Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि -08

पुत्रस्य गणपतेः आक्रन्दनं श्रुत्वा पार्वती धावन्ति आगतवती। कर्तितं शिरः दृष्ट्वा सा शिवं क्रोधेन पश्यन्ती अवदत् - “किम् एतत् कृतं भवता? पुत्रः एव निहतः खलु! पुत्रघातकः भवान्!” इति ततः सा दुःखं सोढुम् अशक्नुवती भूमौ पतित्वा उच्चस्वरेण रोदनं कृतवती।
एतां घटनाम् अत्याश्चर्येण पश्यन्तः तत्र स्थिताः सर्वे स्तब्धाः अभवन्। अपराधिनम् इव शिवं कुतूहलपूर्णदृष्ट्या दृष्टवन्तः ते। एतस्मात् शिवः स्वेदेन क्लिन्नः जातः। सः मन्दस्वरेण पार्वतीम् अपृच्छत् – “किम् एतत् वदति भवती? अवयोः कश्चन पुत्रः अस्ति इति इदानीम् एव श्रुतं मया। आवयोः पुत्रः कः? सः कथं पुत्रत्वं प्राप्तवान्? कुतः आगतः सः?” इति।
तदा पार्वती गद्गदकण्ठा सती एव गणपतिजननविचारम् उक्तवती। सर्वं श्रुत्वा शिवः असम्मतिपूर्वकम् उक्तवान् – “एतं स्वपुत्रं भावितवती स्यात् भवती। किन्तु एषः आवयोः पुत्रः कथं भवेत्? एतं पुत्रं भावयन्ती भवती मां बहुधा निन्दितवती। तदस्तु नाम, एषः मम पुत्रः कथं भवितुम् अहर्ति?” इति।
एतत् श्रुत्वा पार्वती निर्वचना जाता। तदा विष्णुः ब्रह्माणं नेत्रसङ्केतेन सूचितवान् । ब्रह्मा अग्रे आगत्य अवदत् – “यदा शिवः पार्वत्याः पाणिं गृहीतवान् तदा एव शिवस्य तेजः पार्वतीं प्र्राविशत्। तस्मात् सा पुलकिता जाता अपि। ततः आरभ्य पार्वती शिवस्य अर्धभागेन, शिवश्च पार्वत्याः अर्धभागेन च युक्त्तौ जातौ। एवं गणपतिः शिवस्यापि पुत्रः एव” इति।
पार्वती तु शिवेन सान्त्व्यमाना अपि गणपतेः शवस्य उपरि पतित्वा रोदनं कुर्वती आसीत्। तद अशरीरवाणी काचित् श्रुता – “उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः शिरः आनयन्तु, एतेन मुण्डेन योजयन्तु च। तदा अहं जीवितः भविष्यामि” इति। गणपतेः एतं ध्वनिं सर्वे आश्चर्येण श्रुतवन्तः।
 तस्मिन् एव क्षणे प्रमथगणीयाः उत्तरदिशि शिरः स्थापयित्वा शयनं कृतवतः अन्वेषणार्थं गतवन्तः| बहुधा अन्वेषणेन अपि तैः तादृशः कोऽपि जनः न दृष्टः एव।
तथापि ते पराजयम् अङ्गीकर्तुं न सिद्धाः। ते अन्वेषणम् अनुवर्तितवन्तः| सह्यापर्वतस्य कस्याञ्चित् गुहायां तैः कश्चन करिकलभः दृष्टः| सः उत्तरदिशि शिरः संस्थाप्य शयनं कृतवान् आसीत्। निद्रावस्थायाम् अपि सः शिवस्य नाम्नः स्मरणं करोति स्म निरन्तरम्।
सः करिकलाभः न अन्यः, अपि तु देवगजस्य ऐरावतस्य पुत्रः गजेन्द्रः एव। ऐरावतः देवेन्द्रस्य वाहनम्। कदाचित् इन्द्रः देवलोकमार्गेण यदा गच्छन् आसीत् तदा ऐरावतपुत्रः गजेन्द्रः इन्द्रस्य दिशि अवधानम् अयच्छन् ध्यानमग्नः आसीत्। एताम् उपेक्षाम् असहमानः इन्द्रः क्रोधेन गर्जितवान्- “मम वाहनभूतस्य पुत्रस्यापि भवतः एतावान् गर्वः!” इति।
तदा गजेन्द्रः शान्तस्वरेण अवदत् – “मम पिता भवतः सेवकत्वेन कर्तव्यं निर्वहन् अस्ति, न अहम्। अतः भवत्तः मया भीतिः प्राप्तव्या नास्ति” इति।
‘‘अये! गजपुत्र! भवान् किं न जानाति यत् अहं देवानाम् इन्द्रः इति?” इति गर्वेण एव अपृच्छ्त् इन्द्रः|
 “आं, जानामि। भवान् देवेन्द्रः चेत् अहं गजेन्द्रोऽस्मि। कश्चन नागेन्द्रः भवति, अपरः खगेन्द्रः भवति। एवम् इन्द्राः बहवः भवितुम् अर्हन्ति। शतं यज्ञान् कृतवान् यः कोऽपि इन्द्रपदवीं प्राप्तुम् अर्हति। तपस्यया यत्किमपि साधयितुं शक्यते। अतः एव कस्यचित् तपः दृष्ट्वा भवान् अपि भीतिम् अनुभवति। इन्द्रत्वं तावत् श्रेष्ठं न, यावत् भवान् भावयति। अतः अलम्  अधिकगर्वेण” इति अवदत् गजेन्द्रः|

No comments:

Post a Comment