वेदानां प्राप्त्या ब्रह्मा नितरां संतुष्टः। विघ्नेश्वरं प्रशंसन् सः
उक्तवान् – “हे विघ्नेश्वर! इतः परं भवन्तं ध्यात्वा हृत्पूर्वकं सम्पूज्य च
एव अहं सृष्टिकार्ये प्रवृत्तः भविष्यामि। मम सृष्टिकार्यं निर्विघ्नतया
यथा प्रचलेत् तथा कृपां करोतु कृपया। एतावता मया या सृष्टिः कृता सा विकृता
जाता अस्ति। तस्याः प्रतिस्वीकरणमार्गम् अपि उपदिशतु” इति।
ततः विघ्नेश्वरस्य प्रसादेन विकृतसृष्टिः अदृश्या जाता। तदा विघ्नेश्वरः ब्रह्माणम् उक्तवान् - “हे ब्रह्मदेव! अहं वक्रतां खण्डशः कृत्वा नाशयामि। मम शुण्डां वक्राकारेण धरन् अहं मम एतत् सामर्थ्यं सङ्केतयामि। वक्रस्य तुण्डस्य (मुखस्य) धारणात् अहं वक्रतुण्डः अस्मि। वक्रतुण्डरूपिणं मां ध्यात्वा यः कार्यारम्भं करोति तस्य कार्ये वक्रता कदापि न भवति। भवान् अपि स्व-इच्छानुरूपं मम रूपं ध्यात्वा सृष्टिकार्यस्य आरम्भं करोतु। सृष्टिः काचित् कला। तस्यां कलायां कापि वक्रता न भवेत्। मां ध्यात्वा सृष्टिकार्यस्य आरम्भं कुर्वतः भवतः कृते एतत् जगत् एव कलानिलयः। इतः परं सर्वे जीविनः मां पूजयितुं यथा शक्नुयुः तथा आदिपूज्यविघ्नेश्वररूपेण, समस्तजगतः रक्षणं कुर्वन् सङ्कल्पसिद्धिकारकस्य सिद्धिविनायकस्य रूपेण, समस्तगणानाम् अधिपतिः सन् गणपतिरूपेण, शिवपार्वत्योः पुत्ररूपेण, च अहम् अवतारं करिष्यामि’’ इति। एतावत् उक्त्वा विघ्नेश्वरमूर्तिः अदृश्यतां गता।
एतदवसरे सरस्वती हिन्दोलरागं श्रीरागं च आश्रित्य स्ववीणया मङ्गलध्वनिम् उत्पादयन्ती आकाशं पुलकितं कृतवती।
ब्रह्मदेवः ‘विघ्नेश्वराय नमः’ इति उक्त्वा सृष्टिकार्यस्य आरम्भं कृतवान्। एतदवसरे सृष्टिकार्यं सुन्दरं निर्विघ्नं च आसीत्। गम्भीर-विशाल-पर्वत-पङ्क्तयः अमृततुल्यजलयुक्ताः नद्यः, सुन्दराणि वनानि; वर्णमयपाञ्चालिकाः इव स्थिताः जीविनः, शारीरकतया मानसिकतया च शक्तिशालिनः मानवाः इत्यादयः ब्रह्मणा सृष्टाः| एतत् जगत् कलानिलयः एव आसीत् तस्य। वाग्देवी सरस्वती स्ववीणातः स्वरान् उत्पादयन्ती जगते सङ्गीतशास्त्रं दत्तवती। जीविसमुदायः समस्तशुभलक्षणैः विकासं प्राप्नोत्। जटाभिः उपेतः सन् विकासं प्राप्नुवन् वटवृक्षः इव जगत् विकासं प्राप्नुवत् आसीत्।

No comments:
Post a Comment