Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -01


सत्यलोके कमलासने उपविश्य आदिनं सृष्टिकरणात् ब्रह्मा श्रान्त: आसीत्। कल्पान्तकाल: यदा आसन्न: तदा निद्रासूचिका तन्द्रा तम् आवृणोत्। यदा यदा स: ज़ृम्भणम् अकरोत् तदा पर्वतेषु अग्नि: समुत्पन्न:| निद्राकारणत: यदा तस्य नेत्रे निमीलिते जाते तदा आकाशस्थै: प्रलयकालीनमेघै: मुलसधारया वर्षद्भि: जगत् जलेन आप्लावितम्। अत: सर्व जले निलीनं जातम्। सर्वासु दिक्षु अन्धकार: प्रसृत:|
एतस्मिन् प्रलयकाले ब्रह्मा निद्रां कृतवान्। प्रलयकाल: तस्य रात्रिसमय:। नूतनकल्पस्य आरम्भकाल: आसन्न:। यदा जगति प्रकाशस्य प्रसार: आरब्ध: तदा सरस्वतीदेवी वीणां गृहीत्वा भूपालरागस्य आलापनं कृतवती। एतेन ब्रह्मण: निद्रा अपगता जाता। ब्रह्मा पद्मासने उपविश्य  चतसृषु दिक्षु दृष्‍टिं प्रसारितवान्। अध: समग्रं जगत् जलमयं सत् कल्लोलितं दृष्टं तेन। तेषां तरङ्गांणां मध्ये एक: श्वेताकिरणपुञ्‍ज: तेन दृष्‍ट:| तरङ्गांणां मध्ये तरत् किञ्चन वटपत्रं, वटपत्रस्य उपरि शयान: कश्चन शिशु:, तेन शिशुना क्रियमाण: वामपादाङ्गुष्ठस्य लेहनं च तेन दृष्टम्।
ब्रह्मा नेत्रे निमील्य ध्यानं कृतवान्। यदा स: नेत्रे उन्मीलितवान् तदा एकं विचित्रं दृश्यं तेन दृष्टम्।
ब्रह्मा अवगतवान् यत् स: शिशु: न  अन्य:, अपि तु विराटस्वरूपि परब्रह्म एव इति। इदानीं तस्य शिशो: शिर: गरशिरसा समानं दृश्यते स्म। स: शिशु: लघ्व्या शुण्डया दक्षिणपादं गृहीत्वा मुखे स्थापयन् आसीत्।
शिशो: मुखं प्रसन्नम् आसीत्। चन्द्र: इव कान्त्या प्रकाशते स्म तत्। तस्य चत्वार: हस्ता आसन्। ब्रह्मा आश्चर्येण तम् एव शिशुं पश्यन् आसीत्। अकस्मात् स: शिशु: अदृश्यतां गत:| तस्मिन् प्रदेशे कश्चन मृद्राशि: दृष्टिगोचर: जात:|
गच्छता कालेन जलत: विशाल: भूभाग: उत्पन्न:| समुद्र: अपि निर्मित: अभवत्।
ब्रह्मा सृष्टे: आरम्भं कृत्वान्। आदौ नदीपर्वतादय: उत्पादनीया: इति सङ्कल्प्य ब्रह्मा कमण्डलुत: जलं स्वीकृत्य भूमौ पातितवान्। तत: वृक्ष-सस्य-खनिजादीनाम् उत्पत्तिं सङ्कल्प्य जलम् अभिमन्त्र्य भूमिं सिक्तवान्। तत: स: समुद्रे मत्स्यान्, भूमौ पशुपक्षिकृमि-कीटादीन् च सृष्टवान्। एतदनन्तरं मनुष्याणां सृष्‍टिं कर्तुम् इच्छन् स: कमण्डलुजलं हस्तेन स्वीकृत्य भूमौ पातितवान्।

यदा ब्रह्मा सष्‍टिक्रियायां मग्न: आसीत् तदा सरस्वती वीणावादननिरता आसीत्। तदवसरे अप्रयत्नेन अपस्वर: उत्पन्न:। एतत् श्रुत्वा आश्चर्यचकिता सरस्वती अध: दृष्‍टवती। पत्न्या: आश्चर्यस्य कारणं किम् इति न ज्ञातं ब्रह्मणा। सोऽपि कमलासनस्थ: एव अवनम्य अध: दृष्टवान्।

तत्र पर्वता: अधोमुखा: आसन्। तेषां शिखराणि भूमौ लग्नानि आसन्। मूलभागा: सूर्यकिरणप्रसारे अवरोधं जनयन्त: वर्धमाना: दृश्यन्ते स्म। नद्य: समुद्रात् निर्गत ऊर्ध्वमुखं वहनत्य: आसन्। वृक्षा: अपि अधोमुखा: आसन्। तेषां मूलानि आकाशं स्पृशन्ति स्म।

समुद्रस्य तरङ्गाणाम् उपरि मत्स्यादि जलचरा: दृश्यन्ते स्म। केचन क्षणे क्षणे वर्धमाना: आसन्। पुन: केचन पक्षिण: इव डयन्ते स्म। पशव: विकृताकारा दृश्यन्ते स्म। तेषु केषाञ्चित् शिर: न आसीत्। पुन: केषाञ्चित् पुच्छं। केचन पशव: एकपादवन्त: आसन्, पुन: केचन त्रिपादवन्त:| केषाञ्चित् नेत्रकर्णादय: न आसन्, पुन: केषाञ्चित् मुखम् एव न आसीत्। केषाञ्चित् मुखम् पृष्‍ठभागे आसीत्, पुन: केषाञ्चित् शिरसि पुच्छम् आसीत्। केषाञ्चित् ‍पक्षिणां पक्षौ न आस्तां, पुन: केषाञ्चित् पादौ। अत: ते पक्षिण: उड्डयने असमर्था: आसन्।

एतत् सर्वं दृष्ट्वा भीतिं प्राप्य ब्रह्मा मानवानां दिशि दृष्टिं प्रसारितवान्।

तत्रापि एषा एव कथा। केषाञ्चित् शिरोद्वयम् आसीत्। एकं शिर: पुरुषीयं चेत् अपरं महिलीयम्। काश्‍चित् ‍महिला: गजकारिका: ताडवृक्षाकारिका: च आसन्। केषाञ्चित् एक: पाद: त्रय: पादा: वा आसन्।

No comments:

Post a Comment