Saturday 6 October 2012

दशानन:

इक्ष्वाकुवंशे रघु: नाम राजा जात: | रघु: पराक्रमी यशस्वी च आसीत् इत्यत: तदीय: वंश: ‘रघुवंश:’ इत्येव ख्यात: जात: | एतस्मिन्नेव वंशे विष्णु: राज्ञ: दशरथस्य पुत्रत्वेन जन्म प्राप्य राम इति नाम लब्धवान् | 
हिरण्यकशिपुं हिरण्याक्षं च विष्णु: नरसिंहावतारसमये मारितवान् आसीत् | अनन्तरजन्मनि तौ रावणकुम्भकर्णत्वेन जन्म प्राप्तवन्तौ आस्ताम् | ताभ्यां पुनरपि लोकस्य पीडा आरब्धा | देवयक्षगन्धर्वादिभ्य: मरणं यथा न प्राप्येत तथा वरं प्राप्तवान् आसीत् रावण: | तस्य विश्वास: आसीत् यत् मानव: मम केशं कम्पयितुम् अपि नार्हति इति | मम मृत्युभयं नास्तीति चिन्तयन् स: अहङ्कारी भूत्वा जनान् विविधै: प्रकारै: पीडयितुम् उद्युक्त: जात: |
कुम्भकर्णस्य शरीरं सुविशालम् आसीत् | षट् मासान् यावत् निद्रां, पुन: षट् मासान् यावत् जागरणं च वरत्वेन प्राप्तवान् आसीत् स: | रावण: लङ्कात: कुबेरम् अपसार्य तदीयं पुष्पकविमानं वशीकृत्य लङ्कायाम् एव वसन् वैभवोपेतं जीवनं यापयति स्म | राक्षसान् सङ्घटय्य स: अन्यान् अपि लोकान् जितवान् आसीत् | एतस्मात् तदीय: अहङ्कार: प्रवृद्ध: | रावणस्य दश शिरांसि आसन् | अत: स: ‘दशानन:’ इत्यपि निर्दिश्यते स्म |
कदाचित् स्वस्य विंशते: भुजानां बलस्य कारणत: गर्वं प्राप्तवान् स: कैलासं वशीकर्तुं प्रयासम् अकरोत् | तदा भगवान् शिव: पादाङ्गुष्ठेन तं नोदितवान् | तदा शिलाया: अध: गत: स: उच्चै: रवं कृतवान् | तत: एव ‘रावण:’ इति नाम जातं तस्य | शिवस्य क्रोधस्य अपनयनाय रावण: घोरं तप: कृत्वा स्वस्य शिरांसि एकैकश: कर्तयित्वा अर्पितवान् | तस्मात् शिव: प्रसन्न: जात: | तत: आरभ्य रावण: महाशिवभक्त: जात: |
रावण: महावीर: पराक्रमी च यथा तथैव महादुष्ट: अपि आसीत् | परनार्यपहरणं पौरुष-द्योतकं भावयति स्म स: | परनारी: अपहृत्य कारागारे स्थापनं तस्य प्रवृत्ति: आसीत् | अत: एव तेन कश्चन शाप: प्राप्त: आसीत् यत् यदि परनारीं बलात् अनुभोक्तुं प्रयत्न: क्रियते तर्हि शिरांसि भग्नानि भविष्यन्ति इति |
मयस्य पुत्री मन्दोदरी तस्य पत्नी | सा पत्यु: हितकाम्यया पतिं रावणं सन्मार्गं स्मारयति स्म | भ्राता विभीषण: अपि रावणं पापकर्मभ्य: निवारयितुं प्रयासं करोति स्म | किन्तु रावण: तु तान् धिक्कुर्वन् दुष्टताम् आचरन् एव भवति स्म | विन्ध्याचलस्य दक्षिणभागपर्यन्तं राक्षसानां राज्यं प्रसृतम् आसीत् | आर्यावर्ते प्रचलत्सु यज्ञेषु विघ्नम् उत्पादयन्त: राक्षसा: ऋषिमुनीन् मारयन्त: आश्रमवासिनां, निर्दोषजनानां च पीडनात् महान्तम् आनन्दम् अनुभवन्ति स्म |
तेषु एव दिनेषु कुशध्वज: नाम राजर्षि: वेदपाठद्वारा काञ्चित् पुत्रीं प्राप्तवान् | तस्या: नाम वेदवती इति जातम् | सा विष्णुं पतिरूपेण प्राप्तुम् इच्छति स्म | अत: सा घोरं तप: आचरितवती | रावण: तां प्राप्तुम् इच्छति स्म | अत: सा वेदवतीम् अवदत् - ‘‘अहं विष्णो: अपि श्रेष्ठ: | अत: मम परिणयम् अङ्गीकृत्य लङ्कां प्रति आगच्छतु’’ इति |एतत् निराकुर्वती वेदवती रावणम् अप-मानकराणि वचनानि अवदत् | तदा रावण: क्रुुद्ध: सन् तां बलात्कारेण आकृष्य नेतुं प्रयासम् अकरोत् | एतस्मात् दु:खतप्ता रोषाविष्टा च वेदवती रावणं शप्तवती - ‘‘अये दुष्ट ! भवता मम शरीरस्य स्पर्शं कुर्वता अपावित्र्यं कल्पितम् | अत: अहम् एतत् शरीरं त्यजामि इदानीम् एव | किन्तु स्मरतु - अग्रिमे जन्मनि लङ्कायाम् एव जन्म प्राप्य अहं भवत: नाशस्य कारणं भविष्यामि’’ इति | एतावत् उक्त्वा सा योगबलेन अग्निं प्रज्वलय्य तेन अग्निना ज्वलिता सती भस्मीभूता जाता |
राक्षसानाम् अत्याचार: दिने दिने प्रवृद्ध: | जना: प्रतिदिनं भगवन्तं प्रार्थयन्ते स्म - ‘त्रायस्व भगवन्, त्रायस्व’ इति | जगत: कल्याणाय अवतारं प्राप्तुं सुसमय: सम्प्राप्त: अस्ति इति विष्णु: अचिन्तयत् | अत: स: मानवरूपेण जन्म प्राप्नोत् | देवाश्च वानररूपेण जन्म प्राप्तवन्त: |

No comments:

Post a Comment