Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि-13

मूषकासुरः विघ्नम् आदिष्टवान् - “भवान् गजासुरस्य रूपं धृत्वा विघ्नेश्वरस्य नाशं करोतु’’ इति।
तदा विघ्नः भयङ्करस्य गजासुरस्य रूपं धृत्वा हस्तेन खङ्गं चालयन् आकाशं प्रति उड्डयनं कृतवान्।
अपरत्र कैलासे विघ्नेश्वरः मातापित्रोः प्रीत्या वर्धमानः आसीत्। मातापित्रोः अनुमतिं स्वीकृत्य विश्वकर्मद्वारा निर्मिते भवने वासम् आरब्धवान् सः। कदाचित् पुरतः आगतः कामदेवः शरीरं धृत्वा गणपतेः पुरतः स्थितवान्। 

विघ्नेश्वरः आश्चर्येण - “भवान् तु निराकारः। कथं भवान् शरीरं धृत्वा मम पुरतः उपस्थितः अस्ति? कः विशेषः? अहं मुग्धः। भवतः धनुर्विद्यायाः प्रयोगं मम उपरि न करोतु’’ इति उक्तवान्।
कामदेवः विनयपूर्वकं शिरः अवनमय्य - “गजानन! भवान् तु मम बाणातीतः। यदि कस्यचित् पुरतः अहम् उपस्थातुम इच्छामि तर्हि मया शरीरधारणं कर्तुं सामर्थ्यं प्राप्यते। परशिवेन एव तादृशः वरः मह्यं प्रदत्तः अस्ति। आवयोः शरीरस्य आकृत्यां काचित् समानता वर्तते। आवां निकटवर्तिनौ अपि। अतः भवान् मां द्रष्टुं शक्तवान्। एषः एव विशेषः। भवान् वृषभवाहनस्य शिवस्य पुत्रः चेत् अहं गरुडवाहनस्य विष्णोः पुत्रः। मां शिवः भस्मीकृतवान्। सः एव भवतः शिरः अपि कर्तयित्वा भवन्तम् उज्जीवितवान्। मम वाहनं शुकः। भवतः वाहनं मूषिकः। मनसः विचलने समर्थाः पुष्पबाणाः मम आयुधानि। मनसः नियन्त्रणे समर्थौ पाशाङ्कुशौ भवतः आयुधे। भवतः अनुजस्य कुमारस्वामिनः अवतारः अग्रे भवेत् खलु। पार्वतीपरमेश्वरयोः अनुरागस्य तेजः एव कुमारस्वामिरूपेण अवतारं ग्रहीष्यति। तारकासुरस्य संहारः अग्रे भवेत्। अतः एव देवाः मां भस्मीकारितवन्तः। अहं कैलासं गच्छ्न् अस्मि। अनुज्ञा दीयताम्” इति उक्तवान्।

विघ्नेश्वरः उत्तररूपेण – “कामदेव, अहं तदर्थमेव कैलासतः दूरं गच्छन् अस्मि। भवान् स्वकीयं कार्यं सफलं भविष्यति” इति उक्त्वान्।
अनन्तरं कामदेवः अदृश्यः भूत्वा पार्वतिपरमेश्वरयोः निवासस्थानं कैलासमण्डपं प्राप्तवान्।
विघ्नेश्वरः स्वस्य भवनस्य सिंहद्वारस्य समीपे स्थितायाम् अमृतशिलायाम् उपविश्य प्रकृत्याः अवलोकनं कुर्वन् आनन्दम् अनुभवन् आसीत्। हिमालयस्य जलप्रपाताः मन्दगभीरस्वरेण सरिगमनादं कुर्वन्तः आसन्। तादृशे प्रशान्ते समये कश्च्न भयङ्करः स्वरः श्रुतः – “विघ्नेश्वरनामकः कुत्र अस्ति?” इति।
अल्पे एव काले गजासुररूपधारी विघ्नः विघ्नेश्वरस्य पुरतः उपस्थितः जातः। तदा भूकम्पनम् अभवत्। गजासुरः गर्जनस्वरेण – “अहं महागजासुरः अस्मि।  भवान् गजमुखधारी चेत् अहं गजकायः अस्मि। अहं भवतः संहरणार्थम् अत्र आगत्वान् अस्मि” इति उक्तवान्।
विघ्नेश्वरः बधिरः इव मुग्धस्वरेण – “रे, इक्षुदण्डान् खण्डयित्वा खादितुम् इच्छामि। भवान् मम परशुं तीक्ष्णं कृत्वा यदि ददाति तर्हि भवते अहं मोदकानि दास्यामि” इति उक्तवा परशुं गजासुरस्य दिशि क्षिप्तवान्। एतेन गजासुरस्य पादौ कर्तितौ जातौ। पर्वतः इव अधः पतितवान् गजासुरः। तदन्तः स्थितः विघ्नः चीत्कारं कुर्वन् – “महानुभाव! अहं विघ्नः अस्मि। ब्रह्मणः वरस्य कारणतः एवं गजासुरस्य रूपं धृतवान् अस्मि। मया योग्यं दण्डनं प्राप्तम्” इति उक्तवान्।

 तदा विघ्नेश्वरः शान्तस्वरेण – “अहं विघ्नानां विनाशकः विनायकः अस्मि। भवान् गजासुररूपेण स्थितः विघ्नः अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। भवतः खण्डशः कर्तनम् अनिवार्यम् अस्ति। यः मां भवन्तं च विस्मरति तं पीडयन्ति एते खण्डा। भवान् कालियनामकः सर्पः भूत्वा कालिन्दिसरोवरे तिष्ठतु। बालकृष्णः भवतः मर्दनं करिष्यति। तस्य चरणस्पर्शेन भवतः पापपरिहारः भविष्यति। उत्तमजातीयसर्पाणां फणायाः उपरि विष्णोः चरणचिह्नानि अङ्कितानि भूत्वा शोभां वर्धयिष्यन्ति” इति उक्त्वा परशुना विघ्नं खण्डशः कर्तितवान्। ते खण्डाः सर्वत्र पतिताः सन्तः अदृश्याः अभवन्। तदा विघ्नः अणुरूपेण अतिष्ठत्। देवाः प्रसन्नाः भूत्वा पुष्पवर्षणं कृतवन्तः।

No comments:

Post a Comment