Thursday 26 March 2015

कलहप्रिया भार्या

    एकस्मिन् नगरे कस्यापि नागरिकस्य क्रुद्धा भार्या आसीत्। सा अतीव चञ्चला , असमीक्ष्यकारिणी वर्तते सर्वदा कलहप्रिया सा वैपरीत्येन पथा प्रचलति।
एकदा गृहकलहेन विषण्णः पतिः काननम् प्रति प्रचलति । तत्र बदरीफलानि एकत्रितानि अकरोत्।
बदरीवृक्षस्य अधः गर्तम् विलोक्य व्यचारयत् अयम् यत् अस्मिन् गर्ते विनिपातयिष्यामि कलहप्रियाम् एनाम्।
    वनात् निवृत्य स कलहप्रियाम् प्रोवाच- कानने बदरीफलानि आनेतुम् मा गच्छ। सा प्रोवाच - अवश्यम् एव गमिष्यामि।
    पतिः प्रत्युवाच - परम् मदीयबदरीवृक्षे मा गच्छ।
    सा तु तत्रैव गन्तुम् प्रतिजज्ञे। पतिः काननम् प्रति प्रचलितः कलहप्रिय अपि तदनु प्राचलत्। प्रधावन्ती सा तस्मिन् गर्ते निपतिता। पतिः स्वगृहम् आगतः । त्रीणि दिनानि यावत् सुखेन न्यवसत् स्वगृहे। चतुर्थे दिने पार्श्वम् आगत्य ताम् निष्कासयितुम् प्रलंबाम् एकाम् रज्जुम् पातयामास। परम् तस्मात् च एकः पिशाचः निर्गतः।
    भयभीतः अयम् पिशाचम् पुनः गर्ते निपातयितुम् ऐच्छत् किन्तु पिशाचः प्रोवाच, माम् तस्मिन् गर्ते न निपातय यतो हि तत्र वर्तते च एका कलहप्रिया स्त्री। सा सर्वान् तुदति। अहम् तव अभिलाषम् पूरयिष्यामि।
    पिशाचः प्रोवाच - माम् नगरम् प्रति नय।
    अहम् जनेषु भयम् उत्पादयिष्यामि त्वम् तान् मत्तः प्रतिपालय। इत्थम् पिशाचः धनिकानाम् गृहेषु गत्वा तान् तुदति।
    सः तेषाम् पीडितानाम् भूतम् उत्तारयति। इत्थम् तयोः ख्यातिः तेषु प्रदेशेषु परिव्याप्ता।
यः कोऽपि रुग्णः भवति स अभिचारक्रिययाम् तम् परिचरति। जनाः तस्मै प्रभूतम् धनम् प्रायच्छन्। तेन अयम् धनिकः सञ्जातः।
    किञ्चित्कालानन्तरम् पिशाचः प्रोवाच - सम्प्रति त्वम् धनी सञ्जातः । अधुना अहम् भूस्वामिनः पुत्रम् अभिचरिष्यामि।
यदि त्वम् तत्र आगमिष्यसि चेत् त्वाम् खादिष्यामि, इति उक्त्वा पिशाचः तस्मात् निर्गतः ।
    भूताभिचरिताम् ताम् विलोक्य जना तम् भूतवैद्यम् अन्वेष्टुम् निर्गताः भूतवैद्यः प्रोवाच , यदि सर्वे नागरिकाः चत्वरे गत्वा - कलहप्रिया समागता, कलहप्रिया समागता - इति कथयिष्यन्ति तदा एव अहम् भूस्वामिनः पुत्र्याः चिकित्साम् करिष्यामि। इति उक्त्वा सः तत्र प्राप। तम् आगतम् विलोक्य कोपाविष्टः पिशाचः प्रोवाच - त्वम् अत्र कथम् आगतः निवारितः अपि।
    भूतवैद्यः प्रोवाच - न अहम्  ताम् चिकित्सितुम् समागतः अपि तु सा कलप्रिया अत्रापि समागता। इति श्रुत्वा पिशाचः चीत्कुर्वन् हा ! क्व गमिष्यामि? किम् करिष्यामि? भूतवैद्यः प्रोवाच - भो पिशाच , त्वम् तस्मिन् एव गर्ते गच्छ। न इयम्  कलहप्रिया तत्र आगमिष्यति। इति श्रुत्वा कलहप्रिया पुनः तदनु तस्मिन् एव गर्ते समागता ।
    इतः भूस्वामिनः पुत्र्या विवाहः भूतवैद्येन सह सञ्जातः। भूस्वामी स्वराज्यम् अपि तस्मै प्रदत्तवान्। वराकी कलहप्रिया सम्प्रति अपि तस्मिन् एव गर्ते स्वदिनानि यापयति इति बल्गेरियावासिनाम् विश्वासः।

No comments:

Post a Comment