दृष्टि: पुरत:..’’ ‘‘दृढं गृह्यताम्..’’ ‘‘आकर्णम् आकृष्यताम् ..’’ सुंय् ....’’
‘‘मुच्यताम् ...’’ ‘‘स्थग्यताम् .....’’
‘‘साधु कृतम् .....’’
स च प्रदेश: एतादृशै: आज्ञाशब्दै: हर्ष-सूचकै: ध्वनिभि: च पूर्ण: आसीत् । सशब्दं निर्गच्छतां बाणानां स्फुरणम् अपि भवति स्म तदा तदा । अरुणाचलप्रदेशे स्थिते दिवाङ्गखाते प्रति-दिनं दृश्यमानं दृश्यम् आसीत् एतत् ।
धनुर्विद्याया: प्रशिक्षणं प्रचलति स्म तत्र । अत: पूर्वोक्ता: विशेषा: तत्र । बहव: तरुणा: धनुर्विद्याभ्यासे निरता: दृश्यन्ते स्म । अनु-भविन: वृद्धा: केचन धनुर्विद्यां तान् पाठयन्ति स्म । एवम् अध्येतार: बोधयितार: च न मानवा:, अपि तु वानरकुलीया: । नायम् आश्र्चर्यस्य विषय: । यत: बहो: कालात् पूर्वं स्थितं दृश्यम् एतत् ।
तेषु दिनेषु इदुमिश्मिनामकात् ग्रामात् अनतिदूरे स्थिते अरण्य-परिसरे वानरकुलीया: निवसन्ति स्म । तेषु बहव: धनुर्विद्यायां सुनिपुणा: । कम्पमानायां शाखायां स्थितस्यापि लक्ष्यस्य भेदने अपि ते समर्था: । अत: एव इदुमिश्मिग्रामीणा: तेषां विरोधं न कुर्वन्ति स्म केनापि कारणेन ।
वानराणां प्रमुखा: स्वकुलीयानां तरुणानां धनुर्विद्याशिक्षणे विशेषत: आदरवन्त: । ‘तरुणे वयसि बोधितं चेदेव योग्यं फलं प्राप्यते’ इति ते जानन्ति स्म । ते वृक्षात् वृक्षम् उत्प्लवमाना: सुदूरस्थानि पर्वतशिखराणि प्राप्नुवन्ति स्म । तेषु स्थितानाम् उन्नतानां वृक्षाणाम् अग्रभागे स्थित्वा परित: सर्वत्र दृष्टिं प्रसार्य धनुर्निर्माणाय बाणानां सज्जीकरणाय च उत्तम: वेणु: वेत्रं च कुत्र अस्ति इति परिशील्य तेषां सङ्ग्रहं कृत्वा तै: धनूंषि बाणान् च निर्मान्ति स्म । धनुर्विद्या-प्रशिक्षणकेन्द्रे तेषाम् उपयोग: भवति स्म ।
उषसि एव तरुणा: प्रशिक्षणकेन्द्रम् आगत्य धनुर्विद्याया: अभ्यासस्य आरम्भं कुर्वन्ति स्म ।
ज्येष्ठा: तेषां लक्ष्यैकनिष्ठतां, धनुर्ग्रहणकौशलं, बाणप्रयोगपाटवं च सम्यक् परीक्षन्ते स्म । कदाचित् तरुणानां ज्येष्ठानां च अभ्यासयुद्धं प्रचलति स्म । तदा तु समग्र: खातप्रदेश: बाणै: आवृत: भवति स्म ।
तं प्रदेशं गन्तुम् उद्युक्तान् बालान् मातर: तर्जयन्ति स्म - ‘‘अनवधानेन तत्र सञ्चार: कृत: चेत् वनचिकित्सालय: प्रवेष्टव्य: भवेत् इति किं भवता न ज्ञायते ? कदाचित् बाणेन भवान् विद्ध: भवेत् अपि’’ इति ।
एवमेव मासा: गता: । वर्षाणि अपि गतानि । केवलात् धनुर्विद्याभ्यासात् तेषु वानरेषु नीरसता उत्पन्ना । कदाचित् वानराणां प्रमुखस्य पुत्र: एव पितरम् अवदत् - ‘‘सर्वदा अपि किम् एतत् धनुर्विद्याप्रशिक्षणं नाम ! मध्ये मध्ये मनोविनोदाय अपि किमपि भवेत् । अन्यच्च महत् बाणप्रयोगकौशलं प्राप्य अपि तस्य उपयोग: न क्रियते चेत् अधीतं सर्वम् व्यर्थम् एव खलु ?’’ इति ।
‘‘युक्तम् उक्तं भवता । मदमत्त: गज:, दुष्ट: व्याघ्र: इत्यादय: महत् दौष्ट्यम् आचरन्ति, अस्मान् उपेक्षया पश्यन्ति च । यदि वयं बाण-प्रयोगकौशलेन तान् किञ्चित् निगृह्णीयाम तर्हि सर्वेषां वनवासिनाम् उपकार: एव कृत: भवेत्’’ इति अवदतां नील: काल: च । ‘‘योग्य: बाणप्रहार: तेषां निग्रहणे उपकुर्यात् एव’’ इति अवदत् हरिप्रिय: ।
तदा कुचेष्टापर: वनेश: अवदत् - ‘‘स: दुष्ट: वृक: अपि दण्डनीय: अस्माभि: । वराकान् कुक्कुटान् निर्दयं पीडयति स: । यदि वयं बाणप्रयोगेण तस्य नखान् उत्पाटयितुं शक्नुयाम तर्हि अहो, कियान् आनन्द: प्राप्येत !’’ इति । एतत् श्रुत्वा अन्ये सर्वे वानरा: हसितवन्त: । तत: एकैक: अपि एकैकम् उपायम् अश्रावयत् । बहव: तरुणवानरा: विनोदकायेॅ प्रवर्तनाय सज्जा: जाता: अपि ।
दिवाङ्गारण्ये तेषां विविधा: विनोदव्यवहारा: आरब्धा: । तस्मात् दिनात् वानराणां व्यवहार-विषये बहव: आक्षेपा: उद्गता: सर्वाभ्य: दिग्भ्य: । तेषां बाणानां प्रहारं प्राप्य बहव: चिकित्सालयं प्रविष्टवन्त: । इदुमिश्मिग्राम-वासिभि: अपि एतस्य परिणाम: सम्मुखीकृत: ।
बालानाम् अङ्गानि क्षतग्रस्तानि जातानि । ज्येष्ठानां शिरोभूषणानि बाणै: नीतानि । मातृभि: शोषणाय आतपे प्रसारिता: मांसखण्डादय: भूमौ पातिता: । एवं बहव: अनर्था: सम्पन्ना: सर्वत्रापि ।
वानराणां पीडावार्ता वृद्धस्य ग्रामप्रमुखस्य अनूकस्य कर्णपथम् अपि आगता । कदाचित् सर्वे वनजीवन: सम्भूय अनूकस्य समीपं गता: । तान् स्वागतीकृत्य अनूक: अपृच्छत् - ‘‘अपि कुशलं भवतां सर्वेषाम् ? किमर्थं भवतां मुखे चिन्तारेखा: दृश्यन्ते ?’’ इति ।
तदा पक्षिराज: अवदत् - ‘‘महोदय ! किं वदाम अस्माकं दुर्गतिविषये ? अरण्ये शान्त्या जीवनम् असम्भवं जातम् अस्ति सर्वथा’’ इति ।
तत: गजराज: अवदत् - ‘‘दुश्चेष्टाप्रियाणां वानराणां पीडा वर्णयितुम् एव अशक्या । ह्य: मम पुत्र: कदलीफलस्य खादनाय शुण्डाम् उन्नीतवान् । तावता कुतश्र्चित् आगत: कश्र्चन बाण: तम् अविध्यत् । तदा तेन यत् क्रन्दनं कृतं तत् इदानीम् अपि गुञ्जति मम कर्णयो: । समीपे स्थितायां वृक्षशाखायाम् उपविष्टौ वानरौ एतत् दृष्ट्वा महान्तम् आनन्दम् अनुभवत: स्म’’ इति ।
‘‘आर्य ! अत्र पश्यतु तावत्’’ इति वदन् शशकुमार: व्रणितं वस्त्रपट्टेन बद्धं स्वस्य पादं दर्शयन् अवदत् - ‘‘ह्य: वयम् अरण्ये धावनाभ्यासं कुर्वन्त: आस्म । तदा दुष्टै: वानरै: प्रयुक्ता: बाणा: अस्मासु बहून् व्रणितान् अकरोत्’’ इति ।
‘‘भवतां दु:खम् अहम् अवगच्छामि । अयि बान्धवा: ! अलं चिन्तया । ते वानरा: कथं बोधनीया: इति अहं चिन्तयिष्यामि । भवन्त: निश्र्चिन्ततया अरण्यं प्रतिगच्छन्तु’’ इति । अनन्तरदिने स: वानराणां प्रमुखम् आहूय अपृच्छत् - ‘‘कथं प्रचलति भवत्कुलीयानां तरुणानां धनुर्विद्याभ्यास: ? अरण्ये ग्रामे च तेषां नैपुण्यं वार्ताविषय: अस्ति’’ इति । ‘‘आर्य ! ते सर्वे धनुर्विद्यायाम् अद्वितीयं नैपुण्यम् आसादितवन्त: सन्ति’’ इति साभि-मानम् अवदत् वानरप्रमुख: ।
‘‘एवं तर्हि एतस्मिन् वर्षे धनुर्विद्यास्पर्धायां भवत्कुलीया: एव स्वर्णपदकं प्राप्तुम् अर्हन्ति इति भाति’’ इति अवदत् वृद्ध: अनूक: । ‘‘प्राय: सर्वाणि पदकानि अपि अस्मदीयै: एव प्राप्येरन् । अल्पा: किशोरा: अपि डयमानं पतङ्गं चटकं चापि वेद्धुं समर्था: सन्ति’’ इति अवदत् वानरप्रमुख: ।
‘‘एवम् ! तर्हि भवत्कुलीयानां बाण-प्रयोगकौशलं मया द्रष्टव्यम् एव । श्व: भवान् स्वकुलीयं निपुणतमं धनुर्वीरं नदीतीरं प्रति प्रेषयितुं किं शक्नुयात् ?’’ इति । अनन्तरदिने कश्र्चन सुन्दर: वानर: धनुर्बाण-हस्त: सन् आगत्य अनूकं नमस्कृतवान् । अनूकोऽपि धनुर्बाणहस्त: सन् सज्ज: आसीत् ।
‘‘किं भवान् स्पर्धार्थं सज्ज: ?’’ इति तं तरुणं वानरम् अपृच्छत् अनूक: ।
‘‘सज्ज: अस्मि एव महोदय !’’ इति आत्म-विश्वासपूर्वकम् अवदत् वानरतरुण: ।
‘‘तत्र, नद्या: अपरतीरस्य समीपे जले काचित् शिला दृश्यते खलु ? किं सा लक्षिता भवता ?’’ इति अपृच्छत् अनूक: । ‘‘पश्यामि एव’’ इति अवदत् वानर: । ‘‘तस्या: शिलाया: जलस्थ: भाग: बाणेन वेद्धव्य: । य: एतत् कर्तुं समर्थ: भवति स: एव जयं प्राप्स्यति । अहम् आदौ बाणप्रयोगं करोमि’’ इति अवदत् अनूक: । ‘‘अस्तु’’ इति अवदत् वानरवीर: ।
उभौ अपि क्षणकालं तां शिलां परीक्षादृष्ट्या दृष्ट-वन्तौ । तत: अनूक: एकं बाणं प्रयुक्तवान् । स: बाण: सशब्दं गत्वा जलं विभिद्य शिलायां लग्न: जात: । तेन प्रयुक्ता: अन्ये द्वित्रा: बाणा: अपि शिलायां लग्ना: ।
एतदनन्तरं वानरतरुण: बाणप्रयोगम् आरब्धवान् । तेन प्रयुक्त: बाण: वेगेन तु गत:, किन्तु जलं भेत्तुम् असमर्थ: सन् जले अप्लवत । ‘अहो, मम बाण: लक्ष्ये न लग्न: एव !’ इति विषादेन अवदत् वानरतरुण: । तत: जागरूक-तया तेन पुनरपि द्वित्रा: बाणा: प्रयुक्ता: । किन्तु ते अपि लक्ष्यभेदने असमर्था: एव ! एतस्मात् वानरतरुणस्य मुखं कान्तिहीनं जातम् । स: म्लानमुख: सन् स्वस्य पराजयम् अङ्गीकृत्य तत: निर्गतवान् मन्दं पदानि स्थापयन् ।
वस्तुत: अनूक: जानाति स्म एव यत् जय: ममैव इति । यत: तदीया: बाणा: लोहेन निर्मिता: आसन्, किन्तु वानरतरुणस्य बाणा: तु निर्मिता: आसन् वेत्रेण । काष्ठमय: बाण: जले प्लवते इति तु सहजम् एव खलु ? तत: आरभ्य वानराणां बाणप्रयोगकौशलं क्षीणं जातम् । गच्छता कालेन तत् विनष्टम् अपि ।
No comments:
Post a Comment