Monday 17 September 2012

वाणी सुरगिरा...

रचनाकारा _ संस्कृता मिश्रा 

विरञ्चेरुद्भूतैः प्रथमपदबन्धैः श्रुतिगतैः
ऋषीणामार्याणामनुभवमहिष्ठैः गुरुपदैः..
अनन्तायाः सृष्टेः विकसनकथारूपिमधुपैः
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...
 
गिरामन्यान्यासां पृथगिति भिदायुक्तसरणौ..
प्रसूत्वादेकत्व-प्रणयिनि-महित्वं विदधती
समासस्निग्धा प्रत्ययबलमहिम्ना बलवती..
सदोल्लासं यान्ती जयतु मम वाणी सुरगिरा...

No comments:

Post a Comment