Thursday 26 March 2015

शिक्षया किम् न साध्यते

निर्धने ब्राह्मणकुले जन्म अभवत् नरेन्द्रस्य । बुभुक्षितः सन् अपि विद्याम् प्राप्तवान् श्रमेण । मनसि व्यचारयत् अयम् य़ुवकः पठनेन वृत्तिः प्राप्स्य़ामि । सुखेन जीवनम् यापयिष्यामि । बहूनि दिनानि व्यतीतानि सः न कुत्रापि वृत्तिम् अलभत । गृहे पितरौ , स्त्री च न्यवसन् । स्त्री तु पितृगृहे वसति स्म । यतो हि श्वसुरगृहे दीनतायाः साम्राज्यम् आसीत् ।
    सन्ध्यासमयः आसीत् । नरेन्द्रः पूर्णम् दिनम् अभ्रमद् भृत्यर्थम् । बुभुक्षितः सन् स्वगृहम् प्रविष्टः । तेन श्रुतम् – माता पितरम् कथयति स्म - शृणोतु - वधूः स्वपितृगृहे वर्तते , बहूनि दिनानि व्यतीतानि । ताम्+अत्रैव आनयतु भवान् । यथा कथञ्चित् अत्रैव स्वोदरम् पूरयिष्यति ।
    पिता प्रोवाच - तव कथनम् युक्तियुक्तम् अस्ति परम् वयम् यथा कथञ्चित् स्वजीवनम् यापयाम ।
    वधूः कथम् अत्र निवसिष्यति बुभिक्षिता ? व्यर्थम् एव मया स्वसुतः पाठितः।
    यदि सुतः मूर्खः अभविष्यत् तर्हि श्रमम् कृत्वा अपि स्वोदरम् अपूरयिष्यत् ।
गृहे वयम् बुभुक्षिताः , सुतः भृत्यर्थम् अटति प्रत्यहम्। उपजिलाधीशः  भवितुम् कल्पते।
    युवकः स्वपितृवचनम् अशृणोत् द्वारस्थः । मनसि व्यचारयत् - घिङ् माम् । स्वपरिवारस्य पोषणार्थम् अपि न अहम् किमपि उपार्जयितुम् क्षमः । मम अनेन कुत्सितेन जीवनेन कः लाभः? सः गृहाभ्यन्तरम् अपि न गतः । प्रतिनिवृत्तः सन् शनैः शनैः चलितुम् आरभत ।
    सः कुत्र गच्छति , कथम् गच्छति , स्वयम् अपि न जानाति स मनसि व्यचारयत् - अनेन रेलयानेन सुदूरम् गच्छानि किन्तु चिटिकार्थम् रूप्यकाणि न वर्तन्ते ।
प्रचलन् सः विरराम ।
    कलकलध्वनिना प्रवहन्ती च आसीद् गंगा । तेन विचारितम् – गंगातरंगेषु जीवनम् समापयिष्यामि। कः लाभः च अनेन भारभूतेन जीवनेन। सः शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्य अज्ञानम् विनष्टम् ।
    सः व्यचारयत् , न अहम् गंगायाम् देहत्यागम् करिष्यामि। एतत् पापकर्म न करिष्यामि।
    युवकः बहिः आगतः जलात्। रात्रौ तत्रैव गंगातटे एकस्मिन् उटजे न्यवसत्। प्रभाते सञ्जाते निरुद्देश्यम् एव प्राचलत्। पूर्णम् दिनम् निरन्तरम् प्रचलन् आस्ते।
क्षुधया क्लान्तम् आसीत् शरीरम्।
    अक्ष्णोः अग्रतः च अन्धकारः प्रसर्पति। इत्थम् प्रदोषकाले कस्यचित् प्रासादस्य द्वारदेशम् आससाद। सहसा प्रासादात् कोऽपि वृद्धः बहिः निर्गतः।
    कमपि अपरिचितम् युवकम् वीक्ष्य तत् पार्श्वम् आगत्य औत्सुक्येन प्रोवाच , कः असि भ्रातः ! किमर्थम् अत्र समागतः असि ? तत् श्रुत्वा युवकस्य नेत्रे सजले सञ्जाते ।
    सः उद्विग्नम् युवकम् पुनः पप्रच्छ वृद्धः कथय किम् ते कष्टम्? षड्त्रिंशद् होरात्मकः समयः व्यतीतः, न  मया अन्नकणम् अपि सम्प्राप्तम् ।
    वृद्धः दयार्द्रः सम्प्रोवाच , उतिष्ठ , गृहम् चल। स्नेहात् अयम् तम् प्रासादाभ्यन्तरम् आनयत्।
    भोक्तुम् च निवेदयाञ्चक्रे। बुभुक्षितः अपि अयम् भोक्तुम् न चेष्टते, यतो हि गृहे तस्य पितरौ बुभुक्षितौ। निरन्तरम् नेत्रयोः अश्रुबिन्दवः निपतन्तः च आसन्।
    युवकः पुनः स्नेहात् अपृच्छत्- सत्यम् वद पुत्र ! किम् ते कष्टम्। भोज्यानि प्राप्य अपि किमर्थम् व्यर्थम् एव रोदिषि?
    युवकः वृद्धस्य स्नेहपरिपूर्णानि वचनानि श्रुत्वा सर्वाम् कथाम् अश्रावयत् स्वकुटुम्बस्य।
    वृद्धः यु‍वकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे, सर्वम् सम्पादयिष्यति भगवान् भूतभावनः। युवकः सन्तुष्टः सन् भोजनम् चकार। वृद्धः युवकम् तद्दिनात् एव स्वगृहे एव शिक्षकपदे नियुक्तवान्। किञ्चित्कालानन्तरम् सः सर्वकारीयाम् भृतिम् अलभत।
    स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः। आसीत् असौ युवकः भूदेवमुखोपाध्यायः। बंगप्रान्तस्य प्रतिष्ठितः सामाजिकः अयम् विभिन्नशिक्षणसंस्थानाम् सञ्चालकः सञ्जातः।

No comments:

Post a Comment