Tuesday 12 May 2015

रंगितः तथा तिस्ता

पुरा हिमालयस्य शिखरे एकः देवः तथा एका देवी न्यवसत्। देवस्य नाम रंगितः तथा देव्याः नाम आसीत् तिस्ता। तौ परस्परम् स्नेहेन न्यवसताम् तयोः मध्ये एकम् विशालम् पाषाणखण्डम् आसीत् येन तौ मिलितुम् अशक्तौ। केवलम् वार्तालापेन एव कालम् अत्यवाहयताम्। तौ व्यचारयताम् कदा आगमिष्यति सः शुभदिवसः, यदा आवाम् एकीभवावः। रंगितः प्रोवाच- "इत्थम् तु अस्माकम् जीवनम् एव समाप्तम् भविष्यति। सम्भवतः अत्र आवाम् कदापि न मिलिष्यामः।"
एकदा तिस्ता रंगितम् प्राह – "आवाम् अधस्तात् गत्वा मिलिष्यावः।
रंगितः इंगितेन पर्वतस्य पृष्ठभागम् दर्शयित्वा कथयति- "चल तत्र मिलिष्याव। आवाम् धावावः, परम् आवाम् अधः भागे कथम् धावावः?"
रंगितः प्रोवाच- "आवाम् एकैकम् पथप्रदर्शकम् नेष्यामः अहम् सर्पराजम् सम्प्रार्थयामि त्वम् तु पक्षिराजम्।" द्वौ एव तथैव अकुरुताम्।
सर्पराजः तु तिस्ताम् नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन् अयम् नियतः स्थानम् प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहम् तु समुड्डीय शीघ्रम् एव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीताम् दिशम् प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः।
रंगितः पक्षिराजम् ब्रूते- "भवान् जानाति यत् आवाम् प्रतियोगितायाम् भागम् गृहीष्यावः।यदि भवान् इत्थम् एव चलिष्यति तर्हि अहम् पराजितः भविष्यामि।"
पक्षिराट् अवदत्- "अहम् बुभुक्षितः अस्मि। उदरे भरिते सति गन्तुम् शक्नोमि!" पक्षिराड् मार्गम् अपि न वेत्ति स्म।
किञ्चित् कालानन्तरम् रंगितः पाषाणखण्डे समुपविष्टाम् तिस्ताम् ददर्श। तिस्ता रंगितम् प्रतीक्षते स्म। रंगितः तु पराजितः जातः अस्ति। क्रोधाविष्टः अयम् विनाशस्य लीलाम् अकरोत्। सर्वतः हाहाकारः समजनि।
तिस्ता रंगितस्य क्रोधम् तथा प्रकृतेः विनाशलीलाम् वीक्ष्य नितराम् विषण्णा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तः न भविष्यति चेत् सर्वम् विनश्यति सा विनयेन रंगितम् प्राह- "क्रोधम् मा कुरुत, पक्षिराजस्य कारणात् विलम्बः जातः। शीघ्रम् आगच्छतु भवान्! माम् आलिंगतु।"
तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तः अभवत्। यस्मिन् स्थाने तयोः मिलनम् अभूत् तस्मिन् स्थाने सम्प्रति अपि प्रतिवर्षम् मेलापकः लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति।

No comments:

Post a Comment