Tuesday 12 May 2015

मौनम् सर्वार्थसाधनम्

"मौनशब्‍दस्‍य अर्थः वर्तते मुनेर्भावः कर्म वा मौनम्” जीवनस्‍य लक्ष्‍यप्राप्तये मौनम् आश्रयन्‍ते जनाः। सर्वाणि शास्त्राणि मौनस्‍य वैशिष्ट्यम् निगदन्ति। एकेन मार्मिकेन निदर्शनेन अत्र मौनस्‍य महत्त्‍वम् प्रतिपाद्यते।
एकस्‍य देशस्‍य राजा सन्‍ततिरहितः आसीत्। कृते अपि उपचारे तस्‍य कामनापूर्तिः न जाता। वैद्यानाम् सिद्धयोगिनाम् शरणम् अपि अगच्‍छत्, देवस्‍तुतिम् अपि अकरोत् किन्‍तु न इच्‍छापूर्तिम् विलोक्‍य दुःखदुःखेन कालम् अयापयत्। "इयद् विशालराज्‍यस्‍य संरक्षकः कःभविता" - इति विचारयन् आसीत्+नृपतिः।
एकदा नृपदम्‍पती विचरन्‍तौ काननम् प्रति गतौ। तस्मिन् गहने वने कोऽपि तपस्विराजः द्वादशवर्षात् मौनव्रतंचरः तत्र समागच्‍छति स्‍म। एकदा च एकान्‍तम् विलोक्‍य राजा स्‍वदुःखम् न्‍यवेदयत्- "महाराज! भवान् तु साधुपुरुषः, सर्वेषाम् मनोव्‍यथाम् वेत्ति, परकार्याणि च साधयति। भवताम् वचनसिद्धिः सुदूरम् यावत् प्रथिता। भवन्‍तः मम उपरि अनुग्रहम् कुर्वन्‍तु येन मम कुलस्‍य पुत्रपौत्रप्रपौत्रपरम्‍परा वृद्धिम् यायात्। भवत्‍कृते न किमपि अशक्‍यम्।"
 द्वादशवर्षात् मौनव्रती साधुः अयम् तस्‍य निष्‍कपटप्रार्थनया द्रवितः सञ्जातः। साधुमुखात् सहसा निर्गच्‍छत् तव गृहे कुलभानुः समुत्‍पस्‍यते। जनाः व्‍यचारयन्- अकस्‍मात् मुनेः मुखाद् वाक्‍यम् एतत् निर्गतम्, न कदापि मिथ्‍या भविष्‍यति। राजा च अतीव हर्षितः सञ्जातः। प्रफुल्लितौ नृपदम्‍पती स्‍वनगरम् प्रत्यागतौ।
"इतः योगिराजः चिन्‍तातुरः सञ्जातः, अहो मया किमर्थम् मौनव्रतम् त्‍यक्‍तम्? मया महान् अनर्थः कृतः। मया स्‍ववचनानाम् पूर्तये तस्मिन् एव राजगृहे जन्‍म गृहीतव्‍यम्। नो चेत् महान् अनर्थः स्‍यात्, कः प्रत्येस्‍यति साधुवचनेषु।" अनशनव्रतम् संकल्‍प्‍य प्राणान् तत्याज महर्षिः।
इतः राजभवने पुत्राशया हर्षोल्‍लासः समजनि। सर्वत्र सिद्धयोगिप्रदत्ताशीर्वादस्‍य चर्चा प्रसृता। न महर्षिवचनानि मिथ्‍या भवितुम् अर्हन्ति। गर्भकालः सानन्‍दम् परिपूर्णः पुत्ररत्‍नस्‍य सम्‍प्राप्तिः जाता। अन्‍धकारम् अयम् वातावरणम् पुत्रभानुना प्रकाशितम् सञ्जातम्। राजभवने उत्‍सवानाम् परम्‍परा समारब्‍धा।
राजा महर्षेः कृपाम् विलोक्‍य मनसि निश्चयम् अकरोत् यत् चन्‍द्रदर्शनानन्‍तरम् सर्वप्रथमम् पुत्रम् महर्षेः आश्रमम् नेष्‍यामि। यस्‍य आशीर्वादेन पुत्रस्‍य प्राप्तिः जाता। वस्‍तुस्थित्‍या अनभिज्ञः राजा पुत्रेण सह सपरिवारः साधुदर्शनाय प्रस्थितः। शून्‍यम् कुटीरम् वीक्ष्‍य नृपः स्‍तम्भितः जातः। सिद्धपुरुषः कुत्र गतवान् इति व्‍यचिन्‍तयद् राजा।
ग्रामवासिनः प्रावोचन्- "सिद्धपुरुषः अयम् प्राणान् त्यक्‍तवान् योगिदर्शनस्‍य इच्‍छा न पूर्तिम् अगात् तस्‍य।"
वृद्धपुरुषाः प्रावोचन्- "बालकस्‍य शरीरम् भस्‍मचये निक्षिपतु येन आरोग्‍ययुक्तः भविष्‍यति बालकः। भस्‍मनि स्‍पर्शसमकालम् एव शिशुः जातिस्‍मरणज्ञानम् अवाप्तवान्। सः व्‍यचारयत् हन्‍तुम् महर्षिः आसम्, मुनिः आसम्। मौनम् परित्‍यज्‍य मया नृपतिगृहे जन्‍म अवाप्तम्। व्‍यर्थम् एव घोरसंकटे निपतितः अहम्। अस्मिन् जन्‍मनि न मौनम् विस्‍मरिष्‍यामि। इति विचार्य शिशुः जीवनपर्यन्‍तम् मौनधारणस्‍य निश्‍चयम् अकरोत्।
शनैः शनैः बालकः वृद्धिम् अवाप्तवान्। कुमारः क्रीडति, कूर्दति, खेलति परम् न किमपि वदति। नृपः वृद्धवैद्यान् अपृच्‍छत्। ते शिशोः परीक्षणम् अकुर्वन्, बालकस्‍य बुद्धौ न कोऽपि दोषः। केचन बालकाः विलम्‍बेन अपि वदन्ति। इयम् अपि धारणा वर्तते जनानाम्। बालकः सप्तवर्षवयस्‍कः समजनि, क्रीडति, सर्वम् अवगच्‍छति परम् न किमपि वदति।
एकदा बालकः राजकुमारैः सह अश्‍वम् आरुह्य भ्रमणार्थम् गच्‍छन् आसीत् तदा दक्षिणभागे तित्तिरः वदति। अपशकुनम् एतत् निभाल्‍य राजकुमारेण एकेन भुशुण्डिकया तित्तिरः अयम् मारितः। एतद् वीक्ष्‍य राजकुमारमुखात् निःसृतः “कथम् अवदत्” राजकुमारमुखात् शब्‍दम् श्रुत्‍वा सर्वे आश्‍चर्यचकिताः अभूवन्, नगरम् प्रत्यागत्‍य नृपदम्‍पतीम् सर्ववृत्तम् श्रावयामासुः। नृपतिः प्रसन्‍नः तु आसी‍त् किन्‍तु बालकः तदापि न किमपि वदति।
राज्ञा विचारितम्- इमे पुरस्‍कारलोभेन सर्वम् एतत् चक्रुः। राजाज्ञया सर्वे दण्‍डभाजः भवन्तु इति निर्देशेन सर्वेषाम् कृते सप्त-सप्तकोडादण्‍डम् दातुम् आज्ञापयत् नृपतिः।
राजकुमारस्‍य सहयोगिनः यदा कोडादण्‍डप्रहारेण भृशम् प्रपीडिताः च आसन् तदा बालकमुखात् निसृतम् तदेव वाक्‍यम् “ कथम् अवदत् ”। नृपदम्‍पती बालकमुखात् शब्‍दम् श्रुत्‍वा भृशम् प्रहर्षितौ। बालकेन विचारितम्- मया मुखम् व्‍यादायानिष्टम् एव कृतम्। मौनत्यागस्य परिणामः तु भौतव्‍यः एव। बालकः अयम् स्‍वातीतस्‍य समस्‍ताम् घटनाम् यथायथम् अश्रावयत्। मौनत्‍यागेन एव मया जन्‍म गृहीतम् अत एव मया मौनधारणस्‍य निश्चयः कृतः। साम्‍प्रतन्‍तु व्‍यवहारनिर्वाहार्थम् भवद्भिः सह मौनत्‍यागम् करोमि।

No comments:

Post a Comment