Tuesday 12 May 2015

बालकः कृषकः नृपतिः च

एकस्मिन् ग्रामे बालकः च एकः न्यवसत्। तस्य पितरौ निर्धनौ वृद्धौ च आस्ताम्। दैन्येन तौ बालकम् पाठयितुम् अपि न शेकतुः। पितरौ गृहे एव कथाः श्रावयतः, येन अयम् बालकः निर्भीकः साहसिकः च सञ्जातः। एकदा बालकः प्रोवाच- "अहम् नगरम् प्रति गत्वा किमपि कार्यम् करिष्यामि, भवन्तौ वृद्धौ सञ्जातौ स्तः। मदीयम् अपि किमपि कर्तव्यम् भवति।"
पिता प्रोवाच- "नगरम्  गत्वा किम् करिष्यसि? अपठितः नगरे किम् कार्यम्+ करिष्यसि। राजप्रासादे अपि पठिता एव कार्यम् लभन्ते।"
बालकः प्रोवाच- "न अहम् शिक्षितः परम् मत्पार्श्वे वर्तन्ते गुणाः। अहम् अपि अर्जयित्वा समागमिष्यामि।" इति उक्त्वा बालकः नगरम् प्रति निर्गतः। मार्गे बालकेन दृष्टम् यत् कृषकः कोऽपि क्षेत्रे हलम् नीत्वा रोदिति। बालकः प्रोवाच- "कथम् तूष्णीम् तिष्ठसि भ्रातः!"
कृषकः प्राह- "राज्ञः सैनिकाः मद्वृषभौ आच्छिद्य नीतवन्तः।"
बालकः प्रोवाच- "किमर्थम्?"
कृषकः प्रोवाच- "दैन्येन मया राज्ञः करः न प्रदत्तः।"
बालकः प्राह- +चिन्ताम् मा कुरु, अहम् आनयामि तव वृषभौ। त्वम् सुखेन गृहम् गच्छ, अहम् आगच्छामि तव गृहम्।" इत्युक्त्वा बालकः च अग्रे प्रचलितः। मार्गे सिंहः मिलितः। निर्भयम् बालकम् विलोक्य सिंहः निजगाद- "भो भ्रातः! कुत्र गच्छसि एकाकी?" बालकः सर्वाम् कथाम् व्यथाम् कथयामास।
सिंहः प्रोवाच- "माम् अपि नय, तव  साहाय्यम् विधास्यामि।" बालकः सिंहम् स्ववामकर्णे स्थापितवान् प्रचलितः च तस्मात्। मार्गे व्याघ्रः च एकः अमिलत्।
सः अपि बालकम् अपृच्छत्- "भ्रातः !  कुत्र गच्छसि त्वम्? " बालकः सर्वाम् घटनाम् अश्रावयत्। व्याघ्रम् अपि स्वदक्षिणकर्णे स्थापयति, अग्रे च प्राचलत्। मार्गे च एकः अस्मिन् स्थाने अग्निः च अन्यस्मिन् स्थाने जलम् अमिलत्। तौ अपि बालकेन सह गन्तुम् समुत्सुकौ च आस्ताम्। बालकः च अग्निम् वामनासिकायाम् तथा जलम् दक्षिणनासिकायाम् अस्थापयेत्।
सायंकाले बालकः राजप्रासादम् प्रविवेश प्रोवाच च- "शीघ्रम् एव तस्य कृषकस्य वृषभौ प्रयच्छ।" क्रुद्धः नृपतिः बालकम् गौशालायाम् निक्षेप्तुम् आदिदेश। रक्षकाः तथैव अकुर्वन्।
किञ्चित् कालानन्तरम् गौशालायाम् स्थितिः विस्फोटका सञ्जाता। सिंहः बालकस्य वामकर्णान् निर्गत्य गौशालायाम् भ्रमितुम् लग्नः। समाचारम् श्रुत्वा नृपतिः क्रोधान्वितः सन् प्रोवाच- "बालकम् अजाशालायाम् निक्षिपन्तु।" तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः। व्याघ्रः अजा एडकान् च खादितुम् आरेभे।
राजा अपि घटनया अनया चकितः सञ्जातः, आदिदेश च यत् कारागारे क्षिपन्तु बालकम्। बालकः कारागारे प्रक्षिप्तः, किन्तु तत्र वामनासिकातः च अग्निः निसृत्य राजप्रासादे प्रसृतः। एतद् वीक्ष्य राजा बालकपार्श्वम् आगत्य क्षमायाचनम् अकरोत्। तत्क्षणम् एव बालकस्य दक्षिणनासिकातः जलम् ववर्ष, तेन राजप्रासादस्य अग्निः शान्तः अभवत्।
राजा प्रोवाच- "अद्य प्रभृति त्वम् मम प्रधानमंत्री अस्ति।"
बालकः प्राह- "प्रथमम् वृषभौ प्रयच्छ तस्य कृषकस्य।" बालकः वृषभौ नीत्वा कृषकस्य गृहम् प्राप। वृषभौ दृष्ट्वा कृषकः भृशम् प्रहर्षितः- "अहम् तव किम् प्रत्युपकारम् कर्तुम् शक्नोमि?"
बालकः प्राह- "अहम् राज्ञः सेवकः भवितुम् गृहात् निर्गतः किन्तु न अहम् तस्य अधमस्य सेवाम् कर्तुम् इच्छामि।"
कृषकः प्राह- "मया सह कृषिम् कुरु। आवाम् मिलित्वा पुष्कलम् धनम् अर्जयिष्याव। श्रमेण वसुन्धरा इयम् सर्वान् संभरति, प्रचुरम् अन्नम् च प्रयच्छति।" तौ सुखेन कृषिकार्यम् अकुरुताम् ।

No comments:

Post a Comment