघ्रम् एव हरिणः गर्तम् पूरितवान्। चन्द्रमानवः पृथिव्याम् अवातरत् सः परितः व्यलोकयत् किन्तु बालिकाम् न अविन्दत।
पुनः आगमिष्यामि- इति विचार्य चन्द्रमानवः प्रतिनिवृत्तः। चन्द्रमानवे गते सति हरिणः गर्तस्य हिमम् अपाकरोत्। सहसा  बालिका बहिः आगत्य पितुः उटजम् विवेश किन्तु तस्य पिता तत्र न आसीत्।
हरिणः प्राह, यदि चन्द्रमानवः पृष्टतः समागतः भवेत्? अहम् तव रूपम् परिवर्तयानि? त्वाम् प्रस्तरमयीम् , काष्ठमयीम् वा विधास्यामि।
बालिका प्राह,नहि, इत्थम् स माम् परिज्ञास्यति।
हरिणः प्राह- त्वाम् काचदीपे परिवर्तयानि। हरिणः झटिति भूमिम् खनति। तस्य पश्यतः एव सा काचदीपे परिणता। तेन उटजम् एतत् प्रकाशितम् अभूत्।
किञ्चित् क्षणानन्तरम् पुनः चन्द्रमानवः तत्र प्रपेदे बालिकाम् च अन्वेषयति। तेन तत्र प्रत्येकम् विलोकितम् किन्तु बालिकाम् न अलभत चन्द्रमानवः पुनः स्ववाहनम् आरुह्य उत्पतितुम् आरेभे तदैव तेन ध्वनिः श्रुता अहम् अत्र अस्मि, अहम् अत्र अस्मि।
चन्द्रमानवः पुनः उटजम् प्रविश्य अवलोकयति किन्तु बालिका न लेभे। पुनः उत्पतितुम् आरेभे। तत्क्षणम् एव, अहम् अत्र अस्मि, ध्वनिः इयम् निर्गता।
इत्थम् बालिकाम् अन्वेषयन् चन्द्रमानवः दुःखितः, नितराम् कृशः च सञ्जातः, कार्श्यात् सः इतस्ततः चलितुम् अपि न शशाक। इति विलोक्य बालिका निर्भया सञ्जाता। सा स्ववास्तविकम् रूपम् धृतवती।
सा मुष्टिकया चन्द्रमानवम् भुवि न्यपातयत् चन्द्रमानवम् च रज्जुना न्यबध्नात्। चन्द्रमानवः  पीडया क्रन्दितुम् आरेभे। सः प्रतिवेदनम् चकार। मत्कृतस्य फलम् मया प्राप्तम्। शीतेन अहम् मरणोन्मुखः सञ्जातः।
तस्य प्रतिवेदनम् श्रुत्वा बालिका प्रोवाच, अहा त्वम् तु वितते गगने स्वच्छन्दम् विचरसि, किम् तत्र शीतर्तुः न भवसि?  चन्द्रमानवः प्ररुदन् प्रार्थनाम् अकरोत् अहम् एकाकी, गृहविहीनः गगने पर्यटामि इति सत्यम्। किन्तु अहम् तत्रैव गन्तुम् इच्छामि। तत्र गत्वा अहम् धरावासिनाम् सेवाम् करिष्ये। तेभ्यः प्रकाशम् वितरिष्यामि, तिमिराच्छन्नेभ्यः मार्गम् दर्शयिष्यामि रात्रिम् दिनस्य विभागम् करिष्यामि। मासानाम् तिथीनाम् च ज्ञानेन जनान् उपकरिष्यामि। पुनः कदापि कामपि अनुकुर्वन् पृथिव्याम् न अवतरिष्यामि।
चन्द्रमानवस्य अनुतापम् विलोक्य बालिका तस्य बन्धनानि विच्छेद। तस्मात् दिनात् चन्द्रमानवः गगनम् गत्वा पृथिव्याम् स्वचन्द्रिकाम् वितरति इति साइबेरियाप्रदेशवास्तव्यानाम्  विश्वासः।

ग्रामस्य पुरस्कारः

प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटम् कुर्वन् सुदूरम् विनिर्गतः। तस्य सहयोगिनः पृष्ठतः आसन्। ग्रीष्मकालः आसीत् , पिपासया व्याकुलाः च अभवत् राजा। न कुत्रापि कूपः सरोवरः वा दृश्यते। नृपतेः अश्वः अपि अग्रे चलितुम् न अशक्नोत्। समीप एव नृपतिः ग्रामम् एकम्+अपश्यत् नृपतिः कुटीरम् एकम् ददर्श। समीपस्थम् जनम् एकम् अकथयत् जलपानार्थम्।
    सः प्रोवाच- जलम् तु न विद्यते, परम् भवान् पिपासितः न स्थास्यति, अत्र खट्वायाम् उपविशतु, विश्रम्यताम् अश्वम् वृक्षे बद्ध्वा। तदनन्तरम् स अजादोहनम् अकरोत्। नृपतिः दुग्धम् पीत्वा नितराम् तुष्टः सञ्जातः। तस्य पिपासा अपि शान्ता सञ्जाता। नृपतिः तम् एकम् कर्गजम् आनेतुम् आदिशत्। परम् कृते अपि अन्वेषणे न अमिलत् कर्गजखण्डम् अपि।
    नृपतिः पिप्पलपत्रम् एकम् आनेतुम् आदिशत्। राजा पिप्पलपत्रे च अलिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते। नृपे निर्गते सति पिप्पलपत्रम् एकस्मिन् सुरक्षिते स्थाने अरक्षत्।
    एकदा अजा तत्पत्रम् अखादयत्। इति श्रुत्वा जनः अयम् प्रमत्त इव अभवत् प्रोच्चैः स्वरेण च अवदत्- “अजा द्वौ ग्रामौ च अखादयत्”।
    अस्य वाक्यस्य अर्थः तु न कोऽपि वेत्ति। समीपस्थेन एकेन बुद्धिमता जनेन कथितम्- यदा राजा नमाजपठितुम् आगच्छति। तदा त्वम्- “अजा द्वौ ग्रामौ च अभक्षयत्” कथय।
    शुक्रवासरे नृपतिः नमाजपठनाय च अगच्छत् तदा अजापालकः “अजा द्वौ ग्रामौ च अभक्षयत्!” इति प्रोच्चैः स्वरेण वदति।
    यदा नृपतिः नमाजम् पठति तदा अजापालकः पृच्छति अयम् नृपतिः हस्तौ संहतौ कृत्वा किम् याचते ? जनः कथयति ईश्वरम् किमपि याचते।
    अजापालकः व्यवारयत् यः स्वयम् याचते सः कस्मैचित् किम् दातुम् प्रभवति?  इति विचार्य “ दाता दास्यति तदा ग्रहीष्यामि” इति उक्त्वा काननम् प्रति विनिर्गतः। जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः।
    एकदा अजापालकः स्वप्ने च अपश्य़त् यत्र सः उपविष्टः तत्र अतुलाधनराशिः वर्तते। सः रटन् आसीत् दाता यदा स्वयम् दास्यति तदैव ग्रहीष्यामि।
    एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म। ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः। सः चौरान् आह्वयत् अपृच्छत् च- किमर्थम् चौर्यम् कुरुथ? ते प्रोचुः, धनार्थम्।
    स कथयति, अत्र अतुला धनराशिः वर्तते, एनाम् नयतु , पुनः चौर्यम् मा कुरुत।
    चौराः भूमिम् अखनन्। भूमौ स्वर्णमये द्वे विशाले पात्रे च अमिलिते। परम् तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयः च आसन्। चौराः क्रुद्धाः सन्तः व्यचारयन् रजकेन अस्मान् मारयितुम् कृता इयम् व्यवस्था। अस्य गृहम् गत्वा एनम् पाठम् पाठयिष्यामि। इति विचार्य ते तस्य गृहम् प्रति प्रचलिताः।
    खट्वायाम् निषण्णः सः कथयति स्म- यदा दाता हर्म्यपृष्ठम् विदार्य दास्यति तदा ग्रहीष्यामि। सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणाम् वृष्टिः भवति। अजापालकः महाधनी सञ्जातः।
    नृपतिः तम् अजापालकम् न व्यस्मरत्। तम् अन्वेष्टुम् तत्र समागतः नृपतिः। नृपतिः तद्वैभवम् विलोक्य चकितः सञ्जातः। नृपः पृच्छति - तस्मिन् शुक्रवासरे त्वम् तस्मात् कथम् पलायितः?  अजापालकः ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयम् भगवन्तम् अयाचत्। इति विचार्य मया अपि भगवतः प्रार्थना कृता। तेनैव प्रभावेण अहम् धनवान् संवृतः।
    नृपः तस्य स्पष्टवादिताम् विलोक्य भृशम् प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान्।

वनदैत्यः

एकस्मिन् ग्रामे द्वौ भ्रातरौ न्यवसताम्। तयोः एकः धनी अपरः च निर्धनः। धनी भ्राता तु अन्यैः सह सुष्ठुः व्यवहरति किन्तु स्वभ्रात्रा सह अपरिचितः इव ध्यानम् न ददाति। निर्धनः भ्राता आपत्काले अपि किमपि किमपि याचितुम् न अगच्छत्।
    एकदा निर्धनस्य पत्नी स्वपतिम् उवाच, न अद्य गृहे किमपि वस्तु विद्यते। श्वः उत्सवदिवसः वर्तते। श्रुतम् मया यत् तव भ्राता श्व उत्सवार्थम् महिषम् एकम् कर्तितवान् याचित्वा किमपि मांसम् आनीयताम् ।
    अयम् अनिच्छन् अपि भ्रातृगृहम् आगत्य प्रोवाच भ्रातः। उत्सवार्थम् किमपि मांसम् प्रदेयम् मह्यम्। तस्य मूल्यम् प्रयच्छामि किञ्चित् दिनानन्तरम् ।
    विकृताननः भ्राता मृतपशोः क्षुरम् प्रक्षिपन् प्रोवाच, वनदैत्यसकासम् गच्छ ।
    निर्धनः भ्राता व्यचारयत् मदीयः भ्राता दैत्याय क्षुरम् दातुम् अकथयत् इति विचार्य सः काननम् प्रति प्रचलितः।
    मार्गे काष्ठभारम् आनीय आयान्तम् भिल्लम् अपृच्छत् कुत्र निवसति अयम् वनदैत्यः? भिल्लः प्रत्यवदत् अतः कियत् दूरे पूर्वस्याम् दिशि एकस्मिन् उटजे निवसति अयम् ।
    किन्तु भवता ध्येयम् स गोक्षुरम् गृहीत्वा रजतमुद्राम् प्रतियच्छति, स्वर्णमुद्राम् अपि प्रयच्छति।
    भवान् कथयतु मह्यम् तु भवान् तत् प्रस्तरपट्टम् प्रयच्छ यत् तव पार्श्वे वर्तते।
    भिल्लवचनम् निशम्य निर्धनः प्रचलन् तदुटजम् प्राप , सहसा तदुटजम् प्रविवेश ।
अकस्मात् आगतम् तम् वीक्ष्य वनदैत्यः स्तब्धः सन् प्रोवाच, वद शीघ्रम् किम् आनीतवान् असि।
    निर्धनःप्रत्यवदत् गोक्षुरम् आनीतवान् अस्मि। प्रसन्नः सन् वनदैत्य़ः गोक्षुरम् अभक्षयत् अवदत् च- अहम् तुभ्यम् अस्य मूल्यम् ददामि इति उक्त्वा, मुष्टिपरिमिताम् रजतमुद्राम् दातुम् इच्छति।
    निर्धनः प्रत्यवदत् न अहम् रजतमुद्राम् गृहीतुम् इच्छामि मह्यम् प्रस्तरपट्टम् प्रयच्छ।
वनदैत्यः अवदत् किमपि अन्यत् याचस्व।
    निर्धनः न अन्यत् किमपि गृहीतुम् इच्छति। अन्ते वनदैत्यः प्रस्तरपट्टम् प्रयच्छन् कथयति, पट्टम् एतत् चमत्कारयुक्तम् अस्ति। भवान् यत् किमपि याचिष्यति तदेव प्रयच्छति किन्तु याचनात् पूर्वम् “ चल मम प्रस्तरपट्टम्” इति कथनीयम्। कार्ये सञ्जाते सति  “ क्षणम् तिष्ठ” इति कथनीयम् तत् विरमिष्यति।
    प्रस्तरपट्टसम्बन्धिनम् सर्वम् रहस्यम् ज्ञात्वा निर्धनपुरुषः च अयम् गृहम् प्रति प्रचलितः।
    जलसन्निपातेन रात्रिम् यावत् इतस्ततः भ्रमन् मार्गम् अपि न प्राप्तवान्?  प्रभाते सञ्जाते स गृहम् प्राप ।
    गृहिणी प्रोवाच, कुत्र गतः भवान्? पतिः प्रोवाच- किमपि वस्तु च आनीतवान् अस्मि, पश्य , तस्य चमत्कारम् दर्शयामि ।
    इति उक्त्वा प्रस्तरपट्टम् भ्रामयितुम् लग्नः तस्मात् भोजनसामग्र्यः निःसरन्ति। पर्याप्ते भोजने सञ्जाते तत् पट्टम् विरतम् निर्धनः अयम् आनन्देन उत्सवम् कृतवान्। सम्प्रति स निर्धनः धनवान् च सञ्जातः। तस्य गृहम् धनधान्येन पूर्णम् जातम् ।
    यदा तस्य ज्येष्ठः भ्राता स्वनिर्धनभ्रातुः ऐश्वर्यस्य वृत्तान्तम् अशृणोत् तदा तस्य गृहम् प्रति प्रचलितः।
    तत्र गत्वा स सहसा प्रश्नम् अकरोत् - अकस्मात् त्वम् कथम् धनवान् सञ्जातः? निर्धनः सर्वम् रहस्यम् स्पष्टम् आख्यातवान्। सः प्रस्तरपट्टम् अपि प्रदर्शितवान्।
    तस्मात् निर्गतानि पक्वान्नानि स दृष्टवान् ज्येष्ठः भ्राता कनिष्ठम् प्रस्तरपट्टम् विक्रेतुम् अकथयत् परम् स न प्रतिजज्ञे निर्धनः भ्राता किञ्चित्कालाय प्रस्तरपट्टम् प्रदत्तवान्।
    सः प्रस्तरपट्टम् स्वगृहम् आनीतवान्। ज्येष्ठः भ्राता स्वगृहे सर्वाणि वस्तूनि एकत्रितानि अकरोत्। सः मनसि व्यचारयत् समुद्रात् लवणम् निष्कासयिष्यामि– इति कृत्वा प्रस्तरपट्टम् समुद्रे प्रचिक्षेप।
    समुद्रात् लवणम् बहिः निर्गच्छति। सः लवणम् नौकायाम् भरति। लोभाविष्टेन तेन नौः भरिता। अधिकभारेन नौ जले निमग्ना। समस्तम् लवणम् समुद्रे निमग्नम्। प्रस्तरपट्टम् तदापि प्रचलन् आस्ते।
    केषाञ्चित् जनानाम् तु अयम् विश्वासः यत् अद्यापि तत् प्रस्तरपट्टम् समुद्रे निरन्तरम् प्रचलति येन समुद्रस्य जलम् लवणयुक्तम् भवति।

मातुंगा

एकः कृषकः धनवान् आसीत्। सः भृतेभ्यः पारिश्रमिकम् न प्रायच्छत्। एकदा स अजापालकाय भृत्याय वत्सम् दातुम् प्रतिजज्ञे किन्तु न प्रायच्छत्। स न्यायर्थम् पञ्चायतनम् जगाम।
    पञ्चः प्रावोचत् मम त्रयः प्रश्नाः सन्ति। यः त्रयाणाम् प्रश्नानाम् उत्तरम् दास्यति तस्मै वत्सम् प्रयच्छामि। प्रश्नाः च आसन्-
    १.     सर्वाधिका तीव्रा गतिः कस्य वर्तते?
    २.     सर्वाधिकम् मधुरम् वस्तु किम्?
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु किम्?
    कृषकः वेत्ति स्म, न अहम् प्रश्नानाम् उत्तराणि दातुम् क्षमः गृहे उदासीनम् कृषकम् पत्नी प्रोवाच, किम् अद्य चिन्तितः भवान्?  भवताम् प्रश्नानाम् उत्तराणि अहम् प्रयच्छामि।
    १.     सर्वाधिका तीव्रा गतिः अस्माकम् अश्वस्य वर्तते।
    2.    द्वितीयस्य प्रश्नस्य उत्तरम् वर्तते , मक्षिकाणाम् मधु मधुरम् वर्तते।
    3.    तृतीयस्य उत्तरम् तु स्वर्णदीनारैः प्रपूरिता अस्माकम् काष्ठमञ्जूषा बहुमूल्या  वर्तते।
    अजापालकः अपि चिन्तितः आसीत्। तस्य पुत्री मातुंगा बुद्धिमती अवर्तत। सा पितरम् प्रश्नानानाम् उत्तराणि कथयामास। द्वितीये दिने कृषकः स्वकीयानि त्रीणि उत्तराणि कथयामास। पञ्चः अजापालकम् पप्रच्छ।
    अजापालकः प्रोवाच-
    १.     संसारे सर्वाधिकम् शीघ्रगामिवस्तु विचारः वर्तते!
    २.     सर्वाधिकम् मधुरम् वस्तु निद्रा वर्तते।
    ३.     सर्वाधिकम् बहुमूल्यम् वस्तु भूमिः वर्तते।
    प्रश्नानाम् उत्तराणि श्रुत्वा पञ्चः प्रोवाच- एतानि उत्तराणि तव न वर्तन्ते।
    सत्यम् वद, केन कथितानि उत्तराणि? अजापालकः सर्वम् रहस्यम् कथितवान्। पञ्चः अजापालकाय दशकुक्कुटाण्डानि दत्वा प्रोवाच- तव पुत्री अण्डानि एतानि रक्षतु, यदा एतेषाम् शिशवः समुत्पत्स्यन्ते तदा शिशवः आनेतव्याः।
    मातुंगा उच्चैः हसित्वा मुष्टिपरिमितम् धान्यम् पित्रे दत्वा कथितवती- पञ्चम् धान्यम् दत्वा कथय- एतत् धान्यम् वप, श्व एव धान्यम् कर्तय तदा अहम् अपि कुक्कुटाण्डानि प्रस्तोष्यामि।
    पञ्चः एतत् श्रुत्वा जहास प्रोवाच च-  तव पुत्री बुद्धिमती वर्तते सुन्दरी च अपि। अहम् तया सह विवाहम् करिष्यामि परम् सा मत्पार्श्वे न रात्रौ समागच्छेत् न दिने, न वस्त्राणि धारयित्वा न नग्ना, न वाहने च आरूह्य न पदातिः।
    मातुंगा निर्वस्त्रा सती प्रत्यूषे मत्स्यबन्धनजाले स्वशरीरम् आवेष्ट्य, एकम् पादम् अजायाम् धृत्वा एकम् च भूमौ निक्षिपन्ती पञ्चगृहम् प्राप प्रोवाच च श्रीमन्! इयम् अहम् आगता न दिने न रात्रौ, न वस्त्राणि धारयित्वा न निर्वस्त्रा।
    पञ्च मातुंगाम् प्रोवाच- त्वम् मत्कार्ये हस्तक्षेपम् न करिष्यसि। ओम् इति कृत्वा सा गृहकार्ये संलग्ना।
    बहूनि दिनानि व्यतीतानि एकदा कृषकः निर्णयम् कारयितुम् पञ्चसमीपम् आगतः। कृषकस्य एका घोटका आसीत् सा शिशुम् असूत। अश्वसुतः कृषकवाहनस्य अधः प्रविष्टः। कृषकस्य कथनम् आसीत् यत् अयम् अश्वशावकः मदीयः भवति।
    तौ विवदन्तौ पञ्चसमीपम् गतौ। पञ्चः अविचारयन् एव निर्णयम् कृतवान् यत् अश्वशावकः कृषकस्य अस्ति। अश्वरक्षकः मातुंगपार्श्वम् आगत्य निर्णयम् अश्रावयत्।
    मातुंगा प्रोवाच- त्वम् सिकतामय्याम् भूमौ मत्स्यजालम् विस्तारय।
    पञ्चः पृक्ष्यति- सिकतायाम् किम् मत्स्यान् प्राप्यसि?  त्वम् कथय यदि वाहनस्य अधः अश्वशावकः प्राप्यते तर्हि सिकतायाम् मत्स्याः अपि प्राप्यन्ते।
    पञ्चः प्रोवाच- मातुंगा एव एतत् सर्वम् कर्तुम् शक्नोति। गृहम् आगत्य सा मातुंगाम् प्राह- त्वम् पितुः गृहम् गच्छ, त्वम् अस्मात् गृहात् एकम् प्रियम् वस्तु नेतुम् शक्नोषि।
    मातुंगा प्राह- अहम् इच्छामि यत् अद्य रात्रौ त्वया सह भुक्त्वा पितुः गृहम् गन्तासि। इति उक्त्वा सा स्वादिष्टम् भोजनम् पाचितवती। पतिः स्वादिष्टम् भोजनम् अधिकम् भुक्त्वान्। भोजनाधिक्येन आसिन्दकायाम् एव प्रसुप्तः।
    मातुंगा स्वपतिम् यानम् आरोप्य पितुः गृहम् आनयत्। द्वितीय दिने यदा पञ्चः जागृतः तदा स चकितः अभवत्। मातुंगा पतिम् प्रोवाच- भवता एव कथितम् आसीत् यत् एकम् प्रियम् वस्तु त्वया नेयम्।
    पञ्चः तस्याः प्रतिभया पुनः वञ्चितः ताम् वाहनम् आरोप्य स्वगृहम् आनयत्। तदनन्तरम् सः मातुंगाकथनानुसारम् निर्णयम् कृतवान्।

गुमचेनः चटकाः च

पुरा गुमचेनतेजजिंगटाबुकनामकः च एकः बौद्धभिक्षुः न्यवसत्। सः तोरमुदेवस्य भक्तः आसीत्। सः पक्वतण्डुलकणैः तोरमुदेवम् निर्माप्य प्रत्यहम् तस्य पूजनम् अकरोत्। तोरमुदेवस्य पूजनेन स प्रतिष्ठितः सिद्धपुरुषः च सञ्जातः। तत्रत्याः जनाः तस्य भक्तिभावेन नितराम् प्रभाविताः च आसन् ।
    एकदा गुमचेनः गुम्फापार्श्वतः निर्गच्छति तदा तोरमुदेवे कृष्णचिह्नम् अपश्यत्। समीपे गत्वा तेन दृष्टम् यत् तोरमुदेवे चटकाः नवनीतम् खादन्ति। क्रोधाविष्टः अयम् भिक्षुः सहसा तान् हन्तुम् ऐच्छत् परम् द्वितीय एव क्षणे व्यचारयत् अयम् यत् अहम् बुद्धस्य अनुयायी भूत्वा अपि जीवहत्याम् कर्तुम् इच्छामि।
    सः मनसि प्रादुर्भूतान् विकारान् दूरीकर्तुम् अक्षिणी निमील्य बुद्धस्य ध्यानम् अकरोत्। सः व्यचारयत्- अहम् एनाम् चटकाम् हन्तुम् न शक्नोमि परम् तोरमुरक्षणाय कोऽपि उपायः करणीयः। इति विचार्य स चटकाम् गृहीत्वा कानने क्षिप्तवान्।
    चटका गुमचेनम् मनसि गालिकाप्रदानपुरस्सरम् कानने विलीना, परन्तु किञ्चित् कालानन्तरम् सा चटका त्रिभिः चटकाभिः सार्धम् पुनः आगत्य नवनीतम् खादितुम् लग्नाः। पुनः गुमचेन चटकाः कानने विसर्जयामास।
    किञ्चित् क्षणानन्तरम् अगणिताः चटकाः तत्र समागताः। ताः गुमचेनम् निर्भत्सयन्तः प्रोचुः- दयाधर्मस्य समुपदेष्टा भूत्वा अपि निर्दोषान् जीवान् तुदसि! भिक्षुकवस्त्राणि परिधायम् अपि अधर्मम् चरसि।
    उत्तारय एतानि वस्त्राणि। इत्थम् तम् भिक्षुकम् निर्भर्त्सयन्तम् चटकाः तोरमुपार्श्वम् आगच्छन्। गुमचेनः चटकाध्य़क्षम् विनम्रतया ब्रूते- चटकाभिः नवनीतम् न भक्षितम्। ताः तु सम्मानेन तोरमुम् अपश्यन्।
    त्वम् स्वयम् अपराधी भूत्वा दुःसाहसम् करोषि। चटकाः तम् गालिकाम् वदन्ति परम् गुमचेनः तूष्णीम् एव भूत्वा शान्तभावेन सर्वम् असहत।
    गुमचेनः प्राह- मया चटकाः न मारिताः न अपमानिताः केवलम् ताः अहम् कानने व्यसर्जयम्। चटकाः तु तस्य भिक्षुकस्य अनादरम् कर्तुम् इच्छन्ति, अतः एव ताः गुमचेनशरीरे आक्रमणम् कृतवत्यः।
    चटकाभिः भृशम् पीडितः च अयम्। गुमचेनः भगवतः प्रार्थनाम् प्रारेभे। हे भगवन्! चटकाभिः माम् रक्ष। गुमचेनः निरपराधः आसीत् अतः तस्य शरीरात् अग्निः निर्गच्छति। तत्क्षणम् एव चटकाः पलायितुम् आरेभिरे।
    चीटिकाध्यक्षः स्वजीवनम् सम्प्रार्थयन् पलायितः। तस्मात् दिनात् चटकाः तोरमुपार्श्वम् न अजग्मुः।