Monday 20 April 2015

चन्द्रमानवः

साइबेरियाप्रान्तस्य हिमवत्प्रदेशे ये जनाः निवसन्ति ते चुकचीनाम्ना व्यवह्रियन्ते। पुरा चुकचीजात्याम् एका वीरबालिका जनिम् अलभत। सा स्वपितुः च एकाकिनी सन्ततिः आसीत् तथा स्वपितुः कार्येषु साहाय्यम् अकरोत्। ग्रीष्मर्तौ सा कानने हरिणान् अचारयत्। सा स्वावासे भोजनाय स्लेजवाहनम् आरुह्य आगच्छति। तत् वाहनम् हरिणः आकर्षति।
एकदा रात्रौ प्रत्यागच्छन् हरिणः गगनम् प्रति वीक्ष्य चीत्कारम् कुर्वन् प्राह, पश्य, पश्य। बालिका गगनम् प्रति पश्यति यत् कोऽपि चन्द्रमानवः भूमौ च अवतरति। आश्चर्यचकिताम् बालिकाम् हरिणः प्राह- अयम् भवतीम् उपरि नेतुम् आगच्छति। मया किम् करणीयम्?  इति तया उक्ते सति हरिणः तूष्णीम् तस्थौ। केवलम् स्वखुरेण हिमम् खनति।
किञ्चित्कालानन्तरम् हरिणः प्रोवाच, गर्ते अस्मिन् तिरोहिता भव। सा तथैव कृतवती। शीघ्रम् एव हरिणः गर्तम् पूरितवान्। चन्द्रमानवः पृथिव्याम् अवातरत् सः परितः व्यलोकयत् किन्तु बालिकाम् न अविन्दत।
पुनः आगमिष्यामि- इति विचार्य चन्द्रमानवः प्रतिनिवृत्तः। चन्द्रमानवे गते सति हरिणः गर्तस्य हिमम् अपाकरोत्। सहसा  बालिका बहिः आगत्य पितुः उटजम् विवेश किन्तु तस्य पिता तत्र न आसीत्।
हरिणः प्राह, यदि चन्द्रमानवः पृष्टतः समागतः भवेत्? अहम् तव रूपम् परिवर्तयानि? त्वाम् प्रस्तरमयीम् , काष्ठमयीम् वा विधास्यामि।
बालिका प्राह,नहि, इत्थम् स माम् परिज्ञास्यति।
हरिणः प्राह- त्वाम् काचदीपे परिवर्तयानि। हरिणः झटिति भूमिम् खनति। तस्य पश्यतः एव सा काचदीपे परिणता। तेन उटजम् एतत् प्रकाशितम् अभूत्।
किञ्चित् क्षणानन्तरम् पुनः चन्द्रमानवः तत्र प्रपेदे बालिकाम् च अन्वेषयति। तेन तत्र प्रत्येकम् विलोकितम् किन्तु बालिकाम् न अलभत चन्द्रमानवः पुनः स्ववाहनम् आरुह्य उत्पतितुम् आरेभे तदैव तेन ध्वनिः श्रुता अहम् अत्र अस्मि, अहम् अत्र अस्मि।
चन्द्रमानवः पुनः उटजम् प्रविश्य अवलोकयति किन्तु बालिका न लेभे। पुनः उत्पतितुम् आरेभे। तत्क्षणम् एव, अहम् अत्र अस्मि, ध्वनिः इयम् निर्गता।
इत्थम् बालिकाम् अन्वेषयन् चन्द्रमानवः दुःखितः, नितराम् कृशः च सञ्जातः, कार्श्यात् सः इतस्ततः चलितुम् अपि न शशाक। इति विलोक्य बालिका निर्भया सञ्जाता। सा स्ववास्तविकम् रूपम् धृतवती।
सा मुष्टिकया चन्द्रमानवम् भुवि न्यपातयत् चन्द्रमानवम् च रज्जुना न्यबध्नात्। चन्द्रमानवः  पीडया क्रन्दितुम् आरेभे। सः प्रतिवेदनम् चकार। मत्कृतस्य फलम् मया प्राप्तम्। शीतेन अहम् मरणोन्मुखः सञ्जातः।
तस्य प्रतिवेदनम् श्रुत्वा बालिका प्रोवाच, अहा त्वम् तु वितते गगने स्वच्छन्दम् विचरसि, किम् तत्र शीतर्तुः न भवसि?  चन्द्रमानवः प्ररुदन् प्रार्थनाम् अकरोत् अहम् एकाकी, गृहविहीनः गगने पर्यटामि इति सत्यम्। किन्तु अहम् तत्रैव गन्तुम् इच्छामि। तत्र गत्वा अहम् धरावासिनाम् सेवाम् करिष्ये। तेभ्यः प्रकाशम् वितरिष्यामि, तिमिराच्छन्नेभ्यः मार्गम् दर्शयिष्यामि रात्रिम् दिनस्य विभागम् करिष्यामि। मासानाम् तिथीनाम् च ज्ञानेन जनान् उपकरिष्यामि। पुनः कदापि कामपि अनुकुर्वन् पृथिव्याम् न अवतरिष्यामि।
चन्द्रमानवस्य अनुतापम् विलोक्य बालिका तस्य बन्धनानि विच्छेद। तस्मात् दिनात् चन्द्रमानवः गगनम् गत्वा पृथिव्याम् स्वचन्द्रिकाम् वितरति इति साइबेरियाप्रदेशवास्तव्यानाम्  विश्वासः।

No comments:

Post a Comment