Tuesday 12 May 2015

रंगितः तथा तिस्ता

पुरा हिमालयस्य शिखरे एकः देवः तथा एका देवी न्यवसत्। देवस्य नाम रंगितः तथा देव्याः नाम आसीत् तिस्ता। तौ परस्परम् स्नेहेन न्यवसताम् तयोः मध्ये एकम् विशालम् पाषाणखण्डम् आसीत् येन तौ मिलितुम् अशक्तौ। केवलम् वार्तालापेन एव कालम् अत्यवाहयताम्। तौ व्यचारयताम् कदा आगमिष्यति सः शुभदिवसः, यदा आवाम् एकीभवावः। रंगितः प्रोवाच- "इत्थम् तु अस्माकम् जीवनम् एव समाप्तम् भविष्यति। सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः।"
एकदा तिस्ता रंगितम् प्राह – "आवाम् अधस्तात् गत्वा मिलिष्यावः।
रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति- "चल तत्र मिलिष्याव। आवाम् धावावः, परम् आवाम् अधः भागे कथम् धावावः?"
रंगितः प्रोवाच- "आवाम् एकैकम् पथप्रदर्शकम् नेष्यामः अहम् सर्पराजम् सम्प्रार्थयामि त्वम् तु पक्षिराजम्।" द्वौ एव तथैव अकुरुताम्।
सर्पराजः तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन् अयम् नियतः स्थानम् प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम् एव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः।
रंगितः पक्षिराजम् ब्रूते- "भवान् जानाति यत् आवाम् प्रतियोगितायाम् भागम् गृहीष्यावः।यदि भवान् इत्थम् एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि।"
पक्षिराट् अवदत्- "अहम् बुभुक्षितः अस्मि। उदरे भरिते सति गन्तुम् शक्नोमि!" पक्षिराड् मार्गम् अपि न वेत्ति स्म।
किञ्चित् कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श। तिस्ता रंगितम् प्रतीक्षते स्म। रंगितः तु पराजितः जातः अस्ति। क्रोधाविष्टः अयम् विनाशस्य लीलाम् अकरोत्। सर्वतः हाहाकारः समजनि।
तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह- "क्रोधम् मा कुरुत, पक्षिराजस्य कारणात् विलम्बः जातः। शीघ्रम् आगच्छतु भवान्! माम् आलिंगतु।"
तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः अभवत्। यस्मिन् स्थाने तयोः मिलनम् अभूत् तस्मिन् स्थाने सम्प्रति अपि प्रतिवर्षम् मेलापकः लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति।

कूष्माण्डफलम्

सांयकालः आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यम् समाप्य प्रत्यागच्छत्। सुतायाः नाम आसीत्- ताइरा। मार्गेण प्रलम्बायाम् एकस्याम् लतायाम् कूष्माण्डफलम् अवलम्बितम् आसीत्। फलम् विलोक्य सुता तत् ग्रहीतुम् आग्रहम् अकरोत्।
जननी प्रोवाच– "वन्यकूष्माण्डफलम् एतत्। किम् अनेन करिष्यसि?"
"न अहम् एतत् नेष्यामि।" सुता पितरम् प्रोवाच!
पिता तस्याः आग्रहम् निभाल्य सुतया सह कूष्माण्डलतासमीपम् प्राप कर्तनिकया तत् फलम् विच्छेद। फूराइरा कूष्माण्डफलम् उत्थापयितुम् ऐच्छत् किन्तु तत् फलम् स्वयम् एव चलितुम् लग्नम् सुतायाः अग्रे – अग्रे। पिता आश्चर्यचकितः सञ्जातः।
कूष्माण्डफलप्रचलनस्य समाचारम् श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित् कालान्तरम् कूष्णाण्डफलम् कथयितुम् लग्नम् यद् अहम् मांसम् खादिष्यामि!" इति कथयित्वा तत् सुतायाम् आक्रमणम् कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा।पिता व्यचारयत्- "नूनम् एषः कोऽपि दैत्यः।"
सः सुताम् प्रोवाच- "भो फूराइरे! त्वम् धावन्ती अजागोष्ठम् प्रविश येन कूष्माण्डफलम् अपि तत्र प्रवेक्ष्यति। कूष्माण्डफलम् सुतामनु अजागोष्ठम् विवेश तत्र अजाम् एकाम् न्यगिरत्। एतत् निभाल्य फूराइरा स्वगृहम् प्रत्यधावत्।
कूष्माण्डफलम् अपि ताम् अनुचचाल प्रोवाच च– "मांसम् भक्षयितुम् इच्छामि।"
पिता प्रोवाच- "फूराइरे!  धावित्वा पशुगोष्ठम् प्रविश।" कूष्माण्डफलम् अपि तदनु चचाल। गाम् एकाम् न्यगिरत् विशालरूपम् च दधौ। फूराइरा स्वगृहम् आगच्छत्। कूष्माण्डफलम् अपि प्रोवाच- "मह्यम् भोजनम् प्रयच्छ।"
तस्य तच्चेष्टितम् वीक्ष्य सर्वे विस्मिताः च आसन्। पिता स्वसुताम् प्राह- "क्रमेलकपार्श्वम् गच्छ कूष्माण्डफलम् क्रमेलकम् अपि न्यगिरत्। किञ्चित् क्षणानन्तरम् बुभुक्षितम् एतत् सुताम् एव खादितुम् ऐच्छत्।
एतद् वीक्ष्य क्रोधान्वितः पिता तस्य उपरि पादप्रहारम् अकरोत्। पादप्रहारेण स्फुटितम् तत् कूष्माण्डफलम्। स्फुटितमात्रम् एव तस्मात् निर्गता गौः, अजा , क्रमेलकः जीवितदशायाम् एव।
एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारम् अकुर्वन्। यत् कूष्माण्डफलम् सर्वान् खादितुम् ऐच्छत् तत् क्षणेन भस्मसात् अभवत्।

जीवनस्य सार्थकता

पुरा एकस्मिन् ग्रामे अजापालकः च एकः न्यवसत्। एका अजा पुत्रजनानन्तरम् मृता। स तम् अजासुतम् पालयत् प्रेम्णा। शनैः शनैः सुतः च अयम् मेषरूपे  परिणतः।
एकदा अजापालकः व्यचारयत् कथम् न मेषम् हत्वा खादामि? अजापालकः च एकदा प्रातः उत्थाय कृपाणम् आकृष्य अजासमीपम् आगच्छत्।
कृपाणहस्तम् अजापालकम् विलोक्य मेषः व्यचारयत् किम् अयम् माम् हन्तुम् समुद्यतः? स्वमृत्युम् निकटम् वीक्ष्य मेष समृद्विग्नः सञ्जातः। अजापालकः मेषम् हन्तुम् इच्छति सम्प्रति एव किन्तु तेन विचारितम्- अद्य एकादशीव्रतम् वर्तते।
अद्य मांसम् अपि विक्रेतुम् न शक्यते। अद्य न हनिष्यामि मेषम्। इति विचार्य विरराम् अयम् अजापालकः।
एकदा पुनः च अजापालकः मेषम् हन्तुम् इयेष परम् केनापि छिक्का कृता। तस्य मनसि शंका समुत्पन्ना। तस्मिन् दिने अपि मेषस्य वधम् न कृतवान् अयम्। चिन्तया प्रत्यहम् दुर्बलः सञ्जातः मेषः। न सःघासम् चरति, न प्रसन्नेन चेतसा जलम् पिबति। सः अजाबन्धनस्थले सर्वदा चिन्तितः तिष्ठति।
तस्य तादृशीम् दुर्दशाम् वीक्ष्य काननस्थः कोऽपि शशकः तच्छमीपम् आगत्य प्रणमन् प्रोवाच- "भ्रातः!  किमर्थम् व्याकुलः असि? " मेषः पूर्वम् तु न किमपि अवदत् परम् शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वम् वृत्तान्तम्- "अजापतिः मा हन्तुम् इच्छति, तेन अहम् समुद्विग्नः अस्मि। न भोजनम् मे रोचते, न निद्रा, कथम् शेषम् जीवनम् यापय इयम् शीघ्रम् एव मरणम् स्यात् तर्हि वरम्।"
मेषवचनम् श्रुत्वा शशकः प्राह- "मित्र!  चिन्ताम् मा कुरु। उपायम् एकम् कथयामि। येन त्वम् सुखेन जीवनम् यापयिष्यसि। अजापालकः त्वया सह प्रेम्णा व्यवहरिष्यति।"
शशकवचनम् श्रुत्वा पुर्वन्तु मेषः  न विश्वसिति किञ्चित् क्षणानन्तरम् मेषः प्रोवाच- "मित्र!  यदि एवम् भवेत् तर्हि जीवनपर्यन्तम् तव उपकारम्  न विस्मरिष्यामि। उपायम् शीघ्रम् एव कथय, न जाने कदा माम् मारयेत् मम पालकः।"
शशकः च उपायम् कथयन् आस्ते- "मित्र!  अद्य रात्रौ द्वादशवादने त्वम् उच्चैः मैम्, मैम्, शब्दम् कुरु, येन अजापतिः विनिद्रितः स्यात् कृतेन अनेन अनुष्ठानेन अजापतिः त्वाम् पुत्रवत् प्रेम्णा पालयिष्यति।
सूर्यास्तः सञ्जातः। मेषः च अन्तर्मनसि शुशोच कदाचिद् शशकः माम् छलयेत? यद् अहम् रात्रौ स्वामिनम् विनिद्रितम् करिष्यामि तर्हि सः मम+उपरि भृशम् कुपितः भविष्यति। किञ्चित् कालानन्तरम् तेन विचारितम् मम मरणम् तु निश्चितम् एव वर्तते, कथम् न अद्य शशकस्य उपायम् करवाणि।
स मध्यरात्रौ मैम्-मैम् चीत्कुर्वन् आस्ते अजापालः तस्य शब्दम् श्रुत्वा यावद् विनिद्रितः सञ्जातः तावत् पश्यति चौराः तत्कक्षे प्रविष्टाः सन्ति। तम् समुत्थितम् वीक्ष्य चौराः पलायिताः।
मेषकृतम् उपकारम् स्मरन् अयम् नितराम् प्रहृष्टः सञ्जातः। तस्य वधस्य विचारः तेन परित्यक्तः। अधुना सः पुत्रवत् तम् पालयति। किञ्चित् दिनानन्तरम् मेषः शशकम् प्रणमत् प्राह- "भ्रातः! त्वया मम प्राणाः रक्षिताः!" शशकः प्रोवाच- "परेषाम् प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते।"
मेषः प्रतिजज्ञे- "अहम् अपि स्वजीवनम् सार्थकम् करिष्यामि परेषाम् उपकारेण।

वेणुवादकः राजपुत्रः

बहूनि दिनानि व्यतीतानि, सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। तस्य द्वौ पुत्रौ च आस्ताम्, ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते। ज्येष्ठराजपुत्रः सरलः दयालुः च वर्तते परम् कनिष्ठः क्रूरः स्वार्थी च।
एकदा राजा रुग्णः जातः। अपरराज्यात् अपि वैद्याः समाकारिताः परम् राजा स्वस्थः न अभवत्। राज्ञः अंगानि प्रत्यहम् क्षीयन्ते।
एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारम् अशृणोत्। बौद्धभिक्षुः राजानम् द्रष्टुम् इच्छति। दर्शनसमकालम् एव बौद्धभिक्षुः प्रोवाच- "यदि राज्ञः मस्तके “नारेबुहीरकम्” स्थाप्येत तर्हि राजा नीरोगः भविष्यति।"
चेसप्पा बौद्धभिक्षुम् अपृच्छत्- "कुतः प्राप्यते हीरकम् एतत्?"
"हीरकम् इदम् समुद्रे मिलति, एतदर्थम् भवता समुद्रयात्रा करणीया!" इति उक्त्वा बौद्धभिक्षुः राजप्रासादात् विनिर्गतः। चेसप्पा स्वपित्रे अधिकम् अस्निह्यत्। सः शीघ्रम् आदिष्टवान् यात्रार्थम् भृत्यान् भटान्। चेमीसम्पा अपि गन्तुम् इच्छति स्म परम् ज्येष्ठभ्राता ब्रूते- "आवयोः एकेन अत्र भवितव्यम्। अतः त्वम् अत्रैव तिष्ठ।"
परम् चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायाम् विनिर्गतः। प्रलम्बम् मार्गम् अतिक्रम्य तौ समुद्र तटम् प्रापतुः। चेप्सा समुद्राम्भसि प्रविष्टः तस्मात् हीरकम् अन्विष्य बहिः आगच्छति। चेमीसप्पा ज्येष्ठभ्रातुः हस्ते हीरकम् विलोक्य हीरकम् हस्तगतम् कर्तुम्+इच्छति। तत्रैव तयोः द्वन्द्वयुद्धम् अभवत्।
अन्ते चेमीसप्पा चेसप्पाम् हत्वा हीरकम् आच्छिद्य राजप्रासादम् प्रति आजगाम। चेमीसप्पा विजयीयोद्धा इव राजप्रासादम् आगत्य हीरकम् राज्ञः मस्तके न्यस्तवान्। तेन तत्कालम् एव राजा संज्ञावान् सञ्जातः। राजा चेसप्पा समाचारम् अपृच्छत्।
चेमीसप्पा प्रोवाच- "मार्गे सः दस्युभिः हतः। महता काठिन्येन अहम् हीरकम् आनेतुम् समर्थः अभवम्। चेसप्पा मृत्योः समाचारम् श्रुत्वा राजा विषण्णः सञ्जातः। भाग्ये विधात्रा यत् लिखितम् तत् मार्जितुम् कः क्षमः।
इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः। उत्थितुम् अपि च अक्षमः अयम् अजापालकैः समुत्थापितः। तस्य दुर्दशाम् वीक्ष्य ते अपि वृत्तान्तम् अपृच्छन् परम् चेसप्पा “सर्वम् भाग्याधीनम् वर्तते ” इति कथयामास। प्रजापालकाः चेसप्पाम्  स्वगृहम् अनयन्। व्रणानाम् उपचारपूर्वकम् दुग्धम् अपाययन्।
कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः। सः  तैः सह अजाः चारयितुम् अगच्छत्। अजापालकाः वेणुवादनम् अकुर्वन् वने। चेसप्पा तेभ्यः वेणुवादनम् अशिक्षयत्। शनैः शनैः सः वेणुवादने प्रवीणः सञ्जातः। सम्प्रति चेसप्पा गृहम् गन्तुम् इच्छति।
भगवतः लीला विचित्रा वर्तते। अजापालकाः भगवन्तम् सम्प्रार्थयन् यत् अयम् सकुशलम् स्वगृहम् प्राप्नोतु। अन्धः अयम् चेसप्पा मार्गे वेणुवादनम् कुर्वन् प्रयाति। जनाः तस्मै भोजनम् प्रयच्छन्ति।
एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपम् वेणुवादनम् अकरोत्! वेणुवादने समाकर्षिता राजपुत्री वेणुवादकम् आकारितवती। सायम् राजपुत्र्याः स्वयंवरः आसीत्। सा तम् वेणुवादकम् एव स्वपतिम् वरयामास।
राजा घटनाम् इमाम् स्वापमानम् मत्वा स्वपुत्रीम् राजप्रासादात् निष्कासयामास। राजकुमारी वेणुवादकेन सह काननम् प्रति विनिर्गता। तौ द्वौ एव परिश्रान्तौ वृक्षस्य अधः समुपविष्टौ। चेसप्पा मनसि व्यचारयत्- एकदा मम पित्रा प्रतिज्ञातम् आसीत् अनया राजपुत्र्या सह एव तव विवाहः भविता, किम् इयम् सा एव राजपुत्री वर्तते। द्रष्टुम् अपि न शक्नोमि। यदि मत्पित्रा इयम् एव मदर्थे निर्वाचिता तर्हि भगवन्तम् प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु।  तत्कालम् एव तस्य नेत्रे ज्योतिः प्रादुर्भूता। राजकुमारी तथैव भगवन्तम् प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रे अपि ज्योतिः उद्गता। द्वौ एव तौ परम् तुष्टौ सञ्जातौ।
सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादम् प्राप। राजा अपि तत्कृतम् विलोक्य प्रसन्नः जातः। चेसप्पा तस्मात् राजप्रासादात् स्वपितरम् विस्तरेण पत्रम् एकम् लिलेख। पत्रे स्वगृहागमनस्य समाचारम् अपि लिलेख। यदा राजा चेमीसप्पाकृतम् समाचारम् पठति तदा तत्कृते मृत्युदण्डस्य घोषणाम् अकारयत्।
किञ्चित् कालानन्तरम् चेसप्पा स्वपत्नीम् आदाय पितुः राजप्रासादम् आजगाम। स्वकनिष्ठभ्रातुः अपराधम् क्षमयितुम् अकथयत् पितरम्। चेमीसप्पा कुत्रचित् निलीय सर्वम् अशृणोत्। लज्जया सः राज्याद् बहिः निर्जगाम। राजा वृद्धः सञ्जातः। सम्प्रति सर्वम् राज्यकार्यम् चेसप्पा सम्भ्रालयति। तस्य राज्ये प्रजाः सुखेन स्वकालम् अयापयत्। तस्य राज्ये सर्वे सुखिनः च आसन्।

पशुपक्षिणाम् भाषा

अफ्रीकादेशे पुरा भाग्यहीनः च एकः जनः न्यवसत्। तस्य अभिधानम् आसीत् ओहिया। तस्य पत्नी अरीवेहू नाम्नी अवर्तत। सः क्षेत्रे बीजानि अवपत् परम् फलानि न अलगन्। तौ बुभुक्षितौ च आस्ताम्।
अरीवेहू स्वपतिम् उवाच- "त्वम् नदीपारम् गच्छ, भूस्वामिनम् सम्प्रार्थय यत् स तालवृक्षान् उच्छेत्तुम् आदिशतु येन आवाम् सुराम् विक्रीय लाभभाजौ भवावः।"
भूस्वामी आयस्य अर्धम् प्रदातुम् आदिशत्। ओहिया श्रमेण वृक्षेषु रन्ध्रम् विधाय रसनिष्पत्तये घटानि वबन्ध। यावत् प्रातः पश्यति तावत् वृक्षेषु सर्वाणि घटानि स्फुटितानि आसन्। सः व्यचारयत्- "कथम् भग्नानि घटानि?"
अरीबेहू प्रोवाच- "तालरसः भूमौ न पतितः, नूनम् कोऽपि चौरः रसम् चोरयति।"
ओहिया व्यचारयत्- "अहम् रात्रौ निरीक्षणम् करिष्यामि!" रात्रौ सः निकटे एव निकुञ्जे निलीय उपाविशत्। रात्रौ तृतीये प्रहरे हरिणः च एकः समागतः, सः घटेभ्यः रसम् स्वघटे निक्षिप्य घटानि स्फोटयति। ओहिया हरिणम् निग्रहीतुम् जवेन प्रधावन् पर्वतस्य आधित्यकायाम् प्राप। तेन आधित्यकायाम् दृष्टम् यत् वन्यपशुभिः आवृतः चित्रकः च एकः समुपविष्टःआस्ते। हरिणः ित्रकस्य चरणयोः पतति।
तत्र गत्वा ओहिया प्रोवाच- "हरिणः च अयम् चौरः, भाग्यहीनस्य तालरसम् चोरयति।"
चित्रकः प्राह- "दोषः तु हरिणस्य वर्तते। मया तु तालसुराम् आनेतुम् अयम् प्रेषितः, अयम् तव घटेभ्य रसम् आनीतवान्। यत् जातम् तत् जातम्। अस्मत्प्रतापेन त्वम् पशुपक्षिणाम् भाषाम् ज्ञास्यसि। रहस्यम् एतत् न आख्येयम् कस्मैचित्, नो चेत् तत्रैव तव मृत्युः भविता। ओहिया तस्मात् परावृतः।
बहूनि दिनानि व्यतीतानि । एकदा सः नद्याम् स्नानम् अकरोत्। तत्रैव तटस्था कुक्कुटी स्वशावकान् अकथयत्। पश्यत, मूर्खः अयम् जनः नद्याम् स्नाति, न जानाति अयम् यत् अस्य गृहस्य पृष्ठभागे हीरकपरिपूर्णानि त्रीणि घटानि वर्तन्ते। ओहिया स्वगृहम् प्रत्यागतः। स्वगृहपृष्ठे गर्तम् अखनत्। हीरकाणि नीत्वा गृहम् आगतः।
पशुभाषाज्ञानस्य रहस्यम् पत्नीम् अपि न अबोधयत्। ओहिया धनी सञ्जातः। सुसम्पन्नम् तस्य गृहम्। ओहिया अपरम् अपि विवाहमकरोत्। तस्य द्वितीया पत्नी सुन्दरी तु आसीत् परम् स्वभावेन च अतिक्रूरा।
एकदा विचारमग्नः ओहिया महानसे प्रथमभार्यया सह मूषकान् विलोक्य जहास। मूषकाः च अकथयन् अद्य महानसम् प्रविश्य यथेच्छम् शाकफलम् खादामः। स्वपतिम् हसन्तम् विलोक्य क्रूरा पत्नी प्रोवाच- "कथम् हसति? ज्ञातुम् इच्छामि अहम्।" ओहिया मनसि प्रहसन् किमपि न अवदत्। क्रूरा पत्नी तत्चेष्टितम् सर्वम् राज्ञे न्यवेदयत्। राजा ओहियाम् आकार्य च अज्ञापयत् सर्वम् सत्यम् सत्यम् वद नो चेत् दण्डभाक् भविष्यति।
ओहिया सर्वान् भोजनाय स्वगृहम् आमन्त्रयत्। भोजनानन्तरम् ओहिया स्वकथाम् अश्रावयत्। तत् क्षणम् एव मूर्छितः भूमौ न्यपतत् प्राणरहितः च सञ्जातः जनाः क्रूराम् पत्नीम् भर्त्सयन्तः च आसन्। तत्चेष्टितम् विलोक्य सर्वे क्रूराम् पत्नीम् हतवन्त। तस्य मृतशरीरम् ग्रामाद् बहिः भस्मसात् चक्रुः। यत्र यत्र तच्चिताभस्म उड्डीय गतम् तत्र घृणा, विद्वेषः, रोगः शोकः प्रासरत्। जनानाम् कथनम् अस्ति यत् इतः पूर्वम् संसारे न आसीत् घृणा, विद्वेषः रोगः शोकः च।

बालकः कृषकः नृपतिः च

एकस्मिन् ग्रामे बालकः च एकः न्यवसत्। तस्य पितरौ निर्धनौ वृद्धौ च आस्ताम्। दैन्येन तौ बालकम् पाठयितुम् अपि न शेकतुः। पितरौ गृहे एव कथाः श्रावयतः, येन अयम् बालकः निर्भीकः साहसिकः च सञ्जातः। एकदा बालकः प्रोवाच- "अहम् नगरम् प्रति गत्वा किमपि कार्यम् करिष्यामि, भवन्तौ वृद्धौ सञ्जातौ स्तः। मदीयम् अपि किमपि कर्तव्यम् भवति।"
पिता प्रोवाच- "नगरम्  गत्वा किम् करिष्यसि? अपठितः नगरे किम् कार्यम्+ करिष्यसि। राजप्रासादे अपि पठिता एव कार्यम् लभन्ते।"
बालकः प्रोवाच- "न अहम् शिक्षितः परम् मत्पार्श्वे वर्तन्ते गुणाः। अहम् अपि अर्जयित्वा समागमिष्यामि।" इति उक्त्वा बालकः नगरम् प्रति निर्गतः। मार्गे बालकेन दृष्टम् यत् कृषकः कोऽपि क्षेत्रे हलम् नीत्वा रोदिति। बालकः प्रोवाच- "कथम् तूष्णीम् तिष्ठसि भ्रातः!"
कृषकः प्राह- "राज्ञः सैनिकाः मद्वृषभौ आच्छिद्य नीतवन्तः।"
बालकः प्रोवाच- "किमर्थम्?"
कृषकः प्रोवाच- "दैन्येन मया राज्ञः करः न प्रदत्तः।"
बालकः प्राह- +चिन्ताम् मा कुरु, अहम् आनयामि तव वृषभौ। त्वम् सुखेन गृहम् गच्छ, अहम् आगच्छामि तव गृहम्।" इत्युक्त्वा बालकः च अग्रे प्रचलितः। मार्गे सिंहः मिलितः। निर्भयम् बालकम् विलोक्य सिंहः निजगाद- "भो भ्रातः! कुत्र गच्छसि एकाकी?" बालकः सर्वाम् कथाम् व्यथाम् कथयामास।
सिंहः प्रोवाच- "माम् अपि नय, तव  साहाय्यम् विधास्यामि।" बालकः सिंहम् स्ववामकर्णे स्थापितवान् प्रचलितः च तस्मात्। मार्गे व्याघ्रः च एकः अमिलत्।
सः अपि बालकम् अपृच्छत्- "भ्रातः !  कुत्र गच्छसि त्वम्? " बालकः सर्वाम् घटनाम् अश्रावयत्। व्याघ्रम् अपि स्वदक्षिणकर्णे स्थापयति, अग्रे च प्राचलत्। मार्गे च एकः अस्मिन् स्थाने अग्निः च अन्यस्मिन् स्थाने जलम् अमिलत्। तौ अपि बालकेन सह गन्तुम् समुत्सुकौ च आस्ताम्। बालकः च अग्निम् वामनासिकायाम् तथा जलम् दक्षिणनासिकायाम् अस्थापयेत्।
सायंकाले बालकः राजप्रासादम् प्रविवेश प्रोवाच च- "शीघ्रम् एव तस्य कृषकस्य वृषभौ प्रयच्छ।" क्रुद्धः नृपतिः बालकम् गौशालायाम् निक्षेप्तुम् आदिदेश। रक्षकाः तथैव अकुर्वन्।
किञ्चित् कालानन्तरम् गौशालायाम् स्थितिः विस्फोटका सञ्जाता। सिंहः बालकस्य वामकर्णान् निर्गत्य गौशालायाम् भ्रमितुम् लग्नः। समाचारम् श्रुत्वा नृपतिः क्रोधान्वितः सन् प्रोवाच- "बालकम् अजाशालायाम् निक्षिपन्तु।" तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः। व्याघ्रः अजा एडकान् च खादितुम् आरेभे।
राजा अपि घटनया अनया चकितः सञ्जातः, आदिदेश च यत् कारागारे क्षिपन्तु बालकम्। बालकः कारागारे प्रक्षिप्तः, किन्तु तत्र वामनासिकातः च अग्निः निसृत्य राजप्रासादे प्रसृतः। एतद् वीक्ष्य राजा बालकपार्श्वम् आगत्य क्षमायाचनम् अकरोत्। तत्क्षणम् एव बालकस्य दक्षिणनासिकातः जलम् ववर्ष, तेन राजप्रासादस्य अग्निः शान्तः अभवत्।
राजा प्रोवाच- "अद्य प्रभृति त्वम् मम प्रधानमंत्री अस्ति।"
बालकः प्राह- "प्रथमम् वृषभौ प्रयच्छ तस्य कृषकस्य।" बालकः वृषभौ नीत्वा कृषकस्य गृहम् प्राप। वृषभौ दृष्ट्वा कृषकः भृशम् प्रहर्षितः- "अहम् तव किम् प्रत्युपकारम् कर्तुम् शक्नोमि?"
बालकः प्राह- "अहम् राज्ञः सेवकः भवितुम् गृहात् निर्गतः किन्तु न अहम् तस्य अधमस्य सेवाम् कर्तुम् इच्छामि।"
कृषकः प्राह- "मया सह कृषिम् कुरु। आवाम् मिलित्वा पुष्कलम् धनम् अर्जयिष्याव। श्रमेण वसुन्धरा इयम् सर्वान् संभरति, प्रचुरम् अन्नम् च प्रयच्छति।" तौ सुखेन कृषिकार्यम् अकुरुताम् ।

न्यायस्य दुर्दशा

एकः भूस्वामी अश्वम् आरुह्य विनिर्गतः। कानने निर्गच्छन् मार्गम् विस्मृतवान् सः। इतस्ततः परिभ्रमन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "भ्रातः! मार्गम् विस्मृतम् च इतस्ततः परिभ्रमन् रात्रिम् यापयितुम् भवताम् शरणम् आगतः अस्मि।"
ग्रामाधिपः प्रोवाच- "स्वागतम् श्रीमन्! अत्र विश्रम्यताम् मम उटजे।"
भूस्वामी प्राह- "घोटकबन्धनार्थम् अपि स्थानम् निरूपयतु।"
ग्रामाधिपः प्रोवाच- "मम पशुशालायाम् बध्नातु घोटकम्।" घोटकम् बद्ध्वा भूस्वामी उटजम् आगत्य शयनम् कृतवान्। प्रभाते यदा घोटकम् पश्यति तदा पुच्छविहीनः घोटकः तेन दृष्टः। कृते अन्वेषणे घोटकस्य पुच्छम् कण्टकपुञ्जेषु विलग्नम् दृष्ट्वान्। तेन विचारितम्, कण्टकेषु विलग्नम् पुच्छम् घोटकः वेगेन आकर्षन् त्रोटितवान्। सः घोटकदशाम् विलोक्य नितराम् उद्विग्नः सञ्जातः।
भूस्वामी क्रुद्धः सन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "विश्रमितुम् स्थानम् दत्वा त्वया न सुष्ठुः कृतम्। पशुशालाम् परितः कण्टकारोपणेन मम घोटकस्य लांगूलम् छिन्नम्। अहम् काजीन्यायालये तव उपरि च अभियोगम् चालयिष्यामि।" इति उक्त्वा भूस्वामी अश्वम् आरुह्य तस्माद् विनिर्गतः।
ग्रामाधिपः व्यचारयत्- काजी महान् धूर्तः वर्तते। धनलोभात् सः न्यायम् अपि परिवर्तयति। काजी मृत्युदण्डेन माम् अवश्यम् मारयिष्यति इति विचारयन् आसीत् ग्रामाधिपः। अन्येद्युः प्रभाते न्यायालयस्य आह्वानम् समागतम्।
स वस्त्राञ्चले तीक्ष्णम् प्रस्तरखंडम् एकम् बद्ध्वा न्यायालयम् प्रति चलितः। सः निश्चयम् कृतवान्, यदि काजी उचितम् निर्णयम् न दास्यति तर्हि तीक्ष्णेन अस्य प्रस्तरखण्डेन तस्य नासिकाच्छेदम् करिष्यामि। गच्छन् मार्गे सेतुपृष्ठे समुपविश्य भयेन कम्पमानः च अधः निपतितः घोटकयानोपरि। तेन घोटकयानस्थः वृद्धः मृतः।
यम् तस्य पुत्राः चिकित्सार्थम् चिकित्सालयम् नयन्ति स्म। ते तम् ग्रामाधिपम् गालिकाप्रदानपुरस्सरम् न्यबध्नन् प्रोक्तवन्तः च वयम् त्वाम् काजीन्यायालयम् नीत्वा दण्डम् दापयिष्यामः।
ग्रामाधिपः प्रोवाच- "युष्माकम् पिता परोपकारी पुण्यशाली च आसीत्। तेन मरणम् प्राप्य आवयोः लाभ एव कृतः। भवताम् तु चिकित्सायाम् धनव्ययः न भविता, अहम् अपि च अश्वयानम् आरुह्य न्यायालयम् गच्छामि।
काजीन्यायालये तस्य पूर्वाभियोगः प्रारब्धः। द्वितीयस्य अपि अभियोगस्य सूचना प्रदत्ता तैः पुत्रैः काजी क्रोधरक्ताभ्याम् नेत्राभ्याम् ग्रामाधिपम् पश्यति। ग्रामाधिपः तु– मम मृत्युः निश्चिता, इति मत्वा तस्य नासिकाच्छेदार्थम् वस्त्राञ्चले निबद्धम् प्रस्तरखण्डम् सम्भालयति।
काजी व्यचारयत्– अभियोगी उत्कोचाय सुवर्णखण्डम् वस्त्राञ्चले बद्ध्वा च आनीतवान् अतः  न्यायः तस्य पक्षे मया करणीयः। काजी निर्णयः श्रावितवान्- "यावत् घोटकस्य नवलांगूलोत्पत्तिः न भविष्यति तावत् ग्रामाधिपः भूस्वामिनः घोटकम् पालयतु।" काजीकृतेन निर्णयेन सर्वे स्तब्धाः सञ्जाताः। काजी द्वितीयम् निर्णयम् इत्थम् श्रावयामास- "भवताम् पिता मृतः। तम् अहम् प्रत्यावर्तयितुम् न शक्नोमि। पुनरपि न्यायम् करोमि। अयम् ग्रामाधिपः घोटकयानेन तस्य सेतोः अधः निर्गच्छतु। भवन्तः चत्वारः सेतुपृष्ठस्थाः तदुपरि निपतन्तु, येन अयम् अवश्यम् मृत्युम् प्राप्स्यति।
एकस्य अस्य निपतनेन भवताम् पिता मृतः, भवताम् सहैव निपतनेन किम् न अयम् मरिष्यति।"
भूस्वामी प्राह- "यदि भवान् मम घोटकम् नेष्यति तर्हि महती हानिः मे भविता। अतः गृह्णातु भवान् द्विशतम् रुप्यकाणि। मदीयम् अश्वम् मह्यम् प्रयच्छतु" इति उक्त्वा स्वघोटकम् नीत्वा प्रचलितः भूस्वामी स्वगृहम् प्रति।
ते चत्वारः पुत्राः ग्रामाधिपसमीपम् आगत्य प्रोचुः- "ग्रामाधिप!  क्षमस्व अस्मान्। तव न्यायः तु विचित्रः। त्वम् तु मायावी लक्ष्यसे। यत् जातम् तत् जातम्।"
ग्रामाधिपः प्रोवाच- "न अस्मिन् मम अपराधः। काजी यत् निर्णयम् श्रावितवान् तस्य पालनम् एव मम धर्मः।" इत्थम् ते पुत्राः पञ्चशतम् रुप्यकाणि दत्वा तम् ग्रामाधिपम् प्रणम्य तस्मात् प्रस्थिताः। इत्थम् सप्तशतम् रुप्यकाणि प्राप्य नितराम् प्रहृष्टः आसीत् ग्रामाधिपः। स धन्यवादम् प्रदातुम् काजीपार्श्वम् आगतः, प्रोवाच च– "भवान् मत्पक्षे न्यायम् कृत्वा उपकृतवान् अस्ति। भवताम् कृतज्ञः अस्मि। भगवान् भवताम् शुभम् विदधातु।"
काजीकुटिलतया स्मयमानः प्राह- "न्यायः मया न कृतः। तव वस्त्राञ्चले निबद्धेन स्वर्णखण्डेन कृतः।"
ग्रामाधिप प्राह- "काजीमहोदय! मम वस्त्राञ्चले तु तव नासिकाच्छेदार्थम् प्रस्तरखण्डम् एकम् निबद्धम् अस्ति!" इत्युक्त्वा ग्रामाधिपः तस्य उपरि तत् प्रस्तरखण्डम् निक्षिप्य तस्मात् पलायितः।

मौनम् सर्वार्थसाधनम्

"मौनशब्‍दस्‍य अर्थः वर्तते मुनेर्भावः कर्म वा मौनम्” जीवनस्‍य लक्ष्‍यप्राप्तये मौनम् आश्रयन्‍ते जनाः। सर्वाणि शास्त्राणि मौनस्‍य वैशिष्ट्यम् निगदन्ति। एकेन मार्मिकेन निदर्शनेन अत्र मौनस्‍य महत्त्‍वम् प्रतिपाद्यते।
एकस्‍य देशस्‍य राजा सन्‍ततिरहितः आसीत्। कृते अपि उपचारे तस्‍य कामनापूर्तिः न जाता। वैद्यानाम् सिद्धयोगिनाम् शरणम् अपि अगच्‍छत्, देवस्‍तुतिम् अपि अकरोत् किन्‍तु न इच्‍छापूर्तिम् विलोक्‍य दुःखदुःखेन कालम् अयापयत्। "इयद् विशालराज्‍यस्‍य संरक्षकः कःभविता" - इति विचारयन् आसीत्+नृपतिः।
एकदा नृपदम्‍पती विचरन्‍तौ काननम् प्रति गतौ। तस्मिन् गहने वने कोऽपि तपस्विराजः द्वादशवर्षात् मौनव्रतंचरः तत्र समागच्‍छति स्‍म। एकदा च एकान्‍तम् विलोक्‍य राजा स्‍वदुःखम् न्‍यवेदयत्- "महाराज! भवान् तु साधुपुरुषः, सर्वेषाम् मनोव्‍यथाम् वेत्ति, परकार्याणि च साधयति। भवताम् वचनसिद्धिः सुदूरम् यावत् प्रथिता। भवन्‍तः मम उपरि अनुग्रहम् कुर्वन्‍तु येन मम कुलस्‍य पुत्रपौत्रप्रपौत्रपरम्‍परा वृद्धिम् यायात्। भवत्‍कृते न किमपि अशक्‍यम्।"
 द्वादशवर्षात् मौनव्रती साधुः अयम् तस्‍य निष्‍कपटप्रार्थनया द्रवितः सञ्जातः। साधुमुखात् सहसा निर्गच्‍छत् तव गृहे कुलभानुः समुत्‍पस्‍यते। जनाः व्‍यचारयन्- अकस्‍मात् मुनेः मुखाद् वाक्‍यम् एतत् निर्गतम्, न कदापि मिथ्‍या भविष्‍यति। राजा च अतीव हर्षितः सञ्जातः। प्रफुल्लितौ नृपदम्‍पती स्‍वनगरम् प्रत्यागतौ।
"इतः योगिराजः चिन्‍तातुरः सञ्जातः, अहो मया किमर्थम् मौनव्रतम् त्‍यक्‍तम्? मया महान् अनर्थः कृतः। मया स्‍ववचनानाम् पूर्तये तस्मिन् एव राजगृहे जन्‍म गृहीतव्‍यम्। नो चेत् महान् अनर्थः स्‍यात्, कः प्रत्येस्‍यति साधुवचनेषु।" अनशनव्रतम् संकल्‍प्‍य प्राणान् तत्याज महर्षिः।
इतः राजभवने पुत्राशया हर्षोल्‍लासः समजनि। सर्वत्र सिद्धयोगिप्रदत्ताशीर्वादस्‍य चर्चा प्रसृता। न महर्षिवचनानि मिथ्‍या भवितुम् अर्हन्ति। गर्भकालः सानन्‍दम् परिपूर्णः पुत्ररत्‍नस्‍य सम्‍प्राप्तिः जाता। अन्‍धकारम् अयम् वातावरणम् पुत्रभानुना प्रकाशितम् सञ्जातम्। राजभवने उत्‍सवानाम् परम्‍परा समारब्‍धा।
राजा महर्षेः कृपाम् विलोक्‍य मनसि निश्चयम् अकरोत् यत् चन्‍द्रदर्शनानन्‍तरम् सर्वप्रथमम् पुत्रम् महर्षेः आश्रमम् नेष्‍यामि। यस्‍य आशीर्वादेन पुत्रस्‍य प्राप्तिः जाता। वस्‍तुस्थित्‍या अनभिज्ञः राजा पुत्रेण सह सपरिवारः साधुदर्शनाय प्रस्थितः। शून्‍यम् कुटीरम् वीक्ष्‍य नृपः स्‍तम्भितः जातः। सिद्धपुरुषः कुत्र गतवान् इति व्‍यचिन्‍तयद् राजा।
ग्रामवासिनः प्रावोचन्- "सिद्धपुरुषः अयम् प्राणान् त्यक्‍तवान् योगिदर्शनस्‍य इच्‍छा न पूर्तिम् अगात् तस्‍य।"
वृद्धपुरुषाः प्रावोचन्- "बालकस्‍य शरीरम् भस्‍मचये निक्षिपतु येन आरोग्‍ययुक्तः भविष्‍यति बालकः। भस्‍मनि स्‍पर्शसमकालम् एव शिशुः जातिस्‍मरणज्ञानम् अवाप्तवान्। सः व्‍यचारयत् हन्‍तुम् महर्षिः आसम्, मुनिः आसम्। मौनम् परित्‍यज्‍य मया नृपतिगृहे जन्‍म अवाप्तम्। व्‍यर्थम् एव घोरसंकटे निपतितः अहम्। अस्मिन् जन्‍मनि न मौनम् विस्‍मरिष्‍यामि। इति विचार्य शिशुः जीवनपर्यन्‍तम् मौनधारणस्‍य निश्‍चयम् अकरोत्।
शनैः शनैः बालकः वृद्धिम् अवाप्तवान्। कुमारः क्रीडति, कूर्दति, खेलति परम् न किमपि वदति। नृपः वृद्धवैद्यान् अपृच्‍छत्। ते शिशोः परीक्षणम् अकुर्वन्, बालकस्‍य बुद्धौ न कोऽपि दोषः। केचन बालकाः विलम्‍बेन अपि वदन्ति। इयम् अपि धारणा वर्तते जनानाम्। बालकः सप्तवर्षवयस्‍कः समजनि, क्रीडति, सर्वम् अवगच्‍छति परम् न किमपि वदति।
एकदा बालकः राजकुमारैः सह अश्‍वम् आरुह्य भ्रमणार्थम् गच्‍छन् आसीत् तदा दक्षिणभागे तित्तिरः वदति। अपशकुनम् एतत् निभाल्‍य राजकुमारेण एकेन भुशुण्डिकया तित्तिरः अयम् मारितः। एतद् वीक्ष्‍य राजकुमारमुखात् निःसृतः “कथम् अवदत्” राजकुमारमुखात् शब्‍दम् श्रुत्‍वा सर्वे आश्‍चर्यचकिताः अभूवन्, नगरम् प्रत्यागत्‍य नृपदम्‍पतीम् सर्ववृत्तम् श्रावयामासुः। नृपतिः प्रसन्‍नः तु आसी‍त् किन्‍तु बालकः तदापि न किमपि वदति।
राज्ञा विचारितम्- इमे पुरस्‍कारलोभेन सर्वम् एतत् चक्रुः। राजाज्ञया सर्वे दण्‍डभाजः भवन्तु इति निर्देशेन सर्वेषाम् कृते सप्त-सप्तकोडादण्‍डम् दातुम् आज्ञापयत् नृपतिः।
राजकुमारस्‍य सहयोगिनः यदा कोडादण्‍डप्रहारेण भृशम् प्रपीडिताः च आसन् तदा बालकमुखात् निसृतम् तदेव वाक्‍यम् “ कथम् अवदत् ”। नृपदम्‍पती बालकमुखात् शब्‍दम् श्रुत्‍वा भृशम् प्रहर्षितौ। बालकेन विचारितम्- मया मुखम् व्‍यादायानिष्टम् एव कृतम्। मौनत्यागस्य परिणामः तु भौतव्‍यः एव। बालकः अयम् स्‍वातीतस्‍य समस्‍ताम् घटनाम् यथायथम् अश्रावयत्। मौनत्‍यागेन एव मया जन्‍म गृहीतम् अत एव मया मौनधारणस्‍य निश्चयः कृतः। साम्‍प्रतन्‍तु व्‍यवहारनिर्वाहार्थम् भवद्भिः सह मौनत्‍यागम् करोमि।

स्‍थूलेषु कः प्रत्‍ययः

एकस्‍य राज्ञः राजप्रसादस्‍य पार्श्वे एका तैलकारपत्‍नी न्‍यवसत्। राज्ञी तस्‍या‍म् अधिकम् स्निह्यति स्‍म। सा कदाचिद् अकथयत्- "भवत्‍याः महाराजः दुर्बलः-क्षीणः च वर्तते। किम् भवती  तस्‍मै भोजनम् न यच्‍छति? पश्‍यतु मम पतिः स्‍थूलः बलिष्ठः च वर्तते।"
राज्ञी प्रोवाच- "स्‍थूलेन किम् भवति? बलस्‍य आवश्यकता वर्तते।"
एकदा राज्ञी राजानम् प्राह- "समीपस्‍थ स्‍तैलकारः स्‍थूलः बलिष्ठः च वर्तते। तस्‍य पत्‍नी मुहुर्मुहुः भवन्‍तम् कृशम् दुर्बलम् च कथयति। एकदा तस्‍य बलस्‍य परीक्षा कर्त्तव्‍या।"
राजा प्राह- समये समागते तस्‍य परीक्षाम् करिष्‍यामि।"
समयः व्‍यतीतः, एकदा कापि सेना तस्मिन् ग्रामे च आक्रमणार्थम् समागता। इमम् समाचारम् श्रुत्‍वा राजा रोषान्वितः सञ्जातः। "मयि जीविते सति च आक्रमणम् कथम् भवितुम् अर्हति?" राजा स्‍वसेनाम् सज्‍जयितुम् आदिदेश। राजा स्‍वयम् अहिफेनम् नीत्‍वा च अश्वम् आरुह्य युद्धाय विनिर्गतः। स्‍थाने स्‍थाने जनाः राज्ञः साहसम्, द्रष्टुम् आतुराः च आसन्। मार्गे तस्‍य तैलकारगृहम् अपि आगतः। तैलकारः अपि अंकुशम् हस्‍तेकृत्‍य स्‍वगृहद्वारे सन्नद्धः आसीत्।
राजा तम् अंकुशम् वर्तुलीकृत्‍य तस्‍य ग्रीवायाम् एव न्‍यपातयत्। तैलकारः प्रयत्नम् अपि अकरोत् परम् लोहार्गलाम् ग्रीवातः निष्‍कासयितुम् असमर्थः सञ्जातः। एतद् वीक्ष्य तैलकारपत्नी स्‍तब्धा सञ्जाता।
सा अब्रवीत्- "इयद् बलम् वर्तते, मया तु विचारितम् आसीद् यत् राजा दुर्बलः अस्ति। परम् तस्‍य तैलकारस्‍य ग्रीवायाम् निवद्धा लौहशृंखला कथम् निष्‍कासयितुम् शक्‍यते?" उदासीना तैलकारपत्नी पुनः राजप्रासादम् आगता।
राज्ञीसमीपम् प्राप्‍य अश्रूणि न्‍यपातयत्- "मया यत् किमपि राज्ञः सम्‍बन्धे कथितम् तद् अनृतम् आसीत्। क्षम्‍यताम्- मम भर्तुः ग्रीवातः लौहशृंखलाम् निष्‍कासयतु। अन्‍यथा भारेण अयम् मरिष्‍यति।"
हसन्‍ती राज्ञी प्राह- "इयद् बलम् अपि न अस्ति।" तैलकारस्‍य पत्नी पादयोः पपात। राज्ञी सर्वम् वृत्तम् राज्ञे न्‍यवेदयत्।
राजा प्राह- तस्मिन् समये तु अहम् संग्रामभूमिम् प्रति गच्‍छन् आसम्। मम हृदि साहसेन पदम् कृतम् आसीद् अधुना तु अहम् अपि ताम् निष्‍कासयितुम् न शक्नोमि। पुनः कदाचिद् एतादृशः अवसरः च आगमिष्‍यति चेत् तदा कार्यम् एतत् करिष्‍यामि।" राज्ञी सर्वम् वृत्तम् तस्‍यै कथितवती।
सौभाग्‍येन सप्तदिनानन्‍तरम् एव स्थितिः एषा समागता। राजा पूर्ववत् साहसेन युद्धार्थम् विनिर्गतः। मार्गे सः तैलकारः स्‍वद्वारे हस्‍तौ संहतीकृत्‍य समुपस्थित आसीत्। राजा वेगेन तत्र गत्‍वा तस्‍या ग्रीवातः शृंखलाम् निष्‍कासितवान्। राजा युद्धभूमौ शत्रून् पराजितवान्। सर्वत्र जनाः प्रहर्षिताः च आसन्। तैलकारपत्नी राज्ञीपार्श्‍वम् आगत्‍य च आभारप्रदर्शनम् कृतवती।

दयाधर्मस्य उपदेशः

पुरा सिक्किमप्रान्ते नृपतिः च एकः राज्यम् अकरोत्। क्रूरः अयम् जीवहत्याव्यसनी आसीत्। जीवहत्याम् कृत्वा सः प्रसन्नताम् अन्वभवत्। तस्य आतंकः प्रजासु व्याप्तः आसीत्। भगवान् अपि तस्य हिंसावृत्तिम् निभाल्य दुःखितःसन् राज्ञः हृदयपरिवर्तनाय व्यचारयत्।
एकदा नृपतिः च आखेटान् निवर्तमानः आसीत्। भगवान् गृद्धरूपम् धृत्वा तस्य सम्मुखम् आजगाम। तत्कालम् एव नृपतिः संज्ञाहीनःसञ्जातः। तदनन्तरम् भगवान् युवकरूपम् धृत्वा अश्ववल्गाम् आकृष्टवान्। राजा ससंज्ञः सञ्जातः अपृच्छत् च- "रे युवक! कः असि त्वम्?"
नृपतिः ब्रूते- "अहम् अस्मात् मार्गात् निर्गच्छन् आसम्। तदैव कोऽपि गृद्धः भवताम् सम्मुखम् आयातः येन भवान् संज्ञाहीनः सञ्जातः। तदनन्तरम् मया अश्ववल्गा ग्रहीता। सम्प्रति भवान् ससंज्ञः सञ्जातः तर्हि गृहाण वल्गाम्, चलामि अहम्।"
"नहि युवक! त्वया मम साहाय्यम् आचरितम् पुरस्कारेण उपकरोमि त्वाम्!" इति वदन् नृपतिः तम् अश्वपृष्ठे उपावेशयत् तस्य नाम च अपृच्छत्।
युवकः ब्रूते- "कारथक-उदेक नाम अहम्! राजा तेन युवकेन अतीव प्रभावितः सन् तम् युवकम् मन्त्रिपदे नियुक्तवान्। कारथकः योग्यमंत्री सञ्जातः। सः न्यायेन, करुणया राज्यम् शशास। प्रजाः मंत्रिणः बुद्धिमत्ताम् न्यायप्रियताम् च विलोक्य भृशम् प्रहर्षिताः।
एकदा नृपतिना राजप्रासादे भोजस्य आयोजनम् कृतम्। जनाः नूतनवस्त्राभूषणानि परिधाय भोजे सम्मिलिता अभवन्। नृपतेःद्वे राज्ञौ आस्ताम्। ज्य़ेष्ठराज्ञी राजानम् हीरकहारम् सम्प्रार्थयत्। राजा हारम् कनिष्ठराज्ञे प्रदत्तवान्। विमनस्का ज्येष्ठराज्ञी प्रासादात् न निश्चक्राम्। कनिष्ठराज्ञी राज्ञा सह भोजनम् करोति स्म।
सहसा ज्येष्ठराज्ञी समागत्य हीरकहारम् तथा समाकृष्टवती येन हीरकाणि इतस्ततः प्रसृतानि। एतत् विलोक्य नृपतिः मंत्रिणम् क्रोधेन आदिष्टवान्- "वधार्हा वर्तते राज्ञी।"
मन्त्री सम्प्रार्थयत्- क्रोधे भवान् निर्णीतवान् न अस्य परिणामः सुखकरः।" ज्येष्ठराज्ञी क्षमायाचनाम् कृतवती परम् नृपतिशासनस्य अवहेलनाम् कः कर्तुम् पारयति। कारथकः ज्येष्ठराज्ञीम् वधाय काननाभिमुखम् नीतवान्। एकस्याम् गुहायाम् तद्रक्षणस्य व्यवस्थाम् अकारयत्। राजप्रासादम् आगत्य संसूचितवान् राजानम् यत् भवताम् आज्ञायाः पालनम् कृतवान् अहम्।
अन्यदा कारथकः राजानम् कथयति- "महाराज!  जीवहत्या महत्पापम् वर्तते। करुणा तथा दया मानवजीवनस्य आधारः। ज्य़ेष्ठराज्ञी वर्धाहा न आसीत् परम् क्रुधा भवान् तस्यै मृत्युदण्डम् प्रदत्तवान्। भवता तस्य कुक्कुटस्य कथा न श्रुता। राज्ञ आग्रहेण कारथकः कथाम् श्रावयितुम् लग्नः।
एकस्मिन् वने कुक्कुटदम्पती निवसतः स्म। तौ शीतकालाय पूर्वत एव द्विदलकणान् एकत्रितान् कृत्वा गृहकोणे स्थापयाञ्चक्रतुः। कुक्कुटी अण्डानि रक्षितुम् गृहे तिष्ठति कुक्कुटः तु भोजनार्थम् इतस्ततः भ्रमति।
एकदा कुक्कुटेन दृष्टम् यत् द्विदलकणाः तत्र न वर्तन्ते सः कुक्कुटीम् अपृच्छत्- "क्व गताः द्विदलकणाः? निश्चितम् त्वया खादिताः स्युः।"
कुक्कुटी विनम्रेण स्वरेण बहुशः ज्ञापयाञ्चक्रे परम् कुक्कुटः तु क्रोधाविष्टः स्वचञ्च्वा ताम् हतवान्। तदनन्तरम् एकाकी कुक्कुटः अपि अन्यत्र जगाम। वस्तुतः द्विदलकणाः भूमौ निपतिताः वर्षर्तौ पुनः उद्भूताः।
एकदा कुक्कुटः स्वगृहम् द्रष्टुम् समागतः तत्र द्विदलुपे बीजान् पश्यति व्यचिन्तयत् च अयम्- "अहो! ते द्विदलकणाः एव अंकुरिताः सन्ति। क्रोधाविष्टेन मया महाननर्थः कृतः। इत्थम् सः बहुविधम् पश्चात्तापम् अकरोत् । यदि अहम् कस्मैचित् जीवनदाने असमर्थः तर्हि तस्य जीवनहरणे कथम् क्षमः। कुक्कुटः भृशम् रोदिति परम् अधुना किम् कर्तुम् शक्यते।"
कथाम् एताम् श्रुत्वा सञ्जातपुलकः राजा अपि नितराम् विव्यथे। मया अपि वृथा मृत्युदण्डम् प्रदत्तम् राज्ञे।
कारथकः प्रोवाच- "महाराज!  क्रोधम्, घृणाम्, मत्सरम् च विस्मृत्य दयाधर्मस्य पालनम् भवता कर्तव्यम्।" इत्थम् शान्तिम् अवाप्स्यति भवान् ज्येष्ठमहिषीवृत्तान्तम् स्मरन् अयम् मोहम् उपगतः।
कारथकः राज्ञे सर्वम् न्यवेदयत् ज्येष्ठराज्ञीम् च काननात् आनीतवान्। तत्कृतम् विलोक्य राजा भृशम् सन्तुष्टः सञ्जातः। कारथकम् ब्रूते- "त्वम् एव राज्यकार्यम् सम्भालय।"
कारथकः निवेदयाञ्चक्रे- "महाराज!  दयाकरुणायुक्तः भवान् सम्प्रति राज्याधिकारी संवृतः वस्तुतः। एतादृशः प्रजाहितकरः नृपतिः दुर्लभः। इति उक्त्वा कारथकः तस्माद् अकस्मात् विनिश्चक्राम।

अतिलोभः न कर्तव्यः

एकः कृषकः आसीत्। तस्य ज्येष्ठः पुत्रः प्रलम्बः धनलोलुपः तथा चतुरः आसीत्। कनिष्ठः पुत्रः ह्रस्वः प्रसन्नमुखः तथा न्यायप्रियः च आसीत्। दुर्भाग्यात् कृषकस्य मृत्युः अभवत्। ज्येष्ठः भ्राता सम्पदः च अधिकर्तुम् कनिष्ठभ्रातरम् यात्रार्थम् अप्रैषयत्।
कनिष्ठभ्राता परिश्रमी तथा न्यायप्रियः आसीत्। सः यत्र कुत्रापि अगच्छत् तत्रैव धनम् अर्जयन् आस्ते। किञ्चद् दिनानन्तरम् सः विवाहम् अकरोत्। तस्य द्वौ पुत्रौ जातौ। जन्मभूमिम् स्मरन् अयम् गृहम् प्रतिनिवृतः।
ज्येष्ठभ्राता कनिष्ठम् आलिंगन् प्रोवाच- "एतावद् दिनानि कुत्र अस्थाः, कियत् धनम् आनीतवान् असि?"
सः स्वपुत्रौ प्रति संकेतयन् प्रोवाच- "एतौ मम धनम्। किञ्चिद्दिनानन्तरम् तव कृषिकार्ये साहाय्यम् करिष्यन्ति।"
ज्येष्ठः भ्राता सहसा चकितः सन् प्रोवाच- "तूष्णीम्! अस्मात् निर्गच्छ। तव न कोऽपि अधिकारः मम सम्पदि।" कनिष्ठभ्राता स्तब्धः सञ्जातः ।
शीतकालः आसीत्। कनिष्ठभ्रातुः पत्नी रुग्णा सञ्जाता। सः  ज्येष्ठभ्रातरम् असूचयत्। सः तस्य परिवारम् गृहात् निष्कासयामास।
कनिष्ठभ्राता दुःखितः सन् आत्मघातम् कर्तुम् नदीतटम् आगतः। सः रोदनध्वनिम् अशृणोत्- "माम् अस्मात् स्वर्णघटान् निष्कासय।" सः मध्यधारायाम् प्रवहन्तम् स्वर्णघटम् अपश्यत्। सः नद्याम् अकूर्दत्। नदीतटम् आनीतवान् स घटम् तस्मिन् दैवः च एकः तम् प्रणमन् प्रोवाच- "त्वया मह्यम् जीवनम् प्रदत्तम्, वद तव किम् कार्यम् करोमि?" कनिष्ठभ्राता किमपि याचितुम् न ऐच्छत्।
देवः प्रोवाच- "गृहाण! स्वर्णघटम् एतत् यदा कस्यापि वस्तुनः आवश्यकता भवेत् तदा घटम् भूमौ स्थापयित्वा “ स्वर्णघट ! ” “ कर्मठः भव ” इति कथयतु। कार्ये सञ्जाते “स्वर्णघट! आग्रहम् त्यज” इति कथिते सति फलानि,  मिष्ठान्नानि बहिः आगतानि।
कनिष्ठभ्राता प्रोवाच- ‘आग्रहम् त्यज’ इत्युक्ते विरतः सः घटः भोजनदानात्। सः सर्वान् भोजनम् कारयामास।
किञ्चित्कालानन्तरम् घटम् प्रोवाच- "कर्मठोभव’’ इति कथिते घटः कम्पितुम् लग्नः। कनिष्ठभ्राता भवनस्य कृते धनम् याचितवान्। धनेन अनेन सः भवनम् क्रीतवान् वस्त्राणि च निर्मापितवान्। तस्य ऐश्वर्ययुक्तम् जीवनम् निभाल्य ज्येष्ठभ्राता रहस्यम् ज्ञात्वा कनिष्ठभ्रातरम् उवाच- “ एकदिनाय घटम् मह्यम् प्रदेहि” दयालुः कनिष्ठभ्राता घटम् प्रयच्छन् प्रोवाच- "यदा यत् किमपि इच्छसि तदा कथय “ स्वर्णघट! कर्मठः भव” अनेन इच्छितम् वस्तु प्राप्स्यसि। कार्ये सञ्जाते सति कथय.... ज्येष्ठभ्राता अशृण्वन् एव घटम् आनीय गृहम् प्रति प्रचलितः।
गृहम् आगत्य स घटम् अवदत्- “कर्मठः भव” प्रयच्छ मह्यम् प्रभूतम् दुग्धम् क्षीरम् मिष्ठान्नम् च।" घटः प्रयच्छन् एव आस्ते। सः घटम् विरमयितुम् चिचेष्ट किन्तु घटः न विरमति। ज्येष्ठभ्राता क्षीरे निमग्नः सन् मृतः। कनिष्ठभ्राता सुखेन स्वजीवनयात्राम् अचालयत्। किञ्चित् कालानन्तरम् इयम् घटना विश्वविश्रुता सञ्जाता। सर्वे कथयामासुः “अति लोभः न कर्तव्यः।”

देशसेवाव्रतम्

सुमनः पञ्चमकक्षायाः च अध्ययनम् परिसमाप्य ग्रीष्मावकाशे स्वपितुः पार्श्वे लखनऊनगरम् प्रतस्थे। स तत्र दर्शनीयानि स्थलानि पित्रा सह अपश्यत्। लखनऊनगरस्य सम्बन्धे तेन यत् पठितम् आसीत् तत् सर्वम् एव अयम् स्वनेत्राभ्याम् अपश्यत्।
तन्नगरम् विलोक्य सः गृहम् गन्तुम् अपि न ऐच्छत्, परम् तत्र तत्पितामहः रुग्णः आसीत्। पित्रा कथितम् आसीत् यत्र तव इच्छा वर्तते तत्र पठतु। सुमनः स्वनिर्णयम् श्रावितवान्- यावत् पितामहः मे स्वस्थः न अभविष्यत् तावत् अयम् तस्य सेवायाम् एव अस्थास्यत्, तदनन्तरम् उच्चशिक्षार्थम् अत्र आगमिष्यति।
पिता तम् ग्रामम् प्रति प्रेषितुम् रेलयानस्थासकम् प्राप, तत्र रेलयानम् प्रतीक्षते। किञ्चित् कालानन्तरम् अकस्मात् रेलगन्त्री समायातः। सुमनः प्रविवेश उपाशित् च एकस्याम् आसन्दिकायाम्। गन्त्री तीव्रगत्या प्राचलत्। उपविष्टः सन् सुमनः बालभारतीपत्रिकाम् पठन् आस्ते। पत्रिकायाम् वीरबालकानाम् कथाम् पठने दत्तचित्तः अयम् विनिद्रितः आसीत्। अन्ये कक्षस्थाः यात्रिणः सर्वे प्रसुप्ताः। सहसा तस्मिन् कक्षे विद्युद् व्यवधानेन अग्निः प्रसृतः। धूमेन आवृतः कक्षः।
मध्यरात्रिसमयः सञ्जातः। केनापि तीव्रतमेन प्रज्वलितगन्धेन विचलितः सन् सुमनः यावत् पश्यति तावत् अग्निः समस्तम् कक्षम् आवृणोत् स्वर्चिषा। झटिति सुमनः गन्त्रीनिरोधशृंखलायाम् ललम्बे। गन्त्री सहसा तीव्रध्वनिना सह स्थिरा सञ्जाता। तदा एव सुमनः चीत्कुर्वन् सर्वान् उत्थापयामास। सर्वे जनाः स्वस्ववस्तुजातम् गवाक्षाद् बहिः चक्रुः। गवाक्षेभ्यः बहिः च कूर्दन् ।
क्षणेन सर्वे बहिः आगच्छन्। कक्षः अयम् भस्मसात् जातः। सुमनस्य सावधानजागरूकतया च एका महती दुर्घटना विनष्टा। सुमनस्य साहसम् वीक्ष्य कक्षस्थिताः यात्रिणः तम् स्कन्धे समुत्थाय ननर्तुः। अन्येद्युः समाचारपत्रेषु सचित्रम् समाचाराः प्रकाशिताः। तेषु तस्य साहसस्य समुल्लेखः आसीत्।
सर्वकारेण रेलप्रशासनेन च तस्मै पुरस्कारः अपि प्रदत्तः। तस्माद् दिनात् सुमनः स्वमनसि निश्चयम् अकरोद् यत् यावत् जीवम् मानवतायाः सेवाम् करिष्यामि। देशसेवया मानवः महान् भवति।
ये बालकाः स्वदेशस्य स्वजातः च सेवाम् कुर्वन्ति तेषाम् इतिहासे सादरम् समुल्लेखः क्रियते। ते मानवाः सुजीविताः तिष्ठन्ति सर्वदा।

पण्डितः अपि वरम् शत्रुः

पुरा एकस्मिन् वने एकः सरोवरः च आसीत्। अनेके पशुपक्षिणः तत्र आगत्य जलम् अपिबन् जलविहारम् च अकुर्वन्। तेषु पक्षिषु वर्तकः च एक आस्ते। स पक्षिषु वृद्धतमः। बुद्धिमान् अयम्+ सर्वेषाम् रक्षणे तत्परः तिष्ठति। सर्वे पक्षिणः च अस्य समादरम् च अकुर्वन् बुद्धिमतः। सरोवरस्य पक्षिषु तथा मत्स्येषु विरोधः स़ञ्जातः।
मत्स्याः न ऐच्छन् यत् पक्षिणः यावद् दिनम् सरोवरे तिष्ठेयुः तेन सरोवरस्य जलम् मलिनम् सञ्जायते। किन्तु वर्तककारणात् पक्षिणः निर्भयम् विचरन्ति जलाशये। यदा कोऽपि मृगयुः समागच्छति तदा वर्तकः सर्वान् 'कोम्-कोम्' शब्दम् कृत्वा सावधानान् करोति। पक्षिणः समुड्डीय पर्वतोपत्यकायाम् पलायाञ्चक्रुः। मृगयुः नीराशः भूत्वा प्रतिनिवर्तते।
मत्स्याः वाञ्छन्ति स्म यत् पक्षिणः मृगयुजाले निबद्धाः स्युः येन जलाशये तेषाम् एव साम्राज्यम् भवेत्। वर्तकः यदा जले अवतरति तदा मत्स्याः तम् अदशन्। भयद्रुतः वर्तकः तीरम् आगत्य विषण्णः तिष्ठति स्म। प्राज्यम् भोजनम् अपि न लभते। बुद्धिमान् वर्तकः कस्मैचित् अपि वृत्तान्तम् इमम् न अकथयत् यतो हि तेन तयोः परस्परम् विरोधस्य आशंका सम्भाव्यते।
एकदा प्रत्यूषे कोऽपि व्याधः सरोवरम् आजगाम। सर्वे पक्षिणः निर्भयाः सन्तः क्रीडाकरणे लग्नाः च आसन्। मत्स्याः प्रसन्नाः च आसन् अद्य। वर्तकः 'कोम्-कोम्' शब्दम् कृतवान् झटिति सर्वे पक्षिणः समुड्डीय पर्वतोपत्यकायाम् प्राविशन्। वस्तुतः व्याधः पक्षिणाम् आखेटाय समागतः अभूत्। व्याधः शीघ्रम् एव स्वजालम् जले प्राक्षिपत्। शीघ्रम् एव जालस्य रज्जुम् समाचकर्ष।
सहस्त्रशः मत्स्याः तस्मिन् जाले निबद्धाः। वर्तकः तेषाम् दशाः विलोक्य चिन्तितः सञ्जातः वर्तकः मनसि व्यचारयत् स्वकर्मणः फलम् प्राप्तम् मत्स्यैः। किन्तु द्वितीये क्षणे व्यचारत् अयम्- वयम् अस्मिन् सरोवरे सह एव निवासम् कृतवन्तः। अहम् यत् एतेषाम् साहाय्यम् न अकरिष्यम् तर्हि मम जीवनम् व्यर्थम् भवेत्। अनेन मम कुटुम्बस्य एव विनाशः भविष्यति। वर्तकः शीघ्रम् एव व्याधसमीपम् आगत्य मत्स्यानाम् कृते विलपन् आस्ते।
व्याधेन विचारितम् कथम् न वर्तकम् एव हस्ताभ्याम् गृह्णामि समीपम् आगतम्। सहसा सः वर्तकम् ग्रहीतुम् हस्तौ प्रासारयत्। तेन तस्य हस्तात् जालरज्जुः निपतिता। तत्क्षणम् एव मत्स्याः जालात् निर्गत्य गभीरे जले प्रविष्टाः। वर्तकः तु उड्डीय पक्षिभिः सह मिलितः। व्याघ्रः प्ररुदन् स्वगृहम् प्रतिनिवृत्तः। एतद् वीक्ष्य वर्तकः जलाशयतटम् आससाद। सर्वे मत्स्याः वर्तकस्य कृते भोजनम् आनयन् क्षमायाचनम् च अकुर्वन्।
पक्षिणः अपि समुड्डीय तत्र आगताः सर्वे मत्स्याः प्रतिज्ञावन्तः यत् ते भविष्ये वर्तकपितामहस्य कृते भोजनस्य व्यवस्थाम् अपि करिष्यन्ति। तद्दिनात् पक्षिणः मत्स्याः च तस्मिन् सरोवरे प्रेम्णा न्यवसन् अन्योन्ययोः प्राणसंरक्षणार्थम् समुद्यताः च अतिष्ठन्। वर्तकस्य आदेशम् पालयन्तः स्वजीवनम् सुखेन अयापयन्। अत एव केनापि कथितम्- “ पण्डितः अपि वरम् शत्रुः”।

अद्भुतम् वस्तु

पुरा तिब्लिसीप्रदेशे एकः व्यवसायी न्यवसत् । सः महामूल्यानि वस्तूनि विक्रीय धनम् अर्जयामास। एकदा वस्तूनि विक्रेतुकामः च अयम् विदेशम् गन्तुमनाः जलयानम् आरुह्य यात्रार्थम्  सज्जितः। गमनकाले सः पत्नीम् अपृच्छत्- "विदेशात् तव कृते किम् वस्तु आनयानि?"
पत्नी प्रोवाच- "मत्पार्श्वे सर्वाणि वस्तूनि वर्तन्ते यदि आनेतुम् इच्छति चेत् किमपि अद्भुतम् वस्तु आनय।"
"आम्! अवश्यम् आनेष्यामि।" व्यवसायी सप्तसमुद्रपारम् गत्वा स्ववस्तूनि विक्रीय नववस्तूनि क्रीत्वा स्वदेशम् आगन्तुम् इच्छति। सः भार्यायै अद्भुतम् वस्तु अन्वेष्टुम् निर्जगाम। मार्गे वृद्धः च एकः अमिलत् अपृच्छत् च- "कथम् चिन्तितः भवान्?"
व्यवसायी ब्रूते- "किमपि अद्भुतम् वस्तु क्रेतुम् इच्छामि।"
वृद्धः प्राह- "मत्पार्श्वे वर्तते अद्भुतम् वस्तु, चलतु।" वृद्ध व्यवसायिनम् स्वगृहम् आनीय ब्रूते- "पश्य तद् अद्भुतम् वस्तु उद्याने भ्रमति।" स उच्चैः अवदत्- "रे हंसः, इतः आगच्छ।" हंसः तत्क्षणम् एव तत्र समागतः।
वृद्धः प्राह- "अरे हंस! कटाहे शयनम् कुरु।" हंसः कटाहे निपतति। वृद्धः हंसम् कटाहे भर्जयित्वा उत्तारयामास। तौ हंसस्य मांसम् खादितुम् लग्नौः। वृद्धः हंसस्य अस्थीनि एकत्रितानि अकरोत्। वृद्धः तानि अस्थीनि भूमौ निक्षिप्य प्राह- "अरे हंसः! उतिष्ठ।" हंसः तत्क्षणम् एव उत्तिष्ठति।
व्यवसायी अवदद्- "वस्तुतः तव पार्श्वे अद्भुतम् वस्तु वर्तते।" व्यवसायी वृद्धात् तम् हंसम् क्रीत्वा स्वदेशम् प्रति प्रस्थितः।
गृहम् आगत्य पत्नी कथयति- "हंसम् एनम् प्रतिदिनम् भर्जयित्वा, खादित्वा अपि पुनः जीवति। इदम् अद्भुतम् वस्तु त्वत्कृते विदेशात् आनीतवान् अस्मि।" व्यवसायिनः पत्नी नितराम् प्रसन्ना सञ्जाता।
एकदा व्यवसायी स्वविपणिम् आगतः। इतः तद्गृहे तस्य भार्यायाः प्रेमी समागतः। सा व्यचारयत् अद्य प्रेमिणम् हंसस्य मांसम् खादितुम् कथयामि।" सा गवाक्षात्  चीत्कूर्वन्ती ब्रूते- अरे हंस! इत आगच्छ, कटाहे शयनम् कुरु।" हंसः तु समागतः किन्तु कटाहसमीपम् अपि न गच्छति। तद् वीक्ष्य भार्य़ा नितराम् क्रुद्धा सञ्जाता। सा हंसस्य उपरि कटाहम् एव प्राक्षिपत्। कटाहः हंसेन संलग्नः सञ्जातः। सा अपि कटाहेन संलग्ना।
"अरे! अरे!! माम् रक्षतु" –इत्थम् चीत्कुर्वन्ती सा व्यलपत्। भार्यायाः प्रेमी बाहुभ्याम् ताम् आकर्षयितुम् इच्छति परम् सः अपि कटाहेन संलग्नः सञ्जातः। यः कोऽपि नागरिकः तान् पृथक् कर्तुम् चेष्टते सः कटाहे संलग्नः दृश्यते। दृश्यम् इदम् द्रष्टुम् नगरे जनसम्मर्दः सञ्जातः। विपणिस्थः व्यवसायी विचारयति, मम भार्यायाः इयन्त प्रेमिणः कुतः समायाताः।
व्यवसायी ब्रूते- "सर्वम् सत्यम् सत्यम् कथय, नो चेत् जीवनपर्यन्तम् कटाहे संलग्ना भविष्यसि।" सा सर्वम् रहस्यम् कथयामास। तदा व्यवसायी सर्वान् पृथक् अकरोत्। गृहम् आगत्य तस्याः प्रेमिणम् अताडयत् स्वभार्याम् च ब्रूते– "दृष्टम् त्वया कियद् अद्भुतम् वस्तु त्वदर्थे समानीतवान् अस्मि।"

अतिमानवः

पुरा अफ्रीकादेशे एकः बलवान्  मानवः न्यवसत् तस्य विचार आसीत् मत्समः न अस्ति संसारे कोऽपि बलवान्। तेन आनीतम् काष्ठभारम् न कोऽपि उत्थापयितुम् क्षमः।
एकदा काष्ठभारम् द्वारदेशे निक्षिप्य पत्नीम् प्रोवाच- "न अहम् मानवः प्रत्युत च अतिमानवः।" प्रहसन्ती पत्नी प्रोवाच- "त्वत्तः अपि  बलवन्तः संसारे विद्यन्ते।
बहूनि दिनानि व्यतीतानि। एकदा तस्य पत्नी जलम् आनेतुम् कूपसमीपम् अगच्छत्। सा कूपे पात्रम् प्रक्षिपति परम् जलम् उद्धर्तुम् च अक्षमा। सा रिक्तहस्ता गृहम् प्रति निवर्तमाना आसीत्, मार्गे च अमिलत् च एकाः स्त्री सपुत्रा।
सा प्रोवाच- "कथम् रिक्तहस्ता प्रतिनिवर्तते?" सा सर्वम् आख्यातवती। स्त्री स्वपुत्रम् आदिदेश जलम् उद्धर्तुम्। पुत्रः क्षणेन एव  जलपात्रम् उद्धृतवान्। सा प्राह– "कथम् अनेन जलम् उद्धृतुम् ?"
सा प्रोवाच- "वर्तते च अस्य पिता तस्य अयम् पुत्रः।" सा स्वगृहम् आगत्य सर्वाम् घटनाम् कथयति। अतिमानवः शेटू पत्नीम् प्राह- "अहम् तज्जलम् उद्धर्तुम् क्षमः।"
तत्र गत्वा कृते अपि प्रयत्ने शेटू जलम् उद्धर्तुम् न शशाक। शेटू अतिमानवम् अन्वेष्टुम् तत् प्रति चलितः। न अयम् अतिमानवः गृहे तस्मिन् समये आसीत्।
तम् च प्रोवाच- "किम् करिष्यसि तम् दृष्ट्वा?  दृष्टमात्रम् एव चर्वयिष्यति तम्, गच्छ शीघ्रम् तत्क्षणम् एव झंझावातः प्रसृतः। प्रचण्डेन वातेन वृक्षाः निपतिताः गृहम् प्रविश्य अयम् प्राह- मानवस्य गन्धः समायाति, बुभुक्षितः अहम्, प्रयच्छ मह्यम् भोजनम्।
भयभीतम् समागतम् अतिमानवम् सा प्राह- "अत्रैव कोणे निलीनः तिष्ठ।"
अतिमानवः च अयम् तस्य कर्कशध्वनिम् एव श्रुत्वा प्रकम्पितः सन् स्वगृहम् प्रति प्रचलितः। अतिमानवः मनुष्यगन्धम् ध्रात्वा तमनु प्रधावितः। तत्क्षणम् एव आकाशवाणी सञ्जाता, कथम् पलायसे?  क्षणम् तिष्ठत।"
अतिमानवः प्राह- "एकः च अतिमानवः माम् अनुधावति, किम् भवान् माम् रक्षितुम् क्षमः?"
आकाशवाणी सञ्जाता, अत्र अनेके अतिमानवाः सन्ति, कः त्वाम् अनुगच्छति? त्वम् पलायनम् कुरु।"
पुनः झंझावातः प्रसृतः, ध्वनिः अभवत्- "कः त्वम्, कथम् पलायसे? " अतिमानवः सर्वम् कथयामास। तत्क्षणम् एव आकाशवाणी स़ञ्जाता- "न अहम् अतिमानवः, अहम् तु अतिदानवः। तत्क्षणम् एव अतिमानवातिदानवौ परस्परम् क्रोधान्वितौ द्वन्द्वयुद्धम् अकुरुताम्। आत्मानम् अतिमानवम् मन्यमानः जनः तौ कलहायमानौ विलोक्य द्रुतम् स्वगृहम् प्रति पलायितः।
काननमार्गेण शीघ्रम् स्वगृहम् प्राप। तम् आगतम् विलोक्य तस्य स्त्री प्राह- "मिथ्यात्मप्रशंसया न कोऽपि महान् भवितुम् अर्हति। मानवः एव श्रेष्ठः न च अतिमानवः।"
तद्वचनम् श्रुत्वा मानववद् व्यवहारम् कुर्वाणः आसीद् अयम् सम्प्रति अपि तौ अतिमानवातिदानवौ गगने कलहायमानौ वर्तेते। तयोः गर्जनध्वनिः सम्प्रति अपि मेघगर्जने श्रूयते, इति जनानाम् विश्वासः।

दुःखानाम् मञ्जूषा

ग्रीकदेशस्य देवानाम् राजा जिउसः सर्वप्रथमम् एकाम् स्त्रियम् प्रैषयत् पृथिव्याम्। स्त्रियः नाम आसीत्- पानडोरा। पानडोरा प्रथमा स्त्री आसीत् प्रथिव्याम्। जिउसः यदा ताम् अप्रैषयत् पृथिव्याम् तदा मञ्जूषाम् एकाम् अपि प्रायच्छत् तस्यै। तालकयुक्ता मंजूषा आसीत् इयम्, जिउसः कुञ्जिकाम् अपि पानडोरायै प्रायच्छत्। मंजूषाम् आदाय पानडोरा पृथिव्याम् प्राप। सा पृथिव्याम् आगत्य युवकेन एकेन सह विवाहम् कृत्वा सानन्दम्न्यवसत्। सा मञ्जूषाम् कुञ्चिकाम् च स्वामिनम् समर्पितवती। स्वामी ताम् मञ्जूषाम् गृहस्य एकस्मिन् कोणे च अस्थापयत्।
बहूनि दिनानि व्यतीतानि। तौ सुखेन स्वकालम् यापयामासतुः। गृहस्वामी सोल्लासम् सर्वाणि कार्याणि संपाद्य सायम् गृहम् आगच्छति। पानडोरा सस्मिता प्रत्यहम् तस्य स्वागतम् व्याजहार। सा भोजनानन्तरम् स्वस्वामिनम् विविधा देवकथाः श्रावयामास।
द्वित्रिवर्षाणि व्यतीतानि। पानडोरा च अन्वभवत् यत् तस्या शरीरम् प्रत्यहम् शिथिलम् जायते, मनसि च विरक्तिः उत्पद्यते सा स्वामिनः पृथक् भूत्वा सुखम् अनुभवति।
एकदा पानडोरा व्यचारयत्, यदा सा स्वर्गात् प्रचलिता तदा जिउसः तस्यै मञ्जूषाम् एकाम् कुञ्जिकाम् च प्रायच्छत्। सा उत्कण्ठिता आसीत् यत् किम् अस्ति मञ्जूषाभ्यन्तरे? सा मञ्जूषाम् उद्धाटयितुम् इच्छति। सा मञ्जूषापार्श्वम् आगता, ध्यानपूर्वकम् मञ्जूषाम् च अपश्यत्। अन्वभवत् सा यत् मञ्जूषाभ्यन्तरे कोऽपि मन्दम्-मन्दम् व्याहरति, कातरस्वरेण प्रार्थयति च, माम् बहिः आनयतु। दयार्द्रा पानडोरा कुञ्जिकया मञ्जूषाम् उद्घाट्य पश्यति।
आश्चर्यम् आसीत् मञ्जूषातः विविधाः कीटाः निःसृता, ते पानडोराम् अदशन्। पानडोरा व्याकुला सती पुनः मञ्जूषाम् निबद्धाम् कृतवती। कीटाः समुड्डीय इतस्ततः प्रासर्पन्। भयद्रुताः पानडोरा रहस्यम् एतत् न ज्ञातवती।
किञ्चित् कालानन्तरम् पुनः मञ्जूषातः मन्द्रः स्वरः समुद्भूतः, माम् बहिः निःसारयतु। इत्थम् प्रतीयते यत् कापि बालिका वदति। पानडोरा पूर्वम् एव मञ्जूषोद्घाटनफलम् भुक्तवती न अहम् पुनः त्रुटिम् करिष्ये, इति मनसि व्यचारयत्। परन्तु विनीतस्वरेण दयार्द्रा सञ्जाता पानडोरा। पुनः मञ्जूषाम् अपावृताम् अकरोत्।
सम्प्रति मञ्जूषातः एका सुरूपा बालिका निर्गता। पानडोरा ताम् विलोक्य आश्चर्यचकिताः सञ्जाता। प्रसन्ना सती सा नर्तितुम् आरेभे। पानडोराम् विलोक्य देवबाला प्रोवाच- "पानडोरे!  त्वम् एकाम् त्रुटिम् कृतवती।"
विस्मयान्विता पानडोरा प्रोवाच- "पुत्रि कथय, का त्रुटिः सञ्जाता?"
देवबाला प्राह- "पूर्वम् मञ्जूषातः ये कीटाः निर्गताः ते वस्तुतः कीटाः  न आसन्।" पानडोरा रहस्यम् एतत् न जानन्ती च आश्चर्यचकिता सञ्जाता। पुनः पुनः पप्रच्छ- "यदि ते कीटाः न सन्ति तर्हि के ते? "
प्रहसन्ती देवकन्या न्यबोधयत्- "पानडोरे! न ते कीटाः, ते तु रोगशोकदुःखादयः च आसन्। ते समस्त संसारे प्रासर्पन्। संसारस्य प्राणिनः दुःखम् अनुभविष्यन्ति।"
तत् श्रुत्वा पानडोरा- मनसि विषादः परिव्याप्तः। साश्रुनेत्रा सा विललाप। मत्कारणेन संसारे दुःखम् व्याप्तम्। पानडोरा प्रार्थयाञ्चक्रे- "कोऽपि उपायः कथ्यताम् दुःखनिवृत्तये।"
देवकन्या प्रोवाच- "जिउसेन अहम् पृथिव्याम् प्रेषिता तेषाम् दुःखितानाम् दुःखनिवारणाय। अहम् उत्साहेन प्रेरणया च मानवेषु प्रविश्य दुःखानाम् विनाशाय सर्वदा प्रेरणाम् दास्यामि, येन ते जीवनस्य आशाम् न परित्यक्षन्ति।

वाचाला तत्याना

एकस्मिन् उपनगरे कृषकदम्पती निवसतः स्म। कृषकः परिश्रमशीलः च आस्ते। तस्य पत्नी नितराम् वाचाला वर्तते। अत्र घटिताम् वार्ताम् ता सर्वत्र प्रसारयति स्म।
एकदा कृषकः आखेटाय वनम् गतः। तत्र व्याघ्रम् ग्रहीतुम् यावत् गर्तम् खनति तावत् गर्ते स्वर्णघटः निर्गतः। कृषकः व्यचारयत् यदि स्वर्णघटम् गृहम् नेष्यामि तर्हि सा इमाम् वार्ताम् सर्वत्र प्रसारयिष्यति तेन भूस्वामी माम् प्राणदण्डेन दण्डयिष्यति।
इति विचार्य कृषकः स्वर्णघटम् तत्रैव भूमौ निखातवान्। स्वगृहम् च प्रत्यागतः। मार्गे नद्याम् पाशम् एकम् व्यलोकयत् यस्मिन् पाशे श्चूका- मत्स्यः निबद्ध आसीत्। कृषकः मत्स्यम् निष्कास्य स्वहस्ते निधाय अग्रे प्रचलितः। तत्रापि मार्गे एकस्मिन् पाशे शशकः निबद्धः आसीत्। सः पाशात् शशकम् उन्मोच्य तस्मिन् मत्स्यम्, मत्स्यपाशे च शशकम् न्यपातयत्। पुनः अग्रे प्राचलत्।
सायम् स्वगृहम् प्राप्य स्वपत्नीम् प्रोवाच- तत्याने!  सम्प्रति अपूपान् पाचय।
तत्याना प्राह– अपूपाः तु केवलम् हर्षावसरे पाच्यन्ते, किम् कोऽपि हर्षस्य समाचारः वर्तते?
कृषकः ब्रूते, आम् , अद्य मया भूमौ स्वर्णघटः सम्प्राप्तः। प्रहर्षिता सा बहून् अपूपान् पाचितवती। कृषकः च अपूपान् भक्षयितुम् आरब्धः। सः बहून् अपूपान् वस्त्रे निबध्नाति।
तत्याना प्रोवाच, भवता प्रभूताः अपूपाः भक्षिताः किम् उदरम् न भरितम्?
कृषकः प्रोवाच- "मदीयम् उदरम् न भरितम्?  त्वम् अपि शीघ्रम् खादय, आवाम् स्वर्णघटम् नेतुम् यास्यावः।"
तत्याना शीघ्रम् भुक्त्वा तेन सार्धम् काननम् प्रति प्रचलिता। अन्धकारावृते मार्गे कृषकः अग्रे गत्वा वृक्षेषु अपूपान् अवलम्बयामास। एतत् अवलोक्य तत्याना प्रोवाच, पश्यतु , पश्यतु , वृक्षेषु अपूपाः अवलम्बन्ते।
कृषकः कथयति- "त्वया न विलोकितम्, सम्प्रति एव अपूपानाम् मेघाः समुड्डीय निर्गताः च आसन्।
कृषकः प्रोवाच- इतः तावद् विलोकय शशकपाशम्। तत्याना यावत् शशकपाशपार्श्वम् आगच्छति तदा पश्यति यत् तस्मात् पाशात् श्चूकाः निर्गताः।
सा प्रोच्चैः वदति, कथम् श्चूकामत्स्यः शशकपाशात् निर्गता।
कृषकः प्रोवाच- "त्वम् न जानासि, केचन ईदृशाः श्चूकाः अपि सन्ति ये भूमौ निवसन्ति।'' यदा कृषकः नदीतटम् आगतः तदा तत्यानाम् ब्रूते- स्वकीयम् पाशम् अपि पश्य। तत्याना यावत् स्वकीयपाशे पश्यति तावत् तस्मिन् शशकः निबद्धः आसीत्।
आश्चर्यचकिता तत्याना कथयति- मत्स्यपाशे शशकः कथम् निबद्धः?
कृषकः प्रोवाच, किम् त्वया समुद्रस्थः शशकः न दृष्टः  कदापि। तदनन्तरम् तौ तत्र समायातौ यत्र स्वर्णघटः आसीत्। तौ स्वर्णघटम् नीत्वा स्वगृहम् प्रति प्रचलितौ। मार्गे भूस्वामिनः गृहम् समागतम्। तत्र एडकाः “ मेम् - मेम् ” शब्दम् कुर्वन्तः आसन्।
शब्दम् श्रुत्वा तत्याना प्रोवाच, शीघ्रम् गृहम् चल, ईदृशः शब्दः कस्मात् निर्गच्छति।
कृषकः ब्रूते- पिशाचाः भूस्वामिनम् ताडयन्ति।
इत्थम् व्यतीता रजनी। तौ प्रत्यूषे स्वगृहम् आगतौ। स्वर्णघटम् भूमौ मृत्तिकया प्रच्छाद्य कृषकः तत्यानाम् ब्रूते- स्वर्णघटस्य वृत्तान्तः नआख्येयः कस्यापि।
प्रभाते सञ्जाते तत्याना जलम् आनेतुम् अद्य विलम्बेन गता। स्त्रियः प्रोचुः- अद्य विलम्बेन कथम् आगता?
वाचाला तत्याना स्वमनोभावान् अवरोद्धुम् न शक्ता। सा स्वर्णघटप्राप्तेः वृत्तान्तम् श्रावयामास। क्षणेन इयम् वार्ता भूस्वामिनः पार्श्वम् आगता। भूस्वामी कृषकम् आकार्य वाचा प्राताडयत् कथम् न त्वया स्वर्णघटस्य सूचना प्रदत्ता।
कृषकः प्रोवाच- न अहम् स्वर्णघटम् अवाप्तवान् भूस्वामी तत्यानाम् अकारयामास।
कृषकः ब्रूते- तत्याना तु प्रमत्तम् एव यत् किमपि कथयति, न अहम् तस्याम् वचसि विश्वसिमि। भूस्वामी तत्यानाम् पृच्छति किम् तव पतिः स्वर्णघटम् प्राप्तवान्?
सा ब्रूते- "आम्।"
"युवाम् स्वर्णघटम् नेतुम् रात्रौ गतौ, सर्वम् विस्तरेण वद।"
तत्याना कथयति- "पूर्वम् आवाम् काननम् प्रति निर्गतौ। तत्र वृक्षेषु अपूपाः अवलम्बन्ते स्म।"
भूस्वामी ब्रूते- "कानने अपूपाः कस्माद् आगताः?"
सा कथयति- "आकाशात्।"
तदनन्तरम् शशकपाशात् श्चूकामत्स्यः निर्गतः, मत्स्यपाशे च शशकः। पुनः आवाम् स्वर्णघटम् नीत्वा गृहम् प्रति समागतौ। मार्गे भवताम् गृहपार्श्वे पिशाचाः भवन्तम् ताडयन्ति स्म। तत्यानावचनम् श्रुत्वा भूस्वामी भृशम् प्रकुपितः सन् ताम् प्रमत्ताम् मन्यमानः स्वप्रासादात् निष्कासयामास। तदनन्तरम् तौ दम्पती सुखेन स्वकालम् यापयामासतुः।

इवानस्य भाग्योदयः

एकस्मिन् ग्रामे इवाननामकः सरलः च एकः जनः न्यवसत्। स आखेटम् कृत्वा उदरम् विभर्ति स्म। एकदा जम्बुकः तस्य पाशे न्यपतत्। हर्षितः इवानः व्यचारयत् एवम् विक्रीय आनन्देन समयम् अतिवाहयामि। यदि इत्थम् एव प्रत्यहम् जम्बुका मिलिष्यन्ति चेत् तर्हि विक्रीय एतान् विवाहार्थम् धनम् उपार्जयिष्यामि।
चतुरः जम्बुकः प्राह- भ्रातः इवान! माम् त्यज, त्वाम् धनिनम् विधास्यामि। इवानः तम् पर्यत्यजत्। जम्बुकः निर्गत्य जारोद्यानम् गत्वा क्रीडितुम् आरेभे। तदैव व्याघ्रः च एकः उपागत्य प्रोवाच मातृस्वसः!  कथम् अद्य प्रसन्ना दृश्यते, कथम् न प्रसन्ना स्याम, अद्य जारप्रासादे आकण्ठम् भुक्त्वा समागतवती। पुनः भोजनाय गमिष्यामि।
व्याघ्रः उवाच, एकदा माम् अपि तत्र नय भोजनाय।
जम्बुकः प्रोवाच- यदि त्वम् जाराय उपायने चत्वारिंशत् व्याघ्रान् समर्पयिष्यसि तर्हि भोजनाय चलितुम् शक्ष्यषि। व्याघ्रः कानने भ्रान्त्वा भ्रान्त्वा चत्वारिंशत् व्याघ्रान् एकत्रितान् अकरोत्  जारप्रासादम् आगत्य प्रोवाच- महाराज!  इवानः भवते चत्वारिंशत् व्याघ्रान् प्रैषयत् भवताम् कुशलम् च कामयते।
जारः प्रसन्नः सञ्जातः व्यचारयत् च, इवानः काननस्य राजा स्यात्। जम्बुकम् धन्यवादम् समर्पयन् जारः व्याघ्रान् ररक्ष। जम्बुकः इवानपार्श्वम् आगत्य प्रोवाच पश्यतु, किम् किम् करवाणि? इति उक्त्वा जारोद्यानम् आगत्य कूर्दितुम् आरेभे। तदैव तत्र भल्लूकः च एकः समागतः। जम्बुकः भोजनस्य वार्ताम् भल्लूककम् अश्रावयत् भल्लूकस्य मुखे लाला समुत्पन्ना।
भल्लूकः प्राह, माम् अपि तत्र भोजनाय नय।
जम्बुकः प्राह- त्वम् जाराय उपायने समर्पयितुम् पञ्चाशत् भल्लूकान् आनय तदा त्वाम् भोजनाय तत्र नेष्यामि। लोभाविष्टः भल्लूकः पञ्चाशत् भल्लूकान्, एकत्रितान् अकरोत्। जारप्रासादम् आगत्य प्रोवाच, इवानेन उपायेन प्रेषिताः इमे भल्लूकाः। जारः व्यचारयत् इवानः तु मत्तः अपि बलवत्तरः दृश्यते।
स जम्बुकम् प्राह, एकदा इवानम् राजप्रासादम् आनय।
जम्बुकः प्रोवाच, अस्माकम् इवानः तु कानने वसति, सिंहचर्मनिर्मितानि वस्त्राणि धारयति। सिंहारूढः यद् अत्र आगमिष्यति तदा तव प्रजाः भयविह्वला भविष्यति। अतः तम् आनयनाय नूतनानि वस्त्राणि वाहनम् च प्रेषयतु भवान्।
जम्बुकः इवानम् नूतनवस्त्राणि परिधाप्य वाहने समारोप्य तेन सह स्वयम् अपि राजप्रासादे सुखपूर्वकम् न्यवसत्। जारः तु इवानस्य स्वागतम् अकरोत्। इवानेन सह स्वकन्यायाः विवाहम् कृतवान्।
एकदा जारः जम्बुकम् प्रोवाच, स्वजामातृराज्यम् द्रष्टुम् इच्छामि। कतिचिद्दिनानि यावत् तत्रैव निवासम् करिष्यामि।
जम्बुकः विचारयति अधुना किम् भविष्यति? इति विचारयन् जम्बुकः प्रधावन् अग्रे निर्गतः। मार्गे अजापालकः च अमिलन्। जम्बुकः प्राह- कस्य अजाः चारयथ?
ते प्रोचुः इमे पशवः नागराजस्य सन्ति।
जम्बुकः प्राह किञ्चित्कालानन्तरम् अस्मात् अग्निदेवः निर्गमिष्यति यदि स पृक्ष्यति चेत् तर्हि कथय भवन्तः यत् इमे पशवः इवानस्य वर्तन्ते, अग्निदेव भस्मसात् करिष्यति। इति उक्त्वा जम्बुकः अग्रे प्रचलितः।
अग्रे गोपालाः गावः चारयन्ति स्म। जम्बुकः गोपालान् अपि तथैव अकथयत्। तदनन्तरम् जम्बुकः नागराजस्य प्रासादम् प्राप, अवदत् च शीघ्रम् गच्छ अस्मात् नो चेद् अग्निः प्रज्वालयिष्यति।
नागदेवः प्रोवाच, जम्बुकः प्राह- उद्याने वर्तते जीर्णवृक्षः, तस्य कोटरम् प्रविश। भयद्रुतः नागराजः तथैव अकरोत्।
पृष्ठतः जारः समागच्छन् प्रोवाच, कस्य इमे पशवः?  ते इवानस्य इति अवदन्। प्रचलन् जारः नागराजप्रसादपार्श्वम् आजगाम। जम्बुकः तत्र पूर्वत एव हस्तौ संहतौ कृत्वा जारस्य स्वागतम् व्याजहार। राजप्रासादे सर्वे भोजनम् कृत्वा विश्रामम् अकुर्वन्।
किञ्चिद्दिनानन्तरम् जम्बुकः इवानम् प्राह- येन केनापि उपायेन वृक्षकोटरस्थम् तम् नागराजम् व्यापादाय नो चेत् अस्माकम् रहस्यम् ज्ञास्यति अहम् जारः।
एकदा जारेण सह इवानः अपि भ्रमणाय उद्यानम् प्रति विनिर्गतः। इवानः जारम् प्राह- बहूनि दिनानि व्यतीतानि, शरसन्धानस्य अभ्यासः न्यूनीभूतः। सम्प्रति शरसन्धानम् करोमि इति कथयित्वा इवानः जीर्णतरुकोटरे बाणान् चिक्षेप, तेन नागराजः मृतः। तद्दिनात् इवानः तस्मिन् प्रासादे ससुखम् न्यवसत्।

जम्बोलायाः राजकुमारः

पुरा सिक्किमप्रान्ते रयोथुबसंगनामक बालकः न्यवसत्। तस्य पितरौ पूर्वम् एव मृतौ। सः स्वज्येष्ठभ्रात्रा सह निवसति। भ्रातृजाया सुष्ठुः न व्यवहरति। इत्थम् बालकः दुःखेन जीवनम् यापयति।
एकदा भ्रातृजाया बालकम् अताडयत्। बालकः गृहकोणे समुपविष्टः रोदिति स्वपितरौ च स्मरति। प्ररुदन् बालकः तत्रैव प्रसुप्तः। सायम् तत्र सिंहः समागतः तम् बालकम् काननम् प्रति अनयत्। कानने कियत्दूरे विनिर्गते सति सिंहः व्यचारयत्, कथम् खादामि बालकम् एनम्? सः बालकम् उत्तारयति किन्तु पश्यति यत् केवलम् बालकस्य वस्त्राणि एव तत्र विद्यन्ते, बालकः तु क्वचित् मार्गे एव निःसृतः।
सिंहः तम् अन्वेष्टुम् प्रतिनिवृतः। वस्तुतः रयोथुवसंगः मार्गे एव अपतत् सिंहः पूर्वस्याम् प्राचलत्। कियत् दूरे गते सति गौशालाम् एकाम् अपश्यत्। तत्र कतिचन गावः तथा तर्णकाः च आसन्। प्रभूतमात्रायाम् तत्र नवनीतम्, दुग्धम्, दधि च संस्थापितम् आसीत्। बुभुक्षितः अयम् बालकः प्रभूतमात्रायाम् नवनीतम् भक्षितवान्। पुनः अयम् गौशालायाः बहिः वृक्षे समारुढः।
किञ्चित् कालानन्तरम् तत्रैव  निद्रावशंगतः बालकः। सायंकाले शृंगवन्तः वृषभाः स्वस्थानम् आगताः। गौशालायाः स्वच्छताम् नवनीतम् च भक्षितम् विलोक्य ते व्यचारयन्- अवश्यम् अद्य अत्र कोऽपि समागतः। वृषभाध्यक्षः बालकस्य चरणचिह्नानि अनुसरन् तस्य वृक्षस्य अधः समागतः यस्मिन् बालकः समुपविष्टः आसीत्। इतः सिंहः अपि तम् अन्वेष्टुम् तत्रैव समागतः।
यदा सिंहः बालके आक्रमणम् कर्तुम् इच्छति तदा वृषभः शृंगाभ्याम् सिंहम् हतवान्। एतत् वीक्ष्य बालकः भयेन कम्पते। वृषभाध्यक्षः प्रोवाच- "न अद्यावधि केनापि गौशालायाः स्वच्छता कृता।
त्वम् अस्माकम् हितकारी अतएव अस्माकम् राजा त्वम् एव असि, इति उदीर्य बालकम् शृंगयोः आरोप्य गौशालायाम् आनयत्। बालकाः सिंहासनम् निर्माप्य बालकम् तत्र अस्थापयन्। बालकाः रात्रौ उत्सवम् चक्रिरे।
वृषभाध्यक्षः बालकाय स्वर्णवेणुम् प्रायच्छत् अकथयत् च- "समागतायाम् विपदौ वादयतु एनम्।"
एकदा शर्बूनामकः व्याधः गौशालाम् प्रत्यागतः। बालकस्य हस्तयोः स्वर्णवेणुम् विलोक्य व्यचारयत् निश्चितम् अयम् राजकुमारः भविष्यति। मम प्रान्तस्य राजकुमार्याः कृते श्रेष्ठः अयम् वरः प्रतीयते। व्याधः तम् स्वप्रान्तम् नेतुम् इच्छति बलात्। बालकः वेणुवादनम् अकरोत्।
सर्वे वृषभाः गौशालाम् समागताः। शृंगाभ्याम् व्याधम् बहिः निरसारयन्। व्याघ्रः स्वप्रान्तम् आगत्य राज्ञे सर्वम् वृत्तम् न्यवेदयत्। राजा स्वकन्यार्थम् बालकम् आनेतुम् मायाविनीम् एकाम् प्रैषयत्। बालकः तदा वेणुवादनम् अकरोत्।
मायाविनी वृषभम् आरुह्य काकरूपम् धृत्वा काम्-काम् अकरोत्। कर्णकटुशब्दम् श्रुत्वा बालकः काकोपरि ज्वलत् उल्मकम् चिक्षेप। प्रस्तरखण्डानि च न्यपातयत् परन्तु विचित्रः अयम् काकः। तम् काकम् अपाकर्तुम् अक्षमः बालकः स्ववेणुम् एव तस्य उपरि चिक्षेप।
चतुरः काकः स्वर्णवेणुम् नीत्वा स्वराजप्रासादम् प्रति विनिर्गतः। मायाविनी राजानम् अकथयत् न अधुना वेणुना विना बालकः किमपि कर्त्तुम् न शक्नोति। बालकम् गृहीत्वा अत्र समानयतु भवान्। राजा बालकम् तत्रैव अक्षिपत् यत्र राजकुमारी निबन्धिता आसीत् । बालकः तत्र निक्षिप्तम् स्वर्णवेणुम् नीत्वा वादयितुम् लग्नः। वेणुवादनप्रभावेण तत्र शतशः वृषभाः समुपस्थिताः । ते प्रोचुः बालकम् प्रत्यर्पयतु, अन्यथा वयम् शृंगाभ्याम् तव प्रासादम् विनंक्ष्यामः। राजकुमार्याः विवाहम् अपि बालकेन सह कुरुत। तस्य प्रान्तस्य राजा बालकेन सह राजकुमार्याः विवाहम् कृत्वा स्वार्द्धराज्यम् अपि तस्मै प्रायच्छत्। तौ सुखेन गौशालाम् आगत्य राज्यम् बुभुजे।