Tuesday 12 May 2015

अद्भुतम् वस्तु

पुरा तिब्लिसीप्रदेशे एकः व्यवसायी न्यवसत् । सः महामूल्यानि वस्तूनि विक्रीय धनम् अर्जयामास। एकदा वस्तूनि विक्रेतुकामः च अयम् विदेशम् गन्तुमनाः जलयानम् आरुह्य यात्रार्थम्  सज्जितः। गमनकाले सः पत्नीम् अपृच्छत्- "विदेशात् तव कृते किम् वस्तु आनयानि?"
पत्नी प्रोवाच- "मत्पार्श्वे सर्वाणि वस्तूनि वर्तन्ते यदि आनेतुम् इच्छति चेत् किमपि अद्भुतम् वस्तु आनय।"
"आम्! अवश्यम् आनेष्यामि।" व्यवसायी सप्तसमुद्रपारम् गत्वा स्ववस्तूनि विक्रीय नववस्तूनि क्रीत्वा स्वदेशम् आगन्तुम् इच्छति। सः भार्यायै अद्भुतम् वस्तु अन्वेष्टुम् निर्जगाम। मार्गे वृद्धः च एकः अमिलत् अपृच्छत् च- "कथम् चिन्तितः भवान्?"
व्यवसायी ब्रूते- "किमपि अद्भुतम् वस्तु क्रेतुम् इच्छामि।"
वृद्धः प्राह- "मत्पार्श्वे वर्तते अद्भुतम् वस्तु, चलतु।" वृद्ध व्यवसायिनम् स्वगृहम् आनीय ब्रूते- "पश्य तद् अद्भुतम् वस्तु उद्याने भ्रमति।" स उच्चैः अवदत्- "रे हंसः, इतः आगच्छ।" हंसः तत्क्षणम् एव तत्र समागतः।
वृद्धः प्राह- "अरे हंस! कटाहे शयनम् कुरु।" हंसः कटाहे निपतति। वृद्धः हंसम् कटाहे भर्जयित्वा उत्तारयामास। तौ हंसस्य मांसम् खादितुम् लग्नौः। वृद्धः हंसस्य अस्थीनि एकत्रितानि अकरोत्। वृद्धः तानि अस्थीनि भूमौ निक्षिप्य प्राह- "अरे हंसः! उतिष्ठ।" हंसः तत्क्षणम् एव उत्तिष्ठति।
व्यवसायी अवदद्- "वस्तुतः तव पार्श्वे अद्भुतम् वस्तु वर्तते।" व्यवसायी वृद्धात् तम् हंसम् क्रीत्वा स्वदेशम् प्रति प्रस्थितः।
गृहम् आगत्य पत्नी कथयति- "हंसम् एनम् प्रतिदिनम् भर्जयित्वा, खादित्वा अपि पुनः जीवति। इदम् अद्भुतम् वस्तु त्वत्कृते विदेशात् आनीतवान् अस्मि।" व्यवसायिनः पत्नी नितराम् प्रसन्ना सञ्जाता।
एकदा व्यवसायी स्वविपणिम् आगतः। इतः तद्गृहे तस्य भार्यायाः प्रेमी समागतः। सा व्यचारयत् अद्य प्रेमिणम् हंसस्य मांसम् खादितुम् कथयामि।" सा गवाक्षात्  चीत्कूर्वन्ती ब्रूते- अरे हंस! इत आगच्छ, कटाहे शयनम् कुरु।" हंसः तु समागतः किन्तु कटाहसमीपम् अपि न गच्छति। तद् वीक्ष्य भार्य़ा नितराम् क्रुद्धा सञ्जाता। सा हंसस्य उपरि कटाहम् एव प्राक्षिपत्। कटाहः हंसेन संलग्नः सञ्जातः। सा अपि कटाहेन संलग्ना।
"अरे! अरे!! माम् रक्षतु" –इत्थम् चीत्कुर्वन्ती सा व्यलपत्। भार्यायाः प्रेमी बाहुभ्याम् ताम् आकर्षयितुम् इच्छति परम् सः अपि कटाहेन संलग्नः सञ्जातः। यः कोऽपि नागरिकः तान् पृथक् कर्तुम् चेष्टते सः कटाहे संलग्नः दृश्यते। दृश्यम् इदम् द्रष्टुम् नगरे जनसम्मर्दः सञ्जातः। विपणिस्थः व्यवसायी विचारयति, मम भार्यायाः इयन्त प्रेमिणः कुतः समायाताः।
व्यवसायी ब्रूते- "सर्वम् सत्यम् सत्यम् कथय, नो चेत् जीवनपर्यन्तम् कटाहे संलग्ना भविष्यसि।" सा सर्वम् रहस्यम् कथयामास। तदा व्यवसायी सर्वान् पृथक् अकरोत्। गृहम् आगत्य तस्याः प्रेमिणम् अताडयत् स्वभार्याम् च ब्रूते– "दृष्टम् त्वया कियद् अद्भुतम् वस्तु त्वदर्थे समानीतवान् अस्मि।"

No comments:

Post a Comment