Tuesday 12 May 2015

न्यायस्य दुर्दशा

एकः भूस्वामी अश्वम् आरुह्य विनिर्गतः। कानने निर्गच्छन् मार्गम् विस्मृतवान् सः। इतस्ततः परिभ्रमन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "भ्रातः! मार्गम् विस्मृतम् च इतस्ततः परिभ्रमन् रात्रिम् यापयितुम् भवताम् शरणम् आगतः अस्मि।"
ग्रामाधिपः प्रोवाच- "स्वागतम् श्रीमन्! अत्र विश्रम्यताम् मम उटजे।"
भूस्वामी प्राह- "घोटकबन्धनार्थम् अपि स्थानम् निरूपयतु।"
ग्रामाधिपः प्रोवाच- "मम पशुशालायाम् बध्नातु घोटकम्।" घोटकम् बद्ध्वा भूस्वामी उटजम् आगत्य शयनम् कृतवान्। प्रभाते यदा घोटकम् पश्यति तदा पुच्छविहीनः घोटकः तेन दृष्टः। कृते अन्वेषणे घोटकस्य पुच्छम् कण्टकपुञ्जेषु विलग्नम् दृष्ट्वान्। तेन विचारितम्, कण्टकेषु विलग्नम् पुच्छम् घोटकः वेगेन आकर्षन् त्रोटितवान्। सः घोटकदशाम् विलोक्य नितराम् उद्विग्नः सञ्जातः।
भूस्वामी क्रुद्धः सन् ग्रामाधिपपार्श्वम् आगत्य प्रोवाच- "विश्रमितुम् स्थानम् दत्वा त्वया न सुष्ठुः कृतम्। पशुशालाम् परितः कण्टकारोपणेन मम घोटकस्य लांगूलम् छिन्नम्। अहम् काजीन्यायालये तव उपरि च अभियोगम् चालयिष्यामि।" इति उक्त्वा भूस्वामी अश्वम् आरुह्य तस्माद् विनिर्गतः।
ग्रामाधिपः व्यचारयत्- काजी महान् धूर्तः वर्तते। धनलोभात् सः न्यायम् अपि परिवर्तयति। काजी मृत्युदण्डेन माम् अवश्यम् मारयिष्यति इति विचारयन् आसीत् ग्रामाधिपः। अन्येद्युः प्रभाते न्यायालयस्य आह्वानम् समागतम्।
स वस्त्राञ्चले तीक्ष्णम् प्रस्तरखंडम् एकम् बद्ध्वा न्यायालयम् प्रति चलितः। सः निश्चयम् कृतवान्, यदि काजी उचितम् निर्णयम् न दास्यति तर्हि तीक्ष्णेन अस्य प्रस्तरखण्डेन तस्य नासिकाच्छेदम् करिष्यामि। गच्छन् मार्गे सेतुपृष्ठे समुपविश्य भयेन कम्पमानः च अधः निपतितः घोटकयानोपरि। तेन घोटकयानस्थः वृद्धः मृतः।
यम् तस्य पुत्राः चिकित्सार्थम् चिकित्सालयम् नयन्ति स्म। ते तम् ग्रामाधिपम् गालिकाप्रदानपुरस्सरम् न्यबध्नन् प्रोक्तवन्तः च वयम् त्वाम् काजीन्यायालयम् नीत्वा दण्डम् दापयिष्यामः।
ग्रामाधिपः प्रोवाच- "युष्माकम् पिता परोपकारी पुण्यशाली च आसीत्। तेन मरणम् प्राप्य आवयोः लाभ एव कृतः। भवताम् तु चिकित्सायाम् धनव्ययः न भविता, अहम् अपि च अश्वयानम् आरुह्य न्यायालयम् गच्छामि।
काजीन्यायालये तस्य पूर्वाभियोगः प्रारब्धः। द्वितीयस्य अपि अभियोगस्य सूचना प्रदत्ता तैः पुत्रैः काजी क्रोधरक्ताभ्याम् नेत्राभ्याम् ग्रामाधिपम् पश्यति। ग्रामाधिपः तु– मम मृत्युः निश्चिता, इति मत्वा तस्य नासिकाच्छेदार्थम् वस्त्राञ्चले निबद्धम् प्रस्तरखण्डम् सम्भालयति।
काजी व्यचारयत्– अभियोगी उत्कोचाय सुवर्णखण्डम् वस्त्राञ्चले बद्ध्वा च आनीतवान् अतः  न्यायः तस्य पक्षे मया करणीयः। काजी निर्णयः श्रावितवान्- "यावत् घोटकस्य नवलांगूलोत्पत्तिः न भविष्यति तावत् ग्रामाधिपः भूस्वामिनः घोटकम् पालयतु।" काजीकृतेन निर्णयेन सर्वे स्तब्धाः सञ्जाताः। काजी द्वितीयम् निर्णयम् इत्थम् श्रावयामास- "भवताम् पिता मृतः। तम् अहम् प्रत्यावर्तयितुम् न शक्नोमि। पुनरपि न्यायम् करोमि। अयम् ग्रामाधिपः घोटकयानेन तस्य सेतोः अधः निर्गच्छतु। भवन्तः चत्वारः सेतुपृष्ठस्थाः तदुपरि निपतन्तु, येन अयम् अवश्यम् मृत्युम् प्राप्स्यति।
एकस्य अस्य निपतनेन भवताम् पिता मृतः, भवताम् सहैव निपतनेन किम् न अयम् मरिष्यति।"
भूस्वामी प्राह- "यदि भवान् मम घोटकम् नेष्यति तर्हि महती हानिः मे भविता। अतः गृह्णातु भवान् द्विशतम् रुप्यकाणि। मदीयम् अश्वम् मह्यम् प्रयच्छतु" इति उक्त्वा स्वघोटकम् नीत्वा प्रचलितः भूस्वामी स्वगृहम् प्रति।
ते चत्वारः पुत्राः ग्रामाधिपसमीपम् आगत्य प्रोचुः- "ग्रामाधिप!  क्षमस्व अस्मान्। तव न्यायः तु विचित्रः। त्वम् तु मायावी लक्ष्यसे। यत् जातम् तत् जातम्।"
ग्रामाधिपः प्रोवाच- "न अस्मिन् मम अपराधः। काजी यत् निर्णयम् श्रावितवान् तस्य पालनम् एव मम धर्मः।" इत्थम् ते पुत्राः पञ्चशतम् रुप्यकाणि दत्वा तम् ग्रामाधिपम् प्रणम्य तस्मात् प्रस्थिताः। इत्थम् सप्तशतम् रुप्यकाणि प्राप्य नितराम् प्रहृष्टः आसीत् ग्रामाधिपः। स धन्यवादम् प्रदातुम् काजीपार्श्वम् आगतः, प्रोवाच च– "भवान् मत्पक्षे न्यायम् कृत्वा उपकृतवान् अस्ति। भवताम् कृतज्ञः अस्मि। भगवान् भवताम् शुभम् विदधातु।"
काजीकुटिलतया स्मयमानः प्राह- "न्यायः मया न कृतः। तव वस्त्राञ्चले निबद्धेन स्वर्णखण्डेन कृतः।"
ग्रामाधिप प्राह- "काजीमहोदय! मम वस्त्राञ्चले तु तव नासिकाच्छेदार्थम् प्रस्तरखण्डम् एकम् निबद्धम् अस्ति!" इत्युक्त्वा ग्रामाधिपः तस्य उपरि तत् प्रस्तरखण्डम् निक्षिप्य तस्मात् पलायितः।

No comments:

Post a Comment