Thursday 22 November 2012

कूपे सुवर्णस्य अङ्गुलीयकम् 2

 सर्वे जना: तत: निर्गता: | इदानीं बीरबल: एकाकी अतिष्ठत् | स: चतुसृषु दिक्षु दृष्टिं प्रसारितवान् | तेन अवलोकितं यत् किञ्चिद्दूरे कश्चन कुटीर: अस्ति , तत्पार्श्वे काचित् धेनु: वृक्षे बद्धा अस्ति इति | झटिति बीरबल: कुटीरस्य समीपं गत्वा उच्चै: अपृच्छत् - ‘‘ किम् अन्त: कोऽपि अस्ति ?’’ इति काचित् वृद्धा कुटीरात् बहि: आगत्य तत्र स्थितं बीरबलम् अपृच्छत् - ‘‘ पुत्र , क: भवान् ? भवते किम् आवश्यकम् ?’’ इति | ‘‘ मात: ! मया एकमुष्टिपरिमितं गोमयम् अपेक्ष्यते | तन्निमित्तं धनम् अपि दद्याम् ’’ इति वदन् बीरबल: स्वकोषात् धनं स्वीकर्तुम् उद्युक्त: जात: ‘‘ एतन्निमित्तं धनस्य आवश्यकता का पुत्र ? यावत् इष्यते तावत् भवान् स्वीकृत्य गच्छतु | आतप: अधिक: अस्ति ’’ इति वदन्ती वृद्धा अन्त: गतवती बीरबल: वामहस्तेन मुष्टिमितं गोमयं स्वीकृत्य कूपस्य समीपं गत्वा कूपस्य अन्त: दृष्टिं प्रसारितवान् | सुवर्णाङ्गुलीयकं तत्र प्रकाशमानम् आसीत् | अङ्गुलीयकं  लक्ष्यीकृत्य स: गोमयं क्षिप्तवान् | गोमयम् अङ्गुलीयकस्य उपरि पतितम् |  
तस्मात् अङ्गुलीयकं तिरोहितं जातम् | तत: बीरबल: शिलाखण्डं सूत्रेण सम्यक् बद्ध्‌वा कूपस्य अन्त: गोमयस्य उपरि अक्षिपत् | शिलाखण्ड: गोमये सम्यक् लग्न: | आत्मना कृतस्य कार्यस्य विषये सन्तोषम् अनुभवन् बीरबल: तत् सूत्रं कूपस्य पार्श्वे विद्यमाने सस्ये बद्धवान्‌ | तत: स: सैनिकौ उद्दिश्य - ‘‘ भवन्तौ एतस्य रक्षणं कुरुताम् | अहं सायङ्काले प्रत्यागमिष्यामि ’’ इति उक्त्वा तत: निर्गत: | महान् आतप: आसीत् | तथापि तेन सन्तोष: अनुभूत: , यत: एष: महान् आतप: मम योजनाया: सफलतायै एव भवेत् इति
सूर्यास्तानन्तरं घण्टात्मक: काल: अतीत: | तदा बीरबल: कूपस्य समीपम् आगच्छत् | सस्ये यत् सूत्रं बद्धम् आसीत् तत् निष्कास्य अत्यन्तं जागरूकतया स: तत् सूत्रं कूपात् बहि: स्वीकृतवान् | तदा सूत्रेण बद्ध: शिला-खण्ड: , तेन सह आतपात् शुष्कीभूतं गोमयं , तेनैव सह तस्य अन्त: विद्यमानं महाराजस्य सुर्वर्णस्य अङ्गुलीयकं च कूपात् बहि: आगतम् |
तत: बीरबल: शुष्कं गोमयं निष्कास्य अपश्यत् | तस्मिन् सुवर्णाङ्गुलीयकं सुरक्षितम् आसीत् | स: अङ्गुलीयकं स्वच्छीकृत्य स्वस्य वस्त्रे संस्थाप्य महाराजस्य समीपम् अगच्छत् | राजभवने अकबरेण सह अन्ये प्रमुखा: अपि आसन् |
‘‘ महाप्रभो , नमस्करोमि ’’ इति वदन् बीर-बल: अवनम्य स्थित: |
‘‘ किं भवता अङ्गुलीयकम् आनीतम् ?’’ - अकबर: अपृच्छत् |
‘‘ आं महाप्रभो , मया आनीतम् अस्ति अङ्गुलीयकम् ’’ इति वदन् बीरबल: महाराजाय अङ्गुलीयकम् अददात् |
‘‘ कथम् एतत् बहि: निष्कासितं भवता ?’’ इति अकबर: आश्चर्येण अपृच्छत् | बीरबल: सर्वं सविस्तरं विवृतवान् |
‘‘ निस्सन्देहं भवान् सर्वेषाम् अपेक्षया बुद्धिमान् चतुरश्च अस्ति ’’ इति वदन् अकबर: बीरबलाय धनयुक्तं स्यूतम् अददात् |
‘‘ भवादृश: दयालु: उदात्तगुणोपेत: महा-राज: अन्यत्र कुत्रापि न दृश्यते ’’ इति वदन् बीरबल: पुन: अकबरमहाराजं विनयेन नमस्कृतवान् |

No comments:

Post a Comment