Tuesday 12 May 2015

वाचाला तत्याना

एकस्मिन् उपनगरे कृषकदम्पती निवसतः स्म। कृषकः परिश्रमशीलः च आस्ते। तस्य पत्नी नितराम् वाचाला वर्तते। अत्र घटिताम् वार्ताम् ता सर्वत्र प्रसारयति स्म।
एकदा कृषकः आखेटाय वनम् गतः। तत्र व्याघ्रम् ग्रहीतुम् यावत् गर्तम् खनति तावत् गर्ते स्वर्णघटः निर्गतः। कृषकः व्यचारयत् यदि स्वर्णघटम् गृहम् नेष्यामि तर्हि सा इमाम् वार्ताम् सर्वत्र प्रसारयिष्यति तेन भूस्वामी माम् प्राणदण्डेन दण्डयिष्यति।
इति विचार्य कृषकः स्वर्णघटम् तत्रैव भूमौ निखातवान्। स्वगृहम् च प्रत्यागतः। मार्गे नद्याम् पाशम् एकम् व्यलोकयत् यस्मिन् पाशे श्चूका- मत्स्यः निबद्ध आसीत्। कृषकः मत्स्यम् निष्कास्य स्वहस्ते निधाय अग्रे प्रचलितः। तत्रापि मार्गे एकस्मिन् पाशे शशकः निबद्धः आसीत्। सः पाशात् शशकम् उन्मोच्य तस्मिन् मत्स्यम्, मत्स्यपाशे च शशकम् न्यपातयत्। पुनः अग्रे प्राचलत्।
सायम् स्वगृहम् प्राप्य स्वपत्नीम् प्रोवाच- तत्याने!  सम्प्रति अपूपान् पाचय।
तत्याना प्राह– अपूपाः तु केवलम् हर्षावसरे पाच्यन्ते, किम् कोऽपि हर्षस्य समाचारः वर्तते?
कृषकः ब्रूते, आम् , अद्य मया भूमौ स्वर्णघटः सम्प्राप्तः। प्रहर्षिता सा बहून् अपूपान् पाचितवती। कृषकः च अपूपान् भक्षयितुम् आरब्धः। सः बहून् अपूपान् वस्त्रे निबध्नाति।
तत्याना प्रोवाच, भवता प्रभूताः अपूपाः भक्षिताः किम् उदरम् न भरितम्?
कृषकः प्रोवाच- "मदीयम् उदरम् न भरितम्?  त्वम् अपि शीघ्रम् खादय, आवाम् स्वर्णघटम् नेतुम् यास्यावः।"
तत्याना शीघ्रम् भुक्त्वा तेन सार्धम् काननम् प्रति प्रचलिता। अन्धकारावृते मार्गे कृषकः अग्रे गत्वा वृक्षेषु अपूपान् अवलम्बयामास। एतत् अवलोक्य तत्याना प्रोवाच, पश्यतु , पश्यतु , वृक्षेषु अपूपाः अवलम्बन्ते।
कृषकः कथयति- "त्वया न विलोकितम्, सम्प्रति एव अपूपानाम् मेघाः समुड्डीय निर्गताः च आसन्।
कृषकः प्रोवाच- इतः तावद् विलोकय शशकपाशम्। तत्याना यावत् शशकपाशपार्श्वम् आगच्छति तदा पश्यति यत् तस्मात् पाशात् श्चूकाः निर्गताः।
सा प्रोच्चैः वदति, कथम् श्चूकामत्स्यः शशकपाशात् निर्गता।
कृषकः प्रोवाच- "त्वम् न जानासि, केचन ईदृशाः श्चूकाः अपि सन्ति ये भूमौ निवसन्ति।'' यदा कृषकः नदीतटम् आगतः तदा तत्यानाम् ब्रूते- स्वकीयम् पाशम् अपि पश्य। तत्याना यावत् स्वकीयपाशे पश्यति तावत् तस्मिन् शशकः निबद्धः आसीत्।
आश्चर्यचकिता तत्याना कथयति- मत्स्यपाशे शशकः कथम् निबद्धः?
कृषकः प्रोवाच, किम् त्वया समुद्रस्थः शशकः न दृष्टः  कदापि। तदनन्तरम् तौ तत्र समायातौ यत्र स्वर्णघटः आसीत्। तौ स्वर्णघटम् नीत्वा स्वगृहम् प्रति प्रचलितौ। मार्गे भूस्वामिनः गृहम् समागतम्। तत्र एडकाः “ मेम् - मेम् ” शब्दम् कुर्वन्तः आसन्।
शब्दम् श्रुत्वा तत्याना प्रोवाच, शीघ्रम् गृहम् चल, ईदृशः शब्दः कस्मात् निर्गच्छति।
कृषकः ब्रूते- पिशाचाः भूस्वामिनम् ताडयन्ति।
इत्थम् व्यतीता रजनी। तौ प्रत्यूषे स्वगृहम् आगतौ। स्वर्णघटम् भूमौ मृत्तिकया प्रच्छाद्य कृषकः तत्यानाम् ब्रूते- स्वर्णघटस्य वृत्तान्तः नआख्येयः कस्यापि।
प्रभाते सञ्जाते तत्याना जलम् आनेतुम् अद्य विलम्बेन गता। स्त्रियः प्रोचुः- अद्य विलम्बेन कथम् आगता?
वाचाला तत्याना स्वमनोभावान् अवरोद्धुम् न शक्ता। सा स्वर्णघटप्राप्तेः वृत्तान्तम् श्रावयामास। क्षणेन इयम् वार्ता भूस्वामिनः पार्श्वम् आगता। भूस्वामी कृषकम् आकार्य वाचा प्राताडयत् कथम् न त्वया स्वर्णघटस्य सूचना प्रदत्ता।
कृषकः प्रोवाच- न अहम् स्वर्णघटम् अवाप्तवान् भूस्वामी तत्यानाम् अकारयामास।
कृषकः ब्रूते- तत्याना तु प्रमत्तम् एव यत् किमपि कथयति, न अहम् तस्याम् वचसि विश्वसिमि। भूस्वामी तत्यानाम् पृच्छति किम् तव पतिः स्वर्णघटम् प्राप्तवान्?
सा ब्रूते- "आम्।"
"युवाम् स्वर्णघटम् नेतुम् रात्रौ गतौ, सर्वम् विस्तरेण वद।"
तत्याना कथयति- "पूर्वम् आवाम् काननम् प्रति निर्गतौ। तत्र वृक्षेषु अपूपाः अवलम्बन्ते स्म।"
भूस्वामी ब्रूते- "कानने अपूपाः कस्माद् आगताः?"
सा कथयति- "आकाशात्।"
तदनन्तरम् शशकपाशात् श्चूकामत्स्यः निर्गतः, मत्स्यपाशे च शशकः। पुनः आवाम् स्वर्णघटम् नीत्वा गृहम् प्रति समागतौ। मार्गे भवताम् गृहपार्श्वे पिशाचाः भवन्तम् ताडयन्ति स्म। तत्यानावचनम् श्रुत्वा भूस्वामी भृशम् प्रकुपितः सन् ताम् प्रमत्ताम् मन्यमानः स्वप्रासादात् निष्कासयामास। तदनन्तरम् तौ दम्पती सुखेन स्वकालम् यापयामासतुः।

No comments:

Post a Comment