Monday 20 April 2015

वानरस्य चातुर्यम्

एकः वानरः तथा एकः वकः परस्परम् मित्रभावम् उपगतौ। वकः तु कपटमित्रम् आसीत्। वानरः सर्वम् सत्यम् अकथयत् सः स्वमित्रस्य कृते प्राणान् अपि त्यक्तुम् इच्छति। परम् वकः तु समययापनाय एव मैत्रीम् अकरोत्।
एकदा वृक्षस्थौ मित्रे व्यचारयताम् आवाम् उच्चस्वरेण शब्दम् कुर्वः यः प्रोच्चैः शब्दम् करिष्यति स विजयम् अवाप्स्यति। रुचिहीनः अपि वकः शब्दकरणाय वानरम् अकथयत्।
वानरः प्रोच्चैः शब्दम् अकरोत् तेन वृक्षः प्रकम्पितः। वानरस्य कथनेन वकः च अपि शब्दम् अकरोत् परम् तेन वृक्षस्य पत्रम् अपि न अकम्पत।
वानरः पुनः शब्दकरणाय अकथयत् वकः अधुना प्रोच्चस्वरेण शब्दम् अकरोत्, वृक्षकम्पनेन अधुना वानरः अधः अपतत्। वकः तु उड्डीय सुदूरम् विनिर्गतः परम् वानरः पंके विषीदति, चीत्करोति, उत्थातुम् अपि न अशक्नोत्।
स व्यचारयत् यदि मम सहायतार्थम् कोऽपि न समागतः चेत् तर्हि म्रिये, इत्थम् सः विषण्णवदनः सञ्जातः। एतावत् तस्मात् एकः वन्यगजः विनिर्गतः। स हस्तिनम् सम्प्रार्थयत् परम् हस्ती शीघ्रतरम् विनिर्गतः।
किञ्चित्कालानन्तरम् समुद्रस्थः अश्वः तत्र आजगाम। वानरः तम् अपि सम्प्रार्थयत्, परम् सः अपि द्रुतम् निर्जगाम। बहवः वन्यपशवः तस्मात् विनिर्गताः परम् न एकेन अपि तस्य समुद्धारः कृतः। अन्ते व्याघ्रः च एकः समागतः।
तम् विलोक्य वानरः प्राह- अहम् पंके विषीदन् म्रिये। माम् निःसार्य विपाच्य भवान् खादतु। व्याघ्रः अवदत्- सर्वे पशवः अग्रे विनिर्गताः सन्ति, अहम् अपि धावामि- इति उक्त्वा व्याघ्रः अपि निर्गतः। वानरः व्यचारयत् अस्मिन् पंके एव रात्रौ मम मृत्युः भविता।
किञ्चित् अग्रे गत्वा व्यचारयत्- कथम् न वानरम् विपाच्य भक्षयानि, इति विचार्य व्याघ्रः प्रतिनिवृत्तः। वानरः समायान्तम् व्याघ्रम् ददर्श। समागत्य व्याघ्रः प्रोवाच, त्वाम् पंकात् उद्धृत्य खादामि।
वानरः प्राह- पंकेन मम शरीरम् मलिनम् सञ्जातम् अस्ति, माम् संस्नाप्य शुष्कप्रस्तरखण्डे स्थापय। माम् विपाचनाय अग्नेः प्रबन्धम् कुरु।
व्याघ्रः प्रसन्नः सन् वानरम् स्नापयित्वा प्रस्तरखण्डे स्थापयति स्वयम् च चुल्लिकानिर्माणाय प्रस्तराणि आनयति।
वानरः वंशवृक्षम् आह्वायति, तत् श्रुत्वा व्याघ्रः ब्रूते- किम् कथयसि रे दुष्टवानर!  वानरः प्रत्यवदत्। तव चुल्लिकाकृते इन्धनस्य व्यवस्थाम् करोमि। व्याघ्रः चुल्लिकाम् निर्मापयति। वानरः पुनः वंशवृक्षम् प्रार्थयति, हे सखे ! स्वशाखाम् अधः निपातय। तत् श्रुत्वा शंकितः व्याघ्रः ब्रूते।
वानरः कथयति सम्प्रति मम शरीरम् शुष्कम् सञ्जातम्, अग्निम् ज्वालय, जलम् आनय माम् विपाचनाय। व्याघ्रः जलानयनाय गच्छति।
वानरः पुनः वंशवृक्षम् प्रोच्चैः आह्वयति- वानरस्य व्यथाम् निभाल्य वंशवृशः सम्प्रति स्वशाखाम् अधः निपातयति, वानरः कूर्दित्वा ताम् आरोहति। व्याघ्रः दूरात् सर्वम् पश्यति परम् किमपि कर्तुम् न शक्नोति। सम्प्रति अपि व्याघ्रः वानरम् अनुधावति परम् वानरः वृक्षम् आरोहति।
तद्दिनात् वानरः वकस्य मिथ्यामैत्रीभावेन शिक्षागृह्णात्, यत् स्वसुरक्षार्थम् स्वयमेव प्रयतितव्यम्। न अन्येन केनापि स्वसुरक्षा सम्भावनीया।

No comments:

Post a Comment