Saturday 22 December 2012

अहं विघ्नविनायक: अस्मि -02

केषाञ्चित् शिर: उदरभागे आसीत्। कबन्धा: इव दृश्यन्ते स्म ते। आक्रन्दनं श्रूयते स्म तेषाम्। केचन उन्मादेन नृत्यन्ति स्म। पुन: केचन विलक्षणव्यवहारं कुर्वन्ति स्म।
कश्चन दृढकाय: पुरुष: ताडवृक्षसदृशीं विकृताकारां महिलां प्रदर्शयन् आकाशस्य दिशि मुखं कृत्वा उच्चस्वरेण – ‘‘हे ब्रह्मदेव। एतादृश्‍या सह अहं कथं वा मम गृहस्थजीवनं यापयितुं शक्नुयाम्?’’ इति अपृच्छत्।
केचन विकृताकारा: मानवा: रुदन्त: ब्रह्माणं निन्दन्ति स्म - ‘‘हे ब्रह्मदेव। भवान् तु चतुर्मुख: इति निर्दिश्यते। चत्वारि मुखानि धरन् अपि भवान् सामान्यबुद्धिमान् अपि न इति भाति। किमर्थं भवता वयम् एतादृशरूपयुक्ता: सृष्टा:?’’ इति।
तेषां निन्दनकोलाहलाक्रन्दनादिकं श्रुत्वा वस्तुत: अपि ब्रह्मण: चतुर्षु अपि शिरस्सु भ्रमणम् उत्पन्नम् इव। तस्य अष्टानाम् अपि नेत्राणां पुरत: अन्धकार: प्रसृत:| आश्चर्यचकित: स: आर्तदृष्‍ट्या सरस्वतीं दृष्टवान्। सरस्वती अपि असहायकतां दर्शयन्ती मन्दहासं प्रकटय्य मौनम् आश्रितवती।
ब्रह्मा किञ्चित विचिन्त्य उच्चस्वरेण अवदत् – ‘‘मम सृष्टे: एषा दुस्थिति: किमर्थं अभवत्? मया तु योग्येन क्रमेण सङ्कल्प्य जगत: निर्माणम् आरब्धम् आसीत्। तथापि एवं किमर्थं जातम्?’’ इति।
ब्रह्मण: वचनं दशसु अपि दिक्षु प्रतिध्वनितं जातम्। किङ्कर्तव्यतामूढतया सर्वत्र पश्यता ब्रह्मणा एक: प्रकाश: दृष्ट:। तत्र तेन काऽपि अपूर्वा मूर्ति: दृष्‍टा। सा मूर्ति: गजशिरोयुक्ता आसीत्। तस्या चत्वार: हस्ता: आसन्। तेषु चतुर्षु हस्तेषु क्रमेण पाश:, अङ्कुश:, कलश:, परशु: च आसन्। सा मूर्ति: पूर्णचन्द्र: इव प्रकाशते स्म। तस्या: मुखकान्ति: सर्वत्र प्रसृता आसीत्।
तस्मिन् समये सरस्वती स्ववीणया ओङ्कारनादम् उत्पादितवती। तस्या: अङ्गुलय: वीणातन्त्रीषु स्वयं चलन्ति स्म। आदौ वीणात: मालवगौलरागस्य उत्पत्ति: जाता। तत: स: एव राग: हंसध्वनिरूपेण परिवृत्त:|

No comments:

Post a Comment