Friday 7 December 2012

अहं विघ्नविनायक: अस्मि -03




गजाननाकारं प्राप्तवती सा मूर्ति: वटपत्रे स्थिता सती ब्रह्माणम् अभयमुद्रया आशिषा अनुगृहीतवती। तां परित: शरत्कालीनचन्द्रकिरणा: इव काचित् अपूर्वा कान्ति: प्रसृता आसीत्।  ब्रह्मा अप्रयत्नेन करौ योजयित्वा अवदत् - ‘’हे महानुभाव! अपूर्वाकार: क: भवान्? भवान् क: इति बहुधा चिन्तनेन अपि मया न ज्ञातम्। कृपया स्वस्य रूपस्य परिचयकथनेन माम् अनुगृह्णातु” इति।
‘’वत्स! ब्रह्मदेव! सङ्कल्पेन सह विकल्प: अपि अनुविद्ध: भवति सदापि। स: एव उच्यते ‘विघ्न:’ इति। विघ्नान् निवार्य सङ्कल्पपूर्तिं कुर्वन अहं विघ्नेश्वर: अस्मि। विघ्नानां नेतृत्वं वहन्तं विकल्पम् अहं स्वस्य परशुना छिनद्मि। कलशेन सङ्केत्यमानं साफल्यं गमयामि सर्वाणि कार्याणि इत्यत: अहं विघ्नविनायक: अस्मि। पृथिव्यप्तेजोवाय्वाकाशरूपाणां पङ्चभूतानां गणस्य अधिपति: अस्मि इत्यत: अहं गणपति: अपि अस्मि। खाद्यपदार्थान् क्षेत्रादींन् च नाशयत: विघ्नकारकान् गजान् तीक्ष्णेन अङ्कुशेन निगृह्य पाशेन बध्नामि। अत: भवान् मां विघ्नेश्वरनाम्ना निर्देष्टुम् अर्हति’’ इति गम्भीरवाण्या अवदत् विघ्नेश्वर:|
तदा ब्रह्मा अवदत् - “हे विघ्नेश्वर! हे देव! मम सृष्‍टिकार्ये एतादृश: विघ्न: किमर्थम् उत्पन्न:? उत्तमसृष्‍टिं कर्तुं मया क: मार्ग: आश्रयणीय:? अहं किङ्कर्तव्यतामूढ: अस्मि। कृपया इतिकर्तव्यतां बोधयतु” इति।

‘’विघ्नस्य परिचय: भवत: भवतु इति उद्देशेन एव एतत् सर्वं प्रवृत्तम्। वटपत्रशायिबालगणपतिरूपेण अहं भवते दर्शनं दत्तवान् आसम्। तस्मिन् समये भवता मद्विषये न चिन्तितम् एव। मम विषये चिन्तनं नाम सम्भाव्यविघ्नस्य विषये अवधानदानरूपस्य ज्ञानस्य प्राप्ति:। अहं तस्यैव ज्ञानस्य रूपम्। आ ब्रह्मण: आसामान्यजन्तु कार्यारम्भत: पूर्वं कार्यसफलतायै अपेक्षितं ज्ञानं प्राप्नुयात् एव। गज: अग्निमपदस्थापनात् पूर्वं भूमिं परीक्षते। प्राणिषु हस्ती महाबलवान्। एवमेव ज्ञानक्षेत्रे बुद्धिबलं श्रेष्ठम्। हस्तिन: यादृशी मेधाशक्ति: तादृशी मेधाशक्ति: प्राप्तव्या इत्येतत् सङ्क़ेतयितुम् अहं गजानन: जातः अस्मि। यदा भवान् निद्रायां मग्नः आसीत् तदा सोमकासुरः नाम राक्षसः चतुरः अपि वेदान् अपहृत्य समुद्रतले गोपितवान् आसीत्। महाविष्णुः मत्स्यावतारं धृत्वा तं राक्षसं संहृतवान्, चतुरः वेदान् वटपत्रशायिने मह्यं दत्तवान् च। एतानि स्वीकरोतु भवान्। इतः परं निर्विघ्नतया सृष्टिकार्यं करोतु” इति उक्त्वा विघ्नेश्वरः ब्रह्मणे वेदान् समर्पितवान्।

No comments:

Post a Comment