Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -07

 शिवपार्वत्योः विवाहः महता वैभवेन सम्पन्नः | हिमालयपर्वते शिवः पार्वती च यत्र तपः कृतवन्तौ तत्र विश्वकर्मा एकं सुन्दरम् अन्तःपुरं निर्मितवान् |
शिवपार्वत्यौ येन मार्गेण अन्तःपुरं प्रति गच्छतः स्म तस्मिन् एव मार्गे कामदेवस्य भस्म आसीत् | तस्य भस्मनः पार्श्वे एव रतिदेवी विलपन्ती उपविष्टा आसीत् | तस्याः नेत्राभ्याम् अश्रुधारा प्रवहति स्म | सा पत्युः प्राणभिक्षां याचन्ती इव तत्र उपविष्टा आसीत् |
शिवः पार्वती च तस्याः समीपं गतवन्तौ | तस्याः शिरसि हस्तं स्थापयित्वा तौ आशीर्वादं कृतवन्तौ - “दीर्घसुमंङ्गली भव’’ इति | शिवः तृतीयं नेत्रम् उद्धाटितवान् | एतदवसरे तत्र अग्निः न आसीत | शीतलकिरणाः ततः निर्गताः | तेषां स्पर्शतः कामदेवः पूर्वतनं रूपं प्राप्य उत्थितवान्, ततः अदृश्यः अभवत् च |
तदा शिवः रतिदेवीम् उक्तवान - “देवि! भवत्याः पतिः पुनर्जन्म प्राप्तवान् अस्ति | सः सर्वदा दृष्टिगोचरः न भविष्यति | तं भवती एका एव द्रष्टुं शक्नोति, न अन्ये | अन्यान् सः इच्छति चेत् द्रष्टुं शक्नोति | तस्य इच्छायाः अनुगुणं भविष्यति अन्यदर्शनम् | एतादृशं वरं तस्मै सन्तुष्टः अहं यच्छन् अस्मि’’ इति |
शिवः पार्वती च गृहप्रवेशं कृतवन्तौ | अरुन्धती नीराजनेन तयोः स्वागतं कृतवती | तदा विश्वकर्मा वस्त्रावृतम् एकं फलकं शिवपार्वत्योः पुरतः संस्थाप्य – “एतत् एकम् अभूतपूर्वं चित्रम् | एतस्मिन् चित्रे भवन्तौ स्तः | एतस्य चित्रस्य दर्शनस्य अनन्तरम् अपि अस्माभिः निर्णेतुं न शक्तं यत् भवतोः कतरस्य सौन्दर्यम् अधिकम् इति | अतः भवन्तौ एव वदताम् | अतः एतत् भवतोः पुरतः उपस्थापितम् अस्ति’’ इति हसन् अवदत् |
स च कश्चन दर्पणः आसीत् | तत्र स्वप्रतिबिम्बं दृष्ट्वा उभौ अपि हसितवन्तौ | तदा नारदः अवदत् “केवलेन मन्दहास प्रकटनेन किमपि न सिद्धम् | अतः कतरः सुन्दरः इति शब्दैः वक्तव्यम एव भवद्भयाम्’’ इति |
तदा शिवः कटाक्षेण पार्वतीं पश्यन् - “नक्षत्रम् इव प्रकाशमानं नासाभरणं धृतवत्याः शशिवदनायाः सुन्दर्याः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तत् श्रुत्वा पार्वती लज्जया शिरः अवनमय्य एव उक्तवती - “सा स्त्री चिन्तयति यत् तस्याः पाणिं गृहीतवतः सौन्दर्यम् एव श्रेष्टम्’’ इति |
तदा सर्वे हसितवन्तः | शिवपार्वत्योः उपरि पुष्पवृष्टिः जाता | अनन्तरं तौ दम्पती आन्दोलिकायाम् उपवेश्य आन्दोलितम् |
तयोः पुरतः एव भितौ एकं सुन्दरं चित्रं चित्रितम् आसीत् | चित्रे उभौ गजौ नृत्यतः स्म | तौ अग्रिमपादौ उन्नीय पृष्टभागीय पादाभ्यां तिष्ठ्न्तौ शुण्डया शुण्डां गृहीतवन्तौ आस्ताम् | तयोः पृष्ठ्भागे एकं सरोवरं द्दश्यते स्म | सरोवरे एकं महापद्मं विकसितम् आसीत् | तयोः उपरि शिवपार्वत्योः द्दष्टिः लग्ना | अत्रान्तरे पद्मस्य स्थाने रजतवत् प्रकाशनम् एकं ज्योतिः उद्गतम् | तत् ज्योतिः क्रमशः विकसित् सर्वत्र व्याप्तं जातम् | तस्मिन् प्रकाशे शशिवर्णेन शोभमानः विघ्नेश्वरः द्दष्तिगोचरः जातः | विघ्नेश्वरः दृष्टिगोचरः जातः |
विघ्नेश्वरस्य मुखं गजस्य इव आसीत् | किन्तु तत् दिव्यया प्रभया शोभते स्म, प्रसन्नतां दर्शयति स्म च | तस्य द्दष्टिः बौद्धिकसामर्थ्यं परिचाययति स्म | विशालम् उदरं कान्तिमयम् आसीत् अभयमुद्रां धृत्वा स्थितः विघ्नेश्वरः पार्वत्यौ विशेष्तः अरोचत |
विघ्नेश्वरं पश्यन्तौ पार्वतीपरमेश्वरौ अनिर्वचनीयम् आनन्दं प्राप्तवन्तौ | निर्निमेषदृष्ट्या तौ तं पश्यन्तौ स्थितवन्तौ | विघ्नेश्वरः शुण्डां वामतः कृत्वा मधुरस्वरेण अवदत् - “अहं विघ्नेश्वरः अस्मि | विघ्नानां निवारकः अस्मि | पञ्चभूतानाम् अधिपतिः गणपतिः अस्मि | चित्रविचित्ररुपधारी चित्रगणपतिः अस्मि | भवतोः प्रेम्णः फलरुपेण शिवस्य तेजस्वितां धरन् कुमारस्वामिनः जन्म भविष्यति | सः तारकासुरस्य वधं करिष्यति | तदनन्तरं भवतोः मुत्ररुपेण मम जन्म भविष्यति | पुत्रगणपतिरुपेण अहम् अवतारं प्राप्स्यामि” इति |
विघ्नेश्वरस्य मधुरध्वनिं श्रुत्वा तं ग्रहीतुं पार्वती हस्तं प्रसारितवती | किन्तु तातवा विघ्नेश्वरः अदृश्यतां गतः आसीत् |
शिवः पार्वती च आनन्दसागरे विहरन्तौ दिनानि यापितवन्तौ | तस्मिन् एव समये जगतः अहितकारकः, जगति कम्पं जनयितुं समर्थः कञ्चन विघ्नः समुत्पन्नः |

No comments:

Post a Comment