Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -06


देवेन्द्रस्य मनसि अभासत यत् शिवं तपसः विचालयितुं कामदेवः एकः एव समर्थः इति | अतः सः कामदेवं प्रार्थितवान् - “शिवः पार्वत्याम् आसक्तः यथा भवेत् तथा कमपि उपायं चिन्तयतु कृपया” इति |
कामदेवः रत्या सह रथे उपविश्य प्रस्थितवान् | रथस्य सारथिः आसीत् वसन्तः | पुष्पाणि एव तस्य बाणाः आसन् | इक्षुदण्डः तस्य धनुः आसीत् | एवं सन्नद्घः कामदेवः हिमालयस्य तं प्रदेशं प्राप्तवान्, यत्र च शिवः तपः करोति स्म |
कामदेवस्य आगमनतः तत्प्रदेशे वसंतऋतुः उत्पन्नः | निसर्गस्य रमणीयता चित्ताकर्षिका जाता | कोकिलानां कूजनं, भृङ्गानां झङ्कारः च तस्मिन् प्रदेशे सर्वत्र श्रूयते स्म |
परिसरे आकस्मिकतया जातं परिवर्तनं ज्ञात्वा आश्चर्यम् अनुभवन् शिवः नेत्रे उन्मीलितवान् | वसन्तऋतोः आगमनं दृष्ट्वा सः नितराम् आश्यर्यचकितः तपोभङगः जातः यत् ततः तस्य दुःखं जातम् | तस्य हस्ततः जपमाला पतिता | यदा पतितां जपमालां पार्वती उन्नीय शिवाय यच्छन्ती आसीत् तदा वृक्षान्तरितः कामदेवः शिवं लक्ष्यीकृत्य पुष्पबाणान् प्रयुक्तवान् |
बाणस्पर्शात् शिवस्य शरीरे नवं चैतन्यम् उत्पन्नम् इव | मुखं किञ्चिदिव अवनमय्य कटाक्षेण शिवम् एव पश्यन्ती पार्वती तेन दृष्टा | पार्वत्याः आकारः, मुखं, सौन्दर्यं च तस्य चित्तम् आकर्षत् |
क्षणाभ्यन्तरे शिवः अवधानवान् जातः | तपोभङ्गस्य कारणतः सः खिन्नः क्रुद्धः च | क्रोधेन सः तृतीयं नेत्रम् उद्घाटितवान् | तेन कामदेवः भस्मतां गतः | शिवः तु झटिति ततः उत्थाय कैलासशिखरं प्रति वेगेन निर्गतवान् |
रतिदेवी तत्समये पत्या कामदेवेन सहैव आसीत् | पत्युः भस्मीभूतत्वं दृष्ट्वा सा उच्चैः रोदनम् आरब्धवती | तदा ब्रह्मादिदेवाः तत्र प्रत्यक्षाः अभवन् | ते सहगमनाय उद्यतां रतिदेवीं सान्त्वयन्तः उक्तवन्तः यत् शिवपार्वत्योः विवाहः यदा भविष्यति तदा कामदेवः अपि उज्जीवितः भविष्यति इति | अतः रतिदेवी भस्म जागरूकतया रक्षन्ती तत्रैव वसन्ती दिनानि यापितवती |
एतस्याः घटनायाः अनन्तरं स्वसौन्दर्ये पार्वत्याः विश्वासः नष्टः | शरीरलावण्यादिषु तस्याः उत्साहः पूर्णतः विनष्टः | जीवनम् एव व्यर्थम् इति भावः तस्याः मनसि उत्पन्नः | तपः एकम् एव एतस्य परिहारः इति विचिन्त्य सा घोरं तपः आरब्धवती |
कानिचन पर्णानि खादन्ती सा तपः करोति स्म | जयाविजयानामिके उभे सख्यौ तया सह वसतः स्म | काले काले पार्वत्याः कुशलवार्तां ते हिमवन्तं मेनकां च सूचयतः स्म |
दिनेषु गतेषु पार्वत्याः तपः उग्रं जातम् | सा पर्णानाम् अपि खादनं पूर्णतः परित्यक्तवती | अतः सा ‘अपर्णा’ इति नाम प्राप्तवती |
शिवः यद्यपि कामदेवं भस्मीकृतवान्, तथापि मदनविकारतः आत्मानं रक्षितुं तु न शक्तवान् | पार्वत्यां तस्य मनः आसक्तं जातम् | तावता पार्वत्याः तपः अपि उग्रतां गतम् आसीत् |
शिवः छद्मवेषेण पार्वत्याः समीपं गत्वा तस्याः अन्तःकरणस्य परीक्षां कृतवान् | पार्वत्यां स्थितं प्रबलम् अनुरागं ज्ञात्वा सः तस्याः परिणये मतिं कृतवान् | विवाहविषयकवार्तालापार्थं हिमवतः गृहं प्रति सप्तर्षीन् प्रेषितवान् सः | विवाहवार्तालापार्थं शिवः स्वयं सप्तर्षीन् प्रेषितवान् अस्ति इति ज्ञात्वा हिमवान् नितरां सन्तुष्टः | सः विवाहं सन्तोषेण अङ्गीकृतवान् |
प्रमथगणेन अनुस्त्रियमाणः शिवः वरः सन् हिमवतः गृहं गतवान् | एतस्य विवाहस्य निमित्तं ब्रह्मा, विष्णुः; इन्द्रः, कुबेरः, नारदः, अन्ये बहवः श्रेष्ठाः महर्षयः चापि भस्म आगताः आसन् |
सुमङ्गली अरुन्धती शिवस्य ललाटस्य तृतीयनेत्रस्य स्थाने कल्याणतिलकं स्थापितवती | वररूपेण शिवः विशेषतः शोभते स्म | अतः सर्वे जनाः तं ‘सुन्दरेश्वर’ नाम्ना निर्दिष्टवन्तः |
सर्वविधाः अलङ्काराः कृताः आसन् | वधूं पार्वतीं विष्णुः शिवसमीपम् आनीय - “भवान् सुन्दरेश्वरः | मम भगिनि पार्वती मीनाक्षी” इति मन्दहासपूर्वकं वदन् शिवपार्वत्योः करौ योजयित्वा तौ विवाहमण्डपं प्रति नीतवान् |

No comments:

Post a Comment