Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -05

देवाः राक्षसाः च सम्भूय क्षीर्सागरस्य मथ कृतवंतः | ततः ते अमृतं प्राप्तवन्तः | विष्णुः जगन्मोहिन्याः अवतारं प्राप्य राक्षसान् मोहयित्वा देवेभ्यः अमृतस्य वितरणं कृतवान् | अमृतपानतः देवाः अमरत्वं प्राप्तवन्तः | एतस्मात् ते गर्वेण सर्वत्र सञ्चारम् आरब्धवन्तः |

राक्षसानां विषये जातम् अन्याय्यं तारकासुरः सोढुं सर्वथा न शक्तवान् | अतः सः ब्रह्माणम् उद्दिश्य घोरां तपस्यां कृतवान् | यदा ब्रह्मा प्रत्यक्षः जातः तदा सः अमरत्वरूपं वरं प्रार्थितवान् |

तदा ब्रह्मा अवदत्- “जातस्य मरणं ध्रुवम् | मरणात् मुक्तिः असाध्या | अतः अन्यं कमपि वरं याचतु” इति |

तारकासुरः क्षणकालं विचिन्त्य अवदत् - “शिवस्य पुत्रस्य हस्तात् मम मरणं भवतु, नान्यस्य कस्यचित् अपि हस्तात्’’ इति |

ब्रह्मा ‘तथास्तु’ इति उक्त्वा ततः अदृश्यः अभवत् |

एतावता शिवस्य पत्नी सतीदेवी दक्षयज्ञस्य योगाग्नौ आत्मसमर्पणं कृतवती आसीत् | शिवः च उन्मादं प्राप्तवान् इव व्यवहरन् हिमालयपर्वतं गत्वा घोरतपस्यायां लीनः जातः आसीत् |

तारकासुरः सर्वान् राक्षसान् मेलयित्वा त्रीन् अपि लोकान् स्वाधीनीकृतवान् | ततः सः देवानां पीडनम् आरब्धवान् | इन्द्रादयः देवाः भीतः सन्तः ब्रह्मणः समीपं गत्वा रक्षणोपायं याचितवन्तः |

तदा ब्रह्मा अवदत् – “मया तारकासुराय वरः दत्तः अस्ति यत् शिवस्य पुत्रात् एव भवतः मरणं भवितुम् अर्हति इति | अन्यः कोऽपि तं संहर्तुं न अहर्ति | यदा शिवस्य पुत्रः भविष्यति तदा एव तारकासुरस्य संहारः अपि भवितुम् अहर्ति” इति |
ततः ते सर्वे विष्णुसमीपं गतवन्तः | तेषाम् आशयः आसीत् यत् विष्णुः कमपि साहाय्यं कुर्यात् इति  |
विष्णुः तान् उक्तवान् – “सतीदेवी शिवस्य पुत्रीत्वं प्राप्य वर्धमाना अस्ति | तस्याः नाम पार्वती इति | अतः शिवपार्वत्योः विवाहः यथा सम्पद्येत तथा प्रयत्नः करणीयः अस्माभिः” इति |
देवाः नारदं हिमवतः समीपं प्रेषितवन्तः | नारदस्य आदेशस्य अनुगुणं हिमवान् तपस्यायां मग्नस्य शिवस्य समीपं गतवान् | शिवं सम्पूज्य अभ्यर्थितवान् यत् भवतः सेवां परिचर्यां च कर्तुं पार्वत्यै अनुज्ञा दातव्या क़ृपया इति |
शिवस्य मौनम् एव उत्तरम् आसीत् | मौनम् एव सम्मतिसूचकं भावयन् हिमवान् शिवस्य परिचर्यार्थं पार्वतीं नियोजितवान् तस्मिन् एव दिने |
बाल्यात् एव पार्वती शिवं विशेषतः इच्छति स्म | बाल्ये एव नारदः शिवस्य अनेकाः कथाः तां श्रावितवान् आसीत् | तासां श्रवणतः सा पुलकिता भवति स्म | एतादृशस्य शिवस्य सेवार्थं यदा अवसरः लब्धः तदा सा नितरां सन्तुष्टा अभवत् | परमसौभाग्यं भावितवती सा |
सुर्योदयात् पूर्वम् एव सा मयूरपिञ्छैः शिवस्य तपसः स्थलं स्वच्छीकरोति स्म | सुगन्धचन्दनजलेन तं प्रदेशं सिञ्चति स्म | मौक्तिकैः रङ्गवल्लीं रचयति स्म | सुवर्णलताभिः निर्मितेन रत्नखचितेन कण्डोलेन स्वादूनि फलानि नीत्वा शिवस्य पुरतः स्थापयति स्म | हिमगिरिशिखरात् स्रुतं स्फटिकस्वच्छं जलं सुवर्णकमण्डलौ पूरयित्या जपमालायाः पार्श्वे स्थापयति स्म | शिवस्य मनः आक्रष्टुं विविधैः अलङ्कारैः आत्मानं भूषयति स्म | भैरवी, केदारः, शिवरञ्जनी इत्यादिभिः रागैः मधुरतया आलापनं करोति स्म |
शिवः सकृत् नेत्रे उन्मील्य मां पश्येत् इति तस्याः इच्छा आसीत् | सा सदा शिवस्य मनोहरं मुखारविन्दम् एव पश्यन्ती भवति स्म | तथापि कदापि शिवस्य कृपाकटाक्षः तस्यां न अपतत् | ‘मम सर्वे प्रयत्नाः व्यर्थाः किम?’ इति चिन्तयन्ती सा महतीं निराशताम् अनुभवति स्म |

No comments:

Post a Comment