Tuesday 12 May 2015

पशुपक्षिणाम् भाषा

अफ्रीकादेशे पुरा भाग्यहीनः च एकः जनः न्यवसत्। तस्य अभिधानम् आसीत् ओहिया। तस्य पत्नी अरीवेहू नाम्नी अवर्तत। सः क्षेत्रे बीजानि अवपत् परम् फलानि न अलगन्। तौ बुभुक्षितौ च आस्ताम्।
अरीवेहू स्वपतिम् उवाच- "त्वम् नदीपारम् गच्छ, भूस्वामिनम् सम्प्रार्थय यत् स तालवृक्षान् उच्छेत्तुम् आदिशतु येन आवाम् सुराम् विक्रीय लाभभाजौ भवावः।"
भूस्वामी आयस्य अर्धम् प्रदातुम् आदिशत्। ओहिया श्रमेण वृक्षेषु रन्ध्रम् विधाय रसनिष्पत्तये घटानि वबन्ध। यावत् प्रातः पश्यति तावत् वृक्षेषु सर्वाणि घटानि स्फुटितानि आसन्। सः व्यचारयत्- "कथम् भग्नानि घटानि?"
अरीबेहू प्रोवाच- "तालरसः भूमौ न पतितः, नूनम् कोऽपि चौरः रसम् चोरयति।"
ओहिया व्यचारयत्- "अहम् रात्रौ निरीक्षणम् करिष्यामि!" रात्रौ सः निकटे एव निकुञ्जे निलीय उपाविशत्। रात्रौ तृतीये प्रहरे हरिणः च एकः समागतः, सः घटेभ्यः रसम् स्वघटे निक्षिप्य घटानि स्फोटयति। ओहिया हरिणम् निग्रहीतुम् जवेन प्रधावन् पर्वतस्य आधित्यकायाम् प्राप। तेन आधित्यकायाम् दृष्टम् यत् वन्यपशुभिः आवृतः चित्रकः च एकः समुपविष्टःआस्ते। हरिणः ित्रकस्य चरणयोः पतति।
तत्र गत्वा ओहिया प्रोवाच- "हरिणः च अयम् चौरः, भाग्यहीनस्य तालरसम् चोरयति।"
चित्रकः प्राह- "दोषः तु हरिणस्य वर्तते। मया तु तालसुराम् आनेतुम् अयम् प्रेषितः, अयम् तव घटेभ्य रसम् आनीतवान्। यत् जातम् तत् जातम्। अस्मत्प्रतापेन त्वम् पशुपक्षिणाम् भाषाम् ज्ञास्यसि। रहस्यम् एतत् न आख्येयम् कस्मैचित्, नो चेत् तत्रैव तव मृत्युः भविता। ओहिया तस्मात् परावृतः।
बहूनि दिनानि व्यतीतानि । एकदा सः नद्याम् स्नानम् अकरोत्। तत्रैव तटस्था कुक्कुटी स्वशावकान् अकथयत्। पश्यत, मूर्खः अयम् जनः नद्याम् स्नाति, न जानाति अयम् यत् अस्य गृहस्य पृष्ठभागे हीरकपरिपूर्णानि त्रीणि घटानि वर्तन्ते। ओहिया स्वगृहम् प्रत्यागतः। स्वगृहपृष्ठे गर्तम् अखनत्। हीरकाणि नीत्वा गृहम् आगतः।
पशुभाषाज्ञानस्य रहस्यम् पत्नीम् अपि न अबोधयत्। ओहिया धनी सञ्जातः। सुसम्पन्नम् तस्य गृहम्। ओहिया अपरम् अपि विवाहमकरोत्। तस्य द्वितीया पत्नी सुन्दरी तु आसीत् परम् स्वभावेन च अतिक्रूरा।
एकदा विचारमग्नः ओहिया महानसे प्रथमभार्यया सह मूषकान् विलोक्य जहास। मूषकाः च अकथयन् अद्य महानसम् प्रविश्य यथेच्छम् शाकफलम् खादामः। स्वपतिम् हसन्तम् विलोक्य क्रूरा पत्नी प्रोवाच- "कथम् हसति? ज्ञातुम् इच्छामि अहम्।" ओहिया मनसि प्रहसन् किमपि न अवदत्। क्रूरा पत्नी तत्चेष्टितम् सर्वम् राज्ञे न्यवेदयत्। राजा ओहियाम् आकार्य च अज्ञापयत् सर्वम् सत्यम् सत्यम् वद नो चेत् दण्डभाक् भविष्यति।
ओहिया सर्वान् भोजनाय स्वगृहम् आमन्त्रयत्। भोजनानन्तरम् ओहिया स्वकथाम् अश्रावयत्। तत् क्षणम् एव मूर्छितः भूमौ न्यपतत् प्राणरहितः च सञ्जातः जनाः क्रूराम् पत्नीम् भर्त्सयन्तः च आसन्। तत्चेष्टितम् विलोक्य सर्वे क्रूराम् पत्नीम् हतवन्त। तस्य मृतशरीरम् ग्रामाद् बहिः भस्मसात् चक्रुः। यत्र यत्र तच्चिताभस्म उड्डीय गतम् तत्र घृणा, विद्वेषः, रोगः शोकः प्रासरत्। जनानाम् कथनम् अस्ति यत् इतः पूर्वम् संसारे न आसीत् घृणा, विद्वेषः रोगः शोकः च।

No comments:

Post a Comment