Wednesday 19 September 2012

शबरी”

ऋष्यमूकपर्वतस्य मूले पम्पानाम विशालं विमलजलं च सरः अस्ति । तस्य तीरे विराजते भगवतो मतन्गमहर्षेः आश्रमपदम्‌ । महर्षेः प्रभावात्‌ तत्रत्याः लताः वृक्षाश्च सर्वे सर्वदा पुष्पैः फफ लैश्च शोभन्ते । वन्यप्राणिनः अपि परस्परं वैरं विहाय सुखं जीवन्ति । विहन्गमा अपि नानाविधानि फफ लानि खादन्तः मधुरं कू जन्तश्च कालं यापयन्ति । धर्मस्य सदने तस्मिन्नाश्रमे नास्ति अधर्मस्य लेशतोऽपि सञ्चारः । रमणीये एतस्मिन्‌ प्रदेशे महर्षेः शिष्याः सततं वेदाध्ययनं कुर्वन्ति । शास्त्राणि च विचारयन्ति । महर्षिवचनानुसारेण लोक क ल्याणाय यज्ञं कु र्वतां वेदज्ञानां मन्त्रः सर्वत्र श्रूयते । एवम्‌ अतिमनोहरे तस्मिन्‌ आश्रमपदे शबरी नाम काचित्‌ वृद्धा तापसी निवसति स्म । मातङ्ममहर्षे भक्ति मती सा प्रभाते एव उत्थाय निखिलम्‌ आश्रमपदं जलेन सिञ्चन्ती स्वच्छीक रोति । पूजार्थं पुष्पाणि फफ लानि च आनयति यज्ञोपयोगीनि समिदादीनि सन्गृह्यति । गुरुभक्तिः निश्चयेन सद्गतिं जनयतिफफइति तस्याः दृढं विश्वासः । वृद्धायाः शबर्याः दृढभक्तिं गुरुशुश्रूषां च विलोक्य सन्तुष्टः मतन्गमहर्षिः ताम एवमवोचत्‌ ।
भद्रे ! दिव्यरू पं धरत्‌ विमानेन स्वर्गं गच्छन्‌ अिस्म्‌ । दशरथस्य पुत्रौ रामल्मणौ संप्रति चित्रकूटं प्राप्तौ । सद्य एव तौ इदमाश्रमपदम्‌ आगमिष्यतः । इदमवेहि श्रीरामः न साधारण मनुष्यः, अपि तु दुष्टानां दमनाय शिष्टानां रक्षणाय च भूमिम्‌ अवतीर्णः साक्षात्‌ महाविष्णुः । लक्ष्मणोऽपि सदा भूभारधारकः महाविष्णोः शय्याभूत आदिशेषः । यदा रामलक्ष्मणौ अत्र आगमिष्यतः तौ सतकु रुष्व । तयोः सेवनात्‌ ते सद्गतिः भविष्यति इति । शबरी तदारभ्य विमुक्त सर्वव्यापारा सदा रामध्यानं कुर्वती सलक्ष्मणं तं प्रतीक्षमाणा कालमनयत्‌ । रामोऽपि भार्यावियुक्तः लक्ष्मणेन सह कबन्धवचनानुसारेण सुग्रीवं द्रष्टुमिच्छन्‌ ऋष्यमूकपर्वतं प्रस्थितः मध्येमार्गम्‌ इदम्‌ आश्रमपदम्‌ आगच्छत्‌ । शबरी रामलक्ष्मणौ अवलोक्य सानन्दं तयोः पादारविन्दयोः प्रणिपत्य पाद्यम्‌ आचमनीयं च अयच्छत्‌ । नानाविधैः फलैः सत्कारम्‌ अकरोत्‌ च । तेन सन्तुष्टः रामः ताम्‌ अपृच्छत्‌ आर्थे ! अपि कु शलं ते, किं निर्विधं तपो वर्धते कि म्‌ ? आश्रमवासिनः सर्वेऽपि कुशलिनि ? किं वन्यप्राणियः आश्रमस्य भयं वर्तते, किं तव गुरुशुश्रूषा फलिताः शबरी अपि राम ! पवित्रं ते नाम जपन्तयाः मम तपसि कथं विघ्नाः सम्भवन्ति? सर्वमस्ति कुशलम्‌ इति वदन्ती स्वगुरोः मतन्गमहर्षेः आश्रमपदम्‌ अदर्शयत्‌ । रामः इयं हि यज्ञवेदिका या स्वयं द्योतमाना सर्वा दिशाः सन्ततं द्योतयति । मम गुरवः वृद्धत्वदीषात्‌ क म्पमानक राः अत्रैव मदानीतानि पुष्पाणि स्वीकृतवन्तः । अत्रैव फफ लानि भक्षितवन्तः सञ्चरितुम्‌ अशक्नुवतां तेषां प्रभावेण इदं सरा समुत्पन्नाम्‌ यत्र तत्सन्कल्पानुसारेण सप्त अपि सागरा अंशेन सन्गता विलसन्ति । इमे च तेषां आर्द्राः वल्क लाः । ये अद्यापि न शुष्क तां उपगच्छन्ति । इमानि च देवपूजायां तैः उपयुक्त ानि पुष्पाणि, यानि अद्यापि न म्लानतां प्राप्नुवन्ति । रामलक्ष्मणौ समग्रमाश्रमपदं दृष्टवन्तौ । पुनरपि शबरी अब्रवीत्‌ राम! मया त्वदर्थं नानाविधानि फलानि आनीतानि । निर्मलं मधुरं च जलमानीतम्‌ ।

No comments:

Post a Comment