Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि -09

तदा क्रोधमूर्च्छितः इन्द्रः शापं दत्तवान् – “भवतः शिरः कर्तितं भवतु” इति। एतत् श्रुत्वा गजेन्द्रः हसन् उक्तवान् – “शिवस्य आज्ञां विना तृणम् अपि न चलति। यत् शिरः भवता निन्दितं तस्य पुरतः एव भवता अपि स्वशिरः अवनमनीयं स्यात् कदाचित्। स्मरतु एतत्” इति।
गजेन्द्रः महाज्ञानी इति गर्वान्धः देवेन्द्रः न जानाति स्म। सः गर्वेण – “शिवे भक्तिः खलु भवतः? सः शिवः एव भवन्तं रक्षतु। भूलोके गत्वा पततु” इति वदन् भूलोकं प्रति गजेन्द्रस्य नोदनं कृतवान्। तस्मात् गजेन्द्रः सह्यपर्वते अपतत्, शिवं निरन्तरं  स्मरन् अतिष्ठत् च। उत्तरदिशि शिवस्य निवासस्थानम् अस्तीति कारणतः तस्यां दिशि स्वशिरः कृत्वा शयनम् अकरोत् सः।

प्रमथगणीयाः गजेन्द्रस्य शिरः कर्तयित्वा नीतवन्तः। यदा ते तत् गणपतिमुण्डे योजितवन्तः तदा गजमुखः गणपतिः जीवं प्राप्य उत्थितवान्। “मम पुत्रस्य एतादृशं मुखम्! एतत् अहं द्रष्टुं न शक्नोमि” इति वदन्ती नेत्रे निमीलितवती।
तदा गजमुखः मधुरस्वरेण अवदत् – “अम्ब! किमर्थं दुःखं भवत्याः? यत् भवेत् तत् जातम् एव निर्विघ्नतया। भवती एकस्मिन् दिने भितौ गजचित्रं दृष्टवती आसीत् खलु? तत्र दृष्टः अहम् एव। विघ्नेश्वरोऽस्मि अहम्” इति।
पार्वती झटिति तां घटनां स्मृत्वती। शिवः अपि तां घटनां स्मृतवान्।
“विघ्नेश्वर! सः एव भवान् मम पुत्रत्वेन जन्म प्राप्तवान् अस्ति। किम् एतदर्थम् एव मां क्रोधितं कृतवान्? सर्वम् अवगतं मया। भवतः लीला अपूर्वा” इति अवदत् शिवः।

“यदि अहम् एवं न कुर्यां तर्हि भवान् कथं वा गजासुराय दत्तं वचनं स्मारितवान्। तत् श्रुत्वा हर्षं प्रकटयन् शिवः – “सत्यम्, दत्तं वचनं स्मारयता भवता युक्तम् एव कृतम्। दत्तस्य वचनस्य अनुगुणं मया गजचर्म धरणीयं खलु” इति वदन् गजचर्म आनाय्य धृतवान्।
ततः शिवः विघ्नेश्वरस्य पुरतः शिरः अवनमय्य – “विघ्नेश्वर! भवतः विश्वरूपं दर्शयतु कृपया” इति।
तदा विघ्नेश्वरः आकाशं यावत् पृवृद्धः सन् अतिष्ठत्। तस्य पञ्च शिरांसि आसन्। पृथिव्यप्तेजोवाय्वाकाशानां पञ्चभूतानां ये वर्णाः आसन् तैः वर्णै: तानि मुखानि शोभन्ते स्म। तेषां पञ्चभूतानां वर्णाश्च – हरित्, श्यामः, रक्तः, श्वेतः, नीलः च। तस्य शिरस्सु नक्षत्राणि पुष्पाणि इव शोभन्ते स्म। तस्य केशाः आकाशे विकीर्णाः आसन्। तस्य विविधेषु हस्तेषु अङ्कुशः, परशुः पाशः, कलशः शङ्खः, चक्रं, गदा, त्रिशूलं, वज्रायुधम् इत्यादयः आसन्। एवमेव जपमाला, कमण्डलुः, वीणा, खड्गः, शक्तिः, शूलम् इत्यादः अपि आसन्। आकाशस्थशिरकस्य तस्य तेजोमयं मुखं द्रष्टुम् अशक्नुवन्तः द्रष्टारः स्वमुख्म् अधः कृतवन्तः। सर्वे अनिर्वचनीयम् आनन्दं प्राप्तवन्तः।
सरस्वती वीणाम् उन्नीय विघ्नेस्वरस्य प्रियं रागं हंसध्वनिम् आलापितवती। नारदः मायामालवरागस्य आलापनं कृतवान्। शिवः आनन्देन ताण्डवनृत्यं कृतवान्। इन्द्रादय: त्रयस्त्रिंशत्कोटिदेवा: शिर: अवनमय्य प्रणामं कृतवन्त:। एवं प्रणामसमये – ‘यत् उपेक्षितं तस्य शिरस: पुरत: भवता अपि कदाचित् अवनमनीयं भवेत्’ इत्येतत् गजेन्द्रेण उक्तं वचनम् इन्द्रस्य मनसि आगतम्। स: जानाति स्म गणपते: मुण्डे गजेन्द्रस्य शिर: योजितम् अस्ति इति। अंत: स: स्वकर्णौ: हस्ताभ्यां गृहीत्वा त्रिवारम् उपविश्य उत्थाय साष्टाङ्ग नमस्कृत्य अवदत् – ‘‘गजेन्द्र! भवान् महाज्ञानी अस्ति। अहम् अज्ञानी अस्मि। मया गर्व: य: प्रदर्शित: तदर्थं क्षमा प्रदर्शनीया’’ इति। अन्ये देवा: अपि ज्ञानेन अज्ञानेन वा कृतस्य अपराधस्य निमित्तं क्षमां याचितवन्त:। विश्वरूपं धृतवन्तं विघ्नेश्वरम् उद्दिश्य शिव: अवदत् – ‘‘विघ्नेश्वर! भवत: रूपस्य वैशिष्ट्यानि कानि इति ज्ञातुं वयं समुत्सुका: स्म:’’ इति।


No comments:

Post a Comment