Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि-11


पार्वती क्षणाभ्यन्तरे स्वस्य दुखं विस्मृतवती। शिवः हस्तौ प्रसार्य शिशुम् आहूतवान्। विघ्नेश्वरः मन्दं पदानि निक्षिपन् शिवस्य समीपं गतवान्।
‘‘पुत्र, विघ्नेश्वर! भवन्तः पुत्ररूपेण प्राप्य आवां धन्यौ जातौ। चिरं जीवतु वत्स’’ इति वदन् प्रीत्या गणेशं चुम्बितवान् शिवः।
तदा विघ्नेश्वरः झटिति कूर्दनं कृत्वा “पितः, किं वदति भवान्? अहं तु भवतः पुत्रः। अतः अहम् आत्मानं धन्यं मन्ये’’ इति वदन् स्वस्य शुण्डां प्रसार्य पार्वतीपरमेश्वरयोः चरणस्पर्शं कृतवान्। तया शुण्डया स्वनेत्रे स्पृष्ट्वा प्रणामं कृतवान्। ततः परं सः विष्णुं नमस्कृतवान्।
तदा विष्णुः - “भागिनेय। आगच्छतु अत्र’’ इति उक्त्वा तं समीपे स्वीकृत्य ‘ मङ्गलम् अस्तु’ इति आशीर्वादं कृतवान्।

अनन्तरं विनायकः ब्रह्माणं नमस्कृतवान्। ब्रह्मा प्रीत्या तस्य कपोलौ स्पृशन् “हे गणपते! भवान् सर्वेभ्यः प्रथमपूजां प्राप्नोतु’’ इति आशीर्वादं कृतवान्।

पश्चात् विघ्नेश्वरः लक्ष्मीं सरस्वतीं च नमस्कृतवान्। उभे अपि विघ्नेश्वरम् अंङ्के उपवेशितवत्यौ। तदा सरस्वती पार्वतीं दृष्ट्वा “पुत्रेण गणपतिना पूर्वम् एव उक्तम् अस्ति यत् वयं तिस्रः मातरः अपि सहोदर्यः एव इति। अनन्तरं वयं पार्थक्येन अवतारं ग्रहीतवत्यः। सागरात् लक्ष्मीः, ब्रह्मंणः जिह्वातः अहम्  , प्रथमदक्षतः सतीदेवीरूपेण भवती च अवतारं प्राप्तवत्यः। विद्यावतीनामिका बुद्धिः विघ्नेश्वरस्य पत्नी भविष्यति। इतःपरं अस्माभिः विघ्नेश्वरस्य विवाहवैभवं द्रष्टव्यम् अस्ति’’ इति उक्तवती।
 सरस्वत्याः वचनं श्रुत्वा लक्ष्मीः “लक्ष्मीकरे विघ्नेश्वरे ये विश्वसन्ति तेषु अहं स्थिरतया वासं करिष्यामि। या अग्रे विघ्नेश्वरस्य पत्नी भविष्यति सा सिद्धिस्वरूपिणी जयलक्ष्मीः मम अंशात् एव उद्भूता अस्ति’’ इति उक्तवती।
तदा सरस्वती - “विघ्नेश्वरः ज्ञानप्रदाता, विज्ञानदायकः चापि। अतः वर्णमालायाः अभ्यासात् पूर्वं बालानां द्वारा हरिद्रया पिण्डनिर्माणं कारणीयम्। तत् पिण्डम् विघ्नेश्वरं मत्वा पूजां कारयित्वा ‘ॐ नमः’ इति लेखनीयम्। मम अंशात् उद्भूता विद्यावती बुद्धिरूपिणी अस्ति। सा अपि विनायकस्य पत्नी भविष्यति’’ इति उक्तवती।
एतत् श्रुत्वा विघ्नेश्वरः मुग्धतां प्रदर्शयन् सर्वान् अवलोक्य – “भवन्तः पश्यन्तः सन्ति खलु ‘ज्येष्ठानां व्यवहारः कथम् अस्ति’ इति। विवाहं कृत्वा कष्टम् अनुभवन्त्यः एताः तादृशानि कष्टानि मया अपि अनुभवितव्यानि इति उद्देशेन मम विवाहविषये त्वरन्ते। मां सुखेन स्थातुं न त्यजन्ति एताः। पुत्राणां विवाहविषये मातृणां त्वरा तु किञ्चित् अधिका एव” इति उक्त्तवान्।
विघनेश्वरस्य वचनानि श्रुत्वा विष्णुः – “भो! वत्स। विषयः तथा नास्ति। अष्टैश्चर्यकारिकाः आणिमादयः अष्टसिद्धयः सुन्दरनक्षत्राणां रूपं धृत्वा पूर्णचन्द्रस्य सेवां यथा कुर्वत्यः सन्ति तथा भवतः अपि सेवां कुर्वन्तु इति अस्माकम् इच्छा। अचिरात् एव ताभिः सेव्यमानं भवन्तं द्रष्टुम् इच्छामः वयम्” इति उक्तवान्।
तदा विघ्नेश्वरः – “एवम्? तर्हि भवान् कृष्णावतारसमये अष्टमहिषीभिः सह कष्टं सहमानः आनन्दम् अनुभवतु कामम्” इति उक्त्तवान्।
तदा विष्णुः मन्दहासपूर्वकं – “भवता उक्त्तम् अवितथम् एव भविष्यति। किन्तु भवता तु दश वध्वः परिणेतव्याः भविष्यन्ति’’ इति उक्तवान्।





No comments:

Post a Comment