Wednesday 27 March 2013

अहं विघ्नविनायक: अस्मि-12

उत्तररूपेण विघ्नेश्वरः - “विघ्नेश्वरस्य विवाहे सहस्त्रं विघ्नाः इति उक्तिः एव अस्ति। एवं स्थिते मम विवाहः कथं सम्पद्येत’’ इति उक्तवान्।
तदा ब्रह्मा - “सहस्त्रशः न, कोटिशः विघ्नाः उत्पन्नाः चेदपि भवतः विवाहः भविष्यत्येव’’ इति उक्तवान्। तत्र विद्यमानाः सर्वेऽपि ब्रह्मणः वचनम् अनुमोदितवन्तः।
तदा नारदः अग्रे आगत्य - “हे विघ्नेश्वर! विवाहात् आत्मनः रक्षणम् असाध्यम्। ज्येष्ठाः वदन्ति यत् विवाहः कर्तव्यनिर्वहणं च पुरुषाणां लक्षणम् इति। एतत् सत्यं पुरस्कृत्य एव पुरुषोत्तमः आदिदेवताः च विवाहं कृत्वा सृष्टि-स्थिति-लयादिकर्तव्यं निर्वहन्तः सन्त। एवं स्थिते का स्थितिः आवयो?” इति उक्तवान्।  उत्तररूपेण विघ्नेश्वरः हसन् - “एवम्? विवाहविषये भवान् अपि आसक्तः जातः अस्ति इति भाति। स्वयंवरेषु अपि किं भागं वहन् अस्ति भवान्? “इति पृष्टवान्।
तदा नारदः - “अहम् आत्मानं त्रिकालवेदिनं भावयामि स्म। किन्तु भवान् तु अनन्तकालवेदी अस्ति। आवाम् उभौ अपि सम्भाषणचतुरौ। तर्कं कुर्वन्तौ भवावः चेत् एषः अनन्तः कालः अपि अपर्याप्तः स्यात्। भवान् तु पूर्णज्ञानी अस्ति। मादृशः अर्धज्ञानी कदाचित् मूर्खतां प्रदर्शयेत्। तदस्तु, सिद्धिः, बुद्धिः, अष्टसिद्धयः च भवन्तं वरिष्यन्ति। अतः मम मुखतः अपि श्रीरस्तु, शुभमस्तु इत्यातः एव शब्दाः निस्सरन्तु तावत्’’ इति वदन् नारदः स्वस्य ‘महति’ नामिकां’ वीणां वादयन् कल्याणीरागस्य आलापनं कृत्वा अन्ते मङ्गलगीतम् उक्तवान्। अनन्तरं सर्वेऽपि देवाः स्वनिवासं प्रति गतवन्तः। ततः शिवः पार्वत्या, गणेशेन च सह कैलासं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। नारदश्च वज्रदन्तस्य समीपं गतवान्। केभ्यश्चित् दिनेभ्यः पूर्वं गणपतिः वज्रदन्तस्य पुच्छं गृहीत्वा क्षिप्तवान् आसीत्।
अधःपतनकारणतः वज्रदन्तस्य शरीरं क्षतग्रस्तम् आसीत्। सः अनन्तरकालेऽपि वेदनां सहमानः आसीत्। वज्रदन्तस्य पत्नी धवला पत्युः सेवायां निरता आसीत्। सा नारदं दृष्ट्वा - “एषः महाशयः पुनः कीदृशे कष्टे अस्मान् पातयिष्यति इति न ज्ञायते’’ इति चिन्तयन्ती अन्तः गतवती। 

नारदः मूषकासुरं वज्रदन्तम् उद्दिश्य - “यः भवतः अवमाननं कृतवान् सः गणपतिः इदानीं विघ्नेश्वररूपेण शोभमानः अस्ति’’ इति उक्तवान्।

अवमानकारणतः क्रोधाग्निना तप्तः वज्रदन्तः आश्चर्यचकितः सन - “आर्य! मया इदानीं किं करणीयम् इति भवान् एव उपदिशतु’’ इति प्रार्थितवान्।
तदा नारदः - “वज्रं वज्रेणैव छेत्तव्यम्। अतः प्रतीकारं साधयतु। गणपतिः इदानीं ‘विघ्नेश्वरः’ इति नाम धृतवान् अस्ति’’ इति उक्त्वा ततः निर्गतवान्।
ततः श्रुत्वा महश्वेताख्या धवला ‘विघ्नेश्वरस्य सहवासः मास्तु’ इति वज्रदन्त: बहुधा निवेदितवती। तथापि वज्रदन्तः पत्न्याः वचनं न लक्षितवान् एव। “महाश्वेते, भवत्याः सौभाग्यस्य कारणतः मम मरणभयं तु नास्ति। जातस्य अवमाननस्य प्रतीकारः कृतः चेदेव मम तृप्तिः’’ इति उक्त्वा ततः निर्गतः वज्रदन्तः उग्रं तपः आचर्य ब्रह्माणं प्रसन्नं कृतवान्। ब्रह्मा पृष्टवान् - “भवान् अन्यत् किम् इच्छति?’’ इति।

तदा मूषकासुरः - “विघ्नाय किमपि रूपं दत्त्वा तं मम आज्ञानुवर्तिनं करोतु’’ इति उक्तवान्।
ब्रह्मा विघ्नस्य आवाहनं कृत्वा वज्रदन्तस्य पुरतः उपस्थापितवान्। किन्तु वज्रदन्तेन किमपि न अदृश्यत। तदा ब्रह्मा तस्मै सूक्ष्मदर्शनार्थं दृष्टिं दत्तवान्। सामान्यनेत्राभ्यां यत् द्रष्टुं न शक्यं तादृशं विघनस्य रूपं वज्रदन्तः द्रष्टुं शक्तवान्। मूषकासुरः आश्चर्येण अपृच्छत् - “भगवन। किं एतत्? एतं स्वीकृत्य अहं किं करवाणि?’’ इति।
तदा ब्रह्मा मन्दहासपूर्वकं - “विघ्नबीजं सामान्यनेत्राभ्यां दृष्टुम् अशक्यम्। सूक्ष्मः अणुः इव अस्ति तत्। यथा सूक्ष्मजन्तुः भयङ्करं रोगं प्रसारयितुं शक्नोति तथा अनर्थदायकः विघ्नः लघुः चेत् अपि भीषणाकारं धृत्वा सर्वनाशं कर्तुं शक्नोति। कामरूपी सः। इष्टं रूपं धृत्वा अनर्थस्य उत्पादनम् एव तस्य कार्यम्। भवान् इतःपरं यत् इच्छति तत् कर्तुं शक्नोति’’ इति उक्तवान्।



No comments:

Post a Comment